15.01
PRAVARGYA प्रग्वर्यं संभरिष्यन्नमावास्यायां पौर्णमास्यामापूर्यमाणपक्षस्य या पर नक्षत्रे तूष्णीं काण्टकी समिधमाधाय युञ्जते मन इति चतुर्गहीतं जुहोतिमा
अथ यदि दीक्षितः काण्टकीमेवैतया समिधमादध्यात्। यजुरेव वदेदित्येके॥२॥
देवस्य त्वा सवितुः प्रसव इत्यभ्रिमादायाभ्रिरसि नारिरसीत्यभिमन्त्र Ud11311
साग्निक्या व्याख्याता॥४॥
उत्तिष्ठ ब्रह्मणस्पत इति ब्रह्माणमामन्त्रयते॥५॥
उपोत्तिष्ठति ब्रह्मा। उभावुत्तरमर्धचं जपतः। आददते कृष्णाजिनम्। अनुनयन्त्यजां पुंछगलामश्वं वृषाणमिति॥६॥
प्रैतु ब्रह्मणस्पतिरिति प्राञ्चोऽश्वप्रथा अभिप्रव्रजन्ति यत्र मृदं खनिष्यन्तः स्युः॥७॥
अपि वास्यैते संभारा परिश्रिते ऽभ्युदाहृता भवन्ति॥८॥
अग्रेणाहवनीयं मृत्खनः। पूर्वःपूर्व इतरः॥९॥
उत्तरेण मृत्खनं कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमास्तीर्य देवी द्यावापृथिवी इति मृत्खनमभिमन्त्रयते। ऋध्यासमद्येति मृत्खने ऽभ्रिया प्रहृत्य मखस्य शिर इत्य पादाय मखाय त्वेति हरति। मखस्य त्वा शीर्ण इति कृष्णाजिने निवपति॥१०॥
एवं द्वितीयं तृतीयं च हरति॥११॥
तूष्णी चतुर्थं यावतीं मृदं प्रवर्दीपात्रेभ्य आप्तां मन्यते॥१२॥
एवमितरान्संभारान्॥१३॥
अभिमन्त्रणे विकारः॥१४॥
15.02
इयत्यग्र आसीरिति वराहविहतम्। देवीर्वप्रीरिति वल्पीकवपाम्। इन्द्रस्यौजो ऽसीति पूतीकानजलोमानि कृष्णाजिनलोमानि च संमृज्याग्निजा असि प्रजापते रेत इति॥१॥
आयुर्धेहि प्राणं धेहीत्यश्वेनावघ्राप्य मधु त्वा मधुला करोत्वित्यजया भिदोहयति॥२॥
अभिदोहनमेके ऽवघ्रापणात्पूर्वं समामनन्ति॥३॥
बहव आर्याः परिगृह्य हरन्ति।।४॥
उत्तरेण विहारमुद्धते ऽवोक्षिते सिकतोपोप्ते परिश्रिते निदधति।५॥
मधु त्वा मधुला करोत्विति मदन्तीरुपसृजति॥६॥
ये चोखासंसर्जनाः संभारा यच्चान्यदृढार्थ उपाधू मन्यते॥७॥
अथात्यन्तप्रदेशः॥८॥
यत्किंच प्रवर्दी उदककृत्यं मदन्तीभिरेव तत्क्रियते। नैनं स्त्री प्रेक्षते न शूद्रः॥९॥
न कुर्वन्नभिप्राणिति॥१०॥
अपहाय मुखमनभिप्राणन्वेणुना करोति॥११॥.
न प्रवर्दीमादित्यं च व्यवेयात्॥१२॥
यत्र क्व च विप्रक्रान्ते प्रवर्दी आदित्यो ऽस्तमियात् कृतान्तादेव विरमेत्। श्वोभूते शेषं समाप्नुयात्॥१३॥
संप्रक्लिश्य मृदं मखस्य शिरो ऽसीति पिण्डं कृत्वां यज्ञस्य पदे स्थ इत्यङ्गष्ठाभ्यां निगृह्य महावीरं करोति व्युद्धिं पञ्चोद्धिमपरिमितोद्धिं वा प्रादेश मात्रमूर्ध्वसानुमुपरिष्टादासेचनवन्तं मध्ये संनतं वायव्यप्रकारम्॥१४॥
15.03
गायत्रेण त्वा छन्दसा करोमीति प्रथमम्। त्रैष्टुभेनेति द्वितीयम्। जागतेनेति तृतीयम्॥१॥
अपि वा सर्वैरेकैकम्॥२॥
मखस्य रास्नासीत्युपबिलं रास्तां करोति॥३॥
अदितिस्ते बिलं गृह्णात्विति वेणुपर्वणा बिलं करोति॥४॥
तृतीयवेलामतिनयति॥५॥
यावदैवताय सौविष्टकृतायाग्निहोत्राय भक्षायाप्तं मन्येतेत्यपरम्॥६॥
सूर्यस्य हरसा श्रायेत्युत्तरतः सिकतासु प्रतिष्ठाय मखो ऽसीत्यनुवीक्षते॥७॥
एवं द्वितीयं तृतीयं च करोति॥८॥
तूष्णीमितराणि॥९॥
एतस्या एव मृदो दोग्ध्र करोति हस्त्योष्ठ्ये प्रसेचनवती यथा त्रुग दण्डैवम्॥१०॥
वर्षीय आध्वर्यवं प्रतिप्रस्थानात्॥११॥
आज्यस्थाली रोहिणकपाले च परिमण्डले घोटप्रकारे॥१२॥
धर्मेष्टकां कुलायिनीमिति यदि साग्निचित्यो भवति॥१३॥
नाप्रवग्र्ये स्यातामित्यपरम्॥१४॥
श्लक्ष्णीकरणैः श्लक्ष्णीकुर्वन्ति॥१५॥ अहतचण्डातकैर्गवीधुकैः क्लीतकाभिर्वेणुपर्वभिराज्येनेति॥
वृष्णो ऽश्वस्य शकृद् गार्हपत्ये प्रदीप्य प्रथमकृतं महावीरं शफाभ्यां परिगृह्य धूपयति वृष्णो अश्वस्य निष्पदसीति॥१७॥
एवं द्वितीयं तृतीयं च धूपयति। तूष्णीमितराणि॥१८॥
शफाभ्यामेवात ऊर्ध्वं महावीरानादत्ते॥१९॥
अग्रेण गार्हपत्यमवटं खात्वा लोहितपचनीयैः संभारैरवस्तीर्य तेषु महावी रानुपावहरति॥२०॥
849 ApSs Translation : THITE XV.4]
15.04
अर्चिरसीति प्रथमम्। शोचिरसीति द्वितीयम्। ज्योतिरसि तपो ऽसीति तृतीयम्॥१॥
तूष्णीमितराण्यन्ववधाय लोहितपचनीयैः संभारैः प्रच्छाद्य गार्हपत्ये मानादीप्योपोषत्यर्चिषे त्वेत्येतैः प्रतिमन्त्रं प्रतिदिशम्॥२॥
अपि वा सर्वैः सर्वतः॥३॥
पच्यमानान्मैत्र्योपचरत्यभीमं महिना दिवमिति॥४॥
उत्तरया वा॥५॥
पक्वेषु सिद्ध्यै त्वेति धुष्टी आदाय भस्मापोह्य प्रथमकृतं महावीरं शफाभ्यां परिगृह्योद्वासयति॥६॥
देवस्त्वा सवितोद्वपत्वित्युद्वास्यापद्यमानः पृथिव्यापाशा दिश आपृणेत्युत्तरतः सिकतासु प्रतिष्ठाय सूर्यस्य त्वा चक्षुषान्धीक्ष इत्यनुयीक्षते।।७॥
एवं द्वितीयं तृतीयं चोद्वासयति। तूष्णीमितराणि॥८॥
अथैनान्प्रदक्षिणं सिकताभिः पयूहतीदमहममुमामुष्यायणं विशा पशुभि ब्रह्मवर्चसेन प’हामीति। विशेति राजन्यस्य। पशुभिरिति वैश्यस्य॥९॥
अथैनान्प्रभूतेनाजापयसाणत्ति। गायत्रेण त्वा छन्दसा छ्णद्मीत्येतैस्त्रिभि स्त्रिभिरेकैकम्॥१०॥
अपि वा सवैरेकैकम्। तूष्णीमितराणि॥११॥
अथैनान्कृष्णाजिन उपनह्यासजति देव पुरश्चर सध्यासं त्वेति॥१२॥
उपरिष्टात्काल एष मन्त्रो भवतीत्यपरम्॥१३॥
15.05
प्रवर्येण प्रचरिष्यन्तः संवृण्वन्ति द्वाराणि॥१॥
परिश्रयन्ति पल्याः ॥२॥
पश्चाद्धोतोपविशति पुरस्तादध्वर्युः। दक्षिणतो ब्रह्मा यजमानः प्रस्तोता च। उत्तरतः प्रतिप्रस्थाताग्नीध्रश्च॥३॥
मदन्तीरुपस्पश्य प्रथमेनानुवाकेन शान्तिं कृत्वाग्रेण गार्हपत्यं दर्भान्संस्तीर्य तेषु महावीरानुपावहरति देव पुरश्चर सध्यासं त्वेति॥४॥
उपरिष्टात्काल एष मन्त्रो भवतीत्यपरम्॥५॥
अत्रैव सर्वं परिधर्म्यम्॥६॥
अथौदुम्बराणि। सम्राडासन्दी नितराम्। राजासन्द्या वर्षीयसीमेके समामनन्ति। मौञ्जीभी रज्जुभिरेकसराभियंताम्॥७॥ चतस्रः सुचः॥८॥ वे अनिष्टुब्धे॥९॥ निष्टुब्धयोर्वषीर्यस्युपयमनी प्रोक्षणीधान्याः॥१०॥ त्रुवौ शफौ महावीर संमितावस्क्यौ धृष्टी मेथीं मयूखान् षट् शकलान् काण्टकी च समिधं त्रयोदश वैकङ्कतान् परिधीन् वैकङ्कतानि धर्मेन्धनानि। खादिराणि पालाशान्यौ दुम्बराण्यर्कमयाणि कार्यमयाणि वैणवानि शमीमयानि वा॥११॥ त्रीणि कार्णाजिनानि धवित्राणि शुक्लकृष्णलोमानि॥१२॥ तेषां वैणवा दण्डा बाहुमात्रा भवन्तीति विज्ञायते॥१३॥ औदुम्बरदण्डानीत्यपरम्॥१४॥ द्वौ रुक्मी रजतसुवर्णी॥१५॥ शतमानौ भवतः॥१६॥ अथ मौञानि॥१७॥ वेदौ॥१८॥XV.5) ĀPŚS Translation : THITE 853 तयोरन्यतरः परिवासितः॥१९॥ अभिधानी निदाने त्रीणि विशाखदामानि भतान्मुञ्जप्रलवान्। रौहिण्योः पिष्टान्यफलीकृतानाम्। खरेभ्यः सिकताः। मौजे पवित्रे। दर्भमये इत्यपरम्॥२०॥
प्रोक्षणीनामावृता प्रोक्षणीः संस्कृत्य ब्रह्माणमा मन्त्रयते॥२१॥
15.06
ब्रह्मन्प्रवर्येण प्रचरिष्यामः॥ होतधर्ममभिष्ट्रहि। अग्नीद्रौहिणौ पुरोडाशावधिश्रय। प्रतिप्रस्थातर्विहर। प्रस्तोतः सामानि गायेति॥१॥
यजुर्युक्तं सामभिराक्तखमित्युपांशूक्त्वोमिन्द्रवन्तः प्रचरतेत्युच्चैरनुजा नाति॥२॥
प्रचरतेति वा॥३॥
यमाय त्वा मखाय त्वेति सर्वं परिघर्म्यमभिपूर्वं त्रिः प्रोक्षति॥४॥
प्रोक्षितानि व्यायातयति॥५॥
अधिश्रयत्याग्नीध्रो रौहिणौ पुरोडाशौ तूष्णीमुपचरितौ॥६॥
एतस्मिन्काले प्रतिप्रस्थाता दर्विहोमसंस्कारेणाज्यं संस्करोति॥७॥
नैतस्य संस्कारो विद्यत इत्यपरम्॥८॥
अत्र दध्यधिश्रयति॥९।
अथैतां सम्राडासन्दीमादायानेणाहवनीयं पर्याहृत्य पुरस्ताद्राजासन्धाः सादयति॥१०॥
तस्यां कृष्णाजिनं प्राचीन ग्रीवमुत्तरलोमास्तीर्य तस्मिन्नप्रचरणीयौ महावीरावुपाहरति देव पुरश्चर सध्यासं त्वेति॥११॥
उपरिष्टात्काल एष मन्त्रो भवतीत्यपरम्॥१२॥
अर्थतां मेथीं मयूखान्विशाखदामानीत्यादायाग्रेण होतारं जघनेन गार्हपत्यं दक्षिणया द्वारोपनिर्हत्य दक्षिणेन दक्षिणं द्वारं मेथीं निहन्ति होतुः समीक्षायै॥१३॥
एतस्यैव द्वारस्य पूर्वस्यै द्वार्यायै दक्षिणतो वत्साय शङ्कम्॥१४।।
एतस्यैवापरस्यै द्वार्यायै दक्षिणतो ऽजाया अभ्यन्तरम्॥१५॥
उत्तरतो बर्कराय॥१६॥
तेषु विशाखदामानि व्यायातयति॥१७॥
तान्येव व्यायातितानि भवन्त्योद्वासनात्॥१८॥
तैरेनान्काले बध्नन्ति॥१९॥
ततः खरानुपवपति॥२०॥ उत्तरेण गार्हपत्यमेकम्। उत्तरेणाहवनीयमेकम्॥२१॥
उत्तरपूर्वं द्वारं प्रत्युच्छिष्टखरं करोति बाह्यतो निःषचेनवन्तम॥२२॥
उत्तरेणाहवनीयं तदध्यासादयति॥२३॥
15.07
शकलाकाण्टकी च समिधम्॥१॥
अर्थतं प्रचरणीयं शफाभ्यां परिगृह्याप्रच्छिन्नाग्रेण वेदेनोपरिष्टात्संमार्टि देव पुरश्चर सध्यासं त्वेति॥२॥
प्राणाय स्वाहा व्यानाय स्वाहेति स्तुवेणाहवनीये सप्तैकादश वा प्राणा हुतीर्तुत्वा देवस्त्वा सविता मध्वानकत्विति जुवेणोपर्याहवनीये महावीरमक्त्वा पृथिवीं तपसस्त्रायस्वेत्यपरस्मिन्खरे राजतं रुक्मं निधाय प्रतिष्ठाप्य महावीरमन्यस्मै 859 वा प्रदाय द्वयान्मुञ्जप्रलवानादाय दक्षिणेषामग्राणि गार्हपत्ये प्रदीपयत्यर्चिषे पनि तेषामग्रैरुत्तरेषां मूलानि शोचिषे त्वेति। तेषां मूलैर्दक्षिणेषां मूलानि ज्योतिषे ना तेषां मूलैरुत्तरेषामग्राणि तपसे त्वेति॥३॥
तान्व्यत्यस्तानुपरि रुक्मे निदधात्यर्चिरसि शोचिरसि ज्योतिरसि तपो Sailfarell
संसीदस्व महाँ असीति तेषु महावीरं प्रतिष्ठाप्याञ्जन्ति यं प्रथयन्त इति स्रवेण महावीरमनक्ति। अभिपूरयति।५॥
अध्यधि महावीरमसंस्पृशन्यजमानः प्राञ्चं प्रादेशं धारयमाणो जपत्यनाधण्या पुरस्तादित्येतैर्यथालिङ्गम्॥६॥
मनोरश्वासि भूरिपुत्रेत्युत्तरतः पृथिवीमभिमशति॥७॥
सिद्धयै त्वेति धृष्टी आदत्तो ऽध्वर्युः प्रतिप्रस्थाता च॥८॥ तपो ष्वग्ने अन्तराँ अमित्रानिति गार्हपत्यादुदीचोऽङ्गारानिरूह्य चितःस्थ परिचित इति प्रदक्षिणमङ्गारौ पर्दूह्य॥९॥
Xv.8
वैकडूतैः परिधिभिः परिधत्तः॥१॥
मा असीति प्राञ्चावध्वर्युनिर्दधाति। प्रमा असीत्युदञ्चौ प्रतिप्रस्थाता॥२॥
एवमवशिष्टानां पूर्वेणपूर्वेण मन्त्रेणाध्वर्युः। उत्तरेणोत्तरेण प्रतिप्रस्थाता॥३॥
अध्वर्युरेव दक्षिणतस्त्रयोदशं निदधात्यन्तरिक्षस्यान्तर्धिरसीति॥४॥
दिवं तपसस्त्रायसवेति सौवर्णेन रुक्मेणापिधायाभिर्गीभिरिति तिसभिरभि मन्त्र्य पवित्राण्यादत्ते। गायत्रमसीति प्रथमम्। त्रैष्टुभमसीति द्वितीयम्। जागतमसीति तृतीयम्॥५॥
तैरेनं त्रिरूर्ध्वमुपवाजयति मधु मध्विति॥६॥
तेषामेकं प्रतिप्रस्थात्रे प्रयच्छति। एकमाग्नीध्राय॥७॥
आग्नीध्रप्रथमास्त्रिः प्रदक्षिणमूर्ध्वं धून्वन्तः परियन्ति॥८॥
तमभिमुखाः पर्युपविशन्ति। पुरस्तादध्वर्युः। दक्षिणतः प्रतिप्रस्थाता। उत्तरत आग्नीधः॥९॥
अव्यतिषङ्गमूलं धून्वन्त प्रणवैः संराधयन्त इन्धानाः समञ्जन्तो वाग्यता आसते॥१०॥
प्रज्वलिते रुक्ममपादत्त इति विज्ञायते॥११॥
यत्राभिजानाति याभिर्वर्तिकां ग्रसिताममुञ्चतमिति तदध्वर्युर्महावीरमभि मन्त्रयते दश प्राचीर्दश भासि दक्षिणेत्यनुवाकेन॥१२॥
यत्राभिजानात्यप्नस्वतीमश्विना वाचमस्मे इति तदुपोत्तिष्ठन्नध्वर्युराह रुचितो धर्म इति॥१३॥
अध्वर्युप्रथमा अनभिधून्वन्तस्त्रिः प्रतिपरियन्ति॥१४॥
धवित्राण्यादायाध्वर्युः प्रतिप्रस्थाने प्रयच्छति। तानि प्रतिप्रस्थाताओणाहवनीयं पर्याहृत्य सम्राडासन्द्यां सादयति॥१५॥
यथालोकमवस्थाय सर्व ऋत्विजो यजमानाश्चाधीयन्तो महावीरमवेक्षन्ते ऽपश्यं गोपामिति॥१६॥
अनवाकशेषं तु परिश्रिते प्रतिप्रस्थाता पत्नी वाचयति लाल सपेयेति॥१७॥
15.09
ततः संप्रेष्यत्यग्नीद्रौहिणौ पुरोडाशावासादयेति॥१॥
अनिष्टुब्धयोः घुचोरुपस्तीर्णाभिघारितौ पुरोडाशावासादयति। दक्षिणं परिधिसंधिमन्वेकम्। उत्तरं परिधिसंधिमन्वितरम्॥२॥
सावित्रेण रशनामादायादित्यै रास्नासीत्यभिमन्त्र्य पूर्वया द्वारोपनिष्कम्य त्रिरुपांशु धर्मदुघमाह्वयतीड एह्यदित एहि सरस्वत्येहीति॥३॥ .
प्रत्येत्य दोग्धे निदाने इत्यादाय दक्षिणया द्वारोपनिष्कम्य त्रिरुच्चैर सावेडसावेहीति यथानामा भवति॥४॥
अदित्या उष्णीषमसीति रशनया घर्मदुघमभिदधाति। वायुरस्यैड इति वत्सम्॥५॥
पूषा त्वोपासृजत्वित्युपावसृज्य यस्ते स्तनः शशय इति धर्मदुघमभि मन्त्रयते॥६॥
उस्र धर्म शिंषोत्र घर्मं पाहि धर्माय शिंषेति निदाय वत्सं बृहस्पतिस्त्वो पसीदत्वित्युपसीदति॥७॥
दानवः स्थ पेरव इति स्तनान्संमृश्याश्विभ्यां पिन्वस्व सरस्वत्यै पिन्वस्व पूष्णे पिन्वस्व बृहस्पतये पिन्वस्वेन्द्राय पिन्वस्वेन्द्राय पिन्वस्वेति वर्षीयसि दोग्धे दोग्धि॥८॥
तूष्णीं प्रतिप्रस्थाता हृसीयस्यजाम्॥९॥
यत्राभिजानात्युत्तिष्ठ ब्रह्मणस्पत इति तदुपोत्तिष्ठन्तावग्नीधे पयसी प्रदाय पूर्वावतिगृत्य शफोपयमानाददाते। गायत्रो ऽसीति प्रथमम्। त्रैष्टुभो ऽसीति द्वितीयम्। जागतमसीत्युपयमनं प्रतिप्रस्थाता॥१०॥
यत्राभिजानात्युपद्रव पयसा गोधुगिति तदाग्नीध्रो ऽनुप्रपद्यते॥११॥
सहो| भागेनोप मेहीति पय आह्रियमाणं प्रतीक्षते॥१२॥
इन्द्राश्विना मधुनः सारघस्येति महावीरे गोपय आनयति॥१॥
स्वाहा त्वा सूर्यस्य रश्मये वृष्टिवनये जुहोमीत्युद्यन्तमूष्माणमनुमन्त्रयते॥२॥
मधु हविरसीत्यजापयः॥३॥
अजापयस आनयनमेके पूर्वं समामनन्ति॥४॥
सूर्यस्य तपस्तपेत्यूष्माणम्॥५॥
द्यावापृथिवीभ्यां त्वा परिगृहामीति शफाभ्यां महावीरं परिगृह्य प्रच्छिन्नाग्रेण वेदेन भस्म प्रमृज्यान्तरिक्षण त्वोपयच्छामीत्युपयमनेन प्रतिप्रस्थातोप यच्छति॥६॥
देवानां त्वा पितॄणामनुमतो भर्तुं शकेयमित्यादायोत्थाय तेजो ऽसि तेजो ऽनुप्रेहीति हरति॥७॥
व्रजन्ननवानं पञ्च वातनामानि व्याचष्टे समुद्राय त्वा वाताय स्वाहेति॥८॥
अपान्य पञ्चोत्तराण्यग्नये त्वा वसुमते स्वाहेति॥९॥
एतस्मिन्काले प्रतिप्रस्थाता दक्षिणं रौहिणं प्रतिष्ठितं जुहोत्यहॉतिः केतुना जुषतां सुज्योतिर्योतिषां स्वाहेति॥१०॥
अपरेणाहवनीयं दक्षिणातिक्रामन्विश्वा आशा दक्षिणसदिति ब्रह्माणमीक्षते। विश्वान्देवानयाडिहेति होतारम्। स्वाहाकृतस्य धर्मस्येति धर्ममभिमन्याश्राव्य प्रत्याश्राविते संप्रेष्यति धर्मस्य यजेति। अश्विना घर्म पातमिति वपद्कृते जुहोति। स्वाहेन्द्रायवडित्यनुवषट्कृते॥११॥
धर्ममपातमश्विनेत्यनुवाकशेषेणोपस्थायायोपर्याहवनीये धार्यमाणं प्रति प्रस्थाता शृतदनाभिपूरयति॥१२॥
इषे पीपियूर्जे पीपिहीति विक्षरन्तमनुमन्त्रयते॥१३॥
अथैनं दिशो ऽनु प्रहावयति त्विष्य त्वा धुम्नाय त्वेन्द्रियाय त्वा भूत्यै त्वेति॥१॥
प्रत्याक्रम्योपयमने शेषमानीयान्तर्वेधुपयमनं निधाय पूर्वस्मिन्खरे राजतं रुक्मं निधाय तस्मिन्महावीरं प्रतिष्ठापयति धर्मासि सुधर्मा मेन्यस्मे ब्रह्माणि धारयेति। क्षत्राणि धारयेति राजन्यस्य। विशं धारयेति वैश्यस्य॥२॥
नेत्त्वा वातः स्कन्दयादिति॥३॥
यद्यभिचरेदमुष्य त्वा प्राणे सादयामीति सादयेत्।।४॥
अत्र प्रतिप्रस्थाता पूर्ववदुत्तरं रौहिणं जुहोति।॥५॥
अथैताञ्छकलानुपयमने ऽञ्ज होति पूष्णे शरसे स्वाहेत्येतैः प्रतिमन्त्रम्॥६॥
षष्ठं शकलं सर्वेषु लेपेष्वक्त्वानन्वीक्षमाण उदञ्चं निरस्यति रुद्राय रुद्रहोत्रे स्वाहेति॥७॥
पुरस्ताद्रौहिणहोमाच्छकलानेके समामनन्ति॥८॥
अथाप उपस्पृश्य तूष्णीं काण्टकी समिधमाधायैतस्मादेव शेषादुपय मनेनाग्निहोत्रं जुहोति भूः स्वाहेति। तूष्णीं वा॥९॥
उपयमने शेषं सर्वे समुपहूय भक्षयन्ति॥१०॥
असावसावुपह्वयस्वेति कर्मनाधेयेनामन्त्रयते। उपहूत इति प्रतिवचनः॥११॥
होताध्वर्युर्ब्रह्मा प्रतिप्रस्थाताग्नीद्यजमानश्च॥१२॥
सर्वे प्रत्यक्षम्॥१३॥
अपि वा यजमान एव प्रत्यक्षम्। अवघेणेत्तरे॥१४॥
हुतं हविर्मधु हविरिति भक्षयित्वोपयमनं प्रतिप्रस्थाने प्रयच्छति॥१५॥
तदुच्छिष्टखरे प्रक्षाल्यान्तर्वेधुपयमनं निधाय तस्मिन् रुक्माववधाय मदन्ती रानीयापोहिष्ठाभिर्मार्जयित्वा निनीयापो ऽत्रैव सर्वं परिघऱ्या समवधाय॥१६॥
15.12
धर्माय संसाद्यमानायानुब्रूहीति संप्रेष्यति। संसाद्यमानायानुब्रूहीति वा॥१॥
आ यस्मिन्सप्त वासवा इत्यभिज्ञायाग्रेणाहवनीयं पर्याहृत्य सम्राडासन्यां सादयति स्वाहा त्वा सूर्यस्य रश्मिभ्य इति प्रातः। स्वाहा त्वा नक्षत्रेभ्य इति सायम्॥२॥
यत्राभिजानात्यद्धि तृणमध्ये विश्वदानीमिति तद्गामवसृज्य मदन्तीरुप स्पृश्योत्तमेनानुवाकेन शान्तिं कुर्वन्ति॥३॥
एवं सायंप्रातः प्रवर्योपसभ्यां चरन्ति॥४॥
व्यपसत्के षट्कृत्वः। षडुपसत्के द्वादशकृत्वः॥ द्वादशोपसके मन विंशतिःकृत्वः॥५॥
एवावन्नाना॥६॥
उत्तरेण मन्त्रेण सायं रौहिणं जुहोति। अपीपरो माह्नो रात्रियै मा पाहि। एषा ते अग्ने समित्तया समिध्यस्व। आयुर्मे दा वर्चसा माञ्जीरिति सायं समिधमा दधाति। अपीपरो मा रात्रिया अह्रो मा पाहीति प्रातः।७॥
अग्निातियोतिरग्निः स्वाहेति सायमग्निहोत्रं जुहोति! सूर्यो ज्योतिज्योतिः सूर्यः स्वाहेति प्रातः॥८॥
संसृष्टहोमं वा॥९॥
अग्निष्टोमे प्रवृणक्ति॥१०॥
नोक्थ्ये प्रवृळ्यात्॥११॥
विश्वजिति सर्वपृष्ठे प्रवृणक्ति॥१२॥
तेन प्रवृज्य संवत्सरं न मांसमश्नीयात्। न रामामुपेयात्। न मृन्मयेन पिबेत्। नास्य राम उच्छिष्टं पिबेत्। तेज एव तत्संश्यतीति विज्ञायते ॥१३॥
15.13
प्रवर्दीमुद्वासयिष्यन्नजामग्नीधे ददाति। पष्ठौहीं ब्रह्मणे। धेनुं होते। क्मावध्वर्य॥१॥
अपरं खरं पूर्वस्मिन्खरे न्युष्योच्छिष्टखरं संकृष्योत्तरेणाहवनीयं सम्राटासी प्रतिष्ठाय तस्यां सर्वं परिघऱ्या समवधायौदुम्बर्यां त्रुचि चतुर्गहीतं गडी घर्म या ते दिवि शुगित्येतैर्यथालिङ्गं जुहोति॥२॥
अपि वा प्रतिप्रस्थाता त्रीन्संनखाञ्छलाकामुष्टीनादाय तेषामेकमाहवनीये प्रदीप्यास्यदने धारयति। तमध्वर्युरभिजुहोति धर्म या ते दिवि शुगिति। तस्मिन्नपरं प्रदीप्याहवनीये पूर्वं प्रहृत्य नाभिदने धारयति। तमध्वर्युरभिजुहोति धर्म या ते ऽन्तरिक्षे शुगिति। तस्मिन्नपरं प्रदीप्याहवनीये पूर्वं प्रहत्य जानुदने धारयति। तमध्वर्युरभिजुहोति धर्म या ते पृथिव्यां शुगिति॥३॥
आहवनीय एवैनमनुप्रहरति॥४॥
अनु नो ऽद्यानुमतिरिति परिश्रिते प्रतिप्रस्थाता पलीमुदानयति॥५॥
अन्विदमनुमत इत्युपनिष्क्रामन्ति॥६॥
अनुहरन्ति मेथीमभ्रिं मयूखान्विशाखदामानि खराविति॥७॥
दक्षिणत उच्छिष्टखरं परिहरति॥८॥
सम्राडासन्द्या द्वावन्तर्वेदि पादौ द्वौ बहिर्वेदि प्रतिष्ठाप्य संप्रेष्यति प्रस्तोतः साम गायेति॥९॥
सर्वे सहपत्नीकास्त्रिः साम्नो निधनमुपयन्ति। अर्धाध्वे द्वितीयम्। प्राप्या परेणोत्तरवेदिं तृतीयम्। सर्वत्र संप्रेष्यति॥१०॥
15.14
दिवस्त्वा परस्पाया इति प्रथमे ऽभिप्रव्रजन्ति। ब्रह्मणस्त्वा परस्पाया इति द्वितीये। प्राणस्य त्वा परस्पाया इति तृतीये॥१॥
उत्तरेणोत्तरवेदिं सम्राडासन्दी प्रतिष्ठाय संप्रेष्यति प्रस्तोतर्वाषाहरं साम गायेष्टाहोत्रीयं साम गायेति। इष्टाहोत्रीयस्य साम्नो निधनमुपयन्ति। न वार्षाहरस्य॥२॥
यापरिष्टात्परिषिञ्चेत्तत्र वार्षाहरं चोदयेत्॥३॥
उदकुम्भमादायाध्वर्युवल्गुरसि शंयुधाया इति त्रिः प्रदक्षिणमुत्तरवेदिं परिषिञ्चन्पर्येति। निधाय कुम्भं शं च वक्षि परि च वक्षीति त्रिरपरिषिञ्चन्प्रति पर्येति॥४॥
चतुःस्रक्तिर्नाभितस्येत्युत्तरवेदिमभिमृश्य सदो विश्वायुरित्युत्तरेणोत्तरनाभिं खरौ न्युष्यानुव्यूहति॥५॥
अप द्वेषो वर इति मार्जालीयदेश उच्छिष्टखरम्॥६॥
उत्तरेणोत्तरनाभिं खरे हिरण्यं निधाय तस्मिन् प्रचरणीयं महावीरमुपा वहरति॥७॥
अत्रैवेतरौ पूर्वापरौ दक्षिणोत्तरौ वा॥८॥
अत्रैव सर्वं परिघऱ्या सर्वतः परिमण्डलमादित्यस्य रूपं करोति॥९॥
महीनां पयो ऽसीति महावीरे गोपय आनयति। ज्योतिर्भा अनि तीनामोषधीनां रस इति मधु। वाजिनं त्वा वाजिनो ऽवनयाम इति दधि॥१०॥
एवं द्वितीयं तृतीयं च पूरयति।११॥
अपि वाज्यमेव प्रथम आनयेत्। मधु द्वितीये। दधि तृतीये॥१२॥
घमैतत्ते ऽन्नमेतत्पुरीषमिति दना मधुमिश्रेण पात्राणि पूरयति यान्यासे चनवन्ति। अभ्युक्षतीराणि। अरिक्तताया इति विज्ञायते॥१३॥
15.15
अथ यदि पुरुषाकृतिं करिष्यन्स्यात्समानमा प्रथमस्योपावहरणात्। अत्रैवेतरावुपावहृत्य शिरसो रूपं करोति। अप्रच्छिन्नाग्रं वेदमुपरिष्टान्निदधाति शिखाया रूपम्। अभितो दोग्धे कर्णयो रूपम्। अभितो हिरण्यशकलावाज्यस्त्रुवौ वाक्ष्यो रूपम्। अभितः स्रुवौ नासिकयो रूपम्। प्रोक्षणीधानी मुखस्य रूपम्। आज्यस्थाली ग्रीवाणां रूपम्। अभितो धृष्टी जणां रूपम्। अभितः शफावंसयो रूपम्। अभितो रौहिणहवन्यौ बाबो रूपम्। प्राची मेथी पृष्टीना रूपम्। अभितो धवित्रे पार्श्वयो रूपम्। मध्ये तृतीयमुरसो रूपम्। मध्य उपयमनमुदरस्य 881 कपम। तस्मिन् सर्वं रज्जुमयं समवदधात्यान्त्राणां रूपम्। उदीचीमधिं श्रोण्यो रूपम्। अभितः शङ्क सक्थ्यो रूपम्। मध्ये तृतीयं मेढ्स्य रूपम्। अभितो रोहिणकपाले पार्यो रूपम्। रौहिणपिष्टशेषेणापध्वंसयति मज्जारूपम्। वेदं विस्त्रस्यानुविकिरति स्नानां रूपम्। अवकाभिधूपतृणैरिति प्रच्छादयति मांसस्य रूपम्। दना मधुमिश्रेणावोक्षति लोहितस्य रूपम्। कृष्णाजिनेनोत्तरलोम्ना प्रच्छादयति त्वचो लोम्नां रूपम्। सम्राडासन्दी विस्त्रस्योपरिष्टान्निदधाति साम्राज्यस्य रूपम्॥१॥
15.16
उत्तरवेद्यामुद्वासयेत्तेजस्कामस्य। उत्तरवेद्यामन्नाद्यकामस्य॥१॥
पुरो वा पश्चाद्वोद्वासयेत्। अपां मध्य उद्वासयेत्। नदिद्वीप उद्वासयेत्॥२॥
यदि नदिद्वीप उद्वासयेन्न परिषिञ्चेत्॥३॥
यं द्विष्याद्यत्र स स्यात्तस्यां दिश्यौदुम्बर्यां शाखायामुद्वासयेत्। ऊर्वा उदुम्बरो ऽन्नं प्राणः शुग्धर्मः। इदमहममुष्यामुष्यायणस्य शुचा प्राणमपिदहामीति शुचैवास्य प्राणमपिदहति। ताजगार्तिमाईतीति विज्ञायते॥४॥
यत्र दर्भा उपदीकसंतताः स्युस्तदुद्वासयेदृष्टिकामस्य॥५॥
उत्तरवेद्यां नित्यं कल्पं ब्रुवते॥६॥
नैनमुद्वासितं वयांसि पर्यासीरन्नाग्नेः प्रणयनात्॥७॥
अत्रैके परिषेचनं समामनन्ति॥८॥
अथैनमुपतिष्ठन्ते रन्ति मासि दिव्यो गन्धर्व इति॥९॥
एतत्त्वं देव धर्म देवो देवानुपागा इत्यभिमन्त्र्येदमहं मनुष्यो मनुष्यानिति प्रदक्षिणमावृत्य सुमित्रा न आप ओपधय इति मार्जालीयदेश उच्छिष्टखरे 884 मार्जयित्वोद्वयं तमसस्परीत्यादित्युमुपस्थायोदु त्यं चित्रमिति द्वाभ्यां गाईपर जुहोति। उपतिष्ठन्त इत्येके। इममू षु त्यमस्मभ्यमित्याहवनीये जुहोति। उपतिष्ठान SRC 118011
prāyaścittayaḥ
15.17
THE EXPIATIONS IN CONNECTION WITH THE PRAVARGYA यदि धर्मः स्कन्देदस्कान्द्यौः पृथिवीमिति द्वाभ्यामेनमभिमन्त्रयेत॥१॥
यदि घर्मेण चरत्सु विद्युदापतेद्या पुरस्ताद्विद्युदापतदित्येतैर्यथालिङ्गं जुहुयात्॥२॥
यदि सर्वतः सर्वा जुहुयात्॥३॥
प्राणाय स्वाहा पूष्णे स्वाहेत्येतावनुवाकौ धर्मप्रायश्चित्तानि॥४॥
धर्मेष्टकामुपदधात्युदस्य शुष्माद्भानुनेत्यनुवाकेन। कुलायिनी यास्ते अग्न आर्द्रा योनय इत्यनुवाकेन। ऐडिक्या चित्याध्वर्युरग्निमभिमशत्यग्निरसि वैश्वानरो ऽसीत्यनुवाकेन॥५॥
भूर्भुवः सुवरिति सर्वप्रायश्चित्तानि॥६॥
यदि महावीरः पद्येतोर्ध्व ऊ षु ण ऊतय इति द्वाभ्यामेनमुच्छ्यीत॥७॥
यदि भिद्येत विधुं दद्राणमिति संदध्यात्॥ ततो यानि दृढार्थे संश्लेषणानि स्यस्तैरेनमभिदिह्याद्यदन्यन्मांसान्माषेभ्यश्च यदृते चिदभिश्रिष इतिका
यदि घर्ममतिपरीयुर्न वा प्रतिपरीयुः पुनरूर्जा सह रय्येत्येताभ्यामेनं प्रतिपरीयुः॥९॥
मा नो घर्म व्यथित इत्यष्टौ घर्मे व्यथिते प्रायश्चित्तानि॥१०॥
अपि वा धर्ममेव व्यथितमेतासां चतसृभिरभिमन्त्रयेत॥११॥
यदि घर्मेण चरत्स्वादित्यो ऽस्तमियादपरस्यां द्वारि दर्भेण हिरण्यं प्रबध्योद्वयं तमसस्परीत्युपस्थायोदु त्यं चित्रमिति द्वाभ्यां गार्हपत्ये हुत्वा प्रवृज्य श्वोभूते वयः सुपर्णा इत्यादित्यमुपतिष्ठन्ते॥१२॥
15.18
यदि धर्मधुग्दोहकाले नागच्छेदन्यां दुग्ध्वा प्रवृज्य तां सुत्यायां ब्राह्मणाय दद्याद्यमनभ्यागमिष्यन्स्यात्॥१॥
यदि धर्मधुगि पयो न स्याहृतेश्चतुर्थं पादं स्तनं कृत्वा पिन्वयेत्॥२॥
यदि दधि दुहीत बार्हस्पत्यं शंसेत्॥३॥
यदि पय आश्विनं सोदर्कम्॥४॥
यधु वै लोहितं दुहीत रौद्र्यर्चा जुहुयात्॥५॥
यदि नश्येद्धातुरूंग्भ्यां जुहुयात्॥६॥
यद्यस्यै वत्सो वायोर्नियुत्वत ऋचा जुहुयात्॥७॥
यद्यमेध्यमयज्ञियं वाभिनिषीदेदाग्नेय्यर्चा जुहुयात्। आग्निवारुणयेत्येक
यद्येनां वयो ऽभिविक्षिपेदाश्विन्यर्चा जुहुयात्॥९॥
याद्वा पतेत्सं वा विजेत शार्दूलो वा हन्यादर्कक्षीरमजाक्षीर आश्चोत्य तेन प्रचरेत्॥१०॥
सुत्यायां प्रवृञ्जनमेके समामनन्ति॥११॥
तत्र मीमांसा॥१२॥
यदा पुरस्तादरुणा स्यादथ प्रवृज्यः। उपकाश उपव्युषं समयाविषित उदितानुदित उदिते वा। प्रातः संगवे माध्यंदिने वा पवमाने स्तुते॥१३॥
आग्नीध्रागारे प्रवृज्यः॥१४॥
सकृदेव प्रवृज्य इति विज्ञायते॥१५॥
तान्येतान्यौपसदैः प्रवृञ्जनैर्विकल्पेरन्॥१६॥
दधिधर्मं भक्षयन्ति भूर्भुवः सुवरित्यनुवाकेन॥१७॥
15.19
व्याख्याता घोरास्तन्वो ऽरण्येऽनुवाक्यो गण उत्तरौ चानुवाकौ॥१॥
यदि घर्मेण चरत्स्वेकसृक उत्तिष्ठेद्वि गा इन्द्र विचरन्स्पाशयस्वेत्येत मभित्र्योभयत आदीप्याल्मुकमस्मै प्रत्यस्येदग्ने अग्निना संवदस्वेति॥२॥
अथैनमुपतिष्ठन्ते सकृत्ते अग्ने नम इत्यनुवाकशेषेण॥३॥
अथ यदि गृध्रः सलावृकी भयेडको दीर्घमुख्युलूको भूतोपसृष्टः शकुनिर्वा वदेदसृङ्मुखः। यदेतत्। यदीपितः। दीर्घमुखि। इत्थादुलूकः। यदेतद्भूतान्यन्वाविश्य। प्रसार्य सक्थ्यावित्यैर्यथालिङ्गमभिमन्त्र्योल्मुकप्रत्यसनादि समानम्॥४॥
यदि घर्मधुक्किमिणा स्यादत्रिणा त्वा क्रिमे हन्मीत्यनुवाकेनास्याः क्रिमीन्हन्यात्।।५॥
अपि वा सार्वत्रिकमेतत्प्रायश्चित्तं क्रियेत॥६॥
यमभिचरेत्तस्य लोहितमवदानं कृत्वाहरावद्य शृतस्येत्यवाकेन जुहुयात्।।७॥
यमभिव्याहरिष्यन्स्यात्रिरात्रावरं ब्रह्मचर्यं चरित्वा गत्वैनमभिव्याहरदेब्रह्मणा त्वा शपामीत्यनुवाकेन॥८॥
यं द्विष्यात्तस्य गोष्ठे स्वजमोषधी निखनेदुत्तुद शिमिजावरीत्यनुवाकेन॥९॥
अपि वा गोष्ठस्यैव दक्षिणां द्वार्बाहुमेतेनैव विचालयेत्॥१०॥
यद्युद्गाता पुरुषसाम न गायेदध्वर्युरेवैतेन साम्नोद्गायेद्भूर्भुवः सुवरित्यनु वाकेन॥११॥
AVĀNTARA-DĪKṢĀ
15.20
THE INTERMEDIARY CONSECRATION (AVĀNTARA-DĪKṢĀ)
अवान्तरदीक्षां व्याख्यास्यामः॥१॥
पर्वण्युदगयन आपूर्यमाणपक्षस्य वा पुण्ये नक्षत्रे केशश्मश्रु वापयित्वा पराहे प्राचीमुदीची वा दिशमुपनिष्क्रम्य खिले ऽच्छदिर्दर्शे ऽग्निमुपसमाधाय संपरिस्तीर्य पूर्ववदुपाकृत्य मदन्तीरुपस्पृश्य प्रथमेनानुवाकेन शान्तिं कृत्वा चतस्त्र औदुम्बरीः समिधो घृतान्वक्ता अभ्यादधाति पृथिवी समिदित्येतैर्मन्त्रैः॥२॥
अथ देवता उपतिष्ठते ऽग्ने व्रतपते व्रतं चरिष्यामीति॥३॥
अथैनं सर्वेषामनुवाकानां प्रभृतीरभिव्याहरयति। प्रथमोत्तमर्योा।।४॥
उत्तमेनानुवाकेन शान्तिं कृत्वा ततः संमीलयति वाचं च यच्छति।।५।।
अथास्याहतेन वाससा प्रदक्षिणं संमुखं शिरो वेष्टयित्वास्तमिते ग्रामं प्रपादयति॥६॥
वाग्यत एतां रात्रिं तिष्ठत्यास्ते वा।७॥
वो भूते खिले ऽच्छदिर्दर्शे ऽग्निमुपसमाधाय संपरिस्तीर्याथास्य षट्तयम भिविदर्शयति। सप्ततयमित्येके। अग्निमादित्यमुदकुम्भमश्मानं वत्सं महानग्नाम्। हिरण्यं सप्तमम्॥८॥
अपि वादितस्त्रीणि विदर्शयित्वा यथोपपातमितराणि॥९॥
अत्रैतद्वासो गुरवे दत्त्वा वयः सुपर्णा इत्यादित्यमुपतिष्ठते॥१०॥
अथास्य ब्रह्मचर्यमधि॥११॥ नित्ये॥१२॥
न नक्तं भुञ्जीत॥१३॥
यदि भुज्जीतापज्वलितम्॥१४॥
न मृन्मयं प्रति धयीत॥१५॥
न स्त्रिया न शूद्रेण संभाषेत॥१६॥
नोपानही न छत्रम्॥१७॥
न चक्रीवदारोहेत्॥१८॥
न गतासुमीक्षेत्। न स्नायात्॥१९॥
अष्टम्यः पर्वाणि चोपवसेद्वाग्यतः॥२०॥
न च संविशेत्॥२१॥
XV.21
संवत्सरमेतद्वतं चरेत्। एतस्मिन्नेव संवत्सरे ऽधीयीत॥१॥
यद्येतस्मिन्संवत्सरे नाधीयीत यावदध्ययननमेतद्वतं चरेत्॥२॥
संवत्सरे पर्यवेते खिले ऽच्छदिर्दशे ऽग्निमुपसमाधाय संपरिस्तीर्य पूर्ववद्विसृज्य मदन्तीरुपस्पृश्य प्रथमेनानुवाकेन शान्तिं कृत्वावृत्तैर्मन्त्रैः समिध आधायावृत्तैर्देवता उपस्थायोत्तमेनानुवाकेन शान्तिं कृत्वा गुरवे वरं दत्त्वा केशश्मश्रु वापयते॥३॥
अथास्य स्वाध्यायमधि नित्ये।।४॥
नानुत्सृष्टाध्यायो ऽधीयीत॥५॥
न नक्तम्॥६॥
नातिदोषमब्रह्मचर्यमापद्य न मांसं खादित्वा न केशश्मश्रलोमनखान वापयित्वा न केशान्प्रसाध्य न दतः प्राक्षाल्य॥७॥
नाक्तो नाभ्यक्तो नाो नाट्टै नाववृष्टे नाभ्रे न छायायां न पर्यावृत्त आदित्ये न हरितयवान्प्रेक्षमाणो न ग्राम्यस्य पशोरन्ते नारण्यस्य नापामन्ते॥८॥
नाशृतमुत्पतितं न लोहितं दृष्ट्वा। न हाणि न शरीराणि न शवं नाप पात्रम्॥९॥
अध्येष्यमाणः प्राचीमुदीची वा दिशमुपनिष्क्रम्य खिले ऽच्छदिर्दशेऽग्निमु पसमाधाय संपरिस्तीर्य मदन्तीरुपस्पृश्य प्रथमेनानुवाकेन शान्तिं कृत्वापरे णाग्निं दर्भेगासीनो दर्भान्दूर्वा वा धारयमाणः पराचीनमधीयीत॥१०॥
वरं वा दत्त्वौपासने॥११॥
अध्येष्यमाणो नान्या वाचो वदेत्॥१२॥
यत्र क्वचाशान्तिकृतं पश्येत्पुनरेव शान्तिं कृत्वाधीयीत॥१३॥
अधीत्य चोत्तमेन॥१४॥
न प्रवर्यायोपनिष्क्रम्याप्रविश्यान्यदधीयीतान्यदधीयीत॥१५॥