EXPIATIONS FOR THE SOMA-SACRIFICES XIV.16 अग्निं नरो दीधितिभिररण्योर्हस्तच्युती जनयन्त प्रशस्तम्। दूरदृशं गृहपति- मथर्युम्॥ अग्निनाग्निः समिध्यते। सप्त ते अग्ने। मनो ज्योतिर्जुषताम्। त्रयस्त्रिंशत्॥ यन्मे मनसश्छिद्रं यद्वाचो यच्च मे हृदः। अयं देवो बृहस्पतिः सं तसिञ्चतु राधसा॥ विश्वकर्मा हविरिदं जुषाणः संतानैर्यज्ञं समिमं तनोतु। या व्युष्टा उषसो याश्च निम॒चस्ता संदधामि हविषा घृतेन॥ अयाश्चाग्ने ऽसि। त्वं नो अग्ने। स त्वं नो अग्ने॥ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः। स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः॥ स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः। स्वस्ति नस्तायो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु॥ पृषदश्वा मरुतः पृश्निमातरः शुभंयावानो विदथेषु जग्मयः। अग्निजिह्वा मनवः सूरचक्षसो विश्वे नो देवा अवसा गमन्निह॥ शतमिन्नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम्। पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोः॥ प्रेद्धो अग्ने दीदिहीत्येषा॥१॥
14.17
श्रुत्कर्णाय कवये वेद्याय नमोभिर्नाकमुपयामि शंसन्। यतो भयमभयं तत्कृधी नोऽग्ने देवानामव हेड इयक्ष्व॥ अग्निं वो देवमग्निभिः सजोषा यजिष्ठं दूतमध्वरे कृणुध्वम्। यो मर्येषु निधुविर्ऋतावा तपुर्मूर्धा घृतान्नः पावकः॥ घृतप्रतीको घृतपृष्ठो अग्निघृतैः समिद्धो घृतमस्यान्नम्। घृतप्रुषस्त्वा सरितो वहन्ति घृतं पिबन्यजतादेव देवान्॥ आयुर्दा अग्ने। इमो अग्ने। सप्त ते अग्ने। मनो ज्योतिर्जुषताम्। त्रयस्त्रिंशत्। यन्मे मनसः। विश्वकर्मा। अग्निं युनज्मि। इन्धानास्त्वा॥ अग्निर्न ईडित ईडितव्यैर्देवैः पार्थिवैः पातु। वायुर्न ईडित ईडितव्यैर्देवैर्दिव्यैः पातुः। सूर्यो न ईडित ईडितव्यैर्देवैर्दिव्यैः पातु। विष्णुर्न ईडित ईडितव्यैर्दैवैर्दिश्यैः पातु। अग्निर्यजुर्भिः पूषा स्वगाकारैस्त इमं यज्ञमवन्तु ते मामवन्त्वनु व आरभे ऽनु मारभध्वं स्वाहेत्येतैस्त्रिभिरनुवाकैरविज्ञात प्रायश्चित्ते सोमे त्रयस्त्रिंशतमाहुतीर्जुहोति॥१॥
त्रयस्त्रिंशतं चाग्नीधे यज्ञतनूः॥२॥
पृथिवि भूवरि सिनीवाल्युरन्थू आचित्ते मनस्ते भुवो विवस्त इति वसतीवरीषु सवनीयासु वा विषिक्तासु सप्ताहुतीर्तुत्वा॥३॥
14.18
य ऊर्मिर्हविष्य इन्द्रियावान्मदिन्तमस्तं व ऋध्यासम्। सोमस्याज्यमसि हविषो हविर्योतिषां ज्योतिः। विश्वेषां वो देवानां देवताभिर्गहामीत्यभिमन्त्र्य सं वः सिञ्चन्तु मरुतः समिन्द्रः सं बृहस्पतिः। सं वो ऽयमग्निः सिञ्चत्वायुषा च धनेन च। आदित्पश्यामि। आपो हि ष्ठा मयोभुव इत्येताभिः सप्तभिः संसिश्चेदभि वा मन्त्रयेत॥१॥
यदि प्रातःसवने प्राग्योमात्सोममतिरिक्तं पश्येत्तं चमसेष्वभ्युन्नयेदुप जुहुयाद्वा॥२॥
हुते दृष्ट्वा स्तुतशस्त्रवन्तं कुर्यात्॥३॥
होतृचमसमुख्यांश्चमसानुन्नीय बृहतः स्तोत्रमुपाकरोति॥४॥
गौर्धयति मारुतामिति धयद्वतीषु स्तुवीरन्॥५॥
अस्ति सोमो अयं सुत इति वैतासु बृहता गौरिवीतेन वा स्तुवीरन्॥६॥
ऐन्द्रावैष्णवं होतानुशंसति।७॥
इन्द्राविष्णुभ्यां पीतस्येति भक्षमन्त्रं नमति॥८॥
यदि माध्यंदिन एतदेव॥९॥
स्तोत्रे विकारः। बणमहाँ असि सूर्येति सौरीषु बृहता गौरिवीतेन वा स्तुवीरन्॥१०॥
तथैव होतानुशंसति। तथा भक्षमन्त्रः॥११॥
विरान कथ्ये पोतिरिरी ĀPŚS Translation : THITE यदि तृतीयसवने ऽतिरिच्येतोक्थ्यं कुर्वीत॥१२॥ यद्युक्थ्ये षोडशिनम्। यदि षोडशिन्यतिरात्रम्। यद्यतिरात्रे द्विरात्रम्। यदि द्विरात्र एकस्तोत्रमेव॥१३॥
तत्र वैष्णवीषु शिपिविष्टवतीषु बृहता गौरिवीतेन वा स्तुवीरन्॥१४॥
तथैव होतानुशंसति। तथा भक्षमन्त्रः॥१५॥
14.19
यदि सोमौ संसुतौ स्यातामादितश्चतुर्भिः संभारयजुर्भिर्तुत्वा महाराचे प्रातरनु वाकमुपाकृत्यान्वारब्धे यजमाने जुहोति संवेशायोपवेशाय गायत्रियास्त्रिष्टुभो जगत्या अनुष्टुभः पङ्क्तया अभिभूत्यै स्वाहेति॥१॥
एवं सवनादौसवनादावुत्तरैरुत्तरैश्चतुर्भिः। संभारयजुर्भिश्छन्दसा चोत्तरे णोत्तरेणा पाङ्तात्॥२॥
पञ्चसवनो यज्ञः। त्रीणि सवनान्यवभृथो ऽनूबन्ध्येति। पञ्च समिद्धे ऽग्नौ हयन्ते मृत्योर्मा पातं प्राणापानौ मा मा हासिष्टमिति॥३॥
पुरस्तात्पाशुकात्स्विष्टकृतो ऽध्वर्युर्जपत्येतिवन्ति प्रतिवन्ति वाज्यानि॥४॥
मरुत्वतीर्वृषण्वतीर्वा प्रतिपदः॥५॥
अभीवर्तो ब्रह्मसाम॥६॥
उभे बृहद्रथंतरे भवतः।७॥
यद्यग्निष्टोमः सोमः परस्तात्स्यादुक्थ्यं कुर्वीत। यद्युक्थ्यः षोडशिनम्। यदि षोडश्यतिरात्रम्। यद्यतिरात्रो द्विरात्रम्। यदि द्विरात्रस्त्रिरात्रम्। यदि त्रिरात्र एकस्तोत्रमेव॥८॥
अभिजित्कार्यो ऽभिजित्यै। विश्वजित्कार्यो विश्वजित्यै। सर्वपृष्ठः सर्वस्तोमो ऽतिरात्रो भवति सर्वस्याप्त्यै सर्वस्यावरुद्धया इति विज्ञायते॥९॥
सजनीयं शस्यं विहव्यं शस्यमगस्त्यस्य कयाशुभीयं निष्केवल्यम्। तानि शंसेत्॥१०॥
सजनीयं प्रातःसवनिके वैश्वदेवे ऽनुप्रोहेत्। विहव्यं माध्यंदिनीये मरुत्वतीये। अगस्त्यस्य कयाशुभीयं निष्केवल्यं तार्तीयसवनिके वैश्वदेवे ऽनुप्रोहेत्॥११॥
14.20
तत्रेमाः सामचोदना भवन्ति। तौरश्रवसं कार्यम्। वसिष्ठस्य निहवः कार्यः। अभीवर्तं ब्रह्मसाम कुरुतात्। उभे बृहद्रथंतरे कुरुतात्। अभिजितं विश्वजितं वा यज्ञक्रतुं कुरुतात्। क्रोशानुक्रोशे कुरुतादिति॥१॥ पुरस्तात्प्रातः सवनात्संप्रेष्यति॥२॥
पूर्वः संस्थाप्यः। अत्यभिषुत्यं वा। दक्षिणाभिर्वा वर्षीयासं यज्ञक्रतुं कुर्वीत॥३॥
यावद्रथान्यमन्तरा गिरिर्गिरिभिद्वा नदी व्यवेयात्पर्वतान्तरये वा नानाराज्ययो संसवो नाविद्विषाणयोः संसवो विद्यत इति कङ्कतिब्राह्मणं भवति॥४॥
यत्र दीक्षितानामुपतापः स्याद्यजमानायतने शयीत॥५॥
तं परिगृह्याग्नीधं नयेत्॥६॥ परीमं परि ते ब्रह्मणे ददामि ब्रह्म परिददातु देवताभ्यः। वषट्कारस्त्वा भिषज्यतु सह विश्वैर्देवैः। वसव एतद्वः प्रातःसवनं रुद्रा एतद्वो माध्यंदिनं सवनं विश्वे देवा एतद्वस्तृतीयसवनम्। तद्रक्षध्वं तद्भिषज्यत तद्गोपायत तद्वो मा विगादिति सर्वत्रानुषजति॥७॥
आग्नीध्रीयमुपसमाधाय संपरिस्तीर्य ब्राह्मणं दक्षिणतो दर्भेषु निषाद्योत्तरत उदपात्रमुपनिधाय तस्मिन्नेकविशतिं यवान्दर्भपुञ्जीलांश्चावधाय जीवा नाम स्थ 811 ता इमं जीवयत जीविका नाम स्थ ता इमं जीवयत संजीविका नाम स्थ ता इमं संजीवयतेति परिब्रूयात्॥८॥
14.21
या जाता ओषधय इत्योषधिसूक्तेनैनमेताभिरद्भिरभिषिञ्चति॥१॥
आपः प्रजापतेः प्राणा यज्ञस्य भेषजमिति चैनमाचमयन्ति॥२॥
अथैनमभिमृशन्ति॥३॥ उपांश्वन्तर्यामौ ते प्राणापानौ पातामुपांशुसवनस्ते व्यानं पातु वाचं त ऐन्द्रवायवः पातु दक्षक्रतू ते मैत्रावरुणः पातु चक्षुषी ते शुक्रामन्थिनौ पातां श्रोत्रं त आश्विनः पात्वात्मानं त आग्रयणः पात्वङ्गानि त उक्थ्यः पात्वायुष्टे ध्रुवः पात्वसावसाविति सर्वत्रानुषजति॥४॥
अथात्मानं प्रत्यभिमृशत्युपांश्वन्तर्यामौ मे प्राणापानौ पातामिति॥५॥ एवं क्रामत्या ध्रुवात्॥६॥
पुष्टिपतये पुष्टिश्चक्षुषे चक्षुः प्राणाय प्राणमात्मन आत्मानं वाचे वाचममै पुनर्धेहि स्वाहेत्याहुतिं हुत्वा पूर्ववदभिमर्शः॥७॥
यदि म्रियेत प्रागवभृथादग्न्यवभृथं कुर्वीरन्॥८॥
अवभृथं वा गमयित्वा प्रोक्ष्यैनमभ्युदाहृत्य स्वैरग्निभिर्यथालोकं दहेयुः॥९॥
एतावदेकाहे॥१०॥
अहर्गणेष्वाहर दहेत्युक्त्वा दक्षिणाग्नेरग्निमाहृत्य निर्मन्थ्येन वा दग्ध्वा दक्षिणेन मार्जालीये मृतस्य दहनम्॥११॥
तूष्णीं तदहः परिसमाप्य पत्नीसंयाजान्ते कुम्भे ऽस्थीनि संभृत्य मार्जालीये निदधाति॥१२॥
उद्गातारस्तिसृभिः सर्पराज्ञीभिरप्रतिहताभिः स्तुवीरन्॥१३॥
14.22
ऋत्विजो होतृप्रथमाः प्राचीनावीतिनो यामीनरनुब्रुवन्तः सर्पराज्ञीनां कीर्तयन्तो दक्षिणान्केशपक्षानुद्ग्रथ्य सव्यान्प्रस्त्रस्य दक्षिणानुरूनानानाः सिम्भिरभिधून्वन्तस्त्रिः प्रसव्यं परियन्त्यप नः शोशुचदघमिति॥१॥
सव्यानुद्ग्रथ्य दक्षिणान्प्रस्त्रस्य सव्यानूरूनाजाना अनभिधून्वन्तस्त्रिः प्रति परियन्त्यपः नः शोशुचदघमिति॥२॥
ते यदोदञ्चः संपद्यन्ते ऽथैभ्यो ऽध्वर्युदक्षिणतो ऽश्मानं परिधिं दधातीमं 814
जीवेभ्यः परिधिं दधामि मा नो नु गादपरो अर्थमेतम्। शतं जीवन्तु शरदः पुरूचीस्तिरो मृत्यु दध्महे पर्वतेनेति॥३॥
अग्निष्टोमः सोम ऐन्द्रवायवाग्रा मैत्रावरुणाग्रा वा॥४॥
यामीभिः स्तुवते॥५॥
स्तोत्रेस्तोत्रे ऽस्थिकुम्भमुपनिदधाति॥६॥
मार्जालीये भक्षान्निनयन्ते॥७॥
अग्न आयूंषि पवस इति प्रतिपदं कुर्वीरन्॥८॥
रथंतरसामैषां सोमः स्यात्॥९॥
आयुरेवात्मन्दधते ऽथो पाप्मानमेव विजहतो यन्तीति विज्ञायते॥१०॥
यद्य वै नाथवान्स्याद्दग्ध्वैनं कृष्णाजिने ऽस्थीन्युपनह्य निधाय यो ऽस्यस्वो नेदिष्ठी स्यात्तत्स्थाने तं दीक्षयित्वा तेन सह यजमाना आसीरन्॥११॥
संवत्सरे ऽस्थीनि याजयेयुः॥१२॥
व्यापातादित्याश्मरथ्यः। ओदवसानीयादित्यालेखनः॥१३॥
अग्निष्टोमः सोम इत्येतदादि॥१४॥
पूर्ववद्वादशं शतं दक्षिणाः॥१५॥
14.23
यदि सत्त्रायागूर्य न यजेत विश्वजितातिरात्रेण सर्वपृष्ठेन सर्वस्तोमेन सर्ववेदसदक्षिणेन यजेत॥१॥
त्रैधातवीयामेके सहस्रदक्षिणां समामनन्ति॥२॥
सत्त्रे दीक्षित्वा यदि साम्युत्तिष्ठासेत्सोममपभज्य विश्वजितातिरात्रेण पूर्व JETTA 113 11
यदि दीक्षासूत्तिष्ठासेदवलिख्योखायास्तैरन्यां मृदं संसृज्योखां कारयेत्॥४॥
अवलिख्य पशुशिरसां तूष्णीकेष्वाश्लेषयेत्॥५॥
यधुपसत्सु या चिता चितिः स्यान्न तामावर्तयेत्॥६॥
तूष्णीकामावर्तयेत्।।७॥
मन्त्रवतीमित्यपरम्॥८॥
चिते ऽग्नावुत्तिष्ठतो नाग्निचित्या विद्यते। तूष्णीं वाग्निं चिन्धीत। मन्त्रवन्तमित्यपरम्॥९॥
प्रणीते ऽग्नौ तूष्णीमन्यं प्रणयेत्। मन्त्रवन्तमित्यपरम्॥१०॥
करणेभ्यो ऽपाददीत महावेदेरुत्तरवेदेर्धिष्ण्योपरवखरसदोहविर्धानेभ्य इति। तानीतरेष्वप्यर्जयेत्॥११॥
यदि सर्वै रात्रिपर्यायैरस्तुतमभिव्युच्छेत्षड्भिरैन्द्रावैष्णवीभिर्होत्रे स्तुयुः॥ तिसृभिस्तिसृभिरितरेभ्यः॥१२॥
यदि द्वाभ्यां होने मैत्रावरुणाय च पूर्वस्मिन्पर्याये स्तुयुः। ब्राह्मणाच्छंसिने ‘ऽच्छावाकाय चोत्तरस्मिन्॥१३॥
यद्येकेन पञ्चदशभिर्होत्रे स्तुयुः। पञ्चभिःपञ्चभिरितरेभ्यः॥१४॥
अग्ने विवस्वदुषस इत्याश्विनस्य प्रतिपदं दध्यात्॥१५॥
XIV.24
यस्याश्विने शस्यमाने सूर्यो नाविर्भवति सौर्य बहुरूपमालभेत॥१॥
सर्वा अपि दाशतयीरनुब्रूयात्॥२॥
येषां दीक्षितानामाहवनीय उद्वायेदाग्नीध्रादुद्धरेत्। यदाग्नीध्रो गार्हपत्यात्। यद्गार्हपत्यो ऽत एव पुनर्मन्थेत्॥३॥
यस्माद्दारोरुद्वायत्तस्यारणी कुर्यात्॥४॥
क्रुमुक उपज्वलनः।५॥
महविग्भ्यश्चतुरो वरान्दद्यात्॥६॥
यस्य सोम उपदस्येत्सुवर्णं हिरण्यं द्वधा विच्छिद्यार्धमन्तर्धाय षेण सहाभिषुणुयात्। अर्धमभ्युन्नायं ग्रहैः प्रचरेयुः॥७॥
महविग्भ्यश्चतुरो वरान्दद्यात्॥८॥
यस्याक्रीतं सोममपहरेयुः क्रीणीयादेव॥९॥
यदि क्रीतं यो नेदिष्ठी स्यात्तत आहृत्याभिषुणुयात्॥१०॥
सोमाहाराय सोमविक्रयिणे वा यथाश्रद्धं दद्यात्॥११॥
सोमाभावे पूतीकानभिषुणुयात्। पूतीकाभाव आदारान्फाल्गुनानि च यानि श्वेततूलानि स्युः। तदभावे याः काश्चौषधीः क्षीरिणीररुणदूर्वाः कुशान्वा हरितानिति वाजसनेयकम्॥१२॥
अप्यन्ततो व्रीहियवान्॥१३॥
प्रतिधुषा प्रातःसवने सर्वान्सोमाञ्छीणीयात्। शृतेन माध्यंदिने सवने। दधा तृतीयसवने नीतमिश्रेण वा॥१४॥
अथैकेषाम्॥ प्रतिधुक्च प्रातःसवने पूतीकाश्च। शृतं च माध्यंदिने सवने पूतीकाश्च। दधि च तृतीयसवने पूतीकाश्चेति॥१५॥
अग्निष्टोमः सोमः स्याद्रथंतरसामा॥१६॥
य एवविजो वृताः स्युस्त एनं याजयेयुः॥१७॥
एकां गां दक्षिणां दद्यात्तेभ्य एव॥१८॥
पुनः सोमं क्रीणीयात्॥१९॥
अवभृथादुदेत्य पुरस्ताद्वादश्यास्तस्मा एव क्रतवे पुनर्दीक्षेत॥२०॥
तत्र तद्दद्याद्यत्पूर्वस्मिन्दास्यन्स्यात्॥२१॥
14.25
यदि सदोहविर्धानान्यभिदोरन्ग्रहानध्वर्युः स्पाशयेत्। स्तोत्राण्युद्गाता। शस्त्राणि होता॥१॥
अनभिदग्धे सोमे पार्श्वतो देवयजनमध्यवसाय कृतान्तादेव प्रक्रामेयुः॥२॥
अभिदग्धे तु तत्प्रायश्चित्तं यदपहते॥३॥
गोः स्थाने पञ्च गा दद्यात्। पञ्च वा वरान्॥४॥
यदि प्रातःसवने ग्रावाणं नाधिगच्छेत्पलाशदण्डमाहृत्य तेनैवाभिषुणुयात्। एतदेवास्य प्रायश्चित्तं भवतीति विज्ञायते॥५॥
यदि माध्यंदिने यदि तृतीयसवन एतदेव॥६॥
यदि प्रातःसवने ग्रावा शीर्येत पुरस्ताद्वहिष्पवमानाद्द्युतानस्य मारुतस्य ब्रह्मसाम्ना स्तुवीरन्॥७॥
ब्रह्मसाम्ना वैव॥८॥
यदि माध्यंदिने यदि तृतीयसवन एतदेव पुरस्तात्पवमानेभ्यः स्तवता
यदि प्रातःसवने कलशो दीर्येत वैष्णवीषु शिपिविष्टवतीष्वित्युक्तम्॥१०॥
अथैकेषाम्। यदि प्रातःसवने कलशो दीर्येत वषट्कारनिधनं ब्रह्मसाम कुर्यादिति। असवे स्वाहा वसवे स्वाहा विभुवे स्वाहा विवस्वते स्वाहा शूषाय स्वाहा सूर्याय स्वाहा चन्द्राय स्वाहा गणश्रिये स्वाहा मलिम्लुचे स्वाहा ज्योतिषे स्वाहाभिभुवे स्वाहाधिपतये स्वाहा दिवां पतये स्वाहेति त्रयोदशज्याहुतीर्हत्वा॥११॥
14.26
इन्द्रस्य ग्रहो ऽस्यगृहीतो ग्राह्यो देवानां पूरसि तं त्वा प्रपद्ये सह ग्रहैः सह प्रग्रहैः सह प्रजया सह पशुभिः सहविग्भ्यः सह सोम्यैः सह सदस्यैः सह दाक्षिणेयैः सह यज्ञेन सह यज्ञपतिना॥ इन्द्राग्नी परिधी मम वातो देवपुरा मम। ब्रह्म वर्म ममान्तरं तं त्वेन्द्रग्रह प्रपद्ये सगुः साश्वः॥ वर्म मे द्यावापृथिवी वर्माग्निवर्म सूर्यः। वर्म मे ब्रह्मणस्पतिर्मा मा प्रापदतो भयम्॥ इन्द्राग्नी परिधी मम वातो देवपुरा मम। ब्रह्म वर्म ममान्तरं त्वेन्द्रग्रह प्रविशानि सगुः साश्वः सपूरुषः। सह यन्मे अस्ति तेनेति दीर्णं यजमानो ऽनुमन्त्रयते॥१॥
ApSS Translation : THITE अरिष्ट्या अव्यथ्यै संवेशायोपवेशाय गायत्र्या अभिभूत्यै स्वाहा। अरिष्ट्या अव्यथ्यै संवेशायोपवेशाय त्रिष्टुभो ऽभिभूत्यै स्वाहा। अरिष्ट्या अव्यथ्यै संवेशायोपवेशाय जगत्या अभिभूत्यै स्वाहा। अरिष्ट्या अव्यथ्यै संवेशायोपवेशाय पङ्क्तया अभिभूत्यै स्वाहेत्येतैः प्रतिमन्त्रमनुसवनं दीर्णे पञ्चाहुती होतीत्येके॥२॥
यदि बहिष्पवमानं सर्पतां प्रस्तोतापच्छिद्येत यज्ञस्य शिरश्छिद्येत। ब्रह्मणे वरं दत्त्वा स एव पुनर्वर्तव्यः॥३॥
यदि प्रतिहर्ता पशुभिर्यजमानो व्यध्येत। सर्ववेदसं दद्यात्॥४॥
यद्युद्गाता यज्ञेन यजमानो व्युध्येत! अदक्षिणः स यज्ञः संस्थाप्यः। अथान्य आहृत्यः॥५॥ तत्र तद्दद्याद्यत्पूर्वस्मिन्दास्यस्यात्॥६॥
युगपदपच्छेदे तूद्गातुः प्रायश्चित्तं प्रतिहर्तुः सर्वप्रायश्चित्तम॥७॥
पूर्वापराच्छेदे यो जघन्यो ऽपच्छिद्येत तस्य प्रायश्चित्तम्॥८॥
यदि माध्यंदिन एतदेव। यद्यार्भवे सर्वप्रायश्चित्तं जुहुयात्॥९॥
14.27
यत्कलश उपदस्येत्सुवर्णं हिरण्यं द्वेधा विच्छिद्यार्धमन्तर्धायापो ऽवनीय पयो ऽभ्यवनयेत्। अर्धमभ्युन्नायं ग्रहैः प्रचरेयुः॥१॥
महविग्भ्यश्चतुरो वरान्दद्यात्॥२॥
अथैकेषाम्। यत्कलश उपदस्येदाग्रयणाद्गृह्णीयात्। यदाग्रयणः कलशात्॥३॥
यद्ग्रहो वा कलशो वोपदस्येदाग्रयणाद्गृह्णीयादन्याञ्छुक्रा वाच्च॥४॥
द्रोणकलशाद्गृह्यन्त इति सर्वग्रहाणां स्कन्नानामुपदस्तानां च विज्ञायते॥५॥
यद्धव उपदस्येत्स्कन्देद् दीर्येत वा तमभिमन्त्रयेतायुर्धा असि ध्रुवायुर्मे धेहि। वर्षोधा असि ध्रुव वर्षों मे धेहि। तनूपा असि धुव तन्वं मे पाहीति॥ तस्मिञ्छतमानं हिरण्यमवधाय स्वाहा दिव आप्यायस्व स्वाहान्तरिक्षादाप्यायस्व स्वाहा पृथिव्या आप्यायस्वेत्याप्याययति॥६॥
अध्वरो ऽयं यज्ञो अस्तु देवा ओषधीभ्यः पशुभ्यो मे धनाया विश्वस्मै भूतायाध्वरो अस्तु देवाः। स पिन्वस्व घृतवदेव यज्ञ॥ इहैवैधि माप च्योष्ठाः पर्वत इवाविचाचलिः। इन्द्र इवेह ध्रुवस्तिष्ठेह यज्ञमु धारयः॥ इन्द्र एणम दाधरधुवं ध्रुवेण हविषा। तस्मै देवा अधिब्रुवन्नयं च ब्रह्मणस्पतिः॥ ध्रुवा 828 द्यौ वा पृथिवी ध्रुवं विश्वमिदं जगत्। ध्रुवा ह पर्वता इमे ध्रवो गान विशामयमित्येताभिश्चतसृभिः सन्नमभिमन्त्र्य वरं ददाति।७॥
14.28
यदि नाराशंस उपदस्येद्यमध्वर्युः पूर्वं ग्रहं गृह्णीयात्तं वषट्कृतानुवषट्कृते हुत्वा चमसाध्वर्यवे प्रयच्छेत्। तेनैनं स आप्यायत्याप्यायस्व समेतु त इति॥१॥
यदि प्रातःसवने सोमो हविर्वा स्कन्देन्माध्यंदिने तृतीयसवने नक्तं तिरोअ न्येषु वा देवां जनमगन्यज्ञ इत्येतैर्यथापूर्वमभिमन्त्र्य मनो ज्योतिर्जुषतामित्याहुतिं जुहुयात्॥२॥
त्रयस्त्रिंशत्। द्रप्सश्चस्कन्द। यस्ते द्रप्सः। यो द्रप्सः। यस्ते द्रप्स इत्येतैः प्रति मन्त्रमनुसवनं स्कन्ने पश्वाहुतीर्जुहोतीत्येके॥३॥
यदृतुग्रहैः प्रचरन्तौ मुह्येयातां विसृष्टधेनाः सरितो घृतश्चतो वसन्तो ग्रीष्मो मधुमन्ति वर्षाः। शरद्धेमन्त ऋतवो मयोभुव उदप्रुतो नभसी संवसन्ताम्। आ नः प्रजां जनयतु प्रजापर्तिर्धाता ददातु सुमनस्यमानः। संवत्सर ऋतुभिश्चाकुपानो मयि पुष्टिं पुष्टिपतिर्दधातु॥ आ देवानाम्। त्वमग्ने व्रतपा असि। यद्वो वयं प्रमिनाम। मधुश्चेत्येतैः प्रतिमन्त्रं जुहोति॥४॥
त इमं यज्ञमवन्तु ते मामवन्त्वनु व आरभे ऽनु मारभध्वं स्वाहेत्वृतुनाम स्वनुषजति॥५॥ यदि सोमः स्कन्देद्ब्रह्मन्सोमो ऽस्कानित्युक्त्वाभूदेवः सविता वन्द्यो नु न इत्यभिमन्त्र्य भूपतये स्वाहेति पञ्च प्रादेशान्मिमीते यथा पुरस्तात्॥६॥
14.29
यदि चमसमभक्षितं स्तोत्रेणाभ्युपाकुर्यादारमतेत्युक्त्वोत त्या नो दिवा मतिरदितिरूत्यागमत्। सा शन्ताची मयस्करदप स्त्रिधः॥ उत त्या दैव्या भिषजा शं नस्करतो अश्विना। यूयातामस्मद्रपो अप स्त्रिधः॥ शमग्नि रग्निभिस्करच्छं नस्तपतु सूर्यः। शं वातो वात्वरपा अप स्त्रिध इति तिस्त्र आग्नीध्रीये हुत्वा तं सदसि भक्षयित्वोत्तरवाससा प्रच्छाद्य दक्षिणां द्वार्बाहमन निर्हत्य मार्जालीये प्रक्षाल्य पूर्वयातिहृत्य तदित्पदं विचिकेत विद्वान्यन्मृतः पुनरप्येति जीवान्। त्रिवृद्यद्भुवनस्य रथवृज्जीवो गर्भो न मृतः स जीवादिति तं चमसेष्वपिसृज्य हिरण्यगर्भः समवर्तताग्र इत्याहुति हुत्वाप्यायस्व मदिन्तम सोम विश्वाभिरूतिभिः। भवा नः सप्रथस्तम इत्याप्याययति॥१॥
प्रत्यस्मै पिपीषते विश्वानि विदुषे भर। अरंगमाय जग्मवे ऽपश्चाद्दध्वने नर इत्यववृष्टं भक्षमभिमन्त्र्येन्दुरिन्दुमवागादिन्दोरिन्द्रो ऽपात्। तस्य त इन्दविन्द्र पीतस्य मधुमत. उपहूतस्योपहूतो भक्षयामीति भक्षयति॥२॥
यदि दीक्षितो ऽवकिरेदप्स्वग्न इत्येषा॥ तपो ष्वग्ने अन्तराँ अमित्रांस्तपा शंसमररुषः परस्य। तपा वसो चिकितानो अचित्तान्वि ते तिष्ठन्तामजरा अयासः॥ यो नः सनुत्यो अभिदासदग्ने यो अन्तरो मित्रमहो वनुष्यात्। तमजरेभिर्वृषभिस्तप स्वैस्तपा तपस्व तपसा तपिष्ठ॥ स स्मा कृणोतु केतुमा नक्तं चिदूर आ सते। पावको यद्वनस्पतीन्प्रास्मा मिनोत्यजरः॥ नहि ते अग्ने तनुवै क्रूरमानाश मर्त्यः। कपिर्बभस्ति तेजनं स्वं जरायु गौरिव॥ मेष इव यदुप च वि च चर्वरि यदप्सररूपरस्य खादति। शीर्णा गिरौ वक्षसा वक्ष एजन्नंशु गभस्ति हरितेभिरासभिरिति षट् पूर्णाहुतीर्तुत्वा प्रत्याहुति वरान्दद्यात्॥३॥
14.30
यद्देवा देवहेडनमिति वा दशाहुतीहुँत्वा पवमानः सुवर्जन इत्येतेनानुवा केनाभिषिञ्चेत्॥१॥
यदि हुताहुतौ सोमौ संसृज्येयातामन्तःपरिध्यङ्गार निवर्त्य यज्ञस्य हि स्थ ऋत्वियाविन्द्राग्नी चेतनस्य च। हुताहुतस्य तृप्यतमहुतस्य हुतस्य च॥ हुतस्य चाहुतस्य चाहुतस्य हुतस्य च। इन्द्राग्नी अस्य सोमस्य वीतं पिबतं जुषेथामित्यङ्गारे हुत्वा तमस्मै भक्षं प्रयच्छेत्॥२॥
मा यजमानं तमो विदन्मविजो मो इमाः प्रजाः। मा यः सोममिमं पिबात्सं सृष्टमुभयं कृतमिति भक्षयति॥३॥
मा नो ध्वारिषुः पितरो मोत वीरा मा नः सबन्धुरुत वान्यबन्धुः। मा नो दुश्चक्षा अघशंस ईशताहुतो ऽयं यज्ञमप्येतु देवानिति भक्षयन्तमभिमन्त्र यते।।४॥
सप्तर्विजः सप्त सदांस्येषां दश क्षिपो अश्विना पञ्चवाजाः। प्राणो व्यानो ऽपानो मन आकूतमग्निः स्वाहाकृतं हविरदन्तु देवा इति भक्षं व्यापन्नमभिमन्त्र्येदं विष्णुर्विचक्रम इति दक्षिणपूर्व उपरवे ऽवनयेत्॥५॥
उत्तरपूर्वे वा॥६॥
यः सोमवामी स्यात्तस्मा एतं सोमेन्द्र श्यामाकं चकै निर्वपेत्॥७॥
14.31
यदि सदोहविर्धानानि कृष्णशकुनिरुपर्युपर्यतिपतेत्यक्षाभ्यामाधून्वान इवाभिनिषीदेद्वेदं विष्णुर्विचक्रम इत्याहुतिं जुहुयात्। यद्युच्चैः पतेन्न तदाद्रियेत॥१॥
यद्यनो रथो वान्तराग्नी सदोहविर्धाने वा वीयात्पाथिकृती पूर्ववन्निपेत्॥२॥
यदि हविर्धानं पद्येतोदस्ताम्प्सीत्सविता मित्रो अर्यमा सर्वानमिवानवधीयुगेन। बृहन्तं मामकरद्वीरवन्तं रथंतरे श्रयस्व स्वाहेत्याहवनीये जुहुयात्॥३॥
एतेनैव पृथिव्यां वामदेव्ये श्रयस्व स्वाहेति होत्रीये यदि सदः॥४॥
अन्तरिक्षे बृहति श्रयस्व स्वाहेत्याग्नीध्रीये यद्याग्नीध्रम्॥५॥
यदि प्राग्वंशं सर्वैः शालामुखीये जुहुयात्॥६॥
दिवि बृहता त्वोपस्तभ्नोमीति सर्वेषामुपस्तम्भनः समानः॥७॥
यद्येनमात्विज्यावृतं सन्तं निहरेरन्नाग्नीधे जुहुयादनुमा सर्वो यज्ञो ऽयमेतु विश्वे देवा मरुतः सामार्कः॥ आप्रियश्छन्दांसि निविदो यजूंष्यस्यै पृथिव्यै यद्यज्ञियमिति॥८॥
अन्ययज्ञे सोमं भक्षयित्वाग्निभ्यः परिभक्षमाज्येनाहवनीये जुहुयात्॥९॥
14.32
अपां पुष्पमस्योषधीनां रसः सोमस्य प्रियं धामाग्नेः प्रियतमं हविः स्वाहा। अपां पुष्पमस्योषधीनां रसः सोमस्य प्रियं धामेन्द्रस्य प्रियतमं हविः स्वाहा। अपां पुष्पमस्योषधीनां रसः सोमस्य प्रियं धाम विश्वेषां देवानां प्रियतमं हविः स्वाहेति॥१॥
वयं सोम व्रते तव मनस्तनूषु पिप्रतः। प्रजावन्तो अशीमहीति शेषं भक्षयित्वा देवेभ्यः पितृभ्यः स्वाहा सोम्येभ्यः पितृभ्यः स्वाहा कव्येभ्यः पितृभ्यः स्वाहेति दक्षिणाग्नौ प्रतिमन्त्रं जुहोति॥२॥
तं जघनेन दक्षिणाप्रागग्रान्दर्भान्संस्तीर्य दधि ददाति देवास इह मादयध्वं सोम्यास इह मादयध्वं कव्यास इह मादयध्वमिति॥३॥
अनन्तरिताः पितरः सोम्याः सोमपीथादित्युपतिष्ठते॥४॥
भये जाते ऽशक्ये यष्टुं सर्वेभ्यो हविर्यः सोमेभ्यश्च द्रोणकलशे समवधाय ये देवा येषामिदं भागधेयं बभूव येषां प्रयाजा उतानूयाजाः। इन्द्रज्येष्ठेभ्यो वरुणराजभ्यो ऽग्निहोतृभ्यो देवेभ्यः स्वाहेति द्रोणकलशेन हुत्वाभये पुनर्यजेता५॥
यदर्धर्चाल्लुप्येताभिप्रतिगृणीयाद्वा त्वं नो अग्ने। स त्वं नो अग्ने। त्वमग्ने अयासि। प्रजापत इति चतस्त्र आहुतीर्जुहुयात्। व्याहृतीश्च॥६॥
यक्तो यज्ञं भ्रष आगच्छेद्भूरिति गार्हपत्ये जुहुयात्। यदि यजुष्टो भुव इति दक्षिणाग्नौ। यदि सामतः सुवरित्याहवनीये। यदि सर्वतः सर्वा जुहुयात्।।७॥
14.33
ब्रह्मा वा मनसा ध्यायन्नासीत॥१॥
यद्यौदम्बरी नश्येदन्यां प्रच्छिद्योगस्यूर्जं मयि धेहि श्रियां तिष्ठ प्रतिष्ठिता। स्तब्वान्तरिक्षं च पृथिव्यां च दृढा भव। धर्वि धरित्रि जनित्रि यमित्रीत्यध्व युरुद्गाता यजमानश्चोच्छ्रयन्ति॥२॥
संमितां नित्येन यजुषाभिमृशति॥३॥
यदि हविर्धाने पद्येयातां दक्षिणमध्वर्युरुद्गृह्णीयात्प्रतिप्रस्थातोपस्तभ्नुयात्। उत्तरं प्रतिप्रस्थातोद्गृह्णीयादध्वर्युरुपस्तभ्नुयात्॥४॥
वैष्णव्योपस्तभ्नुतः। वैष्णव्योपमिनुते। आश्विन्या कल्पयतः॥५॥
अग्ने वाजस्य गोमत इति तिस्त्रः॥ भद्रो नो अग्निराहुतो भद्रा रातिः सुभग भद्रो अध्वरः। भद्रा उत प्रशस्तयः॥ भद्रा उत प्रशस्तयो भद्रं मनः कृणुष्व वृत्रतूर्ये। येना समत्सु सासहः। येना समत्सु सासहो ऽव स्थिरा तनुहि भूरि शर्धताम्। वनेमा ते अभिष्टिभिरिति षभिरुष्णिक्ककुद्भिराग्नीधीये जुहुतः॥६॥
पूर्वाभिरुष्णिग्भिरध्वर्युः। उत्तराभिः ककुद्भिः प्रतिप्रस्थाता॥७॥
शिरो यज्ञस्य प्रतिधीयताममृतं देवतामयम्। वैष्णव्या क्रियतां शिर आश्विन्या प्रतिधीयतामिति पञ्चगृहीतेन समानौ होमौ जुहुतः॥८॥
यद्याग्निक्युखामा भिद्येत संकृष्यैनां पुनः कुर्यात्॥९॥
यदि पक्वा संपिष्यान्यया मृदा संसृज्योखां कारयेत्॥१०॥
14.34
यस्याग्निरुख्य उद्वायेद्गार्हपत्यादन्यं प्रणयेत्। स एव पुनः परीध्यः। स्वादेवैनं योनेर्जनयतीति विज्ञायते॥१॥
कष्णं वासः कृष्णा धेनुः कृष्णो वा गौः शतमानं च हिरण्यं दक्षिणा॥२॥
यत्पूर्वस्मिन्नहन्युत्तरस्मा अह्ने क्रियते तेनाहरभ्यासजति। तेन यज्ञं संतनोति॥३॥
यत्पूर्वस्मिन्नहन्युत्तरस्मा अढे वसतीवरीर्यज्ञायज्ञियं प्रति गृह्णाति तेनाहरभ्या सजति। तेन यज्ञं संतनोति। यत्पूर्वस्मिन्नहन्युत्तरस्मा अढे पयांसि विशास्ति तेना हरभ्यासजति। तेन यज्ञं संतनोति॥ यदति प्रेष्यति तेनाहरभ्यासजति। तेन यज्ञं संतनोति।॥४॥
एतेषामेकस्मिन्नप्यक्रियमाणे नमो ब्रह्मणे नमो अस्त्वग्नये नमः पृथिव्यै नम ओषधीभ्यः। नमो वाचे नमो वाचस्पतये नमो विष्णवे बृहते करोमि स्वाहत्याहुतिं हुत्वा सर्वप्रायश्चित्तं जुहुयाज्जुहुयात्।।५॥