15 cāturhotram

THE RITUAL OF THE CATURHOTR-FORMULAE

14.13

संवत्सरं चतुर्णामेको नाश्नीयात्। तद्वतमिति विज्ञायते चतुर्होतॄणामनुब्रुवा णस्य॥१॥

एषा वा अनाहिताग्नेरिष्टिर्यच्चतु तारः॥२॥

यः प्रजयाः पशुभिर्न प्रजायेत स द्वादशाहानि तप्तमुदकं पिबन्बरासी वसानो ऽधः शयीत॥३॥

द्वादश्याः प्रातः प्राङ्गुत्कम्य प्राण्यापान्येन्द्रं गच्छ स्वाहेत्यपान्य दशहोतारं व्याख्याय चतुर्होतारं जुहुयाच्चतुर्ग्रहीतेनाज्येन॥४॥

अर्धं वा पूर्वेण ग्रहेण। अर्धमुत्तरेण॥५॥

यः कामयेत प्रजायेयेति स द्वादशगृहीतेन त्रुचं पूरयित्वा दशहोतारं मनसानुद्रुत्य दर्भस्तम्बे सग्रहं जुहुयात्। अर्धं वा पूर्वेण ग्रहेणार्धमुत्तरेण॥६॥

यं ब्राह्मणं विद्यां विद्वांसं यशो नर्छत्सो ऽरण्यं परेत्य दर्भस्तम्बमुद्ग्रथ्य ब्राह्मणं दक्षिणतो निषाद्य चतुर्होतृन्व्याचक्षीत॥७॥

सर्वान्ससंभारयजुष्कानित्याश्मरथ्यः। होतृनित्यालेखनः॥८॥

यो दक्षिणत आस्ते तस्मै वरं ददाति॥९॥

अर्थता देवानां पत्नयः। ताभिः प्रजाकामं पशुकामं वा याजयेत्॥१०॥

अन्तरा त्वष्टारं देवानां च पत्नीश्चत्वारिचत्वारि पदानि प्रतिसंख्याय यजेत॥११॥

यदि संवत्सरं न जायेत तत्परो न सूर्खेत॥१२॥

दशहोत्राभिचरन्यजेत॥१३॥

स्वकृत इरिणे प्रदरे वा जुहुयात्॥१४॥

14.14

यद्वाचः क्रूरं तेन वषट्करोति। वाच एवैनं क्रूरेण प्रवृश्चति। ताजगार्तिमा ईतीति विज्ञायते॥१॥

यः कामयेत वीरो म आजायेतेति स चतुर्होतारं जुहुयाच्चतुर्गहीतेनाज्येन। अर्धं वा पूर्वेण ग्रहेणार्धमुत्तरेण। आस्य वीरो जायते॥२॥

न त्वेनमपरो ऽनुजायते॥३॥

वरो दक्षिणा॥४॥

एतेनैव चतुर्होत्रा राजानं संग्रामे संयत्ते याजयेत्॥५॥

यत्तत्र विन्देरंस्ततो द्वादशशतं दक्षिणाः॥६॥

पञ्चहोत्रा पशुकामं याजयेत्॥७॥

चतुर्ग्रहीतेनाज्येन। अर्धं वा पूर्वेण ग्रहेणार्धमुत्तरेण। चतस्रो दक्षिणा ददात्यश्वं हिरण्यं गां वास इति॥८॥

एतेनैव दक्षिणावर्जमामयाविनं स्वर्गकामं वा याजयेत्॥९॥

मनसा स्वर्गकामाय जुहुयात्॥१०॥

सप्तहोत्रा यज्ञविभ्रष्टं याजयेच्चतुर्ग्रहीतेनाज्येन। अर्धं वा पूर्वेण ग्रहेणा र्धमुत्तरेण॥११॥

यः कामयेत बहोभूर्यास्यामिति स दशहोतारं प्रयुञ्जीत। यः कामयेत वीरो म आजायेतेति स चतुर्होतारम्। यः कामयेत पशुमान्स्यामिति स पञ्चहोतारम। यः कामयेतर्तवो मे कल्पेरन्निति स षड्ढोतारम्। यः कामयेत सोमपः सोमयाजी स्यामा मे सोमपः सोमयाजी जायेतेति स सप्तहोतारम्॥१२॥

अथैष ऋतुमुखीयः षड्ढोता वाग्घोतेति। तस्य वदत्यूतुमुखऋतुमुखे जुहुयादिति। स सार्वकामः॥१३॥

14.15

यद्येनमात्विज्यादतं सन्तं निहरेरन्नाग्नीधे जुहुयादशहोतारं चतुर्गहीते नाज्येन पुरस्तात्प्रत्यतिष्ठन्प्रतिलोमं विग्राहम्। प्राणानेवास्योपदासयति॥ यद्येनं पुनरुपशिक्षेयुराग्नीध्र एव जुहुयाद्दशहोतारं चतुर्ग्रहीतेनाज्येन पश्चात्प्राङासीनो ऽनुलोममविग्राहम्। प्राणानेवास्मै कल्पयतीति विज्ञायते॥१॥

स यः कामयेतः प्रियः स्यामिति यं वा कामयेत प्रियः स्यादिति तस्मा एतं स्थागरमलंकारं कल्पयित्वा दशहोतारं पुरस्ताद्व्याख्याय चतुर्होतारं दक्षिणतः पञ्चहोतारं पश्चाषड्ढोतारमुत्तरतः सप्तहोतारमुपरिष्टात्संभारैश्च पलिभिश्चमु खेऽलंकृत्यास्यार्धं व्रजेत्। प्रियो हैव भवतीति विज्ञायते॥२॥

त इमे चतुर्होतारो यत्र होमार्थाः सग्रहाः सस्वाहाकारास्तत्र प्रयुज्येरन्। यत्राहोमार्था अग्रहा अस्वाहाकाराः॥३॥

(anduld be used meant to be usand 802 ।

यत्र जपा याजमानाः।।४॥

तेषां ये विहारसंयुक्ता आहिताग्नेस्तान्प्रतीयात्। उभयोरितरान्॥५॥