14.11
THE DAKSINAS (SACRIFICIAL GIFTS) दक्षिणां प्रतिग्रहीष्यन्सप्तदशकृत्वो ऽपान्य व्यावृत्य प्रतिगृह्णीयात्॥१॥
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रतिगृह्णामि। राजा त्वा वरुणो नयतु देवि दक्षिणे। अग्नये हिरण्यं तेनामृतत्वमश्याम्। वयो दात्रे मयो मह्यमस्तु प्रतिग्रही।। क इदं कस्मा अदात्। कामः कामाय। कामो दाता कामः प्रतिग्रहीता। कामं समुद्रमाविश कामेन त्वा प्रतिगृह्णामि। कामैतत्ते। एषा ते काम दक्षिणा उत्तानस्त्वाङ्गीरसः प्रतिगृह्णात्विति॥२॥
सोमाय वासः। रुद्राय गाम्। वरुणायाश्वम्। प्रजापतये पुरुषम्। मनवे तल्पम्। त्वष्ट्रे ऽजाम्। अग्ने वा। पूष्णे ऽविम्। निर्ऋत्या अश्वतरगर्दभौ हिमवतो हस्तिनम्। गन्धर्वाप्सरोभ्यः स्रगलंकरणे। विश्वेभ्यो देवेभ्यो धान्यम्। वाचे उन्नम्। ऊर्जे वा। ब्रह्मण ओदनम्। समुद्रायापः। उत्तानायाङ्गीरसायानः। वैश्वानराय रथम्॥३॥
वैश्वानर्यर्चा रथं प्रतिगृह्णीयाद्वैश्वानरः प्रलथा नाकमारुहद्दिवः पृष्ठ भन्दमानः सुमन्मभिः॥४॥
14.12
स पूर्ववज्जनयज्जन्तवे धनं समानमज्मा परियाति जागृविरिति॥१॥
यत्किंचाप्राणत्तत्सर्वमुत्तानस्त्वाङ्गीरसः प्रतिगृह्णात्वित्येव प्रतिगृह्णीयात्। यद्वानाम्नातमन्त्रम्॥२॥
सर्वत्र पुरस्तात्सावित्र उपरिष्टादन्वाधिः॥३॥
ग्नास्त्वाकृन्तन्नपसस्त्वातन्वत वरूत्रयस्त्वावयन्नित्येतद्वासस्यनुषजति पुरस्तादैवतात्॥४॥
त इमे तान्त्रीणां दक्षिणानां प्रतिग्रहणाः स्युः॥५॥
विज्ञायते च। देवा वै वरुणमयाजयन्। स यस्यै यस्यै देवतायै दक्षिणा मनयत्तामवलीनात्। ते ऽब्रुवन्व्यावृत्य प्रतिगृह्णाम तथा नो दक्षिणा न ब्लेष्यतीति। ते व्यावृत्य प्रत्यगृह्णन्॥ ततो वै तान्दक्षिणा नाव्लीनात्। य एवंविद्वान्व्यावृत्य दक्षिणां प्रतिगृह्णाति नैनं दक्षिणा क्लीनातीति॥ तान्त्रीरेवाधिकुरुते॥६॥.
बर्हिषा प्रतीयाद्गां वावं वा॥७॥ अन्नेन पुरुषं हस्तिनं वा॥८॥ गन्धैः प्रियवद्येन च तल्पम्॥९॥