XIV.8 THE BRAHMAN’S DUTIES IN A SOMA-SACRIFICE. वासिष्ठो ब्रह्मा ज्योतिष्टोमे॥१॥
यो वा कश्चित्स्तोमभागान्विद्यात्॥२॥
आध्वर्यवेषु कर्मसु स्तुतशस्त्रयोश्च वाचं यच्छति। अन्तधौं च॥३॥ z
यदि प्रमत्तो व्याहरेद्वैष्णवीमचं जपित्वा वाचं यच्छेत्।।४॥
787 XIV.8] XIV.8]] ĀPŚS Translation : THITE
राजनि मीयमाने महावेद्यामुत्तरवेद्यां च क्रियमाणायामग्नौ मीयमाने कष्यमाण ओप्यमाने चितेश्चितेरुपधीयमानायाः संचितकर्मसूखाकर्मसु च क्रियमाणेषु दक्षिणत आस्ते॥५॥
राजन्योहमाने ऽग्नौ प्रणीयमान उखामच्छ गच्छतामोद्यमानायां वसतीवरीः सवनीयाश्चाच्छ गच्छतामाह्रियमाणासु नैर्ऋतीरुपधास्यतां चित्यग्नीनां च प्रणी यमानानां दक्षिणत एति॥६॥
सदोहविर्धानेषु संमीयमानेष्वन्तरा चात्वालोत्करावन्ववेत्यापरेणोत्तरवेटिं दक्षिणातिक्रम्योपविशति॥७॥
आ वैसर्जनकालादास्ते॥८॥
होष्यमाणेषु प्रत्यतिक्रम्योत्तेरण हविर्धानं गत्वोत्तरेणाग्नीध्रीयं धिष्णियं परीत्य पूर्वया द्वारा प्राग्वंशं प्रविश्यापरेण शालामुखीयं दक्षिणातिक्रम्योपवि शति॥९॥
14.09
एवावन्दस्वेत्युपस्थे राजानं कुरुते॥१॥
हुते पूर्वो निष्क्रम्यान्वग्नेरेति॥२॥
आग्नीध्रीयं प्राप्य प्रतिप्रस्थाने राजानं प्रदायोत्तरेणाग्नीधीयं दक्षिणा तिक्रम्योपविशति। पूर्ववदुपस्थे राजानं कुरुते। हुते पूर्वो निष्कम्यापरया द्वारा 789 हविर्धानं राजानं प्रपाद्याध्वर्यवे प्रदायोत्तरेण हविर्धानं गत्वापरेणोत्तेरवेदिं दक्षिणातिक्रम्योपविशति। अग्नीषोमीयस्या वपाया होमादास्ते। हुतायां मार्जयते। वसतीवरीषु परिह्रियमाणासु दक्षिणत आस्ते। महाराने बुध्यमानेषु बुध्यते। उपाकृते प्रातरनुवाके वाचं यच्छत्या परिधानीयायाः। सवनीयासु प्रपाद्यमानासु पूर्वया द्वारा हविर्धानं प्रविश्याग्रेण खरं दक्षिणातिक्रम्योपविशति॥३॥
राजनि मीयमाने ऽभिषूयमाणे ग्रहेषु च गृह्यमाणेषु वाचं यच्छत्याग्रयणस्य ग्रहणात्।।४॥
वैप्रुषा ह्वत्सु जुहोति॥५॥
पवमानेषु समन्वारब्धः सर्पति॥६॥
ब्रह्मन्स्तोष्यामः प्रशास्तरित्युच्यमाने देव सवितरेतत्ते प्राहेत्यनुद्रुत्य॥७॥
14.10
रश्मिरसि क्षयाय त्वा क्षयं जिन्वों स्तुतेति प्रसौति॥१॥
सर्वस्तोत्राणामेष कल्पः॥२॥
उत्तरमुत्तरं स्तोमभागानां दधाति॥३॥
द्वादशाग्निष्टोमे। पञ्चदशोक्थ्ये। षोडश षोडशिनि। सप्तदश वाजपेये। एकान्नत्रिंशतमतिरात्रे। त्रयस्त्रिंशतमप्तोर्यामे।।४॥
स्तुते पवमाने यथेतं गत्वापरेणोत्तरवेदिं दक्षिणातिक्रम्योपविशति। सवनीयस्या वपाया होमादास्ते॥५॥
हुतायां मार्जयित्वा प्रातःसवनाय संप्रसर्पत्सु ग्रहावकाशैः शृतंकारैश्चो पस्थायोत्तरेण हविर्धानं गत्वा दक्षिणेन मार्जालीयं धिष्णियं परीत्य पूर्वया द्वारा सदः प्रविश्याग्रेण प्रशास्तुधिष्णियं दक्षिणातिक्रम्योपविशति॥६॥
यत्रास्मै ब्रह्मचमसमाहरति तं प्रतिगृह्य भक्षयति यथेतरे चमसान्॥७॥
उपाकृते स्तोत्रे वाचं यच्छत्या शस्त्रयाज्यायाः॥८॥
संस्थिते सवने यथेतं प्रतिनिष्क्रामति॥९॥
एवं विहित उत्तरयोः सवनयोः संचरो ब्रह्मत्वं च॥१०॥
आध्वर्यव एवातो ऽन्यानि कर्माणि ब्रह्मण आम्नातानि भवन्ति॥११॥
अवभृथं गच्छतां दक्षिणतो गच्छति॥१२॥
एवं विहितं सर्वसोमानां ब्रह्मत्वम्॥१३॥