12 PAŚVEKĀDAŚINĪ

776 PAŚVEKĀDAŚINĪ (ELEVEN-ANIMALS-SACRIFICE)

14.05

क्रतुपशव ऐकादशिनाश्च विकल्पन्ते॥१॥

तेषां समवाये यथाचोदितं संस्काराः॥२॥

तन्त्रमङ्गानि विभवन्ति॥३॥

प्रत्यक्षार्थानि प्रतिसंस्कारमभ्यावर्तन्ते॥४॥

यथार्थमूहः॥५॥

यूपाहुति हुत्वाग्निष्ठप्रथमांस्त्रयोदश यूपान्मन्त्रेण छिनत्ति॥६॥

सर्वेषां शकलाहरणावश्चनहोमाः॥७॥

सर्वमुपशयं तक्षति॥८॥

तथा पालीवतं छिनत्ति यथाधो नाभिसंमितो भविष्यतीति॥९॥

यत्प्राग्वेदिसंमानात्तत्कृत्वा दशरथाक्षामेकादशीपरां रज्जु मीत्वा तस्याश्चतु विंशेन भागेन वेदिं मिमीते॥१०॥

प्रक्रमस्थानीया भवति॥११॥

अग्निष्ठं द्वाभ्यां रशनाभ्यां परिवीयैकादशिनी रशनाः परिवीयाग्निष्ठे वासयति॥१२॥

द्विरशना यूपाः॥१३॥

श्वोभूत आश्विनं गृहीत्वा यूपान्संमिनोति॥१४॥

सह वाग्निष्ठेन॥१५॥

तन्त्रमभ्रेरादानं परिलेखनो ऽभ्यावर्तते॥१६॥

रथाक्षमात्राणि यूपान्तरालानि॥१७॥

अग्निष्ठादक्षिणं परिलिख्योत्तरमग्निष्ठात्परिलिखति॥१८॥

एवं व्यत्यासमुदगपवर्गान्यूपान्संमिनोति॥१९॥

प्रतियूपं स्वरवः॥२०॥

दक्षिणत उन्नता भवति॥२१॥

उत्तरत उन्नतां मिनुयात्पितृलोककामस्य॥२२॥

14.06

सर्वान्समान्प्रतिष्ठाकामस्य॥१॥

ये त्रयो मध्यमास्तान्समान्पशुकामस्य। व्यतिषजेदितरान्॥२॥

आराग्रामभिचरतः॥३॥ मध्य उन्नता भवति। अनुपूर्वमन्तौ निनतौ॥४॥

समवस्त्राविणीं वृष्टिकामस्य। मध्ये निनता भवति। अनुपूर्वमन्तावुन तौ॥५॥

व्यतिषक्तां भ्रातृव्यवतः॥६॥

गर्तमितमित्युक्तम्॥७॥

यदि कामयेत क्षत्रं विश ओजीयः स्यादित्यग्निष्ठाद्दक्षिणावर्षीयसो मिनुयात्॥८॥ विट क्षत्रादित्येतद्वा विपरीतम्॥९॥

उपरसंमितां मिनुयात्पितृलोककामस्य। मध्येन संमितां रशनसंमितां च मनुष्यलोककामस्य। चषालसंमितामिन्द्रियकामस्येति॥१०॥

आयामत उपराणि समानि स्युः। तिर्यक्तो मध्यानि रशनाश्च। प्रथिम्नश्च षालानि॥११॥

उपशयं द्वाभ्यां रशनाभ्यां परिवीयाग्रेण दक्षिणं यूपं प्राञ्चं निदधाति। दक्षिणेन वा। इदमहममुमाभुष्यायणमिन्द्रस्य वज्रेणाभिनिदधामीति द्वेष्यं मनसा ध्यायन्॥१२॥

आग्नेयं कृष्णग्रीवमग्निष्ठ उपाकरोति। उत्तरे सारस्वती मेषीम्। दक्षिणे सौम्यं बभ्रुम्॥१३॥

एवं व्यत्यासं दक्षिणापवर्गान्यशूनुपाकरोति॥१४॥

वारुणमन्ततो दक्षिणत उदञ्चम्॥१५॥

यदि कामयेत यो ऽवगतः सो ऽपरुध्यतामित्युक्तम्॥१६॥

14.07

आरण्यं पशुमालुं वोपशये निर्दिशेत्॥१॥ असौ ते पशुरिति वा द्वेष्यं मनसा ध्यायन्॥२॥ यदि न द्विष्यादाखुस्ते पशुरिति ब्रूयात्॥३॥

प्रतिपशु बहींषि वपाश्रपण्यः कुम्भ्यो हृदयश्रूलाच॥४॥

तन्त्रमग्नर्हरणं तथाध्रिगुः संज्ञप्तहोमो रशनानामुदसनं परिवप्यौ वपाश्रपणी नामुप्रहरणमभिहोमो मार्जनं च॥५॥

अभ्यावर्तते मनोता॥६॥ तन्त्रं वा॥७॥

सर्वेषां व्यङ्गानि समवत्तं च॥८॥

उद्रेकान्समवनीय दिशः प्रति यजति॥९॥

उत्तमे पशौ वनस्पतिं यजति। स्विष्टकृतं च॥१०॥

सर्वेषां गुदकाण्डैरुपयज उपयजति। जापनीभिश्च पत्नीः संयाजयन्ति।११॥

अनूबन्ध्यावपायां हुतायामग्रेण शालामुखीयं पानीवतं मिनोत्यधोनाभिमनव स्तीर्णेऽचषालम्॥१२॥

तस्मिंस्त्वाष्ट्रं साण्डं लोमशं पिङ्गलं पशुमुपाकृत्य पर्यग्निकृतमुत्सृज्याज्येन gì qualio all

यावन्ति पशोरवदानानि स्युस्तावत्कृत्व आज्यस्यावद्येत्॥१४॥

पशुधर्माज्यं भवति॥१५॥

शालामुखीये प्रचरन्तीति विज्ञायते॥१६॥

अपि वा पर्यग्निकृतमेवोत्सृजेत्। न संस्थापयेत्॥१७॥

पशुपुरोडाशाद्यनूबध्यायाः शेषं संस्थापयेत्॥१८॥

यदि कापेयी पश्चेकादशिनी स्यादाग्नेयमभित ऐन्द्रौ पशू भवतः। उत्तरतः सारस्वतं सौम्यं पौष्णं बार्हस्पत्यमिति। दक्षिणतः सावित्रं वैश्वदेवं मारुतं वारुणमिति॥१९॥

तामेतां कापेया विदुः। तामतिरावचरम आलभेत॥२०॥

ranslation : THITE (XIV.8

साहीनेषु शब्दसंयोगात्॥२१॥