FURTHER TYPES OF SOMA-SACRIFICES
14.01
उक्थ्यः षोडश्यतिरात्रो ऽप्तोर्यामश्चाग्निष्टोमस्य गुणविकाराः॥१॥
उक्थ्येन पशुकामो यजेत। षोडशिना वीर्यकामः। अतिरात्रेण प्रजाकामः पशुकामो वा। अप्तोर्यामेणातिरात्रेण सर्वान्कामानवाप्नोति॥२॥
तेषामग्निष्टोमवत्कल्पः॥३॥
उक्ताश्च विकाराः। ४॥
यथा सदः क्रतुकरणं क्रतुपशवः षोडशिनः सोमक्रयणी पात्रमिति॥५॥
THE UKTHYA
उक्थ्यश्चेदग्निष्टोमचमसानुन्नयंस्त्रिभ्यश्चमसगणेभ्यो राजानमतिरेचयति॥६॥
अग्नीन्नेष्टुरुपस्थमासीद नेष्टः पत्नीमुदानयोन्नेत)तुश्चमसमनून्नय होतृचमसे ध्रुवायावकाशं कुरूद्गात्रा पत्नी संख्यापयाप उपप्रवर्तयेति सप्रेषः॥७॥
अग्निष्टोमचमसैः प्रचर्य प्रातःसवनवदुक्थ्यं विगृह्णाति॥८॥
एतवान्नाना। इन्द्रावरुणाभ्यां त्वेति प्रथमे ग्रहणसादनौ संनमति। इन्द्राबृहस्पतिभ्यां त्वेति द्वितीये। इन्द्राविष्णुभ्यां त्वेति तृतीये॥९॥
उन्नेतः सर्वं राजानमुन्नय मातिरीरिचो दशाभिः कलशौ मृष्ट्वा न्युब्जेति सर्वसंस्थासूत्तमे गण एतत्संप्रेष्यति॥१०॥
14.02
अग्नीदीपयजानङ्गारानाहरेत्येतदाद्यग्निष्टोमिकं कर्म सर्वसंस्थासु समानम्॥१॥
THE SODAĆIN
या वै षोडश्युक्थ्यचमसानामुत्तमं गणमुन्नयन्नेकस्मै चमसगणाय राजान मतिरेचयति॥२॥
षोडशिनो ग्रहणम्॥३॥
प्रातःसवन उत्तमो धाराग्रहाणाम्॥४॥
सवनेसवने वा॥५॥
अथैकेषाम् पूर्वयोः सवनयोः पुरस्तादुत्तमादुक्थ्यपर्यायादुक्थ्याद्गृह्णीयात्सर्वैः प्रचरिते। तृतीयसवन आग्रयणात्॥६॥
अपि वा तृतीयसवन एवाग्रयणात् पशुकामस्य।७॥
नोक्थ्ये गृह्णीयात्। गृह्णीयाद्वा॥८॥
अतिरात्रे पशुकामस्य। अतिराने ब्रह्मवर्चसकामस्य॥९॥
अप्यग्निष्टोमे राजन्यस्य गृह्णीयात्॥१०॥
सस्तुतशस्त्रो भवति॥११॥
आतिष्ठ वृत्रहन्निति ग्रहणसादनौ॥१२॥
यस्मान्न जातः परो अन्यो अस्ति य आविवेश भुवनानि विश्वा। प्रजापतिः प्रजया संविदानस्त्रीणि ज्योतींषि सचते स षोडशी। एष ब्रह्मा य ऋत्वियः। इन्द्रो नाम श्रुतो गणे। प्र ते महे विदथे शंसिषं हरी॥ य ऋत्वियः प्र ते वन्वे। वनुषो हर्यतं मदम्। इन्द्रो नाम घृतं न यः॥ हरिभिश्चारु सेचते। श्रुतो गण आ त्वा विशन्तु। हरिवर्पसं गिर इत्येताभिश्चतसृभिः सन्नमभिमत्र्य॥१३॥
14.03
समयाविषिते सूर्ये हिरण्येन षोडशिनः स्तोत्रमुपाकरोति॥१॥
बर्हिःस्थाने भवति॥२॥
श्वेतमश्वं पुरस्ताद्धारयन्ति। अरुणपिशङ्गं वा॥३॥
ओथा मोद इव मदे मदा मोद इवोमथेति व्यतिषक्त उभयतोमोदः प्रतिगर आनुष्टुग्भ्यः ॥४॥
इन्द्राधिपते ऽधिपतिस्त्वं देवानामस्यधिपतिं मामायुष्मन्तं वर्चस्वन्तं मनुष्येषु कुर्विति हुत्वेन्द्रश्च सम्राड्वरुणश्च राजा तौ ते भक्षं चक्रतुरग्र एतम्। तयोरनु भक्षं भक्षयामि वाग्जुषाणा सोमस्य तृप्यत्विति षोडशिनं भक्षयति। आदित्य वद्गणेन चमसान्॥५॥
अनुष्टुप् छन्दस इति भक्षमन्त्रं नमति॥६॥
अरुणपिशङ्गो ऽश्वो दक्षिणा। अश्वतरी वा७॥
THE ATIRĀTRA
अतिरावश्चेत्योडशिचमसानुनयंस्त्रयोदशभ्यश्चमसगणेभ्यो राजानमतिरेचयति॥८॥
पोडशिना प्रचर्य रात्रिपर्यायैः प्रचरति॥९॥
होतृचमसमुख्यः प्रथमो गणः। मैत्रावरुणचमसमुख्यो द्वितीयः। ब्राह्म णाच्छंसिचमसमुख्यस्तृतीयः। अच्छावाकचमसमुख्यश्चतुर्थः॥१०॥
इन्द्राय त्वापिशर्वरायेति मुख्यंमुख्यं चमसमनून्नयति॥११॥
सर्वैन्द्री रात्रिः॥१२॥
अनुष्टुप् छन्दस इति सर्वत्र भक्षमन्त्रं नमति॥१३॥
प्रथमाभ्यां गणाभ्यामध्वर्युश्चरति। उत्तराभ्यां प्रतिप्रस्थाता॥१४॥
एष प्रथमः पर्यायः॥१५॥
एवं विहितो द्वितीयस्तृतीयश्च॥१६॥
14.04
अथ प्रतिप्रस्थाताश्विनं द्विकपालं निर्वपति॥१॥
होतृचमसमुख्यान्संधिचमसानुन्नयति॥२॥
त्रिवृद्राथंतरः संधिः॥३॥
आश्विनं परःसहस्त्रं शस्त्रं भवति॥४॥
तदुदित आदित्ये परिधीयते॥५॥
तस्मिन्परिधिते होतृचमसमध्वर्युरादत्ते। चमसांश्चमसाध्वर्यवः। पुरोडाशं प्रतिप्रस्थाता॥६॥
अश्विभ्यां तिरोअह्नियानां सोमानामनुब्रूह्यश्विभ्यां तिरोअह्नियानां सोमानां प्रेष्येति संप्रेषौ॥७॥
तिरोअह्रियान्सोमान्ग्रस्थितान्प्रेष्येति वा॥८॥
न वा प्रस्थापयेत्॥९॥
सह सोमैः पुरोडाशं प्रतिप्रस्थाता सर्वहुतं जुहोति॥१०॥
पतिश्छन्दस इति भक्षमन्त्रं नमति॥११॥
THE APTORYĀMA
अप्तोर्यामश्चेत्संधिचमसान्नुन्नयंश्चतुर्थ्यश्चमसगणेभ्यो राजानमतिरेचयति॥१२॥
यथा प्रथमे रात्रिपर्याये तथा मुख्या भवन्ति॥१३॥
आग्नेयान्प्रथमानुन्नयति। ऐन्द्रान्द्वितीयान्। वैश्वदेवांस्तृतीयान्। वैष्णवांश्च तुर्थान्॥१४॥
तेषां संधिचमसवत्प्रचरणकल्प इत्येके॥१५॥
अतिच्छन्दाश्छन्दस इति सर्वत्र भक्षमन्त्रं नमति॥१६॥