THE CĀTURMĀSYA (FOUR-MONTHLY) SACRIFICES
1 Vaiśvadevaparva
| A. THE VAIŚVADEVA-PARVAN
08.01
अक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतं भवति॥१॥
353
फाल्गन्यां पौर्णमास्यां चैत्र्यां वा वैश्वदेवेन यजते॥२॥
पूर्वस्मिन्पर्वणि पञ्चहोतारं मनसानुद्रुत्याहवनीये सग्रहं हुत्वान्वारम्भणीया मिष्टिं निर्वपति वैश्वानरं द्वादशकपालं पार्जन्यं च चरुम्॥३॥
वैश्वानरो न ऊत्या पृष्टो दिवीति वैश्वानरस्य याज्यानुवाक्ये॥ पर्जन्याय प्रगायत दिवस्पुत्राय मीढुषे। स नो यवसमिच्छतु। अच्छा वद तवसं गीर्भिराभिः स्तुहि पर्जन्यं नमसाविवास। कनिक्रदद्वृषभो जीरदानू रेतो दधात्वोषधीषु गर्भमिति पार्जन्यस्य॥ हिरण्यं वैश्वानरे ददाति धेनुं पार्जन्ये। सिद्धमिष्टिः संतिष्ठते॥४॥
354 प्राचीनप्रवणे वैश्वदेवेन यजते॥५॥
पशुबन्धवद्गार्हपत्यादग्निं प्रणयन्नोद्यतहोमं जुहोति॥६॥
ऊर्णावन्तं प्रथमः सीद योनिमिति होतुरभिज्ञायाहवनीयायतन ऊर्णास्तुका निधाय तस्यामग्निं प्रतिष्ठापयति॥७॥
नानुत्तरवेदिके पाशुकं प्रणयनं विद्यत इत्यपरम्॥८॥
अग्नीनन्वाधाय शाखामाहृत्य वैश्वदेव्या आमिक्षाया वत्सानपाकरोति॥९॥
355
प्रसूमयं बर्हिः प्रस्तरश्च॥१०॥
त्रेधा संनद्धं पुनरेकधा॥११॥
तस्मिन्मन्त्रः॥१२॥
तथेध्मः १३
त्रयोविंशतिदारुः॥१४॥
त्रीन्कलापान्संनौकधा पुनः संनह्यति॥१५॥
पूर्ववद्वैश्वदेव्याः सायंदोहं दोहयति॥१६॥
[VIII.2
जिनपात्रं प्रयुनक्ति स्रुचं वा॥१॥ tensilst of Palāśa-wood for ApSs Translation : THITE 356
08.02
श्वोभते पात्रसंसादनकाले पालाशं वाजिनपात्रं प्रयुनक्ति तो
निर्वपणकाल आग्नेयमष्टाकपालमिति यथासमाम्नातमष्टौ हवींना निर्वपति॥२॥
तेषां पौष्णान्तानि पञ्च संचराणि॥३॥ TIT A . 4
पिष्टानां पौष्णं श्रपयति॥४॥
तप्ते प्राप्तःहे सायंदोहमानयति॥५॥
यत्संवर्तते सामिक्षा। यदन्यत्तद्वाजिनम्॥६॥
357
पशुवत्संप्रेषः। तथाज्यानि॥७॥
पृषदाज्ये विकारः॥ महीनां पयो ऽसीति पृषदाज्यधान्यां द्विराज्यं गृह्णाति द्विर्दधि सकृदाज्यम्॥८॥
उद्वासनकाल आमिक्षां संहत्य द्वयोः पात्रयोरुद्धृत्य वाजिनैकदेशेनो पसिञ्चति॥९॥
अलंकारणकाल आज्येनैककपालमभिपूरयत्याविपृष्ठं वा कूत्वा व्याहृती भिर्हवींष्यासादयति॥१०॥
उत्करे वाजिनम्॥११॥
पञ्चहोत्रा यजमानः सर्वाणि हवींष्यासन्नान्यभिमशति॥१२॥
358
पशुवन्निर्मथ्यः सामिधेन्यश्च॥१३॥
नव प्रयाजाः १४
चतुर्थोत्तमावन्तरेण पाशुकाश्चत्वारो दुरःप्रभृतयः प्रैषप्रतीकयाज्याः॥१५॥
पशुवत्समानयनम्॥१६॥
प्रचरणकाल उपांशु सावित्रेण प्रचर्य पूर्ववदेककपालेन प्रचरति॥१७॥
मधश्च माधवश्चेति चतुर्भिर्मासनामभिरेककपालमभिजुहोति॥१८॥
दक्षिणाकाले प्रथमजं वत्सं ददाति मिथुनौ वा गावौ॥१९॥
पृषदाज्यं जुह्वामानीय पृषदाज्यधानीमुपभृतं कृत्वा तेन नवानूयाजान्य Haloll
08.03
CDTI अष्टावाद्याः पाशुकाः प्रैषवर्जम्॥१॥
उत्तमेनोत्तमम्॥२॥
देवान्यजेति प्रथम संप्रेष्यति। यज यजेतीतरान्॥३॥
संवत्सरीणां स्वस्तिमाशास्ते। दिव्यं धामाशास्त इति सक्तवाकस्यामि होतानुवर्तयते॥४॥
एवं यजमानो जपति। आशास इति मन्त्रं संनमति॥५॥
परिधीन्प्रहृत्य संस्त्रावान्तं कृत्वा वाजिनपात्र उपस्तीर्यान्तर्वेदि बर्हिरनु विषिञ्चन्वाजिनं गृह्णाति॥६॥
नाभिघारयति॥७॥ VIII.3] ĀpsS Translation : THITE 361
गाजिभ्यो ऽनुब्रूहि वाजिनो यजेति संप्रैषो। वषट्कृते चमसेन जुहोति। सचा वानुविषिच्यमानयानुवषट्कृते च॥८॥
ऊर्ध्वजुरासीनोऽनवानं होता यजति॥९॥
वाजिनस्याग्ने वीहीत्यनुयजति॥१०॥
त्रयाणां ह वै हविषां स्विष्टकृतेन समवद्यति सोमस्य वाजिनस्य धर्म Pifa118811
362 [VIII.3 | the ApSs Translation : THITE उद्रेकेण पशुबन्धवदिशः प्रतीज्यान्तर्वेदि शेषं सर्वे समपर यन्ति॥१२॥
असावसावुपह्वयस्वेति कर्मनामधेयेनामन्त्रयते॥१३॥
उपहूत इति प्रतिवचनः॥१४॥
होता प्रथमो भक्षयति यजमान उत्तमः। यजमानः प्रथमश्चोत्तमश्चेत्येके॥१५॥
वाजिनां भक्षो अवतु वाजो अस्माँ रेतः सिक्तममृतं बलाय। स न इन्द्रियं द्रविणं दधातु मा रिषाम वाजिनं भक्षयन्तः। तस्य ते वाजिभिर्भक्षंकृतस्य वाजिभिः सुतस्य वाजिपीतस्य वाजिनस्योपहूतस्योपहूतो भक्षयामीति भक्ष यति॥१६॥
पशुवत्समिष्टजूंषि॥१७॥
ApSs Translation : THITE 363 VIII.4]
सिद्धमिष्टिः संतिष्ठते॥१८॥
08.04
श्रोभते पौर्णमास्येष्ट्वा प्रसूता देवेन सवित्रा दैव्या आप उन्दन्तु तेन तनुं दीर्घायत्वाय वर्चस इत्युपोद्य त्र्येण्या शलल्येक्षुकाण्डेनेक्षुशलाकया वा लौहेन च क्षरेणौदुम्बरेण नि केशान्वर्तयते वापयते श्मश्रूणि॥१॥
ऋतमेव परमेष्ठ्य॒तं नात्येति किंचन। ऋते समुद्र आहित ऋते भूमिरियं श्रिता॥ अग्निस्तिग्मेन शोचिषा तप आक्रान्तमुष्णिहा। शिरस्तपस्याहितं वैश्वानरस्य तेजसा॥ ऋतेनास्य निवर्तये सत्येन परिवर्तये। तपसास्यानुवर्तये शिवेनास्योपवर्तये शग्मेनास्याभिवर्तय इति निवर्तयति॥२॥
तदृतं तत्सत्यं तद्वतं तच्छकेयं तेन शकेयं तेन राध्यासमिति यजमानो जपति। ब्राह्मण एकहोतेति चानुवाकम्॥३॥
364
तस्य पर्वस्वन्तरालव्रतानि॥४॥
न मांसमश्नाति न स्त्रियमुपैति॥५॥
ऋत्वे वा जायाम्॥६॥
नोपर्यास्ते॥७॥
जुगुप्सेतानृतात्॥८॥
प्राङ शेते॥९॥
मध्वश्नाति॥१०॥ मध्वशनं स्यादित्येकम्। व्यञ्जनार्थमित्यपरम्॥११॥
ऋतुयाजी वा अन्यश्चातुर्मास्ययाज्यन्यः॥१२॥
यो वसन्तोऽभूत्प्रावृडभूच्छरदभूदिति यजते स ऋतुयाजी। अथ यश्चतुर्युचतुषु 365 मासेष स चातुर्मास्ययाजी॥ वसन्ते वैश्वदेवेन यजते प्रावृषि वरुणप्रघासैः शरदि साकमेधैरिति विज्ञायते॥१३॥
2 Vauṇapraghāsaparva
B. VARUŅAPRAGHĀSA-PARVAN
08.05
ततश्चतुर्षु मासेष्वाषाढ्यां श्रवणायां वोदसाय वरुणप्रघासैर्यजते॥१॥
प्ररूढकक्षे यष्टव्यमिति बचब्राह्मणं भवति॥२॥ TTT
तस्य वैश्वदेववत्कल्पः ॥३॥
वेदी कृत्वाग्रेण गार्हपत्यं समे प्राची वेदी भवतः॥४॥
उत्तरामध्वर्युः करोति दक्षिणां प्रतिप्रस्थाता। उत्तरे विहारेऽध्वर्या दक्षिणे प्रतिप्रस्थाता॥५॥
उभयत्र कृत्स्नं तन्त्रम्॥६॥
अपि पत्नीसंयाजाः॥७॥
एकवत्सप्रैषः॥८॥
द्विवद्ब्रह्मानुजानाति॥९॥
द्व्यङ्लं त्र्यलं चतुरगुलं पृथमात्रं रथवर्ममात्रं सीतामात्र प्रादेशमात्रेण वा तिर्यगसंभिन्ने वेदी भवतः॥१०॥
अन्तरा वेदी प्रतिप्रस्थातुः संचरः॥११॥
अपरेणोत्तरां वेदिं स्तम्बयजुर्हरन्नाध्वर्युमभिपरिहरति॥१२॥
उत्करे निवपति॥१३॥
समान उत्करः॥१४॥
पञ्चविंजः॥१५॥
यदेवाध्वर्युः करोति तत्प्रतिप्रस्थाता॥१६॥
यत्किंच वाचाकर्मीणमध्वर्युरेव तत्कुर्यात्॥१७॥
युगपत्कालान्वा निगदान्॥१८॥
368
साधारणद्रव्यांश्च संस्कारान्॥१९॥
प्रागुत्तरात्परिग्राहात्कृत्वैकस्फ्यया वेदी अनुसंभिनत्ति। दक्षिणस्या उन श्रोणेः प्रक्रम्या दक्षिणादंसादुत्तरस्याः॥२०॥
उत्तरस्यां वेद्यां पशुबन्धवदुत्तरवेदिमुपवपति॥२१॥
काले पशुबन्धवद्गार्हपत्यादग्नी प्रणयतः॥२२॥
नोद्यतहोमौ जुहुतः॥२३॥
अन्तरा वेदी प्रतिप्रस्थाता प्रतिपद्यते॥ उत्तरेणोत्तरां वेदिमध्वर्युः॥२४॥
369
पर्वो ऽध्वर्युरुत्तरवेद्यग्निं प्रतिष्ठापयति। जघन्यः प्रतिप्रस्थाता दक्षिण स्याम्॥२५॥
अग्नीनन्वाधाय पृथक् शाखे आहरतः॥२६॥
तथेमाबर्हिषी॥२७॥
मारुत्या प्रतिप्रस्थाता वत्सानपाकरोति। वारुण्या अध्वर्युः॥२८॥
शमीमय्यो हिरण्मय्यो वा स्रुचो भवन्ति॥२९॥
यथादेवतं सायंदोहौ दोहयतः॥३०॥
370 (VIII.5 370 ĀpsS Translation : THITE
सद्यस्काला वा वरुणप्रघासाः॥३१॥
एवं सति लौकिकेन दध्नामिक्षाकर्म स्यात्॥३२॥
प्रातर्दोहविकारमेक आमिक्षापयस्यमाहुः॥३३॥
निर्वपणकाल आग्नेयमष्टाकपालमिति नवोत्तराणि हवींषि निर्वपति॥३४॥
Hot Jan 1113411 35. सर्वे यवा भवन्ति ३५
अपि वा पौष्णः करम्भपात्राणि मेषाविति यवानां व्रीहीणामितराणि॥३६।
एतस्मिन्काले प्रतिप्रस्थाता तूष्णीं करम्भपात्रार्थान्यवान्निर्वपति॥३७॥
यजषाध्वर्युर्मेषार्थान्। मेष्यर्थान्प्रतिप्रस्थाता॥३८॥
तयोरामिक्षावद्वैवतम्॥३९॥
आमपेषाणां पत्नी करम्भपात्राणि करोति॥४०॥
यावन्तो यजमानस्यामात्याः सस्त्रीकास्तावन्त्येकातिरिक्तानि॥४१॥
आमपेषाणां मेषप्रतिकृती भवतः॥४२॥
मेषमध्वर्युः करोति मेषीं प्रतिप्रस्थाता॥४३॥
08.06
स्त्रियाः स्त्रीव्यञ्जनानि॥१॥ पुंसः पुंव्यञ्जनानि॥२॥
अपि वा पूर्वेधुरन्वाहार्यपचने वितुषानिव यवान्कृत्वा तेषामीषटका पत्नी करम्भपात्राणि करोति॥३॥ अत्रापि मेषं मेषीं च करोतीति वाजसनेयकम्॥४॥
ऐन्द्राग्नपर्यन्तान्यधिश्रित्यैकादशसु कपालेषु मेषीमधिश्रयति। अष्टास मेषम्॥५॥
कुम्भीपाक्यौ वा भवतः॥६॥
कायमेककपालमधिश्रित्याप्येभ्यो निनीयाग्नी प्रणयत इति वाजसनेयकम्॥७॥
पशुवत्संप्रेषः। तथाज्यानि॥८॥
373
पषदाज्ये विकारः। महीनां पयो ऽसीति पृषदाज्यधान्यां सकृदाज्यं Elfall faste fara 118 11
या वै श्रवणायां संसृज्य गृह्णीयात्॥१०॥
उद्वासनकाले ऽनैडकीभिरूणाभिर्मेषप्रतिकृती लोमशौ कुरुतः॥११॥
तदभावे कुशोर्णा निश्लेष्य मारुत्यां मेषमवदधाति। वारुण्यां मेषीम्॥१२॥
अथाभ्यां शमीपर्णकरीराण्युपवपति परःशतानि परःसहस्राणि वा॥१३॥
374
करम्भपात्रेषु चान्वोप्याष्टावुत्तरस्यां वेद्यां हवींष्यासादयति॥१४॥
एकां मारुती प्रतिप्रस्थाता दक्षिणस्यां करम्भपात्राणि च॥१५॥
अत्र मेषप्रतिकृती व्यतिहरतः॥१६॥
मारुत्यां मेषीमवदधाति। वारुण्यां मेषम्॥१७॥
पशुवन्निर्मन्थ्यौ सामिधेन्यश्च नव प्रयाजानूयाजाः॥१८॥
प्रघास्यान्हवामह इति प्रतिप्रस्थाता पत्नीमुदानयत्येतच्च वाचयति॥१९॥
तां पृच्छति पनि कति ते जारा इति॥२०॥
“50 • 375
यानाचष्टे तान्वरुणो गृह्णात्विति निर्दिशति॥२१॥
यज्जारं सन्तं न प्रब्रूयात्प्रियं ज्ञाति रुन्ध्यात्। असौ मे जार इति निर्दिशेत्। निर्दिश्यैवैनं वरुणपाशेन ग्राहयतीति विज्ञायते॥२२॥
संमृष्ट उत्तरो ऽग्निर्भवत्यसंमृष्टो दक्षिणः। अथान्तरा वेदी गत्वा यजमानः पत्नी चोत्तरां वेदिमैषीके शूर्पे करम्भपात्राण्योप्य शीर्षन्नधिनिधाय पुरस्तात्प्रत्यञ्चौ तिष्ठन्तौ दक्षिणो ऽग्नौ शूर्पण जुहुतः॥२३॥
मो षू ण इन्द्रेति यजमानः पुरोऽनुवाक्यामन्वाह। यद्ग्राम इत्युभौ यायाम्॥२४॥
376 अक्रन्कर्म कर्मकृत इति विपरायन्तौ जपतः॥२५॥
अपि वाध्वर्युः प्रतिप्रस्थाता वा जुहुयात्। अन्वारभेयातापितरौ॥२६॥
अत्र दक्षिणमग्निं संमाष्टि॥२७॥
ऐन्द्राग्नपर्यन्तैः प्रचर्यारमत्यध्वर्युः॥२८॥
अथ प्रतिप्रस्थाता पूर्वेण सहावदानेन मारुत्याः सर्वां मेषीमवद्यति। उत्तरेण शमीपर्णकरीराणि॥२९॥
अथ प्रचर्यारमति॥३०॥
अथाध्वर्युः पूर्वेण सहावदानेन वारुण्याः सर्वं मेषमवद्यति। उत्तरेण शमीपर्णकरीराणि। अथ प्रचरति॥३१॥
ApSs Translation : THITE VIII.7] 377
08.07
कायानब्रूहि कं यजेत्येककपाले संप्रेषौ॥१॥
नभश्च नभस्यश्चेति चतुर्भिर्मासनामभिरेककपालमभिजुहोति॥२॥
तदु हैके पृथगिडे निरवद्यन्ति। तदु तथा न कुर्यात्। सप्तानां हविषां समवदायाध्वर्युः प्रतिप्रस्थात्रे प्रयच्छति। तस्मिन्प्रतिप्रस्थाता मारुत्या अन्ववद धाति॥३॥
उपहूतां प्राश्नन्ति।।४॥
यः प्रवया इवर्षभः स दक्षिणा५॥
कामं तु ततो भूयो दद्यात्॥६॥ Translation : THITE 378 [VIII.7 धेनुर्दक्षिणेत्येके।७॥
परिवत्सरीणां स्वस्तिमाशास्ते। दिव्यं धामाशास्त इति सूक्तवाकस्याशिःषु होतानुवर्तयते। एवं यजमानो जपति। आशास इति मन्त्रं संनमतिका
उभौ वाजिनाभ्यां प्रचरतः॥९॥
शेषौ समवनीयोत्तरे विहारे पूर्ववद्भक्षयन्त्या मा विशन्त्विन्दव आ गल्गा धवनीनां रसेन मे रसं पृण। तस्य ते वाजिभिर्भक्षंकृतस्येति समानम्॥१०॥
पूर्णपात्रवण पूर्ववदिष्टिं संस्थापयति॥११॥
ApSs Translation : THITE VIII.7] 379
पात्रस्य स्थाने सौमिको ऽवभृथः॥१२॥ in
चतुर्गहीतान्याज्यानि॥१३॥
वारुण्यै निष्कासेन तुषैश्चावभृथमवयन्ति॥१४॥
तुषा ऋजीषधर्म लभन्ते॥१५॥
वारुणमेककपालमेके समामनन्ति॥१६॥
नायुर्दा नाभिप्रव्रजनमन्त्रं न साम गायति॥१७॥
सर्वा दिशो ऽवभृथगमनमाम्नातम्॥१८॥
नोदीचीरभ्यवेत्या इत्येके॥१९॥
यां दिशं गच्छेयुस्तथामुखाः प्रचरेयुरित्येके॥२०॥
वहन्तीनां स्थावरा अभ्यवेत्याः॥२१॥
तदभावे याथाकामी॥२२॥
उदकान्ते स्तरणान्तां वेदिं कृत्वा तस्यां हवींषि सादयति॥२३॥
अपि वा न वेदिः॥२४॥
शतं ते राजन्भिषजः सहस्रमित्यपो दृष्ट्वा जपति॥२५॥
अभिष्ठितो वरुणस्य पाश इत्युदकान्तमभितिष्ठन्ते॥२६॥
अपः प्रगाध्य तिष्ठन्तो ऽवभृथेन चरन्ति॥२७॥
तृणं प्रहृत्य स्त्रौवमाधारयति॥२८॥
यदि वा पुरा तृणं स्यात्तस्मिञ्जुहुयात्॥२९॥
VIIL.8
अग्नीदपस्त्रिः संमृड्ढीति संप्रेष्यति॥१॥
आपो वाजजितो वाजं वः सरिष्यन्तीर्वाजं जेष्यन्तीर्वाजिनीर्वाजजितो वाजजित्यायै संमाय॑पो अन्नादा अन्नाद्यायेति मन्त्रं संनमति॥२॥
अग्नेरनीकमप आविवेशेति त्रुच्यमाघारयति॥३॥
वागस्याग्नेयीत्यनुमन्त्रयते यजमानः॥४॥
382
लुप्यते प्रवरः॥५॥
अपबर्हिषः प्रयाजानिष्ट्वाप्सुमन्तावाज्यभागौ यजति॥६॥
अप्वग्न इत्येषा। अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजा। अग्निं च विश्वशंभुवमापश्च विश्वभेषजीरित्यप्सुमन्तौ॥७॥
निष्कासस्यावदाय वरुणमिष्ट्वा कृत्स्नं निष्कासमवदायाग्नीवरुणौ स्विष्ट कृदर्थे यजति॥८॥
नोत्तरं क्रियते॥९॥
अपि वौपभृतं जुह्वामानीयापबहिषावनूयाजौ यजति॥१०॥
383
देवौ यजेति प्रथमं संप्रेष्यति। यजेत्युत्तरम्॥११॥
तुषाणां स्थाली पूरयित्वाप्सूपमारयति समुद्रे ते हृदयमस्वन्तरिति॥१२॥
अपि वा न सौमिको ऽवभृथः। तूष्णीं तुषनिष्कासमप्सूपवपेत्॥१३॥
इमं विष्यामीति पत्नी योक्त्रपाशं विमुञ्चते॥१४॥
देवीराप इत्यवभृथं यजमानो ऽभिमन्त्र्य सुमित्रा न आप ओषधय इत्यपः प्रगाह्य सशिरकास्कावनुपमक्षन्तौ स्नातः पत्नी यजमानश्च॥१५॥
अन्योऽन्यस्य पृष्ठे प्रधावतः॥१६॥
384
काममेते वाससी यस्मै कामयेयातां तस्मै दद्याताम्। न हि दीक्षितवसने भवत इति वाजसनेयकम्॥१७॥
उद्वयं तमसस्परीत्यादित्यमुपस्थाय प्रतियुतो वरुणस्य पाश इत्युदकान्तं प्रत्यसित्वा समिधः कृत्वाप्रतीक्षास्तूष्णीमेत्यैधो ऽस्येधिषीमहीत्याहवनीये समिध आधायापो अन्वचारिषमित्युपतिष्ठन्ते॥१८॥
अत्र पौर्णमास्येष्ट्वोन्दनादि पूर्ववन्निवर्तनम्॥१९॥
सर्वं वा वापयेत्॥२०॥
VIII.91 385 ĀPŚS Translation : THITE
मन्त्रादिविक्रियते। यधर्मः पर्यवर्तयदन्तान्पृथिव्या दिवः। अग्निरीशान ओजसा वरुणो धीतिभिः सह। इन्द्रो मरुद्भिः सखिभिः सह। अग्निस्तिग्मेनेति समानम्॥२१॥
अपि वा स्नानोप्त्वा केशश्मश्रूण्यरण्योरग्नीन्समारोप्योदवसाय निर्मथ्य पौर्णमासेन यजते॥२२॥
यज्ञो ह वा एष यद्वरुणप्रघासा नह्यवकल्पते यदुत्तरवेद्यामग्निहोत्रं जुहुया दिति वाजसनेयकम्॥२३॥
3 Sākamedhaparva
C. THE SĀKAMEDHA PARVAN
08.09
ततश्चतुर्यु मासेषु पूर्वस्मिन्पर्वण्युपक्रम्य व्यहं साकमेधैर्यजते॥१॥
अग्नये ऽनीकवते पुरोडाशमष्टाकपालं निर्वपति साकं सूर्यणोद्यतामा
साकं वा रश्मिभिः प्रचरन्ति॥३॥
सिद्धमिष्टिः संतिष्ठते॥४॥
मरुद्भयः सांतपनेभ्यो मध्यंदिने चरुम्॥५॥
न बर्हिरनुप्रहरति॥६॥
सिद्धमिष्टिः संतिष्ठते॥७॥
मरुद्भयो गृहमेधिभ्यः सर्वासां दुग्धे सायं चरुम्॥८॥
ApSs Translation : THITE 387 VIII.9]
यत्सांतपनस्य बर्हिस्तद्गृहमेधीयस्य॥९॥
अपि वा नेध्माबर्हिर्भवति। न सामिधेनीरन्वाह। न प्रयाजा इज्यन्ते नानू याजाः॥१०॥
अयजुष्केण वत्सानपाकृत्यापवित्रेण गा दोहयति॥११॥
स वै खलु पर्णशाखया वत्सानपाकृत्य पवित्रवति संदोह्य यथैतदमा वास्यायां क्रियते तं चरुं श्रपयतीत्येके॥१२॥
अग्नीनन्वाधाय वेदं कृत्वाग्नीन्परिस्तीर्य पाणिप्रक्षालनादि कर्म प्रतिपद्यते। यथार्थं पात्राणि प्रयुनक्ति॥१३॥
388 ApSs Translation : THITE (VIII. 10
स्थाली कपालानां स्थाने॥१४॥
निर्वपणकाले॥१५॥
08.10
चतुरो मुष्टीन्निरुप्य बह्वन्वावपति॥१॥
कपालानामुपधानकाले प्रथमेन कपालमन्त्रेण चरुमुपदधाति। ध्रुवो ऽसीति मन्त्रं संनमति। पिष्टानामुत्पवनकाले तण्डुलानुत्पुनाति॥२॥
अधिश्रयणकाले प्रातर्दोहवत्सर्वा यजमानस्य गा दोहयित्वा तस्मिञ्छू पयति॥३॥
389
औषकाले यदन्यदिध्माबर्हिषस्तत्संप्रेष्यति। आज्यग्रहणकाले ध्रुवायामेव गृह्णाति॥४॥
प्रोक्षणीरभिमन्त्र्य ब्रह्माणमामन्य वेदिं प्रोक्षणीशेषं निनीय पवित्रे अपि सज्यान्तर्वेदि विधृती निधाय धुवां खुवं च सादयति॥५॥
एतावसदतामिति मन्त्रं संनमति॥६॥
उद्वासनकाले शरं निधाय यावन्तो यजमानस्यामात्यास्तावत ओदना नुद्धरति॥७॥
अतो भूयसो यदि बहुरोदनो भवति॥८॥
उद्धृतानुत्पूतानलंकृतानभिघारितानासादयति॥९॥
दक्षिणाग्नौ पल्याः प्रतिवेशमोदनं पचति॥१०॥
तं नाभिघारयति॥११॥
द्वयोरुद्धरणं वाजसनेयिनः समानन्ति। दक्षिणादेव मरुतो गृहमेधिनो erufali8711
ĀPŚS Translation : THITE VIII.11] 391 Com
08.11
meReme उत्तरस्मात्स्विष्टकृतम्॥१॥
ओदनयोर्निम्ने कृत्वा तत्राज्यमानीय तत आज्यार्थान्कुरुत आज्यस्थाल्या वेति वाजसनेयकम्॥२॥
एवं कुर्वन्न ध्रुवायां गृह्णीयात्॥३॥
आज्यभागाभ्यां प्रचर्य जुह्वामुपस्तीर्य सर्वतः समवदाय मरुतो गृहमे धिनो यजति॥४॥
सर्वेषामुत्तरार्धात्सकृसकृदवदायाग्निं स्विष्टकृतम्॥५॥
न प्राशित्रं न यजमानभागम्॥६॥
392
इडान्तः संतिष्ठते॥७॥
ये यजमानस्यामात्या हविरुच्छिष्टाशास्त ओदनशेषान्प्राश्नन्ति। ऋत्विको ऽन्ये वा ब्राह्मणाः॥८॥
प्राश्नन्ति ब्राह्मणा ओदनं यः स्थाल्याम्॥९॥
सुहिता एतां रात्रि वसन्ति प्रतीता अनवर्तिमुखिनः॥१०॥
प्रतिवेशा अपि पचन्ते॥११॥
गा अभिजते॥१२॥
आङ्कते ऽभ्यङ्कते॥१३॥
अनु वत्सान्वासयन्ति॥१४॥
393
अनिष्कासितां स्थाली निदधाति॥१५॥
अप्रमृष्टं दय॒दायुवनमन्ववदधाति॥१६॥
·
पराचीनरात्रे ऽभिवान्याया अग्निहोत्र्यै च वत्सौ बध्नाति॥१७॥
व्युष्टायां पुराग्निहोत्रात्पूर्णदव्येण चरन्ति। हुते वा॥१८॥
शरनिष्कासस्य दर्वी पूरयित्वर्षभमाहूय तस्य रवथे पूर्णा दर्वि परापतेत्य नुद्रुत्योत्तरया गार्हपत्ये जुहुयात्॥१९॥
394
यवृषभो न रूयादब्रह्मा ब्रूयाज्जुहुधीति॥२०॥
यस्य रवथे जुहोति तां दक्षिणां ददाति॥२१॥
मरुद्भय क्रीडिभ्यः स्वतवद्भयो वा पुरोडाशं सप्तकपालं निर्वपति। साकं सूर्येणोद्यता साकं वा रश्मिभिः प्रचरन्ति। सिद्धमिष्टिः संतिष्ठते॥२२॥
08.12
ततो महाहविषस्तन्त्रं प्रक्रमयति॥१॥
तस्य वारुणप्रघासिकेनोत्तरेण विहारेण कल्पो व्याख्यातः॥२॥
निर्वपणकाल आग्नेयमष्टाकपालमित्यष्टावुत्तराणि हवींषि निर्वपति॥३॥
सदस्य चरोः स्थान इन्द्राय वृत्रने चरुमेके समामनन्ति॥ अग्ने वेर्होत्रं नों अध्वरे स्थात्॥ अवतां त्वा द्यावापृथिवी अव त्वं धावापृथिवी। दिन्द्राय देवेभ्यो भव जुषाणो अस्य हविषो घृतस्य वीहि स्वाहेति माघारयति॥ वागस्याग्नेयीत्यनुमन्त्रयते यजमानः।।४॥
सहश्च सहस्यश्चेति चतुर्भिर्मासनामभिरेककपालमभिजुहोति। धेनुर्दक्षि णर्षभो वा प्रवयाः। इदावत्सरीणां स्वस्तिमाशास्ते। दिव्यं धामाशास्त इति सूक्त वाकस्याशिःषु होतानुवर्तयते। एवं यजमानो जपति। आशास इति मन्त्रं संन मति॥५॥
[VIII.13 396 ApSs Translation : THITE
ऐन्द्राग्नतुषानप्सु प्रतिपादयति॥६॥
सिद्धमिष्टिः संतिष्ठते॥७॥
Pitr̥yajñaḥ
PITR̥YAJÑA (ANCESTRAL RITUAL FORMING PART OF THE SĀKAMEDHA)
08.13
तदानीमेव पितृयज्ञस्य तन्त्रं प्रक्रमयति॥१॥
वेदं कृत्वाग्रेणान्वाहार्यपचनं यजमानमात्री चतुःस्त्रक्तिं वेदिं करोति॥२॥
प्रतिदिशं सूक्तयो ऽवान्तरदेशान्प्रति मध्यानि॥३॥
उद्धताखाता भवति॥४॥
न प्राची वेदिरुद्धत्या। पितृयज्ञो हि। न दक्षिणा। यज्ञो हि। उभे दिशा वन्तरेणोद्धत्या। उभये हि देवाश्च पितरश्चेज्यन्त इति विज्ञायते॥५॥
ये के च देवसंयुक्ता मन्त्रा देवेभ्यः पितृभ्य इति तान्संनमति। यथा भवति पृथिवि देवपितृयजनीति॥६॥
अविकारो वा परवाक्यश्रवणात्॥७॥
प्रागुत्तरात्परिग्रहात्कृत्वा दक्षिणाग्नेरग्निमाहृत्य मध्ये वेद्या उपसमाद धाति॥८॥
एतस्मिन्पितृयज्ञ आहवनीयकर्माणि क्रियन्ते॥९॥
अग्नीनन्वाधायेध्माबहिराहरति॥१०॥
398 Translation : THITE [VIII.13
समूलं बर्हिति॥११॥
उपमूललूनं वा॥१२॥
वर्षीयानादिध्मो द्राधीयांश्च॥१३॥
अग्नीपरिस्तीर्य पाणिप्रक्षालनादि कर्म प्रतिपद्यते। यथार्थं पात्रप्रयोगः॥१४॥
निर्वपणकाले सर्वतो वेदिं परिश्रित्योत्तेरण द्वारं कृत्वा दक्षिणतः प्राचीनावीती हवींषि निर्वपति। उत्तरतो वा। यज्ञोपवीती सोमाय पितृमत इति यथासमाम्नातम्॥१५॥
399 ।
अथैकेषाम्। सोमाय पितृमत आज्यं पितृभ्यो बर्हिषद्भयः षटकपालं पितृभ्यो तनिष्वात्तेभ्यो धाना अग्नये कव्यवाहनाय यमाय वा मन्थं यमागिरस्वते पितृमते॥१६॥
उदकुम्भः प्रोक्षणीभाजनं भवति॥१७॥
प्रोक्षण्युरेकेण यवान्संयुत्य त्रिष्फलीकृतांस्तण्डुलान्विभागमन्त्रेण विभज्य धानार्थान्निधायेतरान्पिष्टानि कृत्वा दक्षिणार्धे गार्हपत्यस्य षट्कपालान्युप धाय दक्षिणाग्नौ प्रथमेन कपालमन्त्रेण धानार्थं कपालमधिश्रयति॥१८॥
अधिश्रयणकाले ऽधिश्रयणमन्त्रेण तण्डुलानोप्य बहुरूपा धानाः करोति॥१९॥
विदह्यमानाः परिशेरत इति विज्ञायते॥२०॥
08.14
संप्रेषकाले पत्नीवर्ज संप्रेष्यति॥१॥
आज्यग्रहणकाल उत्तरेण गार्हपत्यं चतुर्ग्रहीतान्याज्यानि गृह्णाति॥२॥
प्रोक्षणीनामभिमन्त्रणादि कर्म प्रतिपद्यते॥३॥
स्तरणकले बर्हिषा त्रिः प्रसव्यं वेदिं स्तृणन्पर्येति॥४॥
औद्धवान्धारयमाणस्त्रिरस्तृणन्प्रति र्येति॥५॥
औद्धवः प्रस्तरः॥६॥
प्रस्तरस्य ग्रहणसादने तूष्णीम्॥७॥
न विधृती॥८॥
द्वौ परिधी परिदधाति॥९॥
FETHRIN 011
Harar118811
402
मम सर्वानावाहनकाले परिधी पोर्णिवति वाभिज्ञाय दक्षिणं शो परिधावुपसमस्येत्॥१२॥ __
उद्वासनकाले धाना उद्धास्य विभागमन्त्रेण विभज्यार्धा आज्येन संयौति॥१३॥
अर्धाः पिष्टानामावृता सक्तून्कृत्वाभिवान्यायै दुग्धस्यार्धशरावे सक्तू नोप्यैकयेक्षुशलकयेक्षुकाण्डेन वा दक्षिणामुखस्त्रिः प्रसव्यमनारभ्योप मन्थति॥१४॥
शलाकास्थं मन्थं कृत्वैकैकशो हवींष्यासादयति॥१५॥
दक्षिणतः कशिपूपबहणमाञ्जनमभ्यञ्जनमुदकुम्भमित्यकैकश आसाद्य वेदं निधाय सामिधेनीभ्यः प्रतिपद्यते॥१६॥
अग्नये देवेभ्यः पितृभ्यः समिध्यमानायानुब्रूहीति संप्रेष्यति॥१७॥
एकां सामिधेनी त्रिरन्वाह। उशन्तस्त्वा हवामह इत्येताम्॥१८॥
एकामनूयाजसमिधमवशिष्य समश इध्मं त्रैधं विभज्य त्रिरादधाति॥१९॥
समानमा प्रवरात्॥२०॥
नार्षेयं वृणीते न होतारम्॥२१॥
आश्राव्याह सीद होतरिति। एतावान्प्रवरः॥२२॥
अपबर्हिषः प्रयाजानिष्ट्वा जीववन्तावाज्यभागौ यजति॥२३॥
आ नो अग्ने सुकेतुना रयिं विश्वायुपोषसम्। मार्डीकं धेहि जीवसे॥ त्वं सोम महे भगं त्वं यून ऋतायते। दक्षं दधासि जीवस इति जीववन्तौ॥२४॥
अत्र वेद्याः परिश्रयणमेके समामनन्ति॥२५॥
08.15
वित्रस्य यज्ञोपवीतानि प्राचीनावीतानि कुर्वते। विपरिक्रामन्त्यत्विजः। विपरिहरन्ति स्रुचो हवींषि परिश्रयणानीति॥१॥
दक्षिणेन जुहूमुपभृतं सादयति। दक्षिणेनोपभृतं ध्रुवां दक्षिणेन पुरोडाशं धानास्ता दक्षिणेन मन्थम्॥२॥
समानत्र जुहूषट्कपालौ॥३॥
ब्रह्मयजमानावित्येके४॥
षडवत्तः पञ्चावत्तिनां पञ्चावत्तश्चतुरवत्तिनाम्॥५॥
संभिन्दपुरोडाशस्यावद्यति॥६॥
406 fa: 74RICE srafa:11911
जुह्वामुपस्तीर्य सोमाय पितृमते ऽनु स्वधेति संप्रेष्यति॥८॥
सकृत्पुरोडाशस्यावद्यति सकृद्धानानां सकृन्मन्थस्य॥९॥
दक्षिणतो ऽवदायाभिघार्योदतिक्रम्य दक्षिणामुखस्तिष्ठन्ना स्वधेत्याश्रा qufarlig011
अस्तु स्वधेति प्रत्याश्रावयति। सोमं पितृमतं स्वधेति संप्रेष्यति। ये स्व धामह इति यजति। स्वधा नम इति वषट्करोति॥११॥
407 स्वधाकारं तु प्रतिषिध्य बढचवाजसनेयिनामा श्रुतप्रत्याश्रुतान्येव विद धाति॥१२॥
द्वे पुरोऽनुवाक्ये अन्वाह॥१३॥
ऋचमुक्त्वा प्रणौति। अपरामुक्त्वा प्रणौति॥१४॥
त्वं सोम प्रचिकित इत्येता आम्नाता भवन्ति॥१५॥
एका याज्या॥१६॥
अग्निष्वात्ताः पितर इत्येषा। ये अग्निष्वात्ता येऽनग्निष्वात्ता अंहोमुचः पितरः सोम्यासः। परे ऽवरे मृतासो भवन्तोऽधिब्रुवन्तु ते अवन्त्वस्मान्॥ वान्यायै दुग्धे जुषमाणाः करम्भमुदीराणा अवरे परे च। अग्निष्वात्ता ऋतुभिः संविदाना इन्द्रवन्तो हविरिदं जुषन्तामिति पितृभ्यो ऽग्निष्वात्तेभ्यः॥१७॥
उपांशु परिश्रिते पितृयज्ञेन चरन्ति॥१८॥
एतेनैव कल्पेन पितॄन्बर्हिषदो यजत्यग्निष्वात्तान्॥१९॥
अग्निं कव्यवाहनं स्विष्टकृदर्थे यजति॥२०॥
यां देवतां यजेत्तद्धविषः प्रथममवदानवमद्यति॥२१॥ स चावदानकल्पः ॥२२॥
मन्थ इडामवद्यति मन्थं वैव॥२३॥
मन्थं होत्र आदधाति॥२४॥
तं होतावजिघ्रति॥२५॥
ApSs Translation : THITE 409 VIII.161
08.16
ब्रह्माध्वर्युरग्नीद्यजमानश्च॥१॥
अपि वा न यजमानः॥२॥
समशो वा प्रतिविभज्यावज्रेण भक्षयित्वा बर्हिषि लेपान्निमृजन्ते॥३॥
उदकुम्भमादाय यजमानः शुन्धन्तां पितर इति त्रिः प्रसव्यं वेदिं परिषि ञ्चन्प्रतिपर्येति॥४॥
निधाय कुम्भमया विष्ठा जनयन्कर्वराणीति त्रिरपरिषिञ्चन्प्रतिपर्येति॥५॥
हविःशेषान्सप्लोम्नाय पिण्डान्कृत्वा तिसृषु सक्तिषु निदधाति पूर्वस्या दक्षिणस्यामपरस्यामिति। एतत्ते ततासौ ये च त्वामन्वित्येतैः प्रतिमन्त्रम्॥६॥
त्रीन्परान्पितॄनन्वाचष्टे। षष्ठं प्रथमे पिण्डे। पञ्चमं द्वितीये। चतुर्थं तृतीये।।
उत्तरस्यां सक्त्यां रिप्तलेपं निमृज्यात्र पितरो यथाभागं मन्दध्वमित्यु क्त्वोदञ्चो निष्क्रम्य सुसंदृशं त्वा वयमित्यैन्द्रयर्चाहवनीयमुपतिष्ठन्त ऐन्द्रीणां वा॥८॥
आ तमितोरुपस्थायाक्षन्नमीमदन्त हीति पङ्क्त्या गार्हपत्यमुपतिष्ठन्ते॥९॥
एतयैव परिश्रितं प्रविशन्ति॥१०॥
अत्रैके भक्षणपरिषेचने समामनन्ति॥११॥
अवघेण सर्वे भक्षाः॥१२॥
आञ्जनादि पिण्डपितृयज्ञवदा पङ्क्तयाः॥१३॥
यदन्तरिक्षमिति पङ्क्तया पुनरेति॥१४॥
वित्रस्य प्राचीनावीतानि यज्ञोपवीतानि कुर्वते। विपरिक्रामन्त्य॒त्विजः। विपरिहरन्ति स्रुचः॥१५॥
अपकर्षन्ति परिश्रयणानि॥१६॥
औपभृतं जुह्वामानीयापबर्हिषावनूयाजौ यजति. देवौ यजेति प्रथम संप्रेष्यति। यजेत्युत्तरम्॥१७॥
सूक्तवाकं प्रति निवीतानि कुर्वते॥१८॥
न पलीः संयाजयन्ति॥१९॥
न समिष्टयजुर्जुहोति॥२०॥
संतिष्ठते पितृयज्ञः॥२२॥
THE TRYAMBAKA-HAVIRYĀGA
08.17
प्रतिपुरुषमेककपालान्निर्वपति यावन्तो यजमानस्यामात्याः सस्त्रीकास्तावत एकातिरिक्तान्॥१॥
VIII.17]] Pou ĀpsS Translation : THITE 413 यावन्तो गृह्याः स्मस्तेभ्यः कमकरमिति निरुप्यमाणेषु यजमानो जपति॥२॥
तूष्णीमुपचरिता भवन्ति॥३॥
उत्तरार्धे गार्हपत्यस्याधिश्रयति॥४॥
तानभिघार्यानभिघार्य वोद्वास्यान्तवेद्यासाद्य पशूनां शर्मासीति मूते समा वपति ॥
मूतयोर्मूतेषु वा॥६॥
कोशापिधानेन हरन्तीत्येकेषाम्॥७॥
एक एव रुद्रो न द्वितीयाय तस्थ इति दक्षिणाग्नेरेकोल्मुकं धूपायद्धर ति॥८॥
414 [VIII.18 414 ApSs Translation : THITE उत्तरपर्वमवान्तरदेशं गत्वाखुस्ते रुद्र पशुरित्याखकर पवपति॥९॥
असौ ते पशुरिति वा द्वेष्यं मनसा ध्यायन्॥१०॥
यदि न द्विष्यादाखुस्ते पशुरिति ब्रुयात्॥११॥
चतुष्पथ एकोल्मुकमुपसाधाय संपरिस्तीर्य सर्वेषां पुरोडाशानामुत्तरा र्धात्सकृत्सकृदवदाय मध्यमेनान्तमेन वा पलाशपर्णेन जुहोति॥१२॥
08.18
एष ते रुद्र भागः सह स्वस्त्राम्बिकया तं जुषस्व स्वाहेति भेषजं गव इत्येताभ्यां चातुष्पथमग्निं परिषिञ्चति। अवाम्ब रुद्रमदिमहीति यजमानो जपति॥१॥
ध्यम्बकं यजामह इति त्रिः प्रदक्षिणमग्निं परियन्ति॥२॥
त्र्यम्बकं यजामहे सुगन्धिं पतिवेदनम्। उर्वारुकमिव बन्धनादितो मुक्षीय मा पतेरिति यजमानस्य पतिकामा परीयात्॥३॥
ऊर्ध्वान्पुरोडाशानुदस्य प्रतिलभ्य त्र्यम्बकं यजामह इति यजमानस्याञ्जलौ समोप्य भग स्थ भगस्य वो लप्सीयेत्यपादायैतेनैव कल्पेन त्रिः समावपेयुः॥४॥
पतिकामा याश्चैवं समावपेयुस्तथैव मन्त्रं संनमयत्यः॥५॥
परीत्यपरीत्य समावपन्तीत्येके॥६॥
तान्मूते समावपति मूतयोर्मूतेषु वा॥७॥
416 te ruudra एष ते रुद्र भाग इति वृक्ष आसजति वृक्षयोवृक्षेषु वाटा
अपि वा मूतयोः समोप्य विवधं कृत्वा शुष्के स्थाणौ वल्पीकवण वावधायावततधन्वा पिनाकहस्तः कृत्तिवासोमिति त्रिरवताम्यन्ति॥९॥
अपः परिषिच्याप्रतीक्षास्तूष्णीमेत्यैधो ऽस्येधिषीमहीत्याहवनीये समिध आधायापो अन्वचारिषमित्युपतिष्ठन्ते॥१०॥
08.19
आदित्यं घृते चरुं पूर्ववनिर्वपति॥१॥
ApSs Translation : THITE 417 VIII.19] अश्वः श्वेतो दक्षिणा॥२॥
गौर्वा श्वेतः श्वेतन्यङ्गो वा॥३॥
सिद्धमिष्टिः संतिष्ठते॥४॥
आग्नावैष्णवमेकादशकपालं निर्वपेच्चक्षुष्कामो बार्हस्पत्यं चरुं ब्रह्मव र्चसकाम ऐन्द्रं पशुकामः सारस्वतं प्रजाकामः पौष्णं प्रतिष्ठाकामः॥५॥
एतेषां यत्कामयेत्तदनुनिर्वपेत॥६॥
सिद्धमिष्टिः संतिष्ठते॥७॥
संतिष्ठन्ते साकमेधाः॥८॥
अत्र पौर्णमास्येष्ट्वोन्दनादि पूर्ववन्निवर्तनम्। सर्वं वा वापयेत्॥ मन्त्रादिर्विक्रियते। यो अस्याः पृथिव्यास्त्वचि निवर्तयत्योषधीः। अग्निरीशान ओजसा वरुणो धीतिभिः सह। इन्द्रो मरुद्भिः सखिभिः सह॥ अग्निस्तिग्मेनेति समानम्॥९॥
4 śunāsīriyaparva
ŚUNĀSĪRĪYA-PARVAN
08.20
ततो यहे व्यहे चतुरहे ऽर्धमासे मासि चतुर्पु वा मासेषु शुनासीरीयेण Yang 11
तस्य वैश्वदेववत्कल्पः॥२॥
निर्वपणकाल आग्नेयमष्टाकपालमिति दशोत्तराणि हवींषि निर्वपति॥३॥
वायव्यस्य पयसः प्रातर्दोहवत्कल्पः॥४॥
419 बोकेषाम्। पञ्च संचराणि निरुप्य वायव्या यवागूः प्रतिधुग्वेन्द्राय गाय परोडाशो द्वादशकपालः॥ इन्द्राय शुनासीराय स्त्रुचा जुहुत नो जषतां प्रति मेधिरः॥ प्र हव्यानि घृतवन्त्यस्मै हर्यश्वाय भरता सजोषाः। भिब्रह्मणा वावृधानः शुनासीरी हविरिदं जुषस्वेति शुनासीरीयस्य जयानवाक्ये॥ सौर्य एककपाल इति॥५॥
नव प्रयाजानूयाजाः॥६॥
पञ्चप्रयाजं व्यनूयाजमित्येके॥७॥
संसर्पो ऽस्यहस्पत्याय त्वेति मासनाम्नैकपालमभिजुहोति॥८॥
द्वादशगवं सीरं दक्षिणा॥९॥
420 ranslation : THITE [VIII.21 षड्योगं वा ॥१०॥
उष्टारावित्येकेषाम्॥११॥
उष्टारं वा॥१२॥
अश्वं श्वेतमेककपालस्य गां वा श्वेतम्॥१३॥
21 अनुवत्सरीणां स्वस्तिमाशास्ते। दिव्यं धामाशास्त इति सूक्तवाकस्याशिःषु होतानुवर्तयते एवं यजमानो जपति। आशास इति मन्त्रं संनमति॥ सिद्धमिष्टिः संतिष्ठते। संतिष्ठन्ते चातुर्मास्यानि॥ अत्र पौर्णमास्येष्ट्वोन्दनादि पूर्ववन्निवर्तनम्। सर्वं वा वापयेत्॥ मन्त्रादिर्विक्रियते॥ एकं मासमुदसृजत्परमेष्ठी प्रजाभ्यः। तेनाभ्यो मह आवहदमृतं मया॑भ्यः॥ प्रजामनु प्रजायसे तदु ते मामृतम्। येन मासा अर्धमासा ऋतवः परिवत्सराः॥ येन ते ते प्रजापत ईजानस्य न्यवर्तयन्। तेनामहस्य ब्रह्मणा निवर्तयामि जीवसे। अग्निस्तिग्मेनेति समानम्॥१॥
5 anubandhaḥ
APPENDIX TO THE CĀTURMĀSYA-SACRIFICES चातुर्मास्यैरिष्ट्वा सोमेन पशुना वा यजते॥२॥
फाल्गुन्या उद्दृष्टे सोमाय दीक्षते॥३॥
तं ततो नानीजानमपरा फाल्गुनी पर्यवेयात्॥४॥
इति वै खलुत्सृजमानस्य॥५॥
अथ पुनरालभमानस्य फाल्गुन्याश्चतुर्दश्यां शुनासीरीयेणेष्ट्वा॥६॥
422
08.22
पञ्चदश्यां वैश्वदेवेन यजते॥१॥
एतेनैव पशुकामो यजेत यस्मिन्नस्यौ भूयिष्ठं गोषु पयः स्यात
एतेनैव प्रजाकामः पशुकामो वा यजेत॥३॥
अथैकेषाम्। वैश्वदेवेनेतरेषां पर्वणां स्थाने पशुकामो यजेत यावत्सहस्त्रं पशून्प्राप्नुयात्। अथेतरैः स्वकालैर्यजेत॥४॥
शुनासीरीयेण ग्रामकामो वर्ण्य उदके यजेत॥५॥
वर्ण्यमुदकमन्ववसाय तत उदकार्थान्कुरुते॥६॥
एतेनैव प्रजाकामः पशुकामः पुष्टिकामो ब्रह्मवर्चसकामो ऽन्नाद्यकामा वा यजेत॥७॥
423 पर्वभिश्चातुर्मास्येषु मासान्संचष्टे॥८॥
पञ्चसांवत्सरिकाणि व्याख्यास्यामः॥९॥
त्रीनृतून्संवत्सरानिष्ट्वा मासं न यजते। द्वौ पराविष्ट्वा विरमति॥१०॥
चैत्र्यां तूपक्रम्य द्वाविष्ट्वा मासमनिष्ट्वा त्रीन्परानिष्ट्वा विरमति॥११॥
अथ पञ्चदशवार्षिकाणि॥१२॥
एतान्येव द्विः॥१३॥
त्रिरपरिमितं वाभ्यस्येत्॥१४॥
विज्ञायते च स त्रिषुत्रिषु संवत्सरेषु मासंन चजत इत्येतद्वचनो ऽभ्यासः॥१५॥
पञ्चसांवत्सरिकेषु वैश्वानरपार्जन्या पञ्चहोता च नाभ्यावर्तेत
एकोपक्रमत्वात्॥१७॥ यथान्वारम्भणीया यथान्वारम्भणीया॥१८॥