07 Paśubandhaḥ

PAŚUBANDHA (ANIMAL-SACRIFICE)

07.01

सर्वांल्लोकान्पशुबन्धयाग्यभिजयति॥१॥

तेन यक्ष्यमाणो ऽमावास्यायां पौर्णमास्यां वा षड्ढोतारं मनसानुगुत्याहवनीये सग्रहं जुहोति सूर्यं ते चक्षुरिति॥२॥

आग्नावैष्णवमेकादशकपालं निर्वपति॥३॥

अग्न्यन्वाधानस्य प्रत्याम्नायो भवति।।४॥

सिद्धमिष्टिः संतिष्ठते॥५॥

धारयत्याहवनीयम्॥६॥

। 288 ĀPŚS Translation : THITE (VIII

उरु विष्णो विक्रमस्वेति स्रवेणाहवनीये यूपाहुतिं जुहोति।७॥

स्रुचा वा चतुर्ग्रहीतेन॥८॥

न दीक्षितस्य जुहुयात् ९

वैष्णवीमृचमनूच्याच्छेत्यः॥१०॥

जुहुयाद्वा ११

यूपसकाशे वाग्निं मथित्वा तस्मिञ्जुहुयात्॥१२॥

त्रुवमाज्यशेषं चाध्वर्युरादत्ते। तक्षा शस्त्रम्॥१३॥

289

यत्र यूपस्तद्यन्ति॥१४॥

यूप्या वृक्षाः पलाशखदिरबिल्वरौहीतकाः॥१५॥

पालाशं तेजस्कामो यज्ञकामो वा। खादिरं स्वर्गकामो वीर्यकामो वा। बैल्वमन्नाद्यकामो ब्रह्मवर्चसकामो वा। रोहीतकं प्रजाकामश्चक्षुष्कामो वा॥१६॥

समे जातमशाखाजं बहुपर्णशाखमप्रतिशुष्काग्रमसुषिरमव्यावृत्तमघूर्णमृजु मूर्ध्वशकलमग्र ईषदुपावनतं प्रागुदक् प्रत्यग्वौपनतम्॥१७॥

290

यं कामयेताप्रतिष्ठितः स्यादित्युक्तम्॥१८॥

अतिक्रम्य यूप्यान्यं जोषयते तमभिमन्त्रयते॥१९॥

07.02

अत्यन्यानगामिति॥१॥

अथैनमुपस्पृशति तं त्वा जुषे वैष्णवं देवयज्याया इति॥२॥

देवस्त्वा सविता मध्वानत्विति स्रवेण सर्वतो मूलं पर्यणक्ति॥३॥

ओषधे त्रायस्वैनमित्यूर्वाग्रं दर्भमन्तर्धाय स्वधिते मैनं हिंसीरिति स्व धितिना प्रहरति॥४॥

प्रथमपरापातिनं शकलमाहरति॥५॥

गुल्फदने वृश्चेज्नानुदने ऽनक्षसङ्गं वा॥६॥

दिवमग्रेण मा लेखीरिति प्राञ्चं पातयत्युदञ्चं प्राञ्चमुदञ्चं वा॥७॥

वनस्पते शतवल्शो विरोहेत्यावश्चने जुहोति॥८॥

सहस्रवल्शा वि वयं रुहेमेत्यात्मानं प्रत्यभिमृश्य यं त्वायं स्वधिति रित्यन्वग्रमद्गांश्छिनत्ति॥९॥

अच्छिन्नो रायः सुवीर इत्यग्रं परिवासयति॥१०॥

292

पञ्चारनिमिति काम्याः॥११॥

एकारलिप्रभृत्या त्रयस्त्रिंशदरलेरव्यवायेनैके समामनन्ति॥१२॥

यावान्यजमान ऊर्ध्वबाहुस्तावान्॥१३॥

यावान्वा रथे तिष्ठन्॥१४॥ ऊर्ध्वबाहु॥१५॥

पुरुषमात्री त्वेतस्यावमा मात्रा। अथ ततो वर्षीयान्। वर्षीयानेव कार्य इत्येके॥१६॥

व्यरलिश्चतुररनिर्वा पालाशो निरूढपशुबन्धस्यातो ऽन्यः सौम्यस्याध्व रस्येति वाजसनेकम्॥१७॥

07.03

मूलतो ऽतष्टमुपरम्॥१॥

अष्टाश्रिरनुपूर्वो ऽग्रतो ऽणीयान्प्रज्ञाताग्निष्ठाश्रिरस्थूलो ऽनणुः॥२॥

अवतक्षणानां स्वरुरधिमन्थनश्च शकलः॥३॥

अग्राच्चषालं पृथमात्रमष्टाधि मध्ये संनतम्॥४॥

यं कामयेतान्यो ऽस्य लोकमभ्यारोहेदिति तस्यान्यवृक्षस्य स्वरुचषाले qurance II

यावदुत्तममङ्गलिकाण्डं तावदूर्ध्वं चषालायूपस्यातिरिक्तं व्यङ्गलं व्यङलं चतुरङ्गुलं वा॥६॥

रथमात्री निरूढपशुबन्धस्य वेदिः॥७॥

अक्षसंमिता पश्चात्तिर्यगीषया प्राची विपथयुगेन पुरस्ताद्यावता वा बाह्ये छिद्रे॥८॥

अरलिभिर्वा चतुर्भिः पश्चात्। षड्भिः प्राची त्रिभिः पुरस्तात्॥९॥

तां वेदं कृत्वा दर्शपूर्णमासवत्संनमनवर्जं प्रागुत्तरात्परिग्राहात्कृत्वापरेण यूपावटदेशं संचरमवशिष्य वेद्यामुत्तरवेदिं दशपदां सोमे करोति॥१०॥

अंहीयसीं पुरस्तादित्येके ११

तां युगेन यजमानस्य वा पदैर्विमाय शम्यया परिमिमीते॥१२॥

शम्यामात्री निरूढपशुबन्धस्योत्तरवेदिः॥१३॥

शम्यां पुरस्तादुदगग्रां निधाय स्पन्येनोदीचीमभ्यन्तरमुपलिखति वित्तायनी मे ऽसीति। एवं दक्षिणातः प्राची तिक्तायनी मे ऽसीति। पश्चादुदीचीमवतान्मा नाथितमिति। उत्तरतः प्राचीमवतान्मा व्यथितमिति॥१४॥

296

07.04

उत्तरस्माद्वेद्यसादुदक्प्रक्रमे चात्वालः॥१॥

तमुत्तरवेदिवत्तूष्णीं शम्यया परिमित्य देवस्य त्वा सवितुः प्रसव इत्यभि मादाय परिलिखितं रक्षः परिलिखिता अरातय इति त्रिः प्रदक्षिणं परिलिख्य तूष्णीं जानुदनं त्रिवितस्तं वा खात्वोत्तरवेद्यर्थान्पांसून्हरति विदेरिति॥२॥

सिंहीरसीत्युत्तरवेद्यां निवपति॥३॥

एतेनैव यो द्वितीयस्यामिति द्वितीयं यस्तृतीयस्यामिति तृतीयम्॥४॥

तूष्णीं चतुर्थं हृत्वोरु प्रथस्वोरु ते यज्ञपतिः प्रथतामिति प्रथयित्वा ध्रुवासीति शम्यया संहत्य देवेभ्यः कल्पस्वेत्यभिमन्त्र्य देवेभ्यः शुन्धस्वेत्य 297 दावोध्य देवेभ्यः शुभमस्वेति सिकताभिरवकीर्य प्रोक्षणीशेषमुत्तरत उत्तरवेद्यै ननीयापो रिप्रं निर्वहतेति स्फ्येनोदीचीमेकस्फ्यां निःसार्य विभ्राड् बृहत्पिबतु मोम्यं मध्वायुर्दधद्यज्ञपताव विहृतम्। वातजूतो यो अभिरक्षति त्मना प्रजाः पर्ति बहुधा विराजतीत्युत्तरवेद्या अन्तान्कल्पयति॥५॥

संमृशतीत्येके॥६॥

VII.5

अथास्या मध्ये प्रादेशमात्री गोपदमात्रीमश्वशफमात्रीं वोत्तरनाभिं चतुःस्त्रक्तिं कृत्वा चतुःशिखण्डे युवती कनीने घृतप्रतीके भुवनस्य मध्ये। तयोर्देवा अधि संवसन्त उत्तमे नाक इह मादयन्तामित्युभे अभिमन्त्र्येन्द्रघोषस्त्वा वसुभिः पुरस्तात्पात्वित्येतैर्यथालिङ्गमुत्तरवेदिं प्रोक्षति॥१॥

त्वष्टा त्वा रूपैरुपरिष्टात्पात्विति मध्यम्॥२॥

प्रोक्षणीशेषं दक्षिणत उत्तरवेद्यै निनयेच्छुचा त्वार्पयामीति द्वेष्यं मनसा ध्यायन्॥३॥

पूर्ववदेकस्फ्यां दक्षिणतो निःसार्य जुह्वां पञ्चगृहीतं गृहीत्वा सर्वत्र हिरण्यमुपास्यन्त्रक्ष्णयोत्तरवेदिमुत्तरनाभिं वा व्याघारयति॥४॥

दक्षिणमंसमुत्तरा श्रोणिं दक्षिणामुत्तरमंसं मध्यमिति सिंहीरसीत्येतैः प्रतिमन्त्रम्॥५॥

299 ___

भूतेभ्यस्त्वेति स्रुचमुद्गृह्य पौतुद्रवैः परिधिभिरुत्तरवेदिं परिदधाति विश्वा समीति मध्यमं ध्रुवक्षिदसीति दक्षिणमच्युतक्षिदसीत्युत्तरम्॥६॥

परिधिसंधिना सर्वाहुतीर्जुहोति॥७॥

07.06

अग्नेर्भस्मासीत्युत्तरवेद्यां संभारान्निवपति गुल्गुलु सुगन्धितेजनं श्वेता मूर्णास्तुकां पेत्वस्यान्तराशृङ्गीयां लूनस्यालूनपूर्वस्य वा॥१॥

व्याघारणप्रभृति संभारनिवपनान्तमुत्तेरवेद्यामुपर्यग्नौ धार्यमाण एके समामनन्ति॥२॥

300

प्रोक्षान्तां कृत्वौदुम्बरशाखाभिः प्लक्षशाखाभिर्वा प्रच्छाद्य वसति द्यस्कालः पशुर्भवति॥३॥

आहवनीये प्रणयनीयमिध्ममादीप्य सिकताभिरुपयम्याग्नये प्रणीयमा नायानुब्रूहीति संप्रेष्यति। प्रणीयमानायानुब्रूहीति वा॥४॥

उद्यम्याग्निमाहवनीय उद्यतहोमं जुहोति यत्ते पावक चकमा कच्चिदागः पूर्वो यत्सन्नपरो भवासि। घृतेन त्वं तन्वं वर्धस्व मा मा हिंसीरधिगतं पुर स्तात्स्वाहेति॥५॥m) milakses.in/753305

का प्रथमायां त्रिरनूक्तायामुपयमनीभिरुपयम्य हरति॥६॥

ऊर्णावन्तं प्रथमं सीद योनिमिति होतुरभिज्ञायाग्ने बाधस्व वि मधो स्वापामीवा अप रक्षांसि सेध। अस्मात्समुद्राबृहतो दिवो नो ऽपां भूमानमुप १. सजेह॥ यज्ञ प्रतितिष्ठ सुमतौ सुशेवा आ त्वा वसूनि पुरुधा विशन्तु दीर्घVII.7] ĀpsS Translation : THITE 301 मायर्यजमानाय कृण्वनथामृतेन जरितारमङ्ग्धीह यज्ञः प्रत्यष्ठादिति संभारेषु प्रतिष्ठाप्य।७॥

07.07

अग्नेः पुरीषमप्तीत्युत्तरत उपयमनीयुष्य मनुष्वत्त्वा निधीमहि मनुष्वत्समि धीमहि। अग्ने मनुष्वदङ्गिरो देवान्देवायते यजेत्युपसमिध्य द्वादशगृहीतेन स्रुचं पूरयित्वा सप्त ते अग्ने समिधः सप्त जिह्वा इति सप्तवत्या पूर्णाहुतिं जुहोति॥१॥

अग्निर्वायुरादित्यो विष्णुर्यज्ञं नयतु प्रजानन्मैनं यज्ञहनो विदन्देवेभ्यो यज्ञं प्रब्रूतात्प्रप्र यज्ञपतिं तिर स्वाहेति चतस्रो ऽतिमुक्तीर्जुहोति॥२॥

एष पशुबन्धस्याहवनीयो यतः प्रणयति स गार्हपत्यः॥३॥

प्रणीते चेदग्निहोत्रकाल एतस्मिन्नेवाग्निहोत्रं जुहुयात्॥४॥

एवमन्यत्र विप्रक्रान्ते तेन्डे५॥

इध्माबर्हिराहरति॥६॥

त्रयोविशंतिदारुरिध्म आश्ववालः प्रस्तर ऐक्षवी विधृती कार्यमयाः परिधयः॥७॥

07.08

अग्नीन्परिस्तीर्य पाणिप्रक्षालनादि कर्म प्रतिपद्यते॥१॥

यथार्थं पात्राणि प्रयुनक्ति॥२॥ स्पयमग्निहोत्रहवीं वसाहोमहवनी द्वितीयां जुहूं पृषदाज्यधानी द्वितीया दे आज्यस्थाल्यौ हृदय शूलमसिं कुम्भी प्लक्षशाखां शाखापवित्रं कार्घ वपाश्रपण्यौ द्विश्रूलामेकशूलां चौदुम्बरं मैत्रावरुणदण्डमास्यदजं चुबुक दज वा रशने च॥३॥

पवित्रे कृत्वा यजमान वाचं यच्छेति संप्रेष्यति॥४॥


वाग्यतः पात्राणि संमश्य प्रोक्षणीः संस्कृत्य ब्रह्माणमामन्त्र्य पात्राणि प्राक्षत्यत्र वाचं विसजते। स्फ्यमादायोत्तरं परिग्राहं परिगृह्य दर्शपूर्णमासवत्सप्रेष्यति। आज्येन दध्नोदेहीति संप्रैषान्तं नमति॥५॥

त्रुचां संमार्जनकाले त्रुवं संमृज्य तस्यावृता स्वधितिम्॥६॥

जुहूवद्वसाहोमहवनीमुपभृद्वत्पृषदाज्यधानीम्। आज्यं निरुप्य दधि निर्वपति।।७॥

अधिश्रयणवर्जं दधनि क्रियते॥८॥

नैतस्य दध्नः संस्कारो विद्यत इत्यपरम्॥९॥

VII.9

आज्यग्रहणकाले चतुर्जुह्वां गृह्णाति चतुरुपभृति॥१॥

दधन्याज्यमानीय महीनां पयो ऽसीति पृषदाज्यधान्यां पञ्चगृहीतं पृषदाज्यं ज्योतिरसि विश्वरूपं विश्वेषां देवानां समिदिति वा॥२॥ 2002013

चतुर्भुवायाम्॥३॥

सादनकाल आज्यानि सादयति॥४॥ उपभृद्वत्पृषदाज्यधानीम्॥५॥

पूर्ववदाज्यान्यभिमत्र्यानेणाहवनीयं यूपावट परिलिखत्यर्धमन्तवेद्य) बहिर्वेदि॥६॥

306 (VII.9 ĀPŚS Translation : THITE

पूर्ववदभ्रेरादानं परिलेखनश्च॥७॥

अथ खनति यथा नाविरुपरं भविष्यतीति॥८॥

अग्रेणावटं प्राञ्चं यूपं निधाय यत्ते शिक्वः परावधीत्तक्षा हस्तेन वास्या। आपस्तत्सर्वं जीवलाः शुन्धन्तु शुचयः शुचिमिति यूपं प्रक्षाल्याथैनं यवमतीभिः प्रोक्षति। पृथिव्यै त्वेति मूलमन्तरिक्षाय त्वेति मध्यं दिवे त्वेत्यग्रम्॥९॥

शुन्धतां लोकः पितृषदन इति प्रोक्षणीशेषमवटे ऽवनीय यवो ऽसीति यवमवास्य पितॄणां सदनमसीति बर्हिषावस्तीर्य स्वावेशो ऽसीति प्रथमपरापातिनं शकलमवास्य घृतेन द्यावापृथिवी आपृणेथामिति स्रवेण शकले हुत्वा॥१०॥

07.10

यूपायाज्यमानायानुब्रूहीति संप्रेष्यत्यज्यमानायानुब्रह्यङ्ग्मो यूपमनुब्रूहीति GT11811

अथैनमसंस्कृतेनाज्येन यजमानो ऽग्रतः शकलेनानक्ति॥२॥

ऐन्द्रमसीति चषालमक्त्वा सुपिप्पलाभ्यस्त्वौषधीभ्य इति प्रतिमुच्य देवस्त्वा सविता मध्वानाक्त्विति त्रुवेण संततमविच्छिन्दन्नग्निष्ठामश्रिमनक्त्योपरात्॥३॥

308

रशनादेशे त्रिः सर्वतो यूपं संमृशति॥४॥

अञ्जनादि यूपं यजमानो नोत्सृजत्या परिव्ययणात्॥५॥

यूपायोच्छ्रीमाणायानुब्रूहीति संप्रेष्यत्युच्छ्रीयमाणायानुब्रूहीति वा॥६॥

उद्दिवं स्तभानान्तरिक्षं पृणेत्युच्छ्यति॥७॥

ते ते धामानीत्यवटे ऽवदधाति॥८॥

विष्णोः कर्माणि पश्यतेति द्वाभ्यामाहवनीयेनाग्निष्ठां संमिनोति॥९॥

यं कामयेत तेजसैनमित्युक्तम्॥१०॥

अग्रमाहवनीयमुपनतं यूपस्यावनतं मूलम्॥११॥

अनाविरुपरं कृत्वा ब्रह्मवनिं त्वा क्षत्रवनिमिति प्रदक्षिणं पांसुभिः पर्यय ब्रह्म दंह क्षत्रं इंहेति मैत्रावरुणदण्डेन समं भूमिपरिवृंहणं कृत्वा॥१२॥

07.11

उन्नम्भय पृथिवीमित्यद्भिः परिषिञ्चति॥१॥

दर्भमय्यौ रशने भवतः। द्विगुणा द्विव्यायामा पशुरशना त्रिगुणा त्रिव्यायामा 4711211

TWO strand with three stands and tv 310 देवस्य त्वा सवितुः प्रसव इति रशनामादाय विष्णोः कर्माणि पर सरशनेन पाणिना यूपमुन्माटि॥३॥

तद्विष्णोः परमं पदमित्यग्रं प्रेक्षते। यूपाय परिवीयमाणायानुब्रूहीति संप्रेष्यति। . परिवीयमाणायानुब्रूहीति वा४॥

परिवीरसीति नाभिदने रशनया त्रिः प्रदक्षिणं यूपं परिव्ययति मध्यदेशे वा।५॥

यं कामयेतो नमित्युक्तम्॥६॥

अधो दूरं परिव्ययेदृष्टिकामस्योपरि दूरमवृष्टिकामस्येत्येक७॥

यं कामयेत स्त्र्यस्य जायतेत्युपान्ते तस्य व्यतिषज्य न प्रवेष्टयेत्॥८॥

यं कामयेत पुमानस्य जायतेत्यान्तं तस्य प्रवेष्ट्याणिमति स्थविमत्प्रवीय दिवः सूनुरसीति स्वरुमादायान्तरिक्षस्य त्वा सानाववगृहामीत्युत्तरेणाग्निष्ठां मध्यमे रशनागुणे ऽवगृहति॥९॥

उत्तमे सर्वेषु वा। द्वयोरधरयोरिति वाजसनेयकम्॥१०॥

07.12

पशुं स्नपयन्ति कूटकर्णकाणखण्डबण्डश्लोणसप्तशफवर्जम्॥१॥

यद्यङ्गीनः स्यादङ्गतो वा विरुज्येत॥२॥ अथैकेषां वैष्णवीमाग्नावैष्णवीं सारस्वतीं बार्हस्पत्यामिति च हत्या प्रयोजयेत्॥३॥

यो ऽपन्नदन्मलं तत्पशूनामिति विज्ञायते॥४॥

इषे त्वेति बर्हिषी आदत्ते। उपवीरसीति प्लक्षशाखां बहुपर्णशाखाम प्रतिशुष्काग्रामसुषिराम्॥५॥

यं कामयेतापशुः स्यादित्यपर्णया तस्य शुष्काग्रयोपाकुर्यात्॥६॥

तृणेनोपाकरोतीत्येके॥७॥

313

बर्हिा प्लक्षशाखया च पुरस्तात्प्रत्यञ्चं पशुमुपाकरोति। उपो देवान्दै या प्रजापतेर्जायमाना इति चैताभ्यामुपस्पृशन्निन्द्राग्निभ्यां त्वा जुष्टमुपा करोमीति॥८॥

पञ्चकृत्वो देवतोपदेशनमुपाकरणे नियोजने प्रोक्षणे वपाया उद्धरणे हृदयस्याभिघारण इति॥९॥

प्रजानन्तः प्रतिगृह्णन्ति पूर्व इति पञ्च हुत्वाग्निं मन्थति॥१०॥

अपि वाग्निं मथित्वोपाकुर्यात्॥११॥

अग्नेर्जनित्रमसीत्यधिमन्थनं शकलं निदधाति। वृषणौ स्थ इति प्राञ्चौ दी॥१२॥

उर्वश्यसीत्यधरारणिमादत्ते। पुरूरवा इत्युत्तरारणिम्॥१३॥

देवो वां सविता मध्वानक्त्वित्याज्यस्थाल्या बिलेऽङ्क्त्वा घृतेनाक्ते वृषणं दधाथामित्युभे अभिमन्त्र्यायुरसीति समवधाय॥१४॥

07.13

अग्नये मथ्यमानायानुब्रूहीति संप्रेष्यति। मथ्यमानायानुब्रहीति वा॥१॥

प्रथमायां त्रिरनूक्तायां त्रिः प्रदक्षिणमग्निं मन्थति। गायत्रं छन्दो ऽनुप्रजायस्वेति प्रथमं त्रैष्टुभमिति द्वितीयं जागतमिति तृतीयम्॥२॥

315

ततो यथा प्राशु मन्थति॥३॥

यदि मथ्यमानो न जायेत राक्षोनीरनुब्रूयात्॥४॥

जातायानुब्रूहीति जाते संप्रेष्यति। प्रढियमाणायेति प्रहरन्॥५॥

भवतं नः समनसावित्यग्रेणोत्तरं परिधिमाहवनीये प्रहरति संधिना वा॥६॥

अग्नावग्निश्चरति प्रविष्ट इति प्रहृत्य स्रुवेणाभिजुहोति॥७॥

सावित्रेण रशनामादाय पशोर्दक्षिणे बाहौ परिवीयोर्ध्वमृत्कृष्यर्तस्य त्वा 316 देवहविः पाशेनारभ इति दक्षिणेऽर्धशिरसि पाशेनाक्ष्णया प्रतिमुच्य धर्षा मानपा नित्युत्तरतो यूपस्य नियुनक्ति॥८॥

दक्षिणत ऐकादशिनान्॥९॥

अद्भयस्त्वौषधीभ्यः प्रोक्षामीति प्रोक्षति॥१०॥

अपां पेरुरसीति पाययति॥११॥

स्वात्तं चित्सदेवं हव्यमापो देवीः स्वदतैनमित्युपरिष्टादधस्तात्सर्वतश्च प्रोक्ष्य वेदं निधाय सामिधेनीभ्यः प्रतिपद्यते॥१२॥

317

07.14

स्रुच्यमाघार्य प्रत्याक्रम्य जुह्वा पशुं समनक्ति॥१॥

सं ते प्राणो वायुना गच्छतामिति शिरसि। सं यजत्रैरङ्गानीत्यसोच्चलयोः। सं यज्ञपतिराशिषेति श्रोण्याम्॥२॥

ध्रुवासमञ्जनादि कर्म प्रतिपद्यते समानमा प्रवरात्॥३॥

षडृत्विजः।।४॥

दैवं च मानुषं च होतारौ वृत्वा पुनराश्राव्य मैत्रावरुणं प्रवृणीते मित्रावरुणौ प्रशास्तारौ प्रशास्त्रादिति॥५॥

तिष्ठति पशावेकादश प्रयाजान्यजति॥६॥

ApSs Translation : THITE 318 [VII.14

समिद्भयः प्रेष्येति प्रथमं संप्रेष्यति। प्रेष्य प्रेष्येतीतराना

चतुर्थाष्टमयोः प्रतिसमानीय दशेष्वैकादशायाज्यमवशिनष्टिा

तान्यजमानः प्राकृतैरादितश्चतुर्भिश्चतुरो ऽनुमन्त्र्य चतुर्थस्यानुमन्त्रणेन दुरः प्रभृतींस्त्रीनुत्तमेन शेषम्॥९॥

प्रत्याक्रम्य जुह्वा स्वरुस्वधिती अनक्ति। त्रिः स्वरूं सकृत्स्वधितेरन्यतरां धाराम्॥१०॥

स्वरुमन्तर्धाय स्वधितिना पशुं समनक्ति घृतेनाक्तौ पशुं त्रायथामात शिरसि॥११॥

न वा स्वधितिना स्वरुणैव॥१२॥

अक्तया शृतस्यावद्यति पशुमितरया विशास्ति॥१३॥

शमित्रे स्वधितिं प्रयच्छन्नाह शमितरेषा ते ऽश्रिः स्पष्टास्त्विति॥१४॥

07.15

पर्यग्नये क्रियमाणायानुब्रूहीति संप्रेष्यति। पर्यग्नये ऽनब्रूहीति वा॥१॥

आहवनीयादुल्मुकमादायाग्नीध्रः परि वाजपतिः कविरिति त्रिः प्रदक्षिणं पर्यग्नि करोति पशुं यूपमाहवनीयं शामित्रदेशं चात्वालम्॥ आज्यानि चेत्येक॥२॥

प्रत्यपिसृज्योल्मुकं त्रिः प्रतिपर्येति॥३॥

प्रजानन्तः प्रतिगृह्णन्ति पूर्व इति पर्यग्नौ क्रियमाणे ऽपाव्यानि जुहोत्येक द्वे त्रीणि चत्वारि वा॥४॥

पशुपतेः पशवो विरूपा सदृशा उत। तेषां यं वविरे देवास्तं स्वराडनु मन्यतामिति द्वितीयाम्॥५॥ 1.8.

ये बध्यमानमिति प्रमुच्यमाने। प्रमुञ्चमाना इति प्रणीयमाने॥६॥

VII.16] ApSs Translation : THITE 321

रेवतीर्यज्ञपतिं प्रियधा विशतेति वपाश्रपणीभ्यां पशुमन्वारभेते अध्वर्युर्यज बना आश्राव्य प्रत्याश्राविते संप्रेष्यत्युपप्रेष्य होतहव्या देवेभ्य इति॥७॥

प्रास्मा अग्नि भरत स्तृणीत बर्हिरिति होतुरभिज्ञायाहवनीयादुलमुकमा दायाग्नीध्रः पूर्वः प्रतिपद्यते॥८॥

शमिता पशुं नयति॥९॥

उरो अंतरिक्षेत्यन्तरा चात्वालोत्करावुदञ्चं पशुं नयन्ति॥१०॥

नाना प्राणो यजमानस्य पशुनेत्यध्वर्युर्जपति॥११॥

07.16

ऊवध्यगोहं पार्थिवं खनतादित्यभिज्ञायोवध्यगोहं खनति॥१॥

322

अभिपर्यग्निकृते देश उल्मुकं निदधाति॥२॥

स शामित्रः॥३॥

तं दक्षिणेन प्रत्यञ्चं पशुमवस्थाप्य पृथिव्याः संपृचः पाहीति तस्या धस्तादर्हिरुपास्यत्युपाकरणयोरन्यतरत्॥४॥

तस्मिन्संज्ञपयन्ति प्रत्यक्शिरसमुदीचीनपादम्॥५॥

अमायुं कृण्वन्तं संज्ञपयतेत्युक्त्वा पराङावर्तते ऽध्वर्युः॥६॥

स्वर्विदसि स्वर्वित्त्वा स्वरिहि स्वर्मा स्वः पशुभ्यः। लोकविदसि लोक वित्त्वा लोकमिहि लोकं मह्यं लोकं पशुभ्यः। गातुविदसि गातुं वित्त्वा गातुमिहि गातुं मह्यं गातुं पशुभ्यः। नाथविदसि नाथं वित्त्वा नाथमिहि नाथ मह्यं नाथं पशुभ्यः॥ न वा उवेतन्नियसे न रिष्यसि देवाँ इदेषि पथिभिः सुगेभिः। यत्र यन्ति सुकृतो नापि दुष्कृतस्तत्र त्वा देवः सविता दधातु॥आशानां त्वाशा _323 सय इत्येषा। विश्वा आशा मधुना संसृजाम्यनमीवा आप ओषधयो भवन्तु। यजमानो मृधो व्यस्यताम्। अगृभीताः पशवः सन्तु सर्व इत्युक्त्वा पराङा ते यजमानः॥ नाना प्राणो यजमानस्य पशुनेत्यध्वर्युर्जपति॥७॥

07.17

यासामूधश्चतुर्बिलं मधोः पूर्णं घृतस्य च। ता नः सन्तु पयस्वतीरस्मिन् गोष्ठे विश्वविदो घृताचीः। अग्निं कुलायमभिसंवसाना अस्माँ अवन्तु पयसा घृतेनेति पृषदाज्यमवेक्षमाणौ वाग्यतावासाते अध्वर्युर्यजमानश्च॥१॥

इन्द्रस्य भागः सुविते दधातनेमं यज्ञं यजमानं च सूरौ। यो नो द्वेष्ट्यनु तं रवस्वानागसो यजमानस्य वीरा इति च वाश्यमाने ऽवेक्षते॥२॥

यत्पशुर्मायुमकृतेति संज्ञप्ते संज्ञप्तहोमं जुहोति॥३॥

324

शमितार उपेतनेति वपाश्रपणीभ्यां पशुमुपेतो ऽध्वर्युर्यजमान

पशोः पाशं प्रमुञ्चत्यदितिः पाशं प्रमुमोक्त्वेतमिति॥५॥

संवेष्ट्य रशनां ग्रीवासु निधायैकशूलयोपसज्य चात्वाल उदस्यत्यरा यतीयन्तमधरं करोमीति॥६॥

यद्यभिचरेदरातीयन्तमधरं कृणोमि यं द्विष्मस्तस्मिन्प्रतिमुञ्चामि पाशमिति तया वृक्षं स्थाणुं स्तम्भं वापिदध्यात्॥७॥

07.18

ततः प्रतिप्रस्थाता पत्नीमुदानयति॥१॥

नमस्त आतानेति पल्यादित्यमुपतिष्ठते॥२॥

325

अनर्वा प्रेहीति प्राचीमुदानयत्यनुमन्त्रयत इत्येके॥३॥

आपो देवीः शुद्धायुव इति चात्वाले पल्यपो ऽवमृशत्यत्विजो यजमा नश्च॥४॥

न पत्नीत्येके॥५॥

अद्भिः पशोः सर्वान्प्राणानाप्याययति॥६॥

सर्वाण्यङ्गान्यध्वर्युरभिषिञ्चति पल्याप्याययति। एतद्वा विपरीतम्। वाक्त आप्यायतामित्येतैर्यथालिङ्गम्।।७॥

या ते प्राणाञ्छुग्जगामेति हृदयदेशम्॥८॥ मेद्रं त आप्यायतामिति मेढ़म्॥९॥ शुद्धाश्चरित्रा इति पादान्॥१०॥

एकैकमाप्याय्य जपति शमद्भय इति पुरा स्तोकानां भूमेः प्रापणात॥११॥

शमोषधीभ्यः शं पृथिव्या इति भूम्यां शेषं निनीयौषधे त्रायस्वैनमित्यु पाकरणयोरवशिष्टं दक्षिणेन नाभिमन्तर्धाय स्वधिते मैनं हिंसीरिति स्वधितिना पार्श्वतस्तिर्यगाच्छ्यति॥१२॥

बर्हिषो ऽग्रं सव्येन पाणिनादत्ते॥१३॥

अथ मध्यं यत आच्छ्यति तदुभयतो लोहितेनाइ.क्त्वा रक्षसां भागो ऽसीत्युत्तरममपरमवान्तरदेशं निरस्याथैनत्सव्येन पदाभितिष्ठतीदमहं रक्षो ऽवबाध इदमहं रक्षोऽधमं तमो नयामीति॥१४॥

07.19

इषे त्वेति वपामुत्खिद्य घृतेन द्यावापृथिवी प्रोर्वाथामिति वपया द्वशूलां प्रच्छाद्योर्जे त्वेति तनिष्ठे ऽन्तत एकशूलयोपतृणत्ति॥१॥

देवेभ्यः कल्पस्वेत्यभिमन्त्र्य देवेभ्यः शुन्धस्वेत्यद्भिरवोक्ष्य देवेभ्यः शुम्भ स्वेति स्वधितिना वपां निमृज्याच्छिन्नो रायः सुवीर इन्द्राग्निभ्यां त्वा जुष्टा मुत्कृन्तामीत्युत्कृन्तति॥२॥

मुष्टिना शमिता वपोद्धरणमपिधायास्त आ वपाया होमात्॥३॥

_

प्रत्युष्टं रक्षः प्रत्युष्टा अरातय इति शमित्रे वपां प्रतितप्य नमः संदृश इत्यादित्यमुपस्थायोर्वन्तरिक्षमन्विहीत्यभिप्रव्रजति॥४॥

उल्मुकैकदेशमादायाग्नीध्रः पूर्वः प्रतिपद्यते॥५॥

वपाश्रपणी पुनरन्वारभते यजमानः॥६॥

उल्मुकैकदेशमाहवनीये प्रत्यपिसृजति॥७॥

निर्दग्धं रक्षो निर्दग्धा अरातय इत्याहवनीयस्यान्तमे ऽङ्गारे वपां निकूड् यान्तरा यूपमाहवनीयं च दक्षिणातिहृत्य प्रतिप्रस्थात्रे प्रयच्छति॥८॥

ApSs Translation : THITE 329 VII.20]

मां दक्षिणत आसीनः प्रतिप्रस्थाताहवनीये अपयति॥९॥

07.20

वायो वीहि स्तोकानामिति बर्हिषो ऽग्रमधस्ताद्वपाया उपास्यति॥१॥

त्वामु ते दधिरे हव्यवाहमिति स्रवेण वपामभिजुहोति॥२।

प्रादुर्भूतेषु स्तोकेषु स्तोकेभ्यो ऽनुब्रूहीति संप्रेष्यति॥३॥

अलोहिनी सुशृतां कृत्वा सुपिप्पला ओषधीः कृधीति दक्षिणस्यां वेदि श्रोण्यां बर्हिषि प्लक्षशाखायामासाद्य प्रयुता द्वेषांसीति वपाश्रपणी प्रवृह्य निधाय घृतवति शब्दे जुहूपभृतावादाय दक्षिणातिक्रम्याश्राव्य प्रत्याश्राविते संप्रेष्यति स्वाहाकृतीभ्यः प्रेष्य स्वाहाकृतिभ्यः प्रेष्येति॥४॥

वषट्कृते हुत्वा प्रत्याक्रम्य शेषेण ध्रुवामभिघार्य पृषदाज्यमभिधारयत्यथ वपाम्। एतद्वा विपरीतम्॥५॥

नोपभृतम्॥६॥

आज्यभागौ यजति॥७॥

तौ न पशौ करोति। न सोम इत्येके॥८॥

स्वाहा देवेभ्य इति पूर्वं परिवयं हुत्वा जुह्वामुपस्तीर्य हिरण्यशकलमव धाय कृत्स्नां वपामवदाय हिरण्यशकलमुपरिष्टात्कृत्वाभिघारयति॥९॥

एवं पञ्चावत्ता भवति॥१०॥

चतुरवत्तिनो ऽपि पञ्चावत्तैव स्यात्॥११॥

07.21

इन्द्राग्निभ्यां छागस्य वपाया मेदसो ऽनुब्रहीन्द्राग्निभ्यां छागस्य वपाया मेदसः प्रेष्येति संप्रैषौ॥१॥

जातवेदो वपया गच्छ देवानिति वषट्कृते हुत्वा प्रत्याक्रम्य देवेभ्यः स्वाहेत्युत्तरं परिवप्यं हुत्वा वपोद्धरणमभिघारयत्युत्तरतस्तिष्ठन्॥२॥

प्रतिप्रस्थाताहवनीये वपाश्रपणी प्रहरति स्वाहोर्ध्वनभसं मारुतं गच्छतमिति प्राची द्विशूलां प्रतीचीमेकशूलाम्। एतद्वा विपरीतम्॥३॥

अथैने अध्वर्युः संस्त्रावेणाभिजुहोति॥४॥

333

अत्र यजमानो वरं ददात्यनड्वाहं तिस्रो वा धेनूस्तिस्रो वा दक्षिणाः।।५।।

समुत्क्रम्य सहपत्नीकाः पञ्चभिश्चात्वाले मार्जयन्ते॥ आपो हि ष्ठा मयोभुव इति तिस्त्रः॥ इदमापः प्रवहतावद्यं च मलं च यत्। यद्वाभिदुद्रोहानृतं यद्वा शेपे अभीरुणम्॥ आपो मा तस्मादेनसो विश्वान्मुञ्चत्वंहसः। निर्मा मुञ्चामि शपथान्निर्मा वरुणादधि। निर्मामस्य पड्बीशात्सर्वस्माद्देवकिल्बिषादयो मनुष्यकिल्बिषादिति॥६॥

VII.22 पशुपरोडाशस्य पात्रसंसादनादि कर्म प्रतिपद्यते॥१॥

यथार्थं पात्रयोगः॥२॥

निर्वपणकाले व्रीहिमयं पशुपरोडाशं निर्वपत्येकादशकपालं द्वादशकपालं वा॥३॥

यदेवतः पशुस्तदेवतो भवति॥४॥

हविष्कृता वाचं विसृज्य पशुं विशास्ति॥५॥

हृदयं जिह्वा वक्षो यकृद्वक्यौ सव्यं दोरुभे पार्श्वे दक्षिणा श्रोणि गुदतृतीयमिति दैवतानि। दक्षिणं दोः सव्या श्रोणिर्गुदतृतीयमिति सौविष्टकृतानि। क्लोमानं प्लीहानं पुरीततं वनिष्ठुमध्यूनी मेदो जाघनीमित्युद्धरति॥६॥

गुदं मा निर्लेषीरिति संप्रेष्यति॥७॥

मा विपर्यास्त इत्यर्थों भवति॥८॥

335

उदक पवित्रे कुम्भ्यां पशुमवधाय शूले प्रणीक्ष्य हृदयं शमित्रे श्रपयति॥९॥

अवहननादि कर्म प्रतिपद्यते॥१०॥

वपया प्रचर्य पुरोडाशेन प्रचरति। शृते वा पशौ॥११॥

इन्द्राग्निभ्यां पुरोडाशस्यानुब्रूहीन्द्राग्निभ्यां पुरोडाशस्य प्रेष्येति संप्रैषौ॥ इन्द्राग्निभ्यां पुरोडाशस्यावदीयमानस्यानुब्रूहीन्द्राग्निभ्यां पुरोडाशस्य प्रेष्यति arig?11

336 अग्नये ऽनुब्रह्यग्नये प्रेष्येति स्विष्टकृतः संप्रेषो॥१३॥

07.23

प्राशित्रमवदायेडां न यजमानभागम्॥१॥

हविराहुतिप्रभृतीडान्तः संतिष्ठते॥२॥

उपहूतां मैत्रावरुणाषष्ठा भक्षयित्वा पूर्ववत्प्रस्तरे मार्जयित्वा स्वेण पृषदाज्य स्योपहत्य वेदेनोपयम्य त्रिः पृच्छति शृतं हवीः३ शमितरिति॥३॥

337 ApSs Translation : THITE VII.23]

शृतमितीतरः प्रत्याह॥४॥

अर्धाध्वे द्वितीयं प्राप्य तृतीयम्॥५॥

पूषा मा पशुपाः पात्विति प्रथमे ऽभिप्रव्रजति। पूषा मा पथिपाः पात्विति द्वितीये। पूषा माधिपाः पात्विति तृतीये॥६॥

शूलात्प्रवृह्य हृदयं कुम्भ्यामवधाय सं ते मनसा मन इति पृषदाज्येन हृदयमभिधारयत्युत्तरतः परिक्रम्य।॥७॥

आज्येन पशुं यस्त आत्मा पशुषु प्रविष्ट इति॥८॥

स्वाहोष्मणोऽ व्यथिष्या इत्युद्यन्तमूष्माणमनुमन्त्रयते॥९॥

338

पशुं हरन्पार्श्वतो हृदय शूलं धारयत्यनुपस्पृशन्नात्मानमितरांश्च॥१०॥

अन्तरा यूपमाहवनीयं च दक्षिणातिहत्य पञ्चहोत्रा षड्ढोत्रा वा दक्षिणय वेदिश्रोण्यामासाद्य चतसृषूपस्तृणीते जुहूपभृतोर्वसाहोमहवन्यां समवत्तधान्या मिति॥११॥

जुहूपभृतोर्हिरण्यशकलाववधाय बर्हिषिप्लक्षशाखायामवदानान्यवद्यन्सं प्रेष्यति॥१२॥

07.24

मनोतायै हविषो ऽवदीयमानस्यानुब्रूहीति॥१॥

। _____339

हृदयस्याग्रे ऽवद्यति। अथ जिह्वाया अथ वक्षसो याथाकामीतरेषाम्॥२॥

मध्यतो गुदस्यावद्यतीत्युक्तम्॥३॥

यथोद्धृतं वा॥४॥

दैवतानां द्विर्द्विरवदाय जुह्वामवदधाति। उपभृति सौविष्टकृतानां सकृत्स कृत्॥५॥

गुदं त्रैधं विभज्य स्थविमदुपयड्भ्यो निधाय मध्यमं द्वैधं विभज्य दैवतेष्व वदधाति॥ अणिमत्सौविष्टकृतेषु॥६॥

340

अपि वा द्वैधं विभज्य स्थविमदुपयड्भ्यो निधायेतरत्त्रैधं विभज्य द्वैधं विभज्य दैवतेष्ववदधाति॥ अणिमत्सौविष्टकृतेषु स्वविष्ठमिडायाम

त्रेथा मेदो ऽवद्यति द्विभागं स्रुचोस्तृतीयं समवत्तधान्याम्॥८॥

यूषे मेदो ऽवधाय मेदसा शुचौ प्रावृत्य हिरण्यशकलावुपरिष्टात्कृत्वाभि घारयति॥९॥

समवत्तधान्यां षडाद्यानीडामवद्यति वनिष्ठु सप्तमम्॥ षड्भ्यो वा वनिष्ठोः सप्तमात्॥१०॥

अनस्थिभिरिडां वर्धयति॥११॥

क्लोमानं प्लीहानं पुरीततमित्यन्ववधाय यूष्णोपसिच्याभिघारयति॥१२॥

ApSs Translation : THITE 341

07.25

अपां त्वौषधीनां रसं गृह्णीमीति वसाहोमहवन्यां वसाहोमं गृह्णाति॥१॥

स्वधितिना धारां छिनत्ति॥२॥ द्विः पञ्चावत्तिनः॥३॥

श्रीरसीति पार्श्वेन वसाहोमं प्रयौति॥४॥

वातस्य त्वा ध्रज्या इति तेनैवापिदधाति। स्वधितिना वा प्रयौति। स्वधि तिनापिदधातीत्येक॥५॥

अथ यन्न शीर्णो ऽवद्यति नांसयोर्नाणूकस्य नापरसक्थ्योरनवदानी यानि॥६॥

तानि शृतैः संनिधाय संमृशत्यैन्द्रः प्राणो अङ्गेअङ्ग इति॥७॥

अथ हविषा प्रचरति॥८॥

इन्द्राग्निभ्यां छागस्य हविषो ऽनुब्रूहीन्द्राग्निभ्यां छागस्य हविषः प्रेष्येति संप्रेषौ॥९॥

याज्यायां अर्धचे प्रतिप्रस्थाता वसाहोमं जुहोति घृतं घृतपावानः पिबतेति॥१०॥

उद्रेकेण दिशः प्रदिश इति प्रतिदिशं जुहोति। मध्ये पञ्चमेन॥११॥

343

प्राश्चमुत्तमं संस्थाप्य नमो दिग्भ्य इत्युपतिष्ठते॥१२॥

quand Helfa 118311

अत्र वा दिशः प्रति यजेत्। उपरिष्टाद्वा वनस्पतेः स्विष्टकृतो वा॥१४॥

प्रत्याक्रम्य जुह्वामुपस्तीर्य सकृत्पृषदाज्यस्योपहत्य द्विरभिघार्य वनस्पतये ऽनुब्रूहि वनस्पतये प्रेष्येति संप्रैषो। वषट्कृते जुहोति॥१५॥

स्विष्टकृद्वद्यजमानो ऽनुमन्त्रयते॥१६॥

[VII.26 344 ApSs Translation : THITE

ननीये जहामौपभतानि विपर्यस्यन्नाहाग्नये स्विष्टको स्विष्टकृते प्रेष्येति॥१७॥

वषट्कृते हुत्वा प्रत्याक्रम्यायतने स्रुचौ सादयति॥१८॥

07.26

.

अत्रेडाया निरवदानमेके समामनन्ति॥१॥

अवान्तरेडामवद्यति॥२॥

मेद उपस्तीर्य मेदसाभिधारयति॥३॥

यं कामयेतापशुः स्यादित्यमेदस्कं तस्मा इत्युक्तम्॥४॥

उपहूतां मैत्रावरुणषष्ठा भक्षयन्ति। प्रतिप्रस्थाता सप्तमः॥५॥

वनिष्ठुमग्नीधे षडवत्तं संपादयति॥६॥

अध्यूनी होने हरति॥७॥

अग्नीदौपयजानङ्गारानाहरोपयष्टरुपसीद ब्रह्मन्प्रस्थास्यामः समिधमा धायाग्नीत्परिधींश्चाग्निं च सकृत्सकृत्संमृड्ढीति संप्रेष्यति॥८॥

आग्नीध्रादौपयजानङ्गारानाहरति। होत्रीय उपयजति॥९॥

346 r hra

शामित्रान्निरूढपशुबन्ध उत्तरस्यां वेदिश्रोण्याम्॥१०॥

गदकाण्डमेकादशधा तिर्यक् छित्त्वासंभिन्दनपर्यावर्तयन्ननयाजा वषट्कृतेवषट्कृत एकैकं गुदकाण्डं प्रतिप्रस्थाता हस्तेन जुहोति समदं गच्छ स्वाहेत्येतैः प्रतिमन्त्रम्॥११॥

सर्वाणि हुत्वाद्भयस्त्वौषधीभ्य इति बर्हिषि लेपं निमज्य मनो मे हार्दि यच्छेति जपति। पृषदाज्यं जुह्वामानीय पृषदाज्यधानीमुपभृतं कृत्वा तेनैका दशानूयाजान्यजति॥१२॥

देवेभ्यः प्रेष्येति प्रथमं संप्रेष्यति। प्रेष्य प्रेष्येतीतरान्॥१३॥

तान्यजमानः प्राकृतैरनुमन्त्रयते॥१४॥

07.27

प्रथमेनाद्यांश्चतुरो दशमं च। द्वितीयेन प्राग्वनस्पतेः। उत्तमेन शेषम्॥१॥

उत्तरयोर्विकारेषूभौ होतारं चोदयतो ऽध्वर्युमैत्रावरुणश्च यजेति॥२॥

[VII.27 348 ApSs Translation : THITE

अत्र स्वरोरञ्जनमेके समामनन्ति॥३॥

प्रत्याक्रम्य जुह्वां स्वरुमवधायानूयाजान्ते जुहोति द्यां ते धमो गच्छत्वन्तरिक्षमर्चिः पृथिवीं भस्मना पृणस्व स्वाहेति॥४॥

समानमा प्रत्याश्रावणात्॥५॥

सूक्तवाकप्रैषो विक्रियते॥६॥

तं मैत्रावरुणो ब्रूयादग्निमद्य होतारमवृणीतेति॥७॥

ध्रुवावर्जं चतसृभिः परिधीनभिजुहोति॥८॥

दक्षिणेन विहारं जाघनी हृत्वा तया पत्नीः संयाजयन्ति॥९॥

MOSTEEKENDRuralianRVIND AS VII.27] 349 ĀPŚS Translation : THITE

आज्येन सोमत्वष्टाराविष्ट्वोत्तानायै जाघन्यै देवानां पत्तीभ्यो ऽवद्यति। नीच्या अग्नये गृहपतये॥१०॥

उत्तानायै होत्र इडामवद्यति नीच्या अग्नीधे॥११॥

तां पल्यै प्रयच्छति तां साध्वर्यवे ऽन्यस्मै वा ब्राह्मणाय॥१२॥

बाहुं शमित्रे॥१३॥

तं स ब्राह्मणाय यद्यब्राह्मणो भवति॥१४॥

यज्ञ यज्ञं गच्छेति त्रीणि समिष्टयजूंषि हुत्वानुपस्पृशन्हृदयशूलमुदङ् परेत्यासंचरेऽप उपनिनीय शुष्कायोः संधावुद्वासयति शुगसीति द्वेष्यं मनसा ध्यायन्॥१५॥

समित्रा न आप ओषधय इति तस्मिंश्चात्वाले वा सहपत्नीका मागि धाम्नोधाम्नो राजन्नुदुत्तममित्यादित्यमुपस्थायैधोऽस्येधिनषीमहीत्याहवनीये समिण आधायापो अन्वचारिषमित्युपतिष्ठन्ते॥१६॥

07.28

इष्टिविधो वा अन्यः पशुबन्धः सोमविधो ऽन्यः। स यत्रैतदपः प्रणयति पूर्णपात्रं निनयति विष्णुक्रमान्क्रामति स इष्टिविधो ऽतो ऽन्यः सोमविध इति वाजसनेयकम्॥१॥

यूपं यजमान उपतिष्ठते नमः स्वरुभ्यः सन्नान्मावगातापश्चाद्दध्वान्नं भूयासम्॥ शृङ्गाणीवेच्छृङ्गिणां संददृश्रिरे चषालवन्तः स्वरवः पृथिव्याम्॥ ते देवासः स्वरवस्तस्थिवांसो नमः सखिभ्यः सन्नान्मावगात॥ आशासानः सुवी यमिति च॥२॥

उपस्थाय यज्ञ शं च म इति जपति॥३॥

आह वा एतं वनस्पतिभ्यः प्रच्यावयन्त्युपयज्य मनुष्याः प्रयान्ति। यूपो वै यज्ञस्य दुरिष्टमामुञ्चते। यद्यूपमुस्पृशेदुरिष्टं यज्ञस्यामुञ्चेत्तमभिमन्त्रयेत वायवेष ते वायवित्येकम्। वायवेतौ ते वायविति द्वौ। वायवेते ते वायविति बहून्।४॥

352

ऐन्द्राग्नो निरूढपशुबन्धः सौर्यः प्राजापत्यो वा॥५॥

तेन संवत्सरेसंवत्सरे यजेत। षट्सुषट्सु मासेष्वित्येके॥६॥

ऋतुव्यावृत्तौ सूयवस आवृत्तिमुखआवृत्तिमुखे वा॥७॥

मांसीयन्ति ह वा अग्नयो ऽजुह्वतो यजमानस्य। ते यजमानमेव ध्यायन्ति। यजमानं संकल्पयन्ति। पचन्ति ह वा अन्येष्वग्निषु वृथामांसम्। अथैतेषां नान्या मांसाशा विद्यते। यस्यो चैते भवन्ति तं ततो नानीजानं पशुना संवत्सरो ऽतीयात्। आयुष्यो ह वो अस्यैष आत्मनिष्क्रयण इति वाजसनेयकं भवति॥८॥