AGNIHOTRA
06.01
अग्निहोत्रं व्याख्यास्यामः॥१॥
अधिवृक्षसूर्य आविःसूर्ये वा धृष्टिरसि ब्रह्म यच्छेत्युपवेषमादाय गार्हपत्यमभिमन्त्रयते सुगार्हपत्य इति॥२॥
229
अथैनं बोधयत्युबुध्यस्वाग्ने जागृह्येनमिष्टापूर्ते संसृजेथामयं च। अस्मिन्स धस्थे अध्युत्तरस्मिन्विश्वे देवा यजमानश्च सीदतेति॥३॥
उद्धरेत्येव सायमाह यजमानः। उद्धरेति प्रातः॥४॥
सहस्रं तेन कामदुघो ऽवरुद्धे॥५॥
वाचा त्वा होत्रा प्राणेनोद्गात्रा चक्षुषाध्वर्युणा मनसा ब्रह्मणा श्रोत्रेणाग्नी धैतैस्त्वा पञ्चभिर्दैव्यैर्ऋत्विग्भिरुद्धरामीति गार्हपत्यादाहवनीयं ज्वलन्तमुद्ध रति॥६॥
भूभुर्वः सुवरुद्धियमाण उद्धर पामनो मा यदविद्वान्यच्च विद्वांश्चकार। अह्ना यदेनः कृतमस्ति पापं सर्वस्मान्मोद्धृतो मुञ्च तस्मादित्युद्धियमाणमभिमन्त्रयते यजमानः सायम्। राज्या यदेनः कृतमस्ति पापं सर्वस्मान्मोद्धृतो मुञ्च तस्मादिति प्रातः॥७॥
अग्निपतये ऽग्नये मे विद्ध्यग्निपतये ऽग्नये मे मृड। अमृताहुतिममृतायां 230 जुहोम्यग्निं पृथिव्याममृतस्य जित्यै। तयानन्तं काममहं जयानि प्रजापति पर जिगायाग्निमग्नौ स्वाहा॥८॥
06.02
अग्ने सम्राडजेकपादाहवनीय दिवः पृथिव्याः पर्यन्तरिक्षाल्लोकं विन्द यजमानाय। पृथिव्यास्त्वा मूर्धन्सादयामि यज्ञिये लोके। यो नो अग्ने निष्ट्यो योऽनिष्ट्यो ऽभिदासतादमहं तं त्वयाभिनिदधामीति पुरस्तात्परिक्रम्योदङ्मुखः प्रत्यङ्मुखो वा सायमायतनेऽग्नि प्रतिष्ठापयति। प्राङ्मुखः प्रातः॥१॥
स्वयं यजमानं इध्मानाहरति विश्वदानीमाभरन्तोनातुरेण मनसा। अग्ने मा ते प्रतिवेशा रिषामेत्येतया॥२॥
यदग्ने यानि कानि चेत्येताभिः पञ्चभिः प्रतिमन्त्रमग्निषु महत इध्मानाद धाति॥३॥ आहवनीये वर्षिष्ठम्॥४॥
यथाहितास्तेनानुपूर्येणाहवनीयाद्वा प्रक्रम्य॥५॥
VI.2) ĀśS Translation : THITE
तथाग्निराधेयो यथाहुतिर्न व्यवेयात्॥६॥
नान्तराग्नी संचरति॥७॥
यदि पूर्वोऽनुगतः संचर्यम्॥८॥
पश्चाद्धि स तर्हि गतः॥९॥
कामं हुते संचर्यमित्येक॥१०॥
नक्तमाहवनीयं धारयति॥११॥
नित्यो गतिश्रियो ध्रियते॥१२॥
नित्यं गार्हपत्यम् १३ FARB TURI1183.11 232
तथान्वाहार्यपचनं यदि मथित्वाहितो भवति॥१४॥
यद्याहार्यो ऽहरहरेनं दक्षिणत आहरन्ति॥१५॥
उपवसथ एवैनमाहरेयुर्नवावसान एवैनमाहरेयुरिति वाजसनेयकम्॥१६॥
06.03
परिसमूहनेनाग्नीनलंकुर्वन्ति॥१॥
पुरस्तादलंकाराः सायमुपरिष्टदलंकाराःप्रातः॥२॥
एतद्वा विपरीतम् उभयतोऽलंकाराः सायं तथा प्रातरित्येके॥३॥
अग्ने गृहपते शुन्धस्वेति गार्हपत्यमग्ने वह्न शुन्धस्वेति दक्षिणाग्निमग्ने सम्राट शुन्धस्वेत्याहवनीयमग्ने सभ्य शुन्धस्वेति सभ्यमग्ने परिषद्य शुन्धस्वेत्या वसथ्यम्॥४॥
उदगग्रैः प्रागग्रैश्च दर्भेस्तृणैर्वाग्नीन् परिस्तुणात्यग्निमग्नी वा॥५॥
खादिरः सुवो वैकङ्कत्यग्निहोत्रहवणी बाहुमाव्यरत्निमात्री वा॥६॥
प्रसृताकृतिरार्यकृताग्निहोत्रस्थाल्यूकपालाचक्रवर्ता भवति॥७॥
दक्षिणेन विहारमग्निहोत्री तिष्ठति तां यजमानो ऽभिमन्त्रयत इडासि व्रतभदृहं नावुभयोव्रतं चरिष्यामि सुरोहिण्यहं नावुभयोव्रतं चरिष्यामीड एहि माय श्रयस्वेर एह्यदित एहि गौरेहि श्रद्ध एहि सत्येन त्वाह्वयामीति॥८॥
अथ वेदिदेशपधिपृशतीयपसि तस्यास्ते ऽग्निर्वत्मः सा मे मी लोकमपृतं च धुक्ष्वेति॥९॥
पूधामीति दक्षिणतो वत्सपुषसृज्य प्राचीमावृत्य दोग्ध्युदीची प्राचीपटीन वा॥१०॥
न शूद्रो दुद्यात्॥११॥
असतो वा एष संभूतो यच्छ्द्रः ॥१२॥
दुद्यावा॥१३॥
यदेव गाई पत्ये ऽधिश्रयति पवयत्येवैनत्॥१४॥
अग्निहोत्रस्थाल्या दोहनेन च दोग्धि।।१५।।
VI.4] ranslation : THITE 235
06.04
पूर्वी दुद्याज्ज्येष्ठस्य ज्यैष्ठिनेयस्य यो वा गतश्रीः स्यात्। अपरौ दुह्यात्क निष्ठस्य कानिष्ठिनेयस्य यो वानुजावरो यो वा बुभूषेत्॥१॥
न स्तनान्संमृशति॥२॥
यथोपलम्भं नित्ये कल्पे दोग्धि॥३॥
पूर्ववदुपसृष्टां दुह्यमानां धाराघोषं च यजमानो ऽनुमन्त्रयते॥४॥
अस्तमिते दोग्धि॥५॥ अम्नरस्तमिते होतव्यम्॥६॥
समुद्रो वा एष यदहोरात्रस्तस्यैते गाधे तीर्थे यत्संधी तस्मात्संधौ होतव्यमिति शैलालिब्राह्मणं भवति॥७॥
नक्षत्रं दृष्ट्वा प्रदोषे निशायां वा सायम्॥८॥
उषस्युपोदयं समयाविषित उदिते वा प्रातः॥९॥
यदुदिते जुहोत्यग्निष्टोमं तेनावरुद्धे यन्मध्यंदिने जुहोत्युक्थ्यं तेनावरुद्ध यदपराह्ने जुहोति षोडशिनं तेनावरुद्धे यत्पूर्वराने जुहोति प्रथमं तेन रात्रिपर्याय माप्नोति यदपररात्रे जुहोति जघन्यं तेन रात्रिपर्यायमाप्नोति॥१०॥
स न मन्येत सर्वेष्वेतेषु कालेषु होतव्यमापदि हुतमित्येव प्रतीयादिति विज्ञायते॥११॥
यो होमकालः सोऽङ्गानाम्॥१२॥
237 ĀPŚS Translation : THITE 237 VI.5]
06.05
पत्नीवदस्याग्निहोत्रं भवति॥१॥
स्व आयतने पन्युपविशति॥२॥
अपरेणाहवनीयं दक्षिणातिक्रम्योपविश्य यजमानो विद्युदसि विद्य मे पाप्मानममृतात्सत्यमुपैमि मयि श्रद्धेत्यप आचामति॥३॥
ऋतं त्वा सत्येन परिषिञ्चामीति सायं परिषिञ्चति। सत्यं त्वर्तेन परिषिञ्चामीति प्रातः। आहवनीयमग्रेऽथ गार्हपत्यमथ दक्षिणाग्निमपि वा गार्हपत्यमाहवनीयं दक्षिणाग्निं यथा वाहिताः॥४॥
यज्ञस्य संततिरसि यज्ञस्य त्वा सतंतिमनुसंतनोमीति गार्हपत्यात्प्रक्रम्य संततामुदकधारां स्रावयत्याहवनीयात्॥५॥
धृष्टिरसि ब्रह्म यच्छेत्युपवेषमादाय भूतकृत स्थापोढं जन्यं भयमपोढाः सेना अभीत्वरीरिति गार्हपत्यादुदीचो ऽङ्गारान्निरूह्य व्यन्तान् गार्हपत्येन कृत्वा 238 सगरा स्थेत्यभिमन्त्र्य जपत्यग्नय आदित्यं गृह्णाम्यते रात्रिमिति सायमा याग्निं गृह्णामि रात्र्या अहरिति प्रातः॥६॥
इडायाः पदं घृतवच्चराचरं जातवेदो हविरिदं जुषस्व। ये ग्राम्याः पशवो विश्वरूपा विरूपास्तेषां सप्तानामिह रन्तिरस्तु। रायस्पोषाय सुप्रजास्त्वाय सुवीर्या येति तेष्वग्निहोत्रमधिश्रयति॥७॥
06.06
रेतो वा अग्निहोत्रम्। न सुशृतं कुर्याद्रेतः कूलयेन्नोऽशृतमन्तरेवैवस्यात्॥१॥
समुदन्तं होतव्यम्॥२॥
239
उदन्तीकृत्य प्रतिषिच्यम्॥३॥
अप्रतिषेक्यं स्यात्तेजस्कामस्य ब्रह्मवर्चसकामस्य पाप्मानं तुस्तूर्षमाणस्याथो सर्वेभ्यः कामेभ्यो ऽथो यः कामयेत वीरो म आजायेतेति॥४॥
अम्नरधिश्रितं वा॥५॥
अदब्धेन त्वा चक्षुषावेक्ष इति तृणेन ज्वलतावेक्षते॥६॥
दोहनसंक्षालनं त्रुव आनीय हरस्ते मा विनैषमिति तेन प्रतिषिञ्चत्यपां वा स्तोकेन।७॥
उद्भव स्थोदहं प्रजया प्र पशुभिर्भूयासं हरस्ते मा विगादुद्यन्सुवर्गों लोक स्त्रिषु लोकेषु रोचयेति पुनरेवावेक्ष्यान्तरितं रक्षोऽन्तरिता अरालयोऽ पहता व्यद्विरपहतं पापं कर्मापहतं पापस्य पापकृतः पापं कर्म यो नः पापं कर्म चिकीर्षति प्रत्यगेनमृच्छेति त्रिः पर्यग्नि कृत्वा घर्मोऽसि रायस्पो- षवनिरिहोर्ज इंहेति वर्त्म कुर्वन्प्रागुद्वासयत्युदक् प्रागुदग्वा॥८॥
न वर्त्म करोतीत्येके॥९॥
इह प्रजां पशून्दूहेति त्रिभूमौ प्रतिष्ठाप्य सुभूतकृत स्थ प्रत्यूढं जन्यं भयं प्रत्यूढाः सेना अभीत्वरीरिति गार्हपत्ये ऽङ्गारान्प्रत्यूह्य॥१०॥
VI.7
देवस्य त्वा सवितुः प्रसव इति स्रुनुवमादाय प्रत्युष्टं रक्षः प्रत्युष्टा अरातय इत्याहवनीये गार्हपत्ये वा प्रतितप्यारिष्टो यजमानः पत्नी चेति संमृश्य हिरण्ययष्टिरस्यमृतपलाशा स्रोतो यज्ञानामित्यग्निहोत्रवहणीमभिमन्व्योमुन्नेष्यामि हव्यं देवेभ्यः पाप्मनो यजमानमिति सायमाह। ओमुन्नयामीति प्रातः॥१॥
हविर्देवानामसि मृत्योर्मे ऽभयं स्वस्ति मे ऽस्त्वभयं मे अस्त्वित्युपां शूक्त्वोमुन्नयेत्युच्चैरनुजानाति। अपचारे यजमानस्य स्वयमात्मानमनुजानीयात्॥२॥
उन्नीयमान उभौ वाचं यच्छत आ होमात्॥३॥
न चाभिमीलते तिष्ठति च यजमानः॥४॥
उन्नीत उपविशति॥५॥
चतुरुन्नयति॥६॥
यं कामयेत पुत्राणामयमृनुयादिति तं प्रति पूर्णमुन्नयेत्॥७॥
242
यदि कामयेत ज्येष्ठतो ऽस्य प्रजाधुका स्यादिति पूर्ण प्रथममनल ऊनतरमूनतरम्। कनिष्ठत इत्येतद्विपरीतम्। सर्वे समावीद्वीर्या इति समय
यथोपलम्भं नित्ये कल्प उन्नयति॥९॥
06.08
अग्नये च त्वा पृथिव्यै चोन्नयामीति प्रथमं वायवे च त्वान्तरिक्षाय चेति द्वितीयं सूर्याय च त्वा दिवे चेति तृतीयं चन्द्रमसे च त्वा नक्षत्रेभ्यश्चेति चतुर्थम्॥१॥
अद्भयश्च त्वौषधीभ्यश्चेति पञ्चमं जमदग्नीनाम्॥२॥
भूरिडा भुव इडा सुवरिडा करदिडा वृधदिडेति वा प्रतिमन्त्रम्॥३॥
पशून्मे यच्छेत्यपरेण गार्हपत्यमुन्नयनदेशे ऽभितरां वा सादयित्वा गार्हपत्ये हस्तं प्रताप्य संमृशति सतर्देवैः सायंयावभिः सायंयावानो देवाः स्वस्ति संपार VI.8] ranslation : THITE 243 यन्त पशुभिः संपृचीय प्रजां ,हेति सायम्। सर्देवैः प्रातर्यावभिः प्रातर्यावाणो देवाः स्वस्ति संपारयन्तु पशुभिः संपृचीय प्रजां दूंहेति प्रातः॥४॥
दशहोत्रा चाभिमृश्य पालाशी समिधं प्रादेशमात्रीमुपरि धारयन्गार्हपत्यस्य समयार्चिहरति॥५॥
उर्वन्तरिक्षं वीहीत्युदद्रवति॥६॥
उद्वन्दश होतारं व्याचष्टे॥७॥
समं प्राणैर्हरति॥८॥
स्वाहाग्नये वैश्वानरायेति मध्यदेशे नियच्छति॥९॥
ApSs Translation : THITE 244 [VI.9
वाताय त्वेत्युद्गृह्णाति॥१०॥
उपप्रेत संयतध्वं मान्तर्गात भागिनं भागधेयात्सप्तर्षीणां सकतांग लोकस्तत्रेमं यज्ञं यजमानं च धेयुप प्रत्नमुप भूर्भुवः सुवरायुर्मे यच्छेत्यपरेणा हवनीयं दर्भेषु सादयति॥११॥
. __VI.9
यस्याग्नावुद्धियमाणे हूयते वसुषु हुतं भवति। निहितो धूपायञ्छेते रुद्रेषु। प्रथममिध्ममर्चिरालभत आदित्येषु। सर्व एव सर्वश इध्म आदीप्तो भवति विश्वेषु देवेषु। नितरामर्चिरुपावैति लोहिनीकेव भवतीन्द्रे हुतं भवति। अङ्गारा भवन्ति तेभ्यो ऽङ्गारेभ्यो ऽर्चिरुदेति प्रजापतावेव। शरो ऽङ्गारा अध्यूहन्ते ततो नीलोपकाशो ऽर्चिरुदेति ब्रह्मणि हुतं भवति॥१॥
यदङ्गारेषु व्यवशान्तेषु लेलायद्वीव भाति तदेवानामास्यं तस्मात्तथा होतव्यं यथास्येऽपिदधात्येवं तदिति विज्ञायते॥२॥
विद्युदसि विद्य मे पाप्मानमृतासत्यमुपैमीति होष्यन्नप उपस्पृश्य पालाशी समिधमादधात्येकां द्वे तिस्रो वा॥३॥
एषा ते अग्ने समिदिति। हिरण्ययं त्वां वंशं स्वर्गस्य लोकस्य संक्रमणं दधामीति द्वितीयाम्। रजतां त्वा हरितगर्भामग्निज्योतिषमक्षितिं कामदुघां स्वर्यां स्वर्गाय लोकाय रात्रिमिष्टकामुपदधे तया देवतयाङ्गिरस्वद्धवा सीदेति सायं तृतीयाम्। हरिणीं त्वा रजतगर्भा सूर्यज्योतिषमक्षितिं कामदुधां स्वाँ स्वर्गाय लोकायाहरिष्टकामुपदध इति प्रातः॥४॥
_VI.10
समिधमाधाय प्राण्यापान्य निमील्य वीक्ष्य हुत्वा ध्यायेद्यत्कामः स्यात्॥१॥
हुत्वा महदभिवीक्षते॥२॥
246
आदीप्तायां जुहोति श्यावायां वा यदा वा समतीतार्चिनेलायतीव। यत्यां ग्रामकामस्य ज्वलत्यां ब्रह्मवर्चसकामस्याङ्गारेषु तेजस्कामस्य॥३॥
व्यङ्गले मूलात्समिधमभि जुहोति॥४॥
अभिक्रामं सायं जुहोत्यपक्रामं प्रातः॥५॥
उभयत्र वाभिक्रामम् ॥६॥
भूर्भुवः सुवरिति होष्यञ्जपति॥७॥
अग्निर्कोतिर्कोतिरग्निः स्वाहेति सायमग्निहोत्रं जुहोति। सूर्यो ज्योतिर्योतिः सूर्यः स्वाहेति प्रातः॥८॥ संसृष्टहोमं वाग्निर्कोतिर्योतिः सूर्यः स्वाहेति सायम्। सूर्यो ज्योतिर्योतिरग्निः स्वाहेति प्रातः॥९॥
इषे त्वेति सुमुखादवाचीनं सायं लेपमवमाष्टयूंजे त्वेति ऊर्ध्वं प्रातः॥१०॥
ओषधीभ्यस्त्वौषधीर्जिन्वेति बर्हिषि लेपं निमृज्य वर्गों मे यच्छेति स्रुचं सादयित्वाग्ने गृहपते मा मा संताप्सीरामत्मन्नमृतमधिषि प्रजा ज्योतिरदब्धेनत्वा चक्षुषा प्रतीक्ष इति गार्हपत्यं प्रतीक्ष्य भूर्भुवः सुवरित्युत्तरामाहुतिं पूर्वार्धे समिधि जुहोति तूष्णीं वा॥११॥
न समिदभिहोतवा इत्येके॥१२॥
06.11
वर्षीयसीमुत्तरामाहुति हुत्वा भूयो भक्षायावशिनष्टि॥१॥
यं कामयेत पापीयान्स्यादिति भूयस्तस्य पूर्व हुत्वोत्तरं कनीयो जुहुयात्॥२॥
हुत्वा सुचमुद्गृह्य रुद्र मृडानार्भव मृड धूर्त नमस्ते अस्तु पशुपते त्रायस्वैन मिति त्रिः स्युचाग्निमुदञ्चमति वल्गयति॥३॥
पूर्ववल्लेपमवमृज्य प्राचीनावीती स्वधा पितृभ्यः पितृञ्जिन्वेति दक्षिणेन वेदिं भूम्या लेपं निमृज्य प्रजां मे यच्छेति त्रुचं सादयित्वा वृष्टिरसि वृश्च मे पाप्मानमृतात्सत्यमुपागामिति हुत्वाप उपस्पृश्यान्तर्वेदि शुक्। अथाङ्गुल्यापादाय पूषासीति लेपं प्राश्नात्यशब्दं कुर्वन्नतिहाय दतः॥४॥
अप आचम्यैवं पुनः प्राश्याचम्य बर्हिषोपयम्योदडावृत्योत्सृप्य गर्भेभ्य स्त्वा गर्भान्प्रीणीह्याग्नेयं हविः प्रजननं मे अस्तु दशवीरं सर्वगणं स्वस्तये। आत्मसनि प्रजासनि पशुसन्यभयसनि लोकसनि वृष्टिसनि। अग्निः प्रजां बहुलां मे करोत्वनं पयो रेतो अस्मासु धेहि। रायस्पोषमिषमूर्जमस्मासु दीधरत्स्वाहेत्यु दग्दण्डया प्राग्दण्डया वा सुचाचामति॥५॥
06.12
सौर्यं हविरिति प्रातर्मन्त्रं संनमति॥१॥
द्विः स्युचं निर्लिह्याद्भिः पूरयित्वोच्छिष्टभाजो जिन्वेति पराचीनं निनीया चम्याग्रेणाहवनीयं दभैरग्निहोत्रहवणीं प्रक्षालयति॥२॥
न मांसधौतस्य देवा भुञ्जत इति विज्ञायते॥३॥
अद्भिः स्युचं पूरयित्वा सर्पेभ्यस्त्वा सञ्जिन्वेति प्रतिदिशं व्युत्सिच्य सपोन्पिपीलिका जिन्व सतरजनाञ्जिन्व सर्पदेवजनाञ्जिन्वेति तिस्त्रः उच 250 उत्सिच्य चतुर्थी पूरयित्वा पृथिव्याममृतं जुहोमि स्वाहेत्यपरेणाहवनीयं निनीय शेषं पल्या अञ्जलौ गृहेभ्यस्त्वा गृहान् जिन्वेति॥४॥
यदि पत्नी नानुष्यादेवानां पत्नीभ्यो ऽमृतं जुहोमि स्वाहेति पल्यायतने निनयेत्॥५॥
अपरं त्रुच्यानीय विग्रुषां शान्तिरसीत्युन्नयनदेशे निनीयाहवनीये त्रुचं प्रताप्य हस्तोऽवधेयो हस्तो वा प्रताप्य त्रुच्यवधेयः॥६॥
तयोदगुद्दिशति सप्तर्षिभ्यस्त्वा सप्तर्षीजिन्वेति॥७॥
VI.13
06.13
अग्ने गृहपते परिषद्य जुषस्व स्वाहेति स्त्रवेण गार्हपत्ये जुहोत्येकां द्वे तिस्त्रश्चतस्रो वा॥१॥
अग्नये गृहपतये रयिपतये पुष्टिपतये कामायान्नाधाय स्वाहेत्येतामेके समामनन्ति॥२॥
समभ्युच्चयवदेके॥३॥
अग्ने ऽदाभ्य परिषद्य जुषस्व स्वाहेति सुवेणान्वाहार्यपचने जुहोत्येकां द्वे तिस्त्रश्चतस्रो वा॥४॥
अन्नपते ऽन्नस्य नो देहीति द्वितीयाम्॥५॥
अप्राश्य वापरयोर्जुहुयात्॥६॥
252
आहवनीये होमो नापरयोः॥७॥
यदावहनीये हुत्वापरयोर्जुहुयाद्यथा स्वर्गाल्लोकात्प्रत्यवरोहेत्तादक्तालिन विज्ञायते॥८॥
सर्वे वा एते होमार्था आधीयन्ते। चतस्रो गार्हपत्ये जुहोति चतस्रो ऽन्वाहार्यपचने द्वे आहवनीये। दश संपद्यन्ते। दशाक्षरा विराड् विराजा यज्ञः संमित इति बढ्चब्राह्मणं भवति॥९॥
दीदिहि दीदिदासि दीदायेत्येषो ऽग्न्युपसमिन्धन आम्नातः॥१०॥
दीदिहि दीदिदासि दीदाय दीद्यासं दीद्यस्वेति वा प्रतिमन्त्रम्॥११॥
यथाहितास्तेनानुपूर्येणाहवनीयाद्वा प्रक्रम्य॥१२॥
253
अन्तर्वेद्यपो निनीय॥१३॥
06.14
पूर्ववदग्नीन्परिषिञ्चति। न धाराम्॥१॥
अपिप्रेरग्ने स्वां तन्वमयाड् द्यावापृथिवी ऊर्जमस्मासु धेहीत्यग्निहोत्रस्थाल्यां तृणमङ्क्त्वानुप्रहरति॥२॥
सा ह्यग्निहोत्रस्य संस्थितिः॥३॥
न बर्हिरनुप्रहरेत्। असंस्थितो वा एष यज्ञो यदग्निहोत्रमित्युक्तम्॥४॥
अग्निहोत्रस्थाली प्रक्षाल्याक्षितमक्षित्यै जुहोमि स्वाहेत्युन्नयनदेशे निनयति। अन्तर्वेदि वा॥५॥
वृष्टिरसि वृश्च मे पात्मानमृतात्सत्यमुपागामप्सु श्रद्धेत्यप आचम्य यजमानो ऽन्तर्वेदि माजर्यते ऽन्नादा स्थान्नादो भूयासं यशः स्थ यशस्वी भूयासं श्रद्धा स्थ श्रद्धिषीयेति॥६॥
आपो ह श्लेष्म प्रथमं संबभूव येन धृतो वरुणो येन मित्रः। येनेन्द्र देवा अभ्यषिञ्चन्त राज्याय तेनाहं मामभिषिञ्चामि वर्चस इति शिरस्यप आनयते॥७॥
द्वयोः पयसा पशुकामस्य जुहुयात्॥८॥
अग्निहोत्रस्थाल्या पूर्वां दोग्धि दोहनेनोत्तराम्॥९॥
अधिश्रित्य पूर्वमुत्तरमानयति॥१०॥
यस्य रुद्रः पशूञ्छमायेतैतयैवावृता द्वयोः पयसा सायंप्रातर्जुहुयात्॥१॥
255
तच्चेदतिहन्यात्सजूर्जातवेदो दिव आ पृथिव्या अस्य हविषो घृतस्य वीहि स्वाहेति सायंप्रातराज्येन जुहुयात्॥१२॥
अनारमत्यग्ने दुःशीर्ततनो जुषस्व स्वाहेति द्वादशाहमाग्येन हुत्वा तत ऊर्ध्वं न सूर्वेत्॥१३॥
06.15
पयसा पशुकामस्य जुहुयाद् दन्द्रियकामस्य यवाग्वा ग्रामकामस्यौ दनेनान्नाद्यकामस्य तण्डुलैरोजस्कामस्या बलकामस्येत्येके। मांसेन यशस्कामस्य सोमेन ब्रह्मवर्चसकामस्यायेन तेजस्कामस्य॥१॥
प्रतिषेकं यवागू श्रपयति॥२॥
256 ‘ranslation : THITE [VI.15
शृतां यजुषा प्रतिषिञ्चति॥३॥
एवं मांसम्॥४॥
नाग्यं प्रतिषिञ्चति हरस्ते मा विनैषमिति। द्वे दर्भाग्रे प्रत्यस्यत्येक वा॥५॥
न दध्यधिश्रयति। शृतं हि तन्न प्रतिषिञ्चति प्रतिषिक्तं हि तदातञ्चनेनेति विज्ञायते॥६॥
एवं तण्डुलानोदनं सोमं च॥७॥
आज्येन तण्डुलैरोदनेन सोमेन वा जुहुयाद्यस्याप्रतिषेक्यं स्यात्॥८॥
आग्येन तेजस्कामः संवत्सरं जुहुयाद्वादशाहं वा॥९॥
न राजन्यस्य जुहुयात्॥१०॥
257
होमकाले गृहेभ्यो ब्राह्मणायानं प्रहिणुयात्तेनो हैवास्य हुतं भवति॥११॥
नित्यमग्न्युपस्थानं वाचयितव्यः॥१२॥
यो वा सोमयाजी सत्यवादी तस्य जुहुयात्॥१३॥
अहरहर्यजमानः स्वयमग्निहोत्रं जुहुयात्॥१४॥ पर्वणि वा॥१५॥
ब्रह्मचारी वा जुहुयाद्ब्रह्मणा हि स परिक्रीतो भवति। क्षीरहोता वा जुहुयाद्धनेन हि स परिक्रीतो भवतीति बढचब्राह्मणम्॥१६॥
258
06.16
अग्न्युपस्थानं व्याख्यास्यामः॥१॥
उपतिष्ठत इति चोद्यमान आहवनीयमेवोपतिष्ठेत वचनादन्यम्॥२॥
उत्तरामाहुतिमुपोत्थाय कवातिर्यङिवोपतिष्ठेत॥३॥ उपप्रयन्तो अध्वरमिति षड्भिः ॥४॥
अग्नीषोमाविमं सु म इति सप्तम्या पूर्वपक्षे। ऐन्द्राग्न्या सप्तम्यापरपक्षे॥५॥
दधिक्रावणो अकारिषमित्युभयत्राष्टम्या॥६॥
259
ममाग्ने व! विहवेष्वस्त्विति चतस्रः पुरस्तादग्नीषोमीयायाः पूर्वपक्षे। तथैन्द्राग्न्या अपरपक्षे॥७॥
अग्न आयूंषि पवस इति षड्भिः संवत्सरेसंवत्सरे सदा वा॥८॥
पवमानहवींषि वा संवत्सरेसंवत्सरे निर्वपदेतासां स्थाने॥९॥
आयुर्दा अग्न इति सिद्धमा चित्रावसोः॥१०॥
त्रिश्चित्रावसुना सायमुपतिष्ठते। विरग्सुना प्रातरर्वाग्वसो स्वस्ति ते पारमशीय॥११॥
260
इन्धानास्त्वा शतं हिमा इत्युपस्थायेन्धानास्त्वा शतं हिमाः। अग्नेः समिदस्यभिशस्त्या मा पाहि सोमस्य समिदसि परस्पा म एधि यमस्य समिदसि मृत्योर्मा पाहीति चतस्त्रः समिध एकैकस्मिन्नाधाय सं त्वमग्ने सूर्यस्य वर्चसागथा इत्यनुवाकशेषेणोपस्थाय वयं सोम व्रते तव मनस्तनूषु बिभ्रतः प्रजावन्तो अशीमहीति मुखं विमृष्टे॥१२॥
06.17
संपश्यामि प्रजा अहमिति गृहान्प्रेक्षते॥१॥
अम्भः स्थाम्भो वो भक्षीयेति गोष्ठमुपतिष्ठते॥२॥
रेवती रमध्वमित्यन्तराग्नी तिष्ठञ्जपति॥३॥
संहितासि विश्वरूपीरिति वत्समभिमृशति॥४॥
ApSs Translation : THITE 261
संहितासि विश्वरूपेति वत्साम्॥५॥
भुवनमसि सहस्रपोषं पुषेति वा वत्सम्॥६॥
उप त्वाग्ने दिवेदिव इति तिसृभिर्गायत्रीभिर्गार्हपत्यमुपतिष्ठते ऽग्ने त्वं नो अन्तम इति चतसृभिश्च द्विपदाभिः॥७॥
स नो बोधि श्रुधी हवमुरुष्या णो अघायतः समस्मादित्येषा चतुर्थी भवति॥८॥
ऊर्जा वः पश्याम्यूर्जा मा पश्यतेति गृहान्प्रेक्षते पशून्वा॥९॥
महि त्रीणामवो ऽस्तु धुक्षं मित्रस्यार्यम्णः। दुराधर्षं वरुणस्य॥ नहि तेषाममा चन नाध्वस वारणेष्वा। ईशे रिपुरघशंसः॥ ते हि पुत्रासो अदिते छर्दिर्यच्छन्त्यजस्रम्। वि दाशुषे वार्याणीति प्राजापत्येन तृचेनोपतिष्ठते॥१०॥
[VI.18 262 ApSs Translation : THITE यं कामयेत स्वस्ति पुनरागच्छेदिति तमेताभिरन्वीक्षेत। स्वर गच्छतीत्ययज्ञसंयुक्तः कल्पः॥११।
मा नः शंसो अररुषो धूर्तिः प्रणङ्मय॑स्य। रक्षा णो ब्रह्मणस्पते॥ रेवान्यो अमीवता वसुवित्पुष्टिवर्धनः। स नः सिषक्तु यस्तुरः॥ परि ते दडभो रथो ऽस्माँ अश्नोतु विश्वतः। येन रक्षसि दाशुषः॥१२॥
06.18
तत्सवितुर्वरेण्यं सोमानं स्वरणं मित्रस्य चर्षणीधृतः प्र स मित्र कदा चन स्तरीरसि कदा चन प्रयुच्छसि परि त्वाग्ने पुरं वयमित्युपस्थाय॥१॥ निमृदो ऽसि न्यहं तं मृद्यासं यो ऽस्मान्द्वेष्टि यं च वयं द्विष्म इति दक्षिणस्य पदः पाया निमृद्रीयाद्यदि पापीयसा स्पर्धेत। प्रभूरसि प्राहं तमभिभूयासं योऽस्मान्द्वेष्टि यं च वयं द्विष्म इति दक्षिणतः पदो निगृह्णीयाद्यदि सदृशेन। अभिभूरस्यभ्यहं तं भूयासं योऽस्मान्द्वेष्टि यं च वयं द्विष्म इति प्रपदेन यदि श्रेयसा॥२॥
पूषा मा पशुपाः पातु पूषा मा पथिपाः पातु पूषा माधिपाः पातु पूषा माधिपतिः पात्विति लोकानुपस्थाय प्राची दिगग्निर्देवताग्निं स ऋच्छतु यो मैतस्यै दिशोऽभिदासति। दक्षिणा दिगिन्द्रो देवतेन्द्रं स ऋच्छतु यो मैतस्यै दिशो ऽभिदासति। प्रतीची दिक् सोमो देवता सोमं च ऋच्छतु यो मैतस्ये दिशो ऽभिदासति। उदीची दिमित्रावरुणौ देवता मित्रावरुणौ स ऋच्छतु यो मैतस्यै दिशो ऽभिदासति। ऊर्ध्वा दिग्बृहस्पतिर्देवता बृहस्पतिं स ऋच्छतु यो मैतस्यै दिशो ऽभिदासति। इयं दिगदितिर्देवतादितिं स ऋच्छतु यो मैतस्यै दिशो ऽभिदासतीति यथालिङ्गं दिश उपस्थाय॥३॥
06.19
अग्नीनुपसमाधाय धर्मो मा धर्मणः पातु विधर्मो मा विधर्मणः पात्वायुश्च प्रयुश्च चक्षुश्च विचक्षुश्च प्राचावाचोरुग उरुगस्य ते वाचा वयं सं भक्तेन गमेमहीत्युपस्थायाग्न आयूंषि पवस इत्याग्निपावमानीभ्यां गार्हपत्यमुपतिष्ठते॥१॥
264
अग्ने गृहपत इति च। पुत्रस्य नाम गृह्णाति तामाशिषमाशा इत्यजातस्य। अमुष्मा इति जातस्य॥२॥
Apss IV.16.3.
यत्किंचाग्निहोत्री कामयेत तदग्नीन्याचेत। उपनं तन्नमतीति विज्ञायते॥३॥
उपस्थेयो ऽग्नीनॊपस्थेया३ इत्युक्तम्॥४॥
नक्तमुपतिष्ठते न प्रातः॥५॥
न प्रातरग्निमुप चनावरोहेन्न प्रातराहिताग्निश्चन मन्यतेति वाजसनेयकम् ॥६॥
265
भर्भुवः सुवः सुप्रजाः प्रजया भूयासं सुवीरो वीरैः सुवर्चा वर्चसा पोषः पोषैरित्येवोपतिष्ठेतेति वाजसनेयकम्। भर्तुं वः शकेयं श्रद्धा मे मा व्यागादिति वा॥७॥
वात्सप्रेणैव सायंप्रातरुपतिष्ठेतेत्येके॥८॥
गोषूक्तेनाश्वसूक्तेन वा॥९॥
06.20
प्रातरवनेकेन प्रातरुपस्थेयः॥१॥
अधिश्रित उन्नीयमाने वा ममाग्ने व! विहवेष्वस्त्विति चतस्त्रो जपित्वापां पत यो ऽपां भागः स त एष प्रतिषिक्ता अरातयः प्रतिषिक्ता अरातयः माताषक्ता अरातय इति त्रिभूमौ प्रतिषिच्य कालाय वां जैत्रियाय वामौद्धेत्रियाय वामन्नाधाय वामवनेनिजे सुकृताय वाम्। इदमहं दुरद्मन्यां निष्लावयामि मातृव्याणां सपत्नानामहं भूयासमुत्तमः। अपां मैत्रादिवोदकमिति हस्तौ प्रक्षाल्य जय धातर्मयि धेहि श्रियो माधिपतिं करु। विशामीशानो मघवेन्द्रो मा यशसा । 266 नयदिति जपित्वाथर्वजुष्टा देवजूता वीडु छपथजम्भनीः। आप प्राणिजन्नस्मत्सु शपथाँ अधीत्याचम्येन्द्रियावतीमद्याहं वाचममा प्राणोऽच्छिन्नो ऽदब्धो गोपाः। अजस्रं दैव्यं ज्योतिः सौपर्णं चल कौँ देवश्रुतौ केशा बर्हिः शिखा प्रस्तरो यथास्थानं कल्पयध्वं . मा मा हासिष्टेति यथालिङ्गमङ्गानि संमृश्य॥२॥
VI.21
व!ऽसि वर्षों मयि धेह्यायुकृदायुः पत्नीस्वधा वो गोज्यो मे स्थ गोपायत मा रक्षत मात्मसदो मे स्था मा नः कश्चित्प्रघान्मा प्रमेष्माप भूर्भुवः सुवरायुर्मे यच्छतेति सर्वानुपस्थायोत्तरेणानुवाकेनाहवनीयं घर्मा जठरान्नादं मामद्यास्मिञ्जने कुरुतमन्नादोऽहमस्मिञ्चने भूयासमनन्नादः स योऽस्मान् द्वेष्टि कवी मातरिश्वाना पशुमन्तं मामद्यास्मिञ्जने कुरुतं पशुमानद्यास्मिञ्जने भूयासमपशुः स यो ऽस्मान्द्वेष्टि। यमाङ्गिरसा यशस्विनं मामद्यास्मिञ्जने कुरुतं यशस्ब्यहमद्या स्मिञ्जने भूयासमयशाः स यो ऽस्मान्द्वेष्टि॥ अग्ने यो नो अन्ति शपति यश्च दूरे समानो अग्ने अरणो दुरस्युः। वैश्वानरेण सयुजा सजोषास्तं प्रत्यञ्चं संदह जातवेदः॥ अग्ने यत्ते ऽर्चिस्तेन तं प्रत्यर्च यो ऽस्मान्द्वेष्टि यं च वयं द्विष्मा ऽग्ने यत्ते तपस्तेन तं प्रति तप योऽस्मान् द्वेष्टि यं च वयं द्विष्मोऽग्ने यत्ते VI.22, 23] ĀpsS Translation : THITE 267 शोचिस्तेन तं प्रतिशोच यो ऽस्माद्वेष्टि यं च वयं द्विष्मो ऽग्ने यत्ते हरस्तेन प्रतिहर यो ऽस्मान्द्वेष्टि यं च वयं द्विष्मो ऽग्ने यत्ते तेजस्तेन तं प्रतितितिम्धि यो ऽस्मान्द्वेष्टि यं च वयं द्विष्मः॥१॥
06.22-23
अग्ने रुचां पते नमस्ते रुचे रुचं मयि धेहि। अर्वाग्वसो स्वस्ति ते पारमशीयार्वाग्वसो स्वस्ति ते पारमशीयार्वाग्वसो स्वस्ति ते पारमशीय। तन्तुरसि ततो मा च्छित्था असौ स्वस्ति ते ऽस्त्वसौ स्वस्ति ते ऽस्त्वसौ स्वस्ति ते ऽस्त्विति पुत्राणां नामानि गृह्णाति त्रिस्त्रिरेकैकस्य। स्वस्ति वो ऽस्तु ये मामनुस्थ षण्मोरिंहसस्पान्तु द्यौश्च पृथिवी चापश्चौषधयश्चोच सूनृता च। यथा ह त्यद्वसवो गौर्यं चित्पदि पिताममुञ्चता यजत्राः। एवो ष्वस्मन्मुञ्चता व्यंहः प्र तार्यग्ने प्रतरं न आयुः॥ वयं सुपर्णा उप सेदुरिन्द्रं प्रियमेधा ऋषयो नाधमानाः। अपध्वान्तमूर्गुहि पूर्धि चक्षुर्मुमुग्ध्यस्मान्निधयेव बद्धान्॥ अग्न आयूंषि पवसे दधिक्रावणो अकारिषमिति द्वे ममाग्ने वर्ची विहवेष्वस्त्विति चतस्त्रो ऽग्नीषोमाविमं सु म इत्येषा। तत्सवितुर्वृणीमहे वयं देवस्य भोजनम्। श्रेष्ठं सर्वधातमं तुरं भगस्य धीमहि॥ अस्य हि स्वयशस्तरं सवितुः कच्चन प्रियम्। न मिनन्ति स्वराज्यम्॥१॥ __ अद्या नो देव सवितः प्रजावत्सावीः सौभगं। परा दुःष्वप्नियं सुव॥ विश्वानि देव सवितर्दुरितानि परा सुव। यद्भद्रं तन्म आ सुव॥ अनागसो अदितये वयं देवस्य सवितुः सवे। विश्वा वामानि धीमहि॥ स हि रत्नानि दाशुषे सुवाति सविता भगः। तं चित्रं भागमीमहे॥ वाममद्य सवितर्वाममु श्वो दिवेदिवे वाममस्मभ्यं सावीः सौभगम्। वामस्य हि क्षयस्य देव भूरेरया धिया वामभाजः स्याम॥ दीक्षा तपो मनसो मातरिश्वा बृहस्पतिर्वाचो अस्याः स योनिः। वेदांसि विद्या मयि सन्तु चारवो ऽग्नीषोमा यशो अस्मास धत्तम्॥ अग्निर्येन विराजति सोमो येन विराजति सूर्यो येन विराजति विराड् येन 268 विराजति तेनाहं विश्वतस्परि विराज्यासमिहैकवृदित्युपस्थायाग्नेस्तृणान्य पचिनोति। तेजस्वी ब्रह्मवर्चसी भवतीति विज्ञायते॥१॥
VI.24
प्रवत्स्यसंप्रेष्यत्यग्नीन्समाधेहीति॥१॥
ज्वलत उपतिष्ठते॥२॥ पशूनः शंस्य पाहि तान्नो गोपायास्माकं पुनरागमादित्याहवनीयम्॥ प्रजां नो नर्य पाहि तां नो गोपायास्माकं पुनरागमादिति गार्हपत्यम्। अन्नं नो बुध्य पाहि तन्नो गोपायास्माकं पुनरागमादित्यन्वाहार्यपचनम्॥३॥
अन्तराग्नी तिष्ठञ्जपतीमान्नो मित्रावरुणा गृहान्गोपायतं युवम्। अविनष्टा नविहृतान्पूपैनानभिरक्षत्वास्माकं पुनरागमादिति॥४॥
269
पूर्ववद्विराक्रमैरुपस्थायाशित्वा प्रवसथमेष्यन्नाहाग्नीन्समाधेहीति॥५॥
ज्वलत उपतिष्ठते प्रजां मे नर्य पाहि तां मे गोपायास्माकं पुनरागमादि ति गार्हपत्यम्। अन्नं मे बुध्य पाहि तन्मे गोपायास्माकं पुनरागमादित्यन्वाहर्यप चनम्। पशून्मे शंस्य पाहि तान्मे गोपायास्माकं पुनरागमादित्याहवनीयम्॥६॥ मम नाम प्रथमं जातवेद इति च॥७॥
वाग्यतो ऽभिप्रव्रजति मा प्रगाम पथो वयं मा यज्ञादिन्द्र सोमिनः। मान्तःस्थुर्नो अरातयः। उदस्माँ उत्तरान्नयाग्ने घृतेनाहुत। रायस्पोषेण संसृज प्रजया च बहून्कृधीति॥८॥
आरादग्निभ्यो वाचं विसृजते॥९॥
06.25
प्रवसन्काले विहारमभिमुखो ऽग्न्युपस्थानं जपति॥१॥
इहैव सन्तत्र सतो वो अग्नयः प्राणेन वाचा मनसा बिभर्मि। तिरो मा सन्तमायुर्मा प्रहासीज्ज्योतिषा वो वैश्वानरेणोपतिष्ठ इति यद्यनुपस्थाय प्रवसेदे तयैवोपतिष्ठेत॥२॥
समिधः कृत्वा प्रत्येति॥३॥ यथा ह वा इतं पितरं प्रोषिवांसं पुत्राः प्रत्याधावन्त्येवं ह वा एतमग्नयः प्रत्याधावन्ति। स शकलान्दारूणि वाहरन्नेति यथैव तत्पुत्रेभ्य आहरन्नेति तादृक्तदिति विज्ञायते॥४॥
आरादग्निभ्यो वाचं यच्छति॥५॥
यद्येनं राजा पिताचार्यो वान्तरेणाग्नीन्स्याच्छदिर्दशैं नैनमाद्रियेत॥६॥
विश्वदानीमाभरन्तो ऽनातुरेण मनसा। अग्ने मा ते प्रतिवेशा रिषाम।। नमस्ते अस्तु मीढुषे नमस्त उपसद्वने। अग्ने शुम्भस्व तन्वः सं मा रय्या सृजेत्यभ्यैति॥७॥
अग्नीन्समाधेहीति॥८॥
ज्वलत उपतिष्ठते॥९॥ पशून्नः शंस्याजूगुपस्तान्नः पुनर्देहीत्याहवनीयमभिप्राण्याग्ने सहस्राक्ष शतमूर्धञ्छतं ते प्राणाः सहस्रमपानाः। त्वं साहस्रस्य राय ईशिषे सहस्रधारस्य पयसः। तस्य नो रास्व ते भक्षीय तस्य ते वयं भूयिष्ठभाजो भूयास्मेत्याहवनीयम्॥१०॥
06.26
प्रजां नो नर्याजूगुपस्तां नः पुनर्देहीति गार्हपत्यमभिप्राण्याग्ने गृहपते सुगृह पतिरहं त्वया गृहपतिना भूयासं सुगृहपतिर्मया त्वं गृहपतिना भूयाः। शतं हिमा द्वा यू राधांसीत्संपृञ्चानावसंपृञ्चानौ तन्व इति गार्हपत्यम्॥१॥
अन्नं नो बुध्न्याजूगुपस्तन्नः पुनर्देहीत्यन्वाहार्यपचनमभिप्राण्यान्तराग्नी तिष्ठञ्जपति यथा प्रवत्स्यदुपस्थाने॥२॥
अजूगुपतमभ्यराक्षीदिति मन्त्रं संनमति॥३॥
मम नाम तव च जातवेद इति चतसृभिराहवनीयम्॥४॥
प्रजां मे नर्याजूगुपस्तां मे पुनर्देहीति गार्हपत्यमभ्यपान्यान्नं मे बुध्याजूगुपस्तन्मे पुनर्देहीत्याहवनीयमभ्यापान्य पूर्वद्विराट्क्रमैरुपतिष्ठते। अजूगुप इति मन्त्रं संनमति॥५॥
अग्न्युपस्थानवदत्र समिधो दिशां चोपस्थानम्॥६॥
नवी चेदतिप्रवसेन्मित्रो जनान्यातयति प्रजानन्निति मैत्र्योपस्थाय मना ज्योतिर्जुषतामित्याहुतिं जुहुयात्॥७॥
समिध आहुतिमुपस्थानमित्येवमनुपूर्वाण्येके समामनन्ति॥८॥
V1.27
तदाहुर्नाग्निरुपस्थेयः कः श्रेयांसं विषुप्तं बोधयिष्यतीति। अभयंकराभयं मे कुरु स्वस्ति मे ऽस्त्वभयं मे अस्त्वित्येव ब्रूयात्। प्रवत्स्यदुपस्थानमागतोपस्थानं चाधिकृत्य वाजसनेयिनः समामनन्ति॥१॥
नमो वो ऽस्तु प्रवत्स्यामि नमो वो ऽस्तु प्रावात्स्यमिति बढ्चाः ॥२॥
274
गृहा मा बिभीत मा वेपिढ्वमूर्जं बिभ्रत एमसि। ऊर्जं बिभ्रद्वसुवनिः सुमेधा गृहानैमि मनसा मोदमानः॥ येषामध्येति प्रवसन्येषु सौमनसो बहुः। गृहानुपह्वयामहे ते नो जानन्तु जानतः॥ उपहूता भूरिधनाः सखायः स्वादुसंमुदः। अरिष्टाः सर्वपूरुषा गृहा नः सन्तु सर्वदा॥ उपहूता इह गाव उपहूता अजावयः। अथो अन्नस्य कीलाल उपहूतो गृहेषु न इति गृहानभ्येति॥३॥
क्षेमाय वः शान्त्यै प्रपद्ये शिवं शग्मं शंयोः शंयोरिति प्रविशति॥४॥
ऊर्ज बिभ्रद्वः सुमनाः सुमेधा गृहानागां मनसा मोदमानः। इरां वहन्तो घृतमुक्षमाणास्तेष्वहं सुमनाः संविशामीति प्रविश्य जपति। संविशन्वा॥५॥
.
06.28
सगृहः प्रयास्यन्वास्तोष्पतीयं जुहोति॥१॥
अहुते यानेषु भण्डान्यारोपयन्ति॥२॥
275 275
न हीनमन्वाहरेयुः॥३॥
यद्यनोवाह्यं स्यात्पूर्वं तं प्रवहेयुरप वोद्धरेयुः।।४॥
यत्र संहिता रात्रीर्वसेत्पञ्च सप्त नव दश वा तत्प्रयास्यञ्जुहुयात्॥५॥
नवरात्रवास्तौ वा पुनरेत्यैकामुषित्वा प्रयास्यञ्जुहुयात्॥६॥
दक्षिणो युक्तो भवति सव्यो ऽयुक्तः। अपि वाग्निष्ठस्य दक्षिणो युक्तः सव्यस्य योक्त्रं परिहृतम्॥ सर्वेषु वा युक्तेषु॥७॥
वास्तोष्पत इत्यनुद्रुत्योत्तरया गार्हपत्ये हुत्वावक्षाणानि संप्रक्षाप्य पृथगर णीष्वग्नीन्समारोपयते ये धार्यन्ते॥८॥
उपर्यग्नावरणी धारयञ्जपत्ययं ते योनिर्ऋत्विय इति॥९॥
अपि वा यजमान एवात्मन्समारोपयते॥१०॥ या ते अग्ने यज्ञिया तनूस्तयेह्यारोहात्मात्मानमच्छा वसूनि कृणवन्नस्मे नर्या पुरूणि। यज्ञो भूत्वा यज्ञमासीद स्वां योनिं जातवेदो भुव आजायमानः स क्षय एहीति हस्तं प्रताप्य मुखायाहरते॥११॥
वास उपावरोह जातवेदः पुनस्त्वं देवेभ्यो हव्यं वह नः प्रजानन्। आयुः प्रजां रयिमस्मासु धेह्यजत्रो दीदिहि नो दुरोण इति लौकिके ऽग्नावुपावरो हयति॥१२॥
अरण्योर्वोपावरोह्य मन्थेत्॥१३॥
यदरण्योः समारूढः स्यान्निर्वतमान एतं मन्त्रं जपेत्॥१४॥
277 ApSs Translation : THITE VI.29]
06.29
इदं श्रेयो ऽवसानं यदागां स्योने मे द्यावापृथिवी अभूताम्। अनमीवाः प्रदिशः सन्तु मह्यम्। गोमद्धनवदश्ववत्पुरुषवद्धिरण्यवत्सुवीरवत्स्वाहेत्यवसिते जुहोति॥१॥