04 PUNARĀDHĀNAM

PUNARĀDHĀNA (RE-ESTABLISHMENT OF FIRES)

05.26

पुनराधेयं व्याख्यास्यामः॥१॥

तस्याग्न्याधेयवत्कल्पः॥२॥

220 [V.26 220 ApSs Translation : THITE

अग्नीनाधायैतस्मिन्संवत्सरे यो नर्गुयात्स पुनरादधीत प्रजाकामः पण पष्टिकामो ज्यान्यां पुत्रमायां स्वेष्वारुध्यमानेषु यदा वाड़ेन विधरतां नीया

आग्नेयमष्टाकपालं निर्वपेद्वैश्वानरं द्वादशकपालं वारुणं दशकपालमग्नये ऽप्सुमते ऽष्टाकपालं मैत्रं चरुमग्निमुद्वासयिष्यन्॥४॥

या ते अग्न उत्सीदतः पवमाना प्रिया तनूः। तया सह पृथिवीमाविश रथंतरेण साम्ना गायत्रेण च छन्दसा॥ या ते अग्ने पावका या मनसा प्रेयसी प्रिया तनूः। तया सहान्तरिक्षमाविश वामदेव्येन साम्ना त्रैष्टुभेन च छन्दसा। ततो न ऊर्जमा कृधि गृहमेधं च वर्धय॥ या ते अग्ने सूर्ये शुचिः प्रिया तनूः शुक्रेऽध्यधि संभृता। तया सह दिवमाविश बृहता साम्ना जागतेन च छन्दसा ततो नो वृष्ट्यावत॥ यास्ते अग्ने कामदुघा विभक्तिरनुसंभृताः॥ ताभिर्नः कामान्धुक्ष्वेह प्रजां पुष्टिमथो धनम्॥ यास्ते अग्ने संभृतीरिन्द्रः सूकर आभरत्। तासु शोचिषु सीदेह भस्म वैश्वानरस्य यत्॥५॥

ApSs Translation : THITE V.271

05.27

ये ते अग्ने वानस्पत्याः संभारा संभृताः सह। तेभिर्गच्छ वनस्पतीन्स्वां योनिं यथायथम्॥ अगन्नग्निर्यथालोकमसदत्सदने स्वे। अवीरहत्यं देवेषूपागां मनसा सहेति पुरस्तात्स्विष्टकृतः सप्ताहुतीर्जुहोति॥१॥

सिद्धमिष्टिः संतिष्ठते॥२॥

पौर्णमासीमिष्ट्वा ज्वलतो ऽग्नीनुत्सृजति॥३॥

संवत्सरं पराय॑मृत्सृष्टाग्निर्भवति॥४॥

रोहिणी पुनर्वसू अनुराधा इति नक्षत्राणि॥५॥

वर्षासु शरदि वादधीत॥६॥

कृताकृताः संभारा यजूंषि च भवन्ति॥७॥

222

अपि वा पञ्च पार्थिवान्संभारानाहरति एवं वानस्पत्यानमा

आयतनेषु पुराणान्दर्भान्संस्तीर्य भूमिभूम्नेति सर्पराज्ञीभिर्गाईपाय दधाति॥९॥

मध्यंदिन इतरान्॥१०॥

उपोलवैर्दभैः परुत्कैः संवत्सरप्रवातैराहवनीयं ज्वलन्तमुद्धरति॥११॥

यत्त्वा क्रुद्धः परोवपेति दक्षिणाग्निम्। यत्ते मन्युपरोप्तस्येतीतरान्॥१२॥

मनो ज्योतिर्जुषतामिति बृहस्पतिवत्य!पतिष्ठते॥१३॥

सप्त ते अग्ने समिधः सप्त जिह्वा इत्यग्निहोत्रं जुहोति॥१४॥

223

05.28

आग्नेयं पञ्चकपालं निर्वपत्यष्टाकपालं वा॥१॥

यदि पञ्चकपालो गायत्र्यौ। यद्यष्टाकपालः पङ्क्त्यौ ॥२॥

सर्वमाग्नेयं भवति॥३॥

पञ्चदश सप्तदश वा सामिधेन्यः॥४॥

सामिधेनीप्रभृत्युपांशु यजत्योत्तमादनूयाजादुच्चैः स्विष्टकृतम्॥५॥

अग्नाग्ने ऽग्नावग्ने ऽग्निनाग्ने ऽग्निमग्न इति चतुर्पु प्रयाजेषु चतस्त्रो विभक् तीर्दधाति॥६॥

224

नोत्तमे॥७॥

विभक्तिमुक्त्वा प्रयाजेन वषट्करोति॥८॥

यं कामयेतर्नयादिति तस्योपरिष्टाद्येयजामहाद्विभक्तिं दध्यात्परा वा वषट्करात्॥९॥

अग्निं स्तोमेन बोधयेत्याग्नेयस्याज्यभागस्य पुरोऽनुवाक्या भवति। अग्न आयूंषि पवस इति सौम्यस्य॥१०॥

अग्निर्मूर्धेति वा सौम्यस्य कुर्यात्॥११॥ प्रजाकामपशुकामस्य प्रजाव्यद्धपशुव्यूद्धस्य वा॥१२॥

अग्निन्यक्ताः पत्नीसंयाजानामृचो भवन्ति॥१३॥

225 अपि वा यथापूर्वमाग्यभागावेवं पत्नीसंयाजाः॥१४॥

अग्ने तमद्याश्वमित्यक्षरपक्त्यो याज्यानुवाक्या भवन्ति। द्वे आग्नेयस्य द्वे स्विष्टकृतः॥१५॥

पुनरूर्जा सह रय्येत्यभितः पुरोडाशमाहुतीर्जुहोति॥१६॥

पुनरूर्जेति वा पुरस्तात्प्रयाजानां सह रय्येत्युपरिष्टादनूयाजानाम्॥१७॥

एतद्वा विपरीतम्॥१८॥

उभयोर्दक्षिणा ददाति॥१९॥

226

05.29

आग्न्याधेयिकीः पौनराधेयिकीश्च पुनर्निष्कृतो रथ इत्येताः शतमा हिरण्यम्॥१॥

तस्माद्रजतं हिरण्यमित्युक्तम्॥२॥

पुनरभिहितो रथः पुनरुत्स्यूतं स्यामूलं पुनःकामस्याप्त्या इत्येकेषाम्॥३॥

यदीतराणि न विद्येरन्नप्यनड्वाहमेव दद्यात्। अनडुहि ह वा एते च कामा अतश्च भूयांस इति पैङ्गायनिब्राह्मणं भवति॥४॥

देव अग्नौ देवो अग्निरिति द्वयोरनूयाजयोर्विभक्ती दधाति॥५॥

227 TAG 11 6. नोत्तमे ॥६॥

उच्चैरत्तमं संप्रेष्यति॥७॥

सिद्धमिष्टिः संतिष्ठते॥८॥

आग्निवारुणमेकादशकपालमनुनिर्वपति सर्वेषामनुनिष्प्याणां स्थाने द्विदेवत्यानां वा॥९॥

सिद्धमिष्टिः संतिष्ठते। संतिष्ठते पुनराधेयम्॥१०॥

यस्तृतीयमादधीत स एतान्होमा हुयाल्लेकः सलेकः सुलेक इति॥११॥

228

यदरण्योः समारूढो नश्येत्॥१२॥ यस्य वोभावनुगतावभिनिनोचेदभ्युदियाद्वा पुनराधेयं तस्य प्रायशिकि ॥१३॥

पुनराधेयमित्याश्मरथ्योऽग्त्याधेयमित्यालेखन आलेखनः॥१४॥