03 Agnyādheyaḥ

(AGNYĀDHEYA) ESTABLISHMENT OF THE FIRES

05.01

अग्न्याधेयं व्याख्यास्यामः॥१॥

V.1] ĀPŚS Translation : THITE 171


यो अश्वत्थः शमीगर्भ आरुरोह त्वे सचा। तं ते हरामि ब्रह्मणा यज्ञियैः केतुभिः सहेति शमीगर्भस्याश्वत्थस्यारणी आहरति॥२॥

अप्यशमीगर्भस्येति वाजसनेयकम्॥३॥

अश्वत्थाद्धव्यवाहाद्धि जातामग्नेस्तनूं यज्ञियां संभरामि। शान्तयोनि शमीगर्भमग्नये प्रजनयितवे। आयुर्मयि धेह्यायुर्यजमान इत्यरणी अभिमन्त्र्य सप्त पार्थिवान्संभारानाहरति। एवं वानस्पत्यान्। पञ्चपञ्च वा॥४॥

भूयसो वा पार्थिवान्॥५॥

न संभारान्संभरेदिति वाजसनेयकम्॥६॥

वैश्वानरस्य रूपं पृथिव्यां परित्रसा। स्योनमाविशन्तु न इति सिकताः॥ यदिदं दिवो यददः पृथिव्याः संजज्ञाने रोदसी संभूवतुः। ऊषान्कृष्णमवतु कृष्णमूषा इहोभयोर्यज्ञियमागमिष्ठा इत्यूषान्। उतीः कुर्वाणो यत्पृथिवीमचरो गूहाकारमाखुरूपं प्रतीत्य। तत्ते न्यक्तमिह संभरन्तः शतं जीवेम शरदः सुवीरा इत्याखुकरीषम्॥ ऊर्जं पृथिव्या रसमाभरन्तः शतं जीवेम शरदः पुरूचीः। 172 वनीभिरनुवित्तं गुहासु श्रोत्रं त उर्व्यबधिरी भवाम इति वल्मीकवण प्रजापतिसृष्टानां प्रजानां क्षुधोऽपहत्यै सुवितं नो अस्तु। उपप्रभिन्नमिष प्रजाभ्यः सूदं गृहेभ्यो रसमाभरामीति सूदम्॥ यस्य रूपं बिभ्रदिमामविन्ददगार प्रविष्टा सरिरस्य मध्ये। तस्येदं विहतमाभरन्तो ऽच्छम्बट्कारमस्यां विधेमेति वराहविहतम्॥७॥

05.02

याभिरदूंहज्जगतः प्रतिष्ठामुर्वीमिमां विश्वजनस्य भीम्। ता नः शिवाः . शर्कराः सन्तु सर्वा इति शर्कराः॥ अग्ने रेतश्चन्द्रं हिरण्यमद्भ्यः संभूतममृतं प्रजासु। तत्संभरन्नुत्तरतो निधायातिप्रयच्छन्दुरितिं तरेयमिति हिरण्यम्॥१॥ _

इति पार्थिवाः॥२॥ .

यदि पञ्चौदुम्बराणि लोहशकलानि पञ्चमो भवति॥३॥

अश्वो रूपं कृत्वा यदश्वत्थे ऽतिष्ठः संवत्सरं देवेभ्यो निलाया तत्ते न्यक्त मिह संभरन्तः शतं जीवेम शरदः सुवीरा इत्यश्वत्थम्॥ ऊर्जः पृथिव्या अध्युत्थि तोऽसि वनस्पते शतवल्शो विरोह। त्वया वयमिषमूर्ज मदन्तो रायस्पोषेण समिषा मदेमेत्युदुम्बरम्॥ गायत्रिया ह्रियमाणस्य यत्ते पर्णमपतत्तृतीयस्यै दिवोऽधि। सोऽयं पर्णः सोमपर्णाद्धि जातस्ततो वदतां यदुपाशृणोः सुश्रवा वै श्रुतो ऽसि। ततो मामाविशतु ब्रह्मवर्चसं तत्संभरंस्तदवरुन्धीय साक्षादित्येताभ्यां पर्णम्॥ यया 173 ते सृष्टस्याग्नेहेंतिमशमयत्प्रजापतिः। तामिमामप्रदाहाय शमी शान्त्यै हराम्यहमिति शमीम्॥ यत्ते सृष्टस्य यतो विकङ्कतं भा आर्छज्जातवेदः। तया भासा संमित उरूं नो लोकमनुप्रभाहीति विककृतम्॥ यत्ते तान्तस्य हृदयमाच्छिन्दज्जातवेदो मरुतो अद्भिस्तमयित्वा। एतत्ते तदशनेः संभरामि सात्मा अग्ने सहृदयो भवेहेत्यशनिहतस्य वृक्षस्य॥ यत्पर्यपश्यत्सरिरस्य मध्य उर्वीमपश्यज्जगतः प्रतिष्ठाम्। तत्पुष्करस्यायतनाद्धि जातं पर्णं पृथिव्याः प्रथनं हरामीति पुष्करपर्णम्॥ इति वानस्पत्याः॥४॥

05.03

यं त्वा समभरं जातवेदो यथा शरीरं भूतेषु न्यक्तम। स संभृतः सीद शिवः प्रजाभ्य उरुं नो लोकमनुनेषि विद्वानिति संभृत्य निदधाति॥१॥ · अथ नक्षत्राणि॥२॥

कृत्तिकासु ब्राह्मण आदधीत मुख्यो ब्रह्मवर्चसी भवति॥३॥

174 ApSs Translation : THITE

जाना जाता [V.3 गृहांस्तस्याग्निर्दाहुको भवति॥४॥

रोहिण्यामाधाय सर्वानोहारोहति॥५॥

मृगशीर्षे ब्रह्मवर्चसकामो यज्ञकामो वा।६॥

यः पुरा भद्रः सन्यापीयान्स्यात्पुनर्वस्वोः॥७॥

पूर्वयोः फल्गुन्योर्यः कामयेत दानकामा मे प्रजा स्युरिति॥८॥

उत्तरयोर्यः कामयेत भग्यन्नादः स्यामिति॥९॥

एतदेवैके विपरीतम्॥१०॥ । अथापरम्। पूर्वयोराधाय पापीयान्भवत्युत्तरयोर्वसीयान्॥११॥


हस्ते यः कामयेत प्र मे दीयेतेति॥१२॥

175

हा चित्रायां राजन्यो भ्रातृव्यवान्वा॥१३॥

विशाखयोः प्रजाकामोऽनुराधेष्वृद्धिकामः श्रवणे पुष्टिकाम उत्तरेषु प्रोष्ठपदेषु प्रतिष्ठाकामः॥१४॥ १४॥

सर्वाणि नित्यवदेके समामनन्ति॥१५॥ .

फल्गुनीपूर्णमास आदधीतेत्युक्त्वाह यत्फल्गुनीपूर्णमास आदध्यात्संवत्स रस्यैनमासन्दध्याद्व्यहे पुरैकाहे वा॥१६॥

अमावास्यायां पौर्णमास्यां वाधेयः॥१७॥ी

वसन्तो ब्राह्मणस्य ग्रीष्मो राजन्यस्य हेमन्तो वा शरद्वैश्यस्य वर्षा रथका रस्य॥१८॥

ये त्रयाणां वर्णानामेतत्कर्म कुर्युस्तेषामेष कालः॥१९॥ ____

शिशिरः सार्ववर्णिकः॥२०॥

सोमेन यक्ष्यमाणो नर्तुं सूइँन नक्षत्रम्॥२१॥

उदवसाय शालीन आदधीतानुदवसाय यायावरः॥२२॥ .

एकाहं वा प्रयायात्॥२३॥

05.04

उद्धन्यमानमस्या अमेध्यमप पाप्मानं यजमानस्य हन्तु। शिवा नः सन्तु प्रदिशश्चतस्त्रः शं नो माता पृथिवी तोकसातेति प्राचीनप्रवणं देवयजनमुद्धत्य शं नो देवीरभिष्टय आपो भवन्तु पीतये। शंयोरभिस्रवन्तु न इत्यद्भिरवोक्ष्य तस्मिन्नुदीचीनवंशं शरणं करोति॥१॥

तस्याग्रेण मध्यमं वंशं गार्हपत्यायतनं भवति॥२॥

तस्मात्प्राचीनमष्टासु प्रक्रमेषु ब्राह्मणस्याहवनीयायतनम्। एकादशसु राजन्यस्य। द्वादशसु वैश्यस्य॥३॥

चतुर्विंशत्यामपरिमिते यावता वा चक्षुषा मन्यते तस्मान्नातिदूरमाधेय इति सर्वेषामविशेषेण श्रूयते॥४॥

दक्षिणतः पुरस्ताद्वितृतीयदेशे गार्हपत्यस्य नेदीयसि दक्षिणाग्नेरायतनम्।।५॥

अन्यदाहवनीयागारमन्यद्गार्हपत्यस्य॥६॥

178

अग्रेणावहनीयं सभायां सभ्यः॥७॥

तं पूर्वेणावसथ आवसथ्यः॥८॥

केशश्मश्रु वपते नखानि निकृन्तते स्नाति। एवं पत्नी केशवर्जम्॥९॥

क्षौमे वसानौ जायापती अग्निमादधीयाताम्॥१०॥ ते दक्षिणाकालेऽध्व र्यवे दत्तः॥११॥

अपराह्ने ऽधिवृक्षसूर्ये वौपासनाग्निमाहृत्यापरेण गार्हपत्यायतनं ब्राह्मौद निकमादधाति॥१२॥

औपासनं वा सर्वम्॥१३॥

निर्मथ्य वा॥१४॥

यदि सर्वमौपासनमाहरेदपूपं यवमयं व्रीहिमयं चौदुम्बरपर्णाभ्यां संगृह्यायतन उपास्येद्यवमयं पश्चाबीहिमयं पुरस्तात्तस्मिन्नादध्यात्॥१५॥

सर्वमप्यौपासनमाहरन्नापूपावुपास्येदित्यपरम्॥१६॥ their

05 अपरेण ब्राह्मौदनिकं लोहिते चर्मण्यानडुहे प्राचीनग्रीव उत्तरलोम्नि पाजके वा निशायां ब्रह्मौदनं चतुःशरावं निर्वपति॥१॥

देवस्य त्वेत्यनुद्रुत्य प्राणाय जुष्टं निर्वपामीति प्रथममपानायेति द्वितीयं व्यानायेति तृतीयं ब्रह्मणे जुष्टमिति चतुर्थम्॥२॥

तूष्णीं वा सर्वाणि॥३॥

चतुषूदपात्रेषु पचति॥४॥

[V.5 180 ApSs Translation : THITE

न प्रक्षालयति न प्रस्रावयति॥५॥

क्षीरे भवतीत्येके॥६॥

जीवतण्डुलमिव श्रपयतीति विज्ञायते॥७॥

दा ब्रह्मौदनादुद्धृत्य प्र वेधसे कवये मेध्याय वचो वन्दारु वृषभाय। यतो भयमभयं तन्नो अस्त्वव देवान्यजेहेड्यानिति जुहोत्यभि वा मन्त्रयते॥८॥

चतुर्धा ब्रह्मौदनं व्युद्धृत्य प्रभूतेन सर्पिषोपसिच्य कर्षन्ननुच्छिन्दंश्चतुर्थ्य आर्षेयेभ्य ऋत्विग्भ्य उपोहति॥९॥

अपात्ताः प्रथमे पिण्डा भवन्त्यप्रतिहताः पाणयः। अथ ब्रह्मौदनशेषं संकृष्य तस्मिन्नाग्यशेषमानीय तस्मिंश्चित्रियस्याश्वत्थस्य तिस्रः समिध आर्द्राः सपलाशाः प्रादेशमात्र्यः स्तिभिगवत्यो विवर्तयति॥१०॥

05.06

चित्रियादश्वत्थात्संभृता बृहत्यः शरीरमभिसंस्कृता स्थ। प्रजापतिना यज्ञमुखेन संमितास्तिस्त्रस्त्रिवृद्भिर्मिथुनाः प्रजात्या इति॥१॥

अथादधाति घृतवतीभिराग्नेयाभिर्गायत्रीभिर्ब्राह्मणस्य त्रिष्टुग्भी राजन्यस्य जगतीभिर्वैश्यस्य॥२॥

समिधाग्निं दुवस्यतेत्येषा॥ उप त्वाग्ने हविष्मतीर्घताचीर्यन्तु हर्यत। जुषस्व समिधो मम। तं त्वा समिद्भिरङ्गिरो घृतेन वर्धयामसि। बृहच्छोचा यविष्ठ्येति ब्राह्मणस्य॥ समिध्यमानः प्रथमो नु धर्मः समक्तुभिरज्यते विश्ववारः। शोचिष्केशो घृतनिर्णिक् पावकः सुयज्ञो अग्निर्यजथाय देवान्॥ घृतप्रतीको घृतयोनिरग्निघृतैः समिद्धो घृतमस्यान्नम्। घृतप्रुषस्त्वा सरितो वहन्ति घृतं पिबन्सुयजा यक्षि देवान्॥ आयुर्दा अग्न इति राजभ्यस्य॥ त्वामग्ने समिधानं यविष्ठ देवा दूतं चक्रिरे हव्यवाहम्। उरुज्रयसं घृतयोनिमाहुतं त्वेषं चक्षुर्द धिरे चोदयन्वति॥ त्वामग्ने प्रदिव आहुतं घृतेन सुम्नायवः सुषमिधा समीधिरे। स वावृधान ओषधीभिरुक्षित उरु ज्रयांसि पार्थिवा वितिष्ठसे॥घृतप्रतीकं व 182 ऋतस्य धर्षदमग्निं मित्रं न समिधान ऋञ्जते। इन्धानो अक्रो विली दीद्यच्छक्रवर्गामुद नो यंसते धियमिति वैश्यस्य॥३॥

05.07

समित्सु तिस्रो वत्सतरीददाति॥१॥

प्राश्नन्ति ब्राह्मणा ओदनम्॥२॥

प्राशितवद्भयः समानं वरं ददाति॥३॥

__

यस्मिन्नक्षत्रे ऽग्निमाधास्यस्यात्तस्मिन्संवत्सरे पुरस्तादेताः समिध आदध्याद्वादशाहे व्यहे व्यह एकाहे वा॥४॥

आधेयास्त्वेवाग्निमादधानेन॥५॥

171 ApSS Translation : THITE

अथ व्रतं चरति न मांसमश्नाति न स्त्रियमुपैति नास्याग्निं गृहाद्धरन्ति नान्यत आहरन्ति॥६॥

ब्राह्मौदनिकेन संवत्सरमासीत॥७॥

औपासनश्चेदाहित एतस्मिन्नस्याग्निकर्माणि क्रियन्ते॥८॥

न प्रयायात्॥९॥

नानुगच्छेत्॥१०॥

यदि प्रयायायादनु वा गच्छेद्ब्रह्मौदनं पक्त्वैतयैवावृता समिध आद ध्यात्॥११॥

यद्येनं संवत्सरे ऽग्न्याधेयं नोपनमेब्रह्मौदनं पक्त्वा समिध आधाय यदैनमुपनभदथादधीत॥१२॥

तस्य याथाकामी भरणकल्पानाम्॥१३॥

द्वादशाहं चरेदेकाहं वा॥१४॥

श्व आधास्यमानः पुनर्ब्रह्मौदनं पचति॥१५॥

योऽस्याग्निमाधास्यन्स्यात्स एतां रात्रिं व्रतं चरति न मांसमश्नाति न स्त्रियमुपैति॥१६॥

प्रजा अग्ने संवासयाशाश्च पशुभिः सह। राष्ट्राण्यस्मा आधेहि यान्यासन्सवितुः सव इत्युत्तरेण गार्हपत्यायतनं कल्माषमजं बध्नाति॥१७॥

185

05.08

अथ यजमानो व्रतमुपैति वाचं च यच्छत्यनृतात् सत्यमुपैमि मानुषादैव्यमुपैमि दैवीं वाचं यच्छामीति॥१॥

वीणातूणवेनैनमेतां रात्रि जागरयन्ति॥२॥

अपि वा न जागर्ति न वाचं यच्छति॥३॥

शल्कैरेतां रात्रिमेतमग्निमिन्धान आस्ते शल्कैरग्निमिन्धान उभो लोको सनेमहम्। उभयोर्लोकयोक्रंद्ध्वाति मृत्युं तराम्यहमित्येतया।॥४॥

तस्मिन्नुपव्युषमरणी निष्टपति जातवेदो भुवनस्य रेत इह सिञ्च तपसो यज्जनिष्यते। अग्निमश्वत्थादधि हव्यवाहं शमीगर्भाज्जनयन्यो मयोभूः॥ अयं ते योनिर्ऋत्विय इत्येताभ्याम्॥५॥

अग्नी रक्षांसि सेधति शुक्रशोचिरमर्त्यः। शुचिः पावक ईड्य इत्यरणी अभिमन्त्र्य मही विश्पत्नी सदने ऋतस्याची एतं धरुणे रयीणाम्। अन्तर्वली [V.9 186 ĀPŚS Translation : THITE जन्यं जातवेदसमध्वराणां जनयथः पुरोगामित्यरणी आहियमाणे यस प्रतीक्षते॥६॥

दोह्या च ते दुग्धभृच्चोर्वरी ते ते भागधेयं प्रयच्छामीति यजमानाय प्रयच्छति॥७॥

आरोहतं दशतं शक्वरीर्ममर्तेनाग्न आयुषा वर्चसा सह। ज्योग्जीवन्त उत्तरामुत्तरां समां दर्शमहं पूर्णमासं यज्ञं यथा यजा इति प्रतिगृह्यर्वियवती स्थो अग्निरेतसौ गर्भं दधाधां ते वामहं ददे। तत्सत्यं यद्वीरं बिभृथो वीरं जनयिष्यथः॥ ते मत्प्रातः प्रजनिष्येथे ते मा प्रजाते प्रजनयिष्यथः। प्रजया पशुभिर्ब्रह्मवर्चसेन सुवर्गे लोक इति प्रतिगृह्याभिमन्त्रयते यजमानः॥८॥

05.09

मयि गृह्णाम्यग्रं अग्निं यो नो अग्निः पितर इत्युभौ जपतः। अपेत वीतेति गार्हपत्यायतनमुद्धृत्य शं नो देवीरभिष्टय इत्यद्भिरवोक्षति॥१॥

187

एवं दक्षिणाग्नेराहवनीयस्य सभ्यावसथ्ययोश्च॥२॥

एवमनुपूर्वाण्येवैष्वत ऊर्ध्वं कर्माणि क्रियन्ते॥३॥

सिकतानामधू द्वैधं विभज्यार्धं गार्हपत्यायतने निवपत्य) दक्षिणाग्नेः। अर्धं त्रैधं विभज्य पूर्वेषु॥४॥

एतेनैव कल्पेन सर्वान्पार्थिवान्निवपति॥५॥

अग्नेर्भस्मासीति सिकता निवपति। संज्ञानमित्यूषान्॥६॥

तान्निवपन्यददश्चन्द्रमसि कृष्णं तदिहास्त्विति मनसा ध्यायति॥७॥

उदेह्यग्ने अधि मातुः पृथिव्या विश आविश महतः सधस्थात्। आखें त्वा ये दधिरे देवयन्तो हव्यवाहं भुवनस्य गोपामित्याखुकरीषम्॥ यत्पृथिव्या

188 अनामृतं संबभूव त्वे सचा। तदग्निरग्नयेऽददात्तस्मिन्नाधीयतामयमिति गाई यतने वल्मीकवपां निवपति॥८॥

यदन्तरिक्षस्येति दक्षिणाग्नेः। यदिव इति पूर्वेषु॥९॥

उत्समुद्रान्मधुमाँ ऊर्मिरागात्साम्राज्याय प्रतरां दधानः। अमी च ये मघवानो वयं चेषमूर्जं मधुमत्सं भरेमेति सूदम्। इयत्यग्र आसीरिति वराहविहतम् ॥१०॥

अदो देवी प्रथमाना पृथग्यदेवैर्युप्ता व्यसो महित्वा। अदूंहथाः शर्कराभिस्त्रिविष्टप्यजयो लोकान्प्रदिशश्चतस्त्र इति शर्कराः। द्वेष्यं च मनसा ध्यायति॥११॥

05.10

ऋतं स्तृणामि पुरीषं पृथिव्यामृते ऽध्यग्निमादधे सत्येऽध्यग्निमादध इत्यायतनेषु संभाराननुव्यूहति॥१॥

189

सं या वः प्रियास्तनुव इत्येषा॥ सं वः सृजामि हृदयानि संसृष्टं मनो अस्तु वः। संसृष्टः प्राणो अस्तु व इति वानस्पत्यान्संसृज्य सिकतावन्निवपतीतः प्रथमं जज्ञे अग्निरित्येतया॥२॥

यास्ते शिवास्तनुवो जातवेदो या अन्तरिक्षे दिवि याः पृथिव्याम्। ताभिः संभूय सगणः सजोषा हिरण्ययोनिर्वह हव्यमग्न इति गार्हपत्यायतने सौवर्णं हिरण्यशकलमुत्तरतः संभारेषूपास्यति॥३॥

चन्द्रमग्निं चन्द्ररथं हरित्वचं वैश्वानरमप्सुषदं सुवर्विदम्। विगाहं तूर्णिं तविषीभिरावृतं भूणि देवास इह सुश्रियं दधुरित्युपास्तमभिमन्त्रयते। द्वेष्याय रजतं प्रयच्छति॥४॥

यदि द्वेष्यं नाधिगच्छेद्यां दिशं द्वेष्यः स्यात्तेन निरस्येत्॥५॥

एवं सर्वेषूपास्य करोति॥६॥

190 ब्राह्मौदनिकाद्भस्मापोह्य तस्मिञ्छ्मीगर्भादग्निं मन्थति॥७॥

उद्यत्सु रश्मिषु दशहोत्रारणी समवदधाति॥८॥

सहाग्नेऽग्निना जायस्व सह रय्या सह पुष्ट्या सह प्रजया सह पशुभिः ब्रह्मवर्चसेनेत्युपतिष्ठत्यश्वे ऽग्निं मन्थति॥९॥

श्वेतोऽश्वोलिनाक्षो भवति रोहितो वासितजानुरपि वा य एव कश्चित्साण्डः ॥१०॥

मथ्यमाने शक्तेः सांकृतेः साम गायति। धूमे जाते गाथिनः कौशिकस्य। अरण्योर्निहितो जातवेदा इति च॥११॥

उपावरोह जातवेद इति निर्वय॑मानमभिमन्त्रयते॥१२॥

05.11

अत्र चतुर्होतॄन्यजमानं वाचयति॥१॥

अजन्नग्निः पूर्वः पूर्वेभ्यः पवमानः शुचिः पावक ईड्य इति जातमभिम मन्त्रयते॥२॥

जाते यजमानो वरं ददाति॥३॥

गौर्वै वरोऽतिवरो ऽन्यो धेनुर्वरोऽतिवरो ऽन्यो ऽनड्वान्वरोऽतिवरो ऽन्यः पष्ठौही वरो ऽतिवरो ऽन्यः॥४॥

जातं यजमानो ऽभिप्राणिति प्रजापतेस्त्वा प्राणेनाभिप्राणिभि पूष्णः पोषेण मह्यं दीर्घायुत्वाय शतशारदाय शतं शरद्भय आयुषे वर्चसे जीवात्वै पुण्यायेति॥५॥

nt boo boon; CW Pregundo 192

अजीजनन्नमृतं मासो ऽस्त्रेमाणं तरणिं वीडुजम्भम्। दश स्वर अग्रुवः समीचीः पुमांसं जातमभिसंरभन्तामिति जातमञ्जलिनाभिगद्य सपा विराडसि सारस्वतौ त्वोत्सौ समिन्धातामन्नादं त्वान्नपत्यायेत्युपसमिध्या प्राञ्चमुद्धत्यासीनः सर्वेषां मन्त्राणामन्तेन रथंतरे गीयमाने यज्ञायज्ञीये च यथार्थ धानेन प्रथमया व्याहृत्या द्वाभ्यां वा प्रथमाभ्यां च सर्पराज्ञीभ्यां प्रथमेन की धर्मशिरसा॥६॥

भृगूणां त्वा देवानां व्रतपते व्रतेनादधामीति भार्गवस्यादध्यात्। अङ्गिरसां त्वा देवानां व्रतपते व्रतेनादधामीति यो ब्राह्मण आङ्गिरसः स्यात्। आदित्यानां त्वा देवानां व्रतपते व्रतेनादधामीत्यन्यासां ब्राह्मणीनां प्रजानाम्। वरुणस्य त्वा राज्ञो व्रतपते व्रतेनादधामीति राज्ञः। मनोस्त्वा ग्रामण्यो व्रतपते व्रतेनादधामीति वैश्यस्य। ऋभू त्वादेवानां व्रतपते व्रतेनादधामीति रथकारस्येति यथा धानानि॥७॥

05.12

भूर्भुवः सुवरिति व्याहृत्यः। भूमिभूम्नेति सर्पराज्ञियः। धर्म शिरस्तदयमग्निः संप्रियः पशुभिर्भुवत्। छर्दिस्तोकाय तनयाय यच्छ॥ वातः प्राणस्तदयमग्निः संप्रियः पशुभिर्भुवत्। स्वदितं तोकाय तनयाय पितुं पच॥ अर्कश्चक्षुस्तदसौ सूर्यस्तदयमग्निः संप्रियः पशुभिर्भुवत्। यत्ते शुक्र शुक्रं वर्चः तनूः शुक्र ज्योतिरजस्रं तेन मे दीदिहि तेन त्वादधे ऽग्निनाग्ने ब्रह्मणेति धर्मशिरांसि॥१॥

यास्ते शिवास्तनुवो जातवेदो या अन्तरिक्ष उत पार्थिवीर्याः। ताभिः संभूय सगणः सजोषा हिरणयोनिर्वह हव्यमग्ने।। प्राणं त्वामृत आदधाम्यन्ना दमन्नाधाय गोप्तारं गुप्त्यै। दिवस्त्वा वीर्येण पृथिव्यै महिम्नान्तरिक्षस्य पोषेण पशूनां तेजसा सर्वपशुमादधे। अग्ने गृहपते ऽहे बुध्न्य परिषद्य दिवः पृथिव्याः पर्यन्तरिक्षाल्लोकं विन्द यजमानाय। पृथिव्यास्त्वा मूर्धन्सादयामि यज्ञिये लोके। यो नो अग्ने निष्टयो यो ऽनिष्ट्यो ऽभिदासतीदमहं तं त्वयाभि निदधामीति संभारेषु निदधाति॥२॥

194

सगार्हपत्यो विदहन्नरातीरुषसः श्रेयसीःश्रेयसीर्दधत्। अग्ने सपना अपना धमानो रायस्पोषमिषमूर्जमस्मासु धेहीत्याधीयमानमभिमन्त्रयते यजमानो धर्मशिन चैनमध्वर्युर्वाचयति॥३॥

05.13

अर्थोदिते सूर्य आहवनीयमादधाति॥१॥ ___

उदिते ब्रह्मवर्चसकामस्य॥२॥

गार्हपत्ये प्रणयनीयमाश्वत्थमिध्ममादीपयति सिकताश्चोपयमनीरुपकल्प यते॥३॥

तमुद्यच्छत्योजसे बलाय त्वोद्यच्छे वृष्णे शुष्मायायुषे वर्चसे। सपत्नतूरसि वृत्रतूः॥ यस्ते देवेषु महिमा सुवर्गो यस्त आत्मा पशुषु प्रविष्टः। पुष्टिर्या ते मनुष्येषु पप्रथे तया नो अग्ने जुषमाण एहि॥ दिवः पृथिव्याः पर्यन्तरिक्षाद्वातात्पशुभ्यो अध्योषधीभ्यः। यत्रयत्र जातवेदः संबभूथ ततो नो अग्ने जुषमाण एहि॥ उदु त्वा विश्वे देवा इत्येताभिश्चतसृभिः॥४॥

195

उपरीवाग्निमुद्यच्छति॥५॥

उद्यतमुपयतं धारयति॥६॥

अथाश्वस्य कर्णे यजमानमग्नितनूचयति या वाजिन्नग्नेः पशुषु पवमाना प्रिया तनूस्तामावह या वाजिन्नग्नेरप्सु, पावका प्रिया तनूस्तामावह या वाजिन्नग्नेः सर्ये शुचिः प्रिया तनूस्तामावहेति। धारयत्येवाग्निम्॥७॥

अथाग्नीध्रो लौकिकमग्निमाहृत्य मथित्वा वोर्ध्वजुरासीनो दक्षिणमग्नि मादधाति यज्ञायज्ञीये गीयमाने यथाधानेन द्वितीयया व्याहृत्या तिसृभिः सर्पराज्ञीभिद्वितीयेन च धर्मशिरसा॥ यास्ते शिवास्तनुवो जातवेदो या अन्तरिक्ष उत पार्थिवीर्याः। ताभिः संभूय सगणः सजोषा हिरण्योनिर्वह हव्यमग्ने॥ व्यानं त्वामृत आदधाम्यन्नादमन्नाधाय गोप्तारं गुप्त्यै। दिवस्त्वा वीर्येण पृथिव्यै महिम्नान्तरिक्षस्य पोषेण पशूनां तेजसा सर्वपशुमादधे॥ अग्नेऽन्नपा मयोभुव सुशेव दिवः पृथिव्याः पर्यन्तरिक्षाल्लोकं विन्द यजमानाय। पृथिव्यास्त्वा मूर्धन्सादयामि यज्ञिये लोके। यो नो अग्ने निष्टयो यो ऽनिष्ट्यो ऽभिदासतीमहं तं त्वयाभिनिदधामीति संभारेषु निदधाति॥८॥

05.14

यो ब्राह्मणो राजन्यो वैश्यः शूद्रो वासुर इव बहुपुष्टः स्यात्तस्य गृहादाहृत्या दध्यात्पुष्टिकामस्य॥१॥

गृहे त्वस्य ततो नाश्नीयात्॥२॥ अम्बरीषादनकामस्य वृक्षाग्राज्ज्वलतो ब्रह्मवर्चसकामस्य॥३॥

वामदेव्यमभिगायत आहवनीय उद्धियमाणे॥४॥

प्राचीनमनु प्रदिशमित्येषा। विक्रमस्व महाँ असि वेदिषन्मानुषेभ्यः। त्रिषु लोकेषु जागृहि प्रजया च धनेन च॥ इमा उ मामुपतिष्ठन्तु राय आभिः प्रजाभिरिह 197 संवसेय। इहो इडा तिष्ठतु विश्वरूपी मध्ये वसोर्दीदिहि जातवेद इति प्राञ्चो ऽश्वप्रथमा अभिप्रव्रजन्ति॥५॥

दक्षिणतो ब्रह्मा रथं रथचक्रं वा वर्तयति यावच्चक्रं त्रिः परिवर्तते॥६॥

षट्कृत्वो द्वेष्यस्य॥७॥ .

जानुदने धारयमाणस्तृतीयमध्वनो ऽग्निं हरति नाभिने तृतीयमास्यदने तृतीयम्। न कर्णदनमत्युद्गृह्णाति॥८॥

यद्युद्गृह्य निगृह्णीयान्मुखेन संमायादध्यात्॥९॥

नाग्निामदित्यं च व्ययेयात्॥१०॥

198

दक्षिणतः परिगृह्य हरति॥११॥

अर्धाध्वे यजमानो वरं ददाति॥१२॥

अर्धाध्वे हिरण्यं निधाय नाको ऽसि ब्रधनः प्रतिष्ठा संक्रमण इत्यतिक्रामति॥१३॥

प्राञ्चमश्वमभ्यस्थाद्विश्वा इति दक्षिणेन पदोत्तरतः संभारानाक्रमयति यथाहितस्याग्नेरङ्गाराः पदमभ्यववर्तेरन्निति॥१४॥

प्रदक्षिणमावर्तयित्वा यदक्रन्द इति पुनरेवाक्रमयति॥१५॥

पुरस्तात्प्रत्यञ्चमश्वं धारयति॥१६॥

199 ApSs Translation : THITE V.15]

पूर्ववाडश्वो भवति॥१७॥

तदभावे ऽनड्वान्पूर्ववाडेतानि कर्माणि करोतीति पैङ्गायनिब्राह्मणं भवति॥१८॥

05.15

कमण्डलुपद आदधीतेति बढ्चब्राह्मणम्। अजस्य पद आदधीतेति वाजसनेयकम्॥१॥

अथ यजमानः शिवा जपति ये ते अग्ने शिवे तनुवौ विराट्च स्वराट्च ते मा विशतां ते मा जिन्वताम्। ये ते अग्ने शिवे तनुवौ सम्राट्चाभिभूश्च ते मा विशतां ते मा जिन्वताम्। ये ते अग्ने शिवे तनुवौ विभूश्च परिभूश्च ते मा विशतां ते मा जिन्वताम्। ये ते अग्ने शिवे तनुवौ प्रभ्वी च प्रभूतिश्च ते मा विशतां ते मा जिन्वताम्। यास्ते अग्ने शिवास्तनुवस्ताभिस्त्वादध इति॥२॥

यास्ते अग्ने घोरास्तनुवस्ताभिरमुं गच्छेति यजमानो द्वेष्याय प्रहिणोति ताभिरेनं पराभावयति॥३॥

200

अरण्येऽनुवाक्या भवन्ति॥४॥

यदिदं दिवो यददः पृथिव्याः संविदाने रोदसी संबभूवतुः। तयोः पृष्ठे सीदतु जातवेदाः शंभूः प्रजाभ्यस्तनुवे स्योन इत्यभिमन्त्र्य पुरस्तात्प्रत्यङ तिष्ठन्नाहवनीयमादधाति॥५॥

बृहति गीयमाने श्यैतवारवन्तीययोर्यज्ञायज्ञीये च यथाधानेन सर्वाभिर्व्याहतीभिः सर्वाभिः सर्पराज्ञीभिस्तृतीयेन च धर्मशिरसा यास्ते शिवास्तनुवो जातवेदो या अन्तरिक्ष उत पार्थिवीर्याः। ताभिः संभूय सगणः सजोषा हिरण्य योनिर्वह हव्यमने॥ अपानं त्वामृत आदधाम्यन्नादमन्नाधाय गोप्तारं गुप्त्यै। दिवस्त्वा वीर्येण पृथिव्यै महिम्नान्तरिक्षस्य पोषेण पशूनां तेजसा सर्वपशुमादधे॥ अग्ने सम्राडजैकपादाहवनीय दिवः पृथिव्याः पर्यन्तरिक्षाल्लोकं विन्द यजमानाय। पृथिव्यास्त्वा मूर्धन्सादयामि यज्ञिये लोके। यो नो अग्ने निष्टयो यो ऽनिष्ट्यो ऽभिदासतीदमहं तं त्वयाभिनिदधामीति संभारेषु निदधाति॥६॥

05.16

आनशे व्यानशे सर्वमायुानशे। अहं त्वदस्मि मदसि त्वमेतन्ममासि निस्तव योनिरस्मि। ममैव सन्वह हव्यान्यग्ने पुत्रः पित्रे लोककृज्जातवेद इत्याधीयमानमभिमन्त्रयते यजमानः॥१॥

व्याहृतीः सर्पराज्ञीर्घर्मशिरांसीति सर्वेष्वाधानेषु यजमानो ऽनुवर्तयते येनयेनादधाति॥२॥

नाहितमनभिहुतमग्निमुपस्पृशति। आज्येनौषधीभिश्च शमयितव्यः॥३॥

या ते अग्ने पशुषु पवमाना प्रिया तनूर्या पृथिव्यां याग्नौ या रथन्तरे या गायत्रे छन्दसि तां त एतेनावयजे स्वाहा। या ते अग्ने ऽप्सु पावका प्रिया तनूयोन्तरिक्षे या वायौ या वामदेव्ये या त्रैष्टुभे छन्दसि तां त एतेनावयजे स्वाहा। या ते अग्ने सर्ये शचिः प्रिया दर्या दिवि यादित्ये या बृहति या गत छन्दसि तां त एतेनावयजे स्वाहेत्येतैः प्रतिमन्त्रमाज्यमोषधीश्च जुहोति॥४॥

202

समिध आदधातीत्येके॥५॥

ब्रह्माग्न्याधेये सामानि गायति॥६॥

प्रतिषिद्धान्येकेषाम्॥७॥

व्याहृतीभिरेवोद्गीथं भवतीति वाजसनेयकम्॥८॥

05.17

ततः सभ्यावसथ्यावादधाति लौकिकमग्निमाहृत्य मथित्वाहवनीयाद्वा यथाधानेन॥१॥

LUJ ĀPŚS Translation : THITE V.17]

अग्न आयूंषि पवसे ऽग्ने पवस्व स्वपाः। अग्निऋषिः पवमानः पाञ्चजन्यः परोहितः। तमीमहे महागयमिति तिस्त्र आश्वत्थ्यः समिध एकैकस्मिन्नादधाति॥२॥

आहवनीये वा तिस्रः॥३॥

समुद्रादूर्मिर्मधुमाँ उदारदुपांशुना सममृतत्वमानट। घृतस्य नाम गुह्यं यदस्ति जिह्वा देवानाममृतस्य नाभिः॥ वयं नाम प्रब्रवामा घृतेनास्मिन्यज्ञे धारयामा नमोभिः। उप ब्रह्मा शृणवच्छस्यमानं चतुः शृङ्गोऽवमीद्गौर एतत्॥ चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य। त्रिधा बद्धो वृषभो रोरवीति महो देवो मत्याँ आविवेशेति शमीमय्यो घृतान्वक्तास्तिसृभिस्तिस्त्र एकैक स्मिन्नादधाति। आहवनीये वा तिस्त्रः॥४॥

एवं नानावृक्षीयाः। प्रेद्धो दीदिहि पुरो न इत्यौदुम्बरी समिधमादधाति। विधेम ते परमे जन्मन्नग्न इति वैकडूतीम्। तां सवितुर्वरेण्यस्य चित्रामिति शमीमयीम्॥५॥

204 ouras. There

हो जुहोति ततस्तूष्णीमग्निहोत्रं जुहोति॥६॥

अपि वा द्वादशगृहीतेन त्रुचं पूरयित्वा प्रजापतिं मनसा ध्यायञ्जहोति साग्निहोत्रस्य स्थाने भवति॥७॥

यास्ते अग्ने घोरास्तनुवस्ताभिरमुं गच्छेति यजमानो द्वेष्याय प्रहिणोति ताभिरेनं नितमयति। अरण्येऽनुवाक्या भवन्ति॥८॥

05.18

द्वादशगृहीतेन स्रुचं पूरयित्वा सप्त ते अग्ने समिधः सप्त जिह्वा इति सप्तवत्या पूर्णाहुतिं जुहोति। हुतायां यजमानो वरं दत्त्वा शिवा जयति। ये अग्नयो दिवो ये पृथिव्याः समागच्छन्तीषमूर्जं दुहानाः। ते अस्मा अग्नयो द्रविणं दत्त्वेष्टाः प्रीता आहुतिभाजो भूत्वा यथालोकं पुनरस्तं परेत स्वाहेति जुहोति॥१॥

अथ विराटक्रमैर्यजमान उपतिष्ठते ऽथर्व पितुं मे गोपायानं प्राणेन मितम। त्वया गुप्ता इषमूर्जं मदन्तो रायस्पोषेण समिषा मदेमेत्यन्वाहार्यपचनम। नर्य प्रजां मे गोपाय मूलं लोकस्य संततिम्। आत्मनो हृदयान्निर्मितां तां ते परिददाम्यहमिति गार्हपत्यम्॥ शंस्य पशून्मे गोपाय विश्वरूपं धनं वसु। गृहाणां पष्टिमानन्दं तांस्ते परिदाम्यहमित्याहवनीयम्॥ सप्रथ सभा मे गोपायेन्द्रियं भतिवर्धनम्। विश्वजनस्य छायां तां ते परिददाम्यहमिति सभ्यम्॥ अहे बुध्निय मन्त्रं मे गोपाय श्रियं च यशसा सह। अहये बुध्नियाय मन्त्रं श्रियं यशः परिद दाम्यहमित्यावसथ्यम्॥ पञ्चधाग्नीव्यक्रामद्विराट् सृष्टा प्रजापतेः। ऊर्ध्वारो हद्रोहिणी योनिरग्नेः प्रतिष्ठितिरिति सर्वान्॥२॥

05.19

आग्नेयस्याष्टाकपालस्य तन्त्रं प्रक्रमयति॥१॥

निरुप्तं हविरुपसन्नमप्रोक्षितं भवति। अथ सभाया मध्येऽधिदेवनमुद्धत्या वोक्ष्याक्षान्युप्याक्षेषु हिरण्यं निधाय समूह्य व्यूह्य प्रथयित्वा निषसाद धृतव्रत इति मध्ये ऽधिदेवने राजन्यस्य जुहोति॥२॥

आवसथे परिषदो मध्ये हिरण्यं निधाय मन्त्रवत्या हिरण्ये जहोति । नूनं ब्रह्मणस्पतिर्मन्त्रं वदत्युक्थ्यम्। यस्मिन्निन्द्रो वरुणो मित्रो अर्यमा देवा ओकांसि चक्रिर इति॥३॥

उत नो ऽहिर्बुध्यः शृणोत्वज एकपात्पृथिवी समुद्रः। विश्वे देवा ऋतावृधो हुवानाः स्तुता मन्त्राः कविशस्ता अवन्तु न इत्युक्त्वा शतमक्षान्यजमानाय प्रयच्छन्नाह व्रीहिभ्यो गां दीव्यताहिंसन्तः परूंषि विशसतेति॥४॥

संप्रैषवत्कुर्वन्तिा५॥

05.20

कृतं यजमानो विजिनाति॥१॥

A 207 तया यज्जयन्ति तदन्नं संस्कृत्य सभासद्भय उपहरन्ति॥२॥

·

आवसथे भुञ्जते॥३॥

क्लुप्तिसामनसीभ्यामग्नीन्यजमान उपतिष्ठते कल्पेतांद्यावापृथिवी येऽग्नयः समनस इति॥४॥

प्रोक्षादि कर्म प्रतिपद्यते॥५॥

आग्नेयस्य दक्षिणाकाले दक्षिणा ददाति॥६॥

अजं पूर्णपात्रमुपबहणं सार्वसूत्रमित्यग्नीधे॥७॥ वहिनमश्वं ब्रह्मणे ऽध्वर्यवे ८॥ आहवनीयदेशे ऽनड्वाहमध्वर्यवे॥९॥अपरेण गार्हपत्यं धेनुं होने॥१०॥

वासो मिथुनौ गावौ नवं च रथं ददाति। तानि साधारणानि सर्वेषामा

आ द्वादशभ्यो ददातीत्युक्त्वाह काममूर्ध्वं देयमपरिमितस्यावरुद्धय इति विज्ञायते॥१२॥

ऊर्ध्वमादिष्टदक्षिणाभ्यो वदति षड् देया द्वादश देयाश्चतुर्विंशतिर्देया इति॥१३॥

ता विकल्पन्ते॥१४॥

येषां पशूनां पुष्टिं भूयसी कामयेत तेषां वयसाम्॥१५॥

209 ApSs Translation : THITE v.21]

दित्यौहीं दद्याद् दित्यवाहं च मुष्करम्॥१६॥

वर्धमानां दक्षिणां ददाति॥१७॥

यद्यनाढ्यो ऽग्नीनादधीत काममेवैकां गां दद्यात्सा गवां प्रत्याम्नायो भवतीति विज्ञायते॥१८॥ .

सिद्धमिष्टिः सन्तिष्ठते १९

05.21

पवमानहवींषि सद्यो निर्वपेत्॥१॥

द्वादशाहे द्वयहे त्र्यहे चतुरहे ऽर्धमासे मास्यूतौ संवत्सरे वा॥२॥

न सोमेनायक्ष्यमाणः पुरा संवत्सरान्निर्वपेत्॥३॥

निर्वपेदित्येके॥४॥

यदि निर्वपेदग्नये पवमानायाग्नये पावकायाग्नये शुचय इति तिस्त्र आज्याहुतीः सोमदेवताभ्यो वा हुत्वा निर्वपेत्॥५॥

समानतन्त्राणि वाग्नेयेन वा समानतन्त्राणि॥६॥

यं कामयेत पापीयान्स्यादिति तस्यैकमेकमेतानि हवींषि निर्वपेत्। न वसीयान्न पापीयानिति तस्य साकं सर्वाणि। यं कामयेतोत्तरं वसीयाञ्छ्यान्स्या दिति तस्याग्नये पवमानाय निरुप्य पावकशुचिभ्यां समानबर्हिषी निर्वपेत्॥७॥

V.22

ApSs Translation : THITE 211

शतमानं हिरण्यं दक्षिणा।८॥

पर्वयोर्हविषोझै त्रिंशन्माने उत्तरस्मिंश्चत्वारिंशन्मानम्॥९॥

येन हिरण्यं मिमते तेन मीत्वा ददाति॥१०॥

सिद्धमिष्टिः संतिष्ठते॥११॥

05.22

ऐन्द्राग्नमेकादशकपालमनुनिर्वपत्यादित्यं च घृते चरुम्॥१॥

सप्तदश सामिधेन्यः॥२॥

चतुर्धाकरणकाल आदित्यं ब्रह्मणे परिहरति॥३॥

212

तं चत्वार आर्षेयाः प्राश्नन्ति॥४॥

प्राशितवद्भयः समानं वरं ददाति। धेन्वनुडुहोर्दानमेके समामननि सिद्धमिष्टिः संतिष्ठते॥५॥

आग्नावैष्णवमेकादशकपालमनुनिर्वपत्यग्नीषोमीयमेकादशकपालं विष्णवे शिपिविष्टाय ज्युद्धौ घृते चरुम्॥६॥

सिद्धमिष्टिः संतिष्ठते॥७॥

आदित्यं घृते चळं सप्तदशसामिधेनीकं धेनुदक्षिणां सर्वेषामनुनिर्वाप्याणां स्थाने वाजसनेयिनः समामनन्ति॥८॥

V.22 ranslation : THITE 213

सिद्धमिष्टिः संतिष्ठते॥९॥

अग्निहोत्रमारप्स्यमानो दशहोतारं मनसानुद्रुत्याहवनीये सग्रहं हुत्वाथ सायमग्निहोत्रं जुहोति॥१०॥

व्याहृतीभिरुपसादयेत्॥११॥

संवत्सरे पर्यागत एताभिरेवोपसादयेत्॥१२॥

द्वादशाहमजनेष्वग्निषु यजमानः स्वयमग्निहोत्रं जुहुयादप्रवसन्नहतं वासो farufaf118711

214 [V.23 ApSs Translation : THITE

05.23

यां प्रथमामग्निहोत्राय दोग्धि तां दक्षिणां ददाति॥१॥

अथैकेषाम्। अग्नीनाधाय हस्ताववनिग्य संवत्सरमग्निहोत्रं हत्वाथ दर्शपूर्णमासावारभते ताभ्यां संवत्सरमिष्ट्वा सोमेन पशुना वा यजते तत ऊर्ध्व मन्यानि कर्माणि कुरुते॥२॥

त्रयोदशरात्रमहतवासा यजमानः स्वयमग्निहोत्रं जुहुयादप्रवसन्नत्रैव सोमेन पशुना वेष्ट्वाग्नीनृत्सुजति यथा सुयवसान्कृत्वा प्राध्यात्तादृक्तदिति शाट्यायनिब्राह्मणं भवति॥३॥

पूर्णा पश्चाद्यत्ते देवा अदधुरिति सारस्वतौ होमौ हुत्वान्वारम्भणीयामिष्टिं निर्वपति॥४॥

215

आग्नावैष्णवमेकादशकपालं सरस्वत्यै चरुं सरस्वते द्वादशकपालम्॥५॥

अग्नये भगिनेऽष्टाकपालं यः कामयेत भग्यन्नादः स्यामिति॥६॥

नित्यवदेके समामनन्ति॥७॥

नानातन्त्रमेके॥८॥

त्वद्विश्वा सुभग सौभगान्यग्ने वि यन्ति वनिनो न वयाः। श्रुष्टी रयिर्वाजो वृत्रतूर्ये दिवो वृष्टिरीह्यो रीतिरपाम्॥ त्वं भगो न आ हि रलमिषे परिज्मेव क्षयसि दस्मवर्चाः। अग्ने मित्रो न बृहत ऋतस्यासि क्षत्ता वामस्य देव भूरेरिति याज्यानु वाक्ये॥९॥

05.24

चित्तं च चित्तिश्चेति पुरस्तास्विष्टकृतो जयाञ्जुहोति॥१॥

216

चित्ताय स्वाहा चित्त्यै स्वाहेत्येके समामनन्ति॥२॥

प्रजापति यानिति त्रयोदशीम्॥३॥

अग्ने बलद सह ओजः क्रममाणाय मे दाः। अभिशस्तिकृते ऽनभिशस्तेन्यायास्यै जनतायै श्रेष्ठ्यायेति चतुर्दशी यः कामयेत चित्रं जनतायां स्यामिति। चित्रं भवति शबलं त्वस्य मुखे जायते॥४॥

मिथुनौ गावौ दक्षिणा॥५॥

सिद्धमिष्टिः संतिष्ठते॥६॥

दर्शपूर्णमासावारप्स्यमानश्चतुर्होतारं मनसान्द्रुत्याहवनीये सग्रहं हुत्वाथ दर्शपूर्णमासावारभते॥७॥

217

व्याहृतीभिर्हवींष्यासादयेत्संवत्सरे पर्यागत एताभिरेवासादयेत्॥८॥

अमावास्यायामादधानस्यैतत्। पौर्णमास्यां तु पूर्वस्मिन्पर्वणि सेष्टि सान्वारम्भ णीयमाधानमपवृज्य॥९॥

05.25

श्वोभूते पौर्णमासेन यजते॥१॥

अनन्तरमाधानादाहिताग्निव्रतानि॥२॥

नानृतं वदेत् ३ 218

नास्य ब्राह्मणो ऽनाश्वान्गृहे वसेत्॥४॥

सूर्योढमतिथिं वसत्यै नापरुन्धीत॥५॥

न/सपक्वस्याश्नीयात्॥६॥

क्लिन्नं दारु नादध्यात्॥७॥

अन्तर्नाव्यपां नाश्नीयात्॥८॥

स्वकृत इरिणे नावस्येत्॥९॥

पुण्यः स्यात्॥१०॥

हिङ्कृत्य वाग्यतः स्त्रियमुपेयात्॥११॥

व्याहरेद्वा॥१२॥

न सायमाहुतावहुतायामश्नीयात्॥१३॥

219

एवं प्रातः॥१४॥

आहिताग्नेगुहे न सायमहुते भोक्तव्यं तथा प्रातरित्यन्येषां व्रतम्॥१५॥

नक्तं नान्यदन्नाद्दद्यात्॥१६॥

दद्यादित्येके॥१७॥

अन्नं तु ददन्नदयीत॥१८॥

नैतस्मिन्संवत्सरे पशुनानिष्ट्वा मांसं भक्षयेत्॥१९॥

मनसाग्निभ्यः प्रहिणोमि भक्षं मम वाचा तं सह भक्षयन्तु। अप्रमाद्यन्न प्रमत्तश्चरामि शिवेन मनसा सह भक्षयतेति यद्यादिष्टो भक्षयेदेतं मन्त्रमुक्त्वा भक्षयेत्॥२०॥