THE DUTIES OF A SACRIFICER
04.01
याजमानं व्याख्यास्यामः॥१॥
. 140
यजमानस्य ब्रह्मचर्य दक्षिणादानं द्रव्यप्रकल्पनं कामानां कामनम॥२१॥
प्रत्यगाशिषो मन्त्राञ्जपत्यकरणानुपतिष्ठतेऽनुमन्त्रयते॥३॥
पर्वणि च केशश्मश्रु वापयते॥४॥
अप्यल्पशो लोमानि वापयत इति वाजसनेयकम्॥५॥
विद्युदसि विद्य मे पाप्मानमनृतात्सत्यमुपैमीति यक्ष्यमाणोऽप उपस्पृ शति॥६॥
तदिदं सर्वयज्ञेषूपस्पर्शनं भवति॥७॥
अग्निं गृह्णामि सुरथं यो मयोभूर्य उद्यन्तमारोहति सूर्यमढे। आदित्यं ज्योतिषां ज्योतिरुत्तमं श्वोयज्ञाय रमतां देवताभ्यः॥ वसून् रूद्रानादित्यानिन्द्रेण सह देवताः। ताः पूर्वः परिगृह्णामि स्व आयतने मनीषया। इमामूर्जं पञ्चदशी ये प्रविष्टास्तान्देवान्परिगृह्णामि पूर्वः। अग्निहव्यवाडिह तानावहतु पौर्णमासंApós Translation : THITE 141 IV.2] विरिदमेषां मय्यामावास्यं हविरिदमेषां मयीति यथालिङ्गमाहवनीयेऽन्वाधी यमाने जपति॥८॥
अन्तराग्नी पशवो देवसंसदमागमन्। तान्पूर्वः परिगृह्णामि स्व आयतने मनीषयेत्यन्तराग्नी तिष्ठञ्जपति॥९॥
इह प्रजा विश्वरूपा रमन्तामग्निं गृहपतिमभिसंवसानाः। तान्पूर्वः परिगृह्णामि स्व आयतने मनीषयेति गार्हपत्यम्॥१०॥
IV.2
अयं पितॄणामग्निरवाड्ढव्या पितृभ्य आ। तं पूर्वः परिगृह्णाम्यविषं नः पितुं करदिति दक्षिणाग्निम्॥ अजस्रं त्वा सभापाला विजयभागं समिन्धताम्। अग्ने दीदाय मे सभ्य विजित्यै शरदः शतमिति सभ्यम्॥ अन्नमावसथीय मभिहराणि शरदः शतम्। आवसथे श्रियं मन्त्रमहिर्बुध्नियो नियच्छत्वित्या वसथ्यम्॥१॥
142
इदमहमग्निज्येष्ठेभ्यो वसुभ्यो यज्ञं प्रब्रवीमि। इदमहमिन्द्रज्येष्ठेभ्यो रुद्रेभ्यो यज्ञं प्रब्रवीमि। इदमहं वरुणज्येष्ठेभ्य आदित्येभ्यो यज्ञं प्रब्रवीमीत्यवान हितेषु जपति॥२॥
पयस्वतीरोषधय इति पुरा बर्हिष आहर्तोर्जायापती अश्नीतः। पुरा वत्सानाम पाकर्तारमावास्यायाम्॥३॥
पौर्णामासायोपवत्स्यन्तौ नातिसुहितौ भवतः॥४॥
अमाषममांसमाज्येनाश्नीयातां तदभावे दना पयसा वा॥५॥
बर्हिषा पूर्णमासे व्रतमुपैति। वत्सेष्वपाकृतेष्वमावास्यायाम्॥६॥
प्रणीतासु प्रणीयमानास्वासन्नेषु वा हविःषु व्रतमुपैतीत्युभयत्र साधारणम्।।७॥
अशनमग्न्यवाधानं व्रतोपायनमित्येके। व्रतोपायनमशनमग्न्यवाधानमित्येके। अग्न्यन्वाधानं व्रतोपायनमशनमित्येके॥८॥
पयस्वतीरोषधय इत्यप आचामत्युपस्पृशति वा॥९॥
अपरेणाहवनीयं दक्षिणातिक्रामति॥१०॥
एष एवात ऊर्ध्वं यजमानस्य संचरो भवति॥११॥
__ IV.3
दक्षिणेनाहवनीयमवस्थाय व्रतमुपैष्यन्समुद्रं मनसा ध्यायति॥१॥
अथ जपत्यग्ने व्रतपते व्रतं चरिष्यामीति ब्राह्मणः। वायो व्रतपत आदित्य व्रतपते व्रतानां व्रतपते व्रतं चरिष्यामीति राजन्यवैश्यौ॥२॥
सर्वान्वा ब्राह्मणः॥३॥
अथादित्यमुपतिष्ठते सम्राडसि व्रतपा असि व्रतपतिरसि तत्ते प्रब्रवीमि तच्छकेयं तेन शकेयं तेन राध्यासमिति॥४॥
यद्यस्तमिते व्रतमुपेयादाहवनीयमुपतिष्ठन्नेतद्यजुर्जपेत्॥५॥
उभावग्नी उपस्तृणते देवता उपवसन्तु मे। अहं ग्राम्यानुपवसामि मह्यं गोपतये पशूनिति सायं परिस्तीर्यमाणेषु जपति॥६॥
आरण्यं सायमाशेऽश्नात्यमाषममांसम्॥७॥
अपि वा काममा मार्गादा मधुन आ प्राशातिकात्॥८॥
अपो वा। न वा किंचित्॥९॥
न तस्य सायमश्नीयाद्येन प्रातर्यक्ष्यमाणः स्यात्॥१०॥
145
आरण्यायोपवत्स्यन्नपोऽश्नाति न वा॥११॥
जञ्जभ्यमानो ब्रूयान्मयि दक्षक्रतू इति॥१२॥
अमावास्यां रात्रि जागति॥१३॥
अपि वा सुप्यादुपरि त्वेव न शयीत॥१४॥
अपि वोपरि शयीत ब्रह्मचारी त्वेव स्यात्॥१५॥
उभयत्र जागरणमेके समामनन्ति॥१६॥
__
आहवनीयागारे गार्हपत्यागारे वा शेते॥१७॥
04.04
देवा देवेषु पराक्रमध्वं प्रथमा द्वितीयेषु द्वितीयास्तृतीयेषु त्रिरेकादशा इह मावत इदं शकेयं यदिदं करोम्यात्मा करोत्वात्मने। इदं करिष्यते भेषजमिदं मे विश्वभेषजा अश्विना प्रावतं युवमिति जपित्वा श्वोभूते ब्रह्माणं वृणीते॥१॥
146
भूपते भुवनपते महतो भूतस्य पते ब्रह्माणं त्वा वृणीमह इत्युक्वाय परेणाहवनीयं दक्षिणातिक्रम्योपविशति॥२॥
पूर्वो ब्रह्मापरो यजमानः॥३॥
भूश्च कश्च वाक् च च गौश्च वट् च खं च धूंश्च नूंश्च पूंश्चैकाक्षराः पूंर्दशमा विराजो या इदं विश्वं भुवनं व्यानशुस्ता नो देवीस्तरसा संविदानाः स्वस्ति यज्ञं नयत प्रजानतीब्रह्मपूता स्थ। को वो युनक्ति स वो युनक्तु विश्वेभ्यः कामेभ्यो देवयग्यायै। याः पुरस्तात्प्रस्त्रवन्त्युपरिष्टात्सर्वतश्च याः। ताभी रश्मि पवित्राभिः श्रद्धां यज्ञमारभ इति प्रणीताः प्रणीयमाना अनुमन्त्रयते॥ यजमान हविनिर्वस्यामीत्युच्यमान ओं निर्वपेत्युच्चैरनुजानाति॥४॥
अग्निं होतारमिह तं हुव इति हविर्निरुप्यमाणमभिमन्त्रयते॥५॥
हविर्निर्वपणं वा पात्रमभिमशत्यभि वा मन्त्रयते॥६॥
तदुदित्वा वाचं यच्छति॥७॥
147
अथ यज्ञं युनक्ति ॥८॥
कस्त्वा युनक्ति स त्वा युनक्त्विति सर्वं विहारमनुवीक्षते॥९॥
____ IV.5
चतुःशिखण्डा युवतिः सुपेशा घृतप्रतीका भुवनस्य मध्ये। मर्मज्यमाना महते सौभगाय मह्यं धुक्ष्व यजमानाय कामानिति वेदिं संमृज्यमानाम्॥१॥
यो मा हृदा मनसा यश्च वाचा यो ब्रह्मणा कर्मणा द्वेष्टि देवाः। यः श्रुतेन हृदयेनेष्णता च तस्येन्द्र वज्रेण शिरश्छिनीति स्तम्बयजुह्रियमाणम्॥२॥
इदं तस्मै हर्म्यं करोमि यो वो देवाश्चरति ब्रह्मचर्यम्। मेधावी दिक्षु मनसा तपस्यन्तर्दूतश्चरति मानुषीष्वित्युत्करमभिगृह्यमाणम्॥३॥
यज्ञस्य त्वा प्रमयाभिमया प्रतिमयोन्मया परिगृहामीति वेदिं परिगृह्य माणाम्॥४॥
148 यदुनन्तो जिहिसिम पृथिवीमोषधीरपः। अध्वर्यवः स्फ्यक स्फ्येनान्तरिक्षं मोरु पातु तस्मात्॥ यदुनन्तो जिहिंसम क्रूरमस्या वेर्ति चकृमा मनसा देवयन्तः। मा तेन हेड उपगाम भूम्याः शिवो नो विश्वैर्भवने भिरस्वित्युद्धन्यमानाम्॥ भूमिभूत्वा महिमानं पुपोष ततो देवो वर्धयते पयांसि। यज्ञिया यज्ञं विचयन्ति शं चौषधीराप इह शक्वरीश्चेति क्रियमाणाम॥ इडेन्यक्रतूरहमपो देवीरुपब्रुवे। दिवा नक्तं च सस्नुषीरपस्वरीरिति प्रोक्षणी रासाद्यमानाः॥ ऊर्णामृदु प्रथमानं स्योनं देवेभ्यो जुष्टं सदनाय बर्हिः। सुवर्गे लोके यजमानं हि धेहि मां नाकस्य पृष्ठे परमे व्योमन्निति बर्हिरासाद्यमानम्॥५॥
अद्भिराज्यमाज्येनापः सम्यक् पुनीत सवितुः पवित्रैः। ता देवीः। शक्वरीः शाक्वरेणेमं यज्ञमवत संविदाना इत्याज्यं प्रोक्षणीश्चोत्पूयमानाः॥६॥
उभावाज्यग्रहाञ्जपतः।।७॥
149
04.06
अशिश्रेम बर्हिरन्तः पृथिव्यां संरोहयन्त ओषधीर्विवृक्णाः । यासां मूलमु द्वधीः स्फ्येन शिवा नस्ताः सुहवा भवन्तु॥ सुमनसो यजमानाय सन्त्वोष धीराप इह शक्वरीश्च। वृष्टिद्यावा पर्जन्य एना विरोहयतु हिरण्यवर्णाः शतवल्शा अदब्धा इत्यन्तर्वेदि बर्हिरासन्नम्॥१॥
चतुःशिखण्डा युवतिः सुपेशा घृतप्रतीका वयुनानि वस्ते। सा स्तीर्यमाणा महते सौभगाय सा मे धुक्ष्व यजमानाय कामान्॥ शिवा च मे शग्मा चैधि स्योना च मे सुषदा चैध्यूर्जस्वती च मे पयस्वती चैधि। इषमूर्जं मे पिन्वस्व ब्रह्म तेजो मे पिन्वस्व क्षत्रमोजो मे पिन्वस्व विशं पुष्टिं मे पिन्वस्वायुरन्नाद्यं मे पिन्वस्व प्रजां पशून् मे पिन्वस्वेति स्तीर्यमाणाम्॥२॥
ध्रुवोऽसीत्येतैः प्रतिमन्त्रं परिधीन्परिधीयमानान्। अस्मिन्यज्ञ उप भूय इन्नु मेऽविक्षोभाय परिधीन्दधामि। धर्ता धरुणो धरीयानग्निद्वैषांसि निरितो नु दाता इति च॥३॥
युनज्मि त्वा ब्रह्मणा दैव्येनेत्याहवनीयम्। तेजिष्ठा ते तपना या च रोचना प्रत्योषन्तीस्तन्वो यास्ते अग्ने। ताभिर्वाण्यभितो व्ययस्व मा त्वा दभन्यज्ञहनः पिशाचा इति च॥४॥
विच्छिनद्मि विधृतीभ्यां सपत्नीञ्जातान्भ्रातृव्यान्ये च जनिष्यमाणाः। विशो यन्त्राभ्यां विधमाम्येनानहं स्वानामुत्तमोऽसानि देवाः॥ विशो यन्त्रे नुदमाने अरातिं विश्वं पाप्मानममतिं दुर्मरायुम्। सीदन्ती देवी सुकृतस्य लोके धृती स्थो विधृती स्वधृती प्राणान्मयि धारयतं प्रजां मयि धारयतं पशून्मयि धारयतमिति विधृती आसाद्यमाने॥५॥
04.07
अयं प्रस्तर उभयस्य धर्ता धर्ता प्रयाजानामुतानूयाजानाम्। स दाधार समिधो विश्वरूपास्तस्मिन्युचो अध्यासादयामीति प्रस्तरमासाद्यमानम्॥१॥
आरोह पथो जुहु देवयानान्यत्रर्षयः प्रथमजा ये पुराणाः हिरण्यपक्षाजिरा संभृताङ्गा वहासि मा सुकृतां यत्र लोकाः॥ जुहूरसि घृताची गायत्रीयाम्नी कविभिर्जुषाणा अव्यथमाना यज्ञमनुयच्छस्व सुनीती यज्ञं नयास्युप देवानाग्नेयेन शर्मणा दैव्येनेति जूहूम्॥ अवाहं बाध उपभृता सपत्नाञ्जातान्भ्रातृव्यान्ये च जनिष्यमाणाः। दोहै यज्ञं सुदुघामिव धेनुमहमुत्तरो भूयासमधरे मत्सपलाः॥ सुभृदस्युपभृघृताची त्रैष्टुभेन छन्दसा विश्ववेदाः। अव्यथमाना यज्ञमनुयच्छस्व सुनीती यज्ञं नयास्युप देवानन्द्रेण शर्मणा दैव्येनेत्युपभृतम्॥ यो मा वाचा मनसा दुर्मरायुर्हदारातीयादभिदासदग्ने। इदमस्य चित्तमधरं ध्रुवाया अहमुत्तरी भूयासमधरे मत्सपत्नाः॥ध्रुवासि धरणी धनस्य पूर्णा जागतेन छन्दसा विश्ववेदाः। अव्यथमाना यज्ञमनुयच्छस्व सुनीती यज्ञं नयास्युप देवान्वैश्वदेवेन शमणाIV.8] ApSs Translation : THITE 151 दैव्येनेति ध्रुवाम्॥ स्योनो मे सीद सुषदः पृथिव्यां प्रथयि प्रजया पशुभिः सुवर्गे लोके। दिवि सीद पृथिव्यामन्तरिक्षे ऽहमुत्तरो भूयासमधरे मत्सपत्नाः। अयं त्रुवो अभिजिहर्ति होमाञ्छतक्षरश्छन्दसानुष्टुभेन। सर्वा यज्ञस्य समनक्ति विष्ठा बार्हस्पत्येन शर्मणा दैव्येनेति स्त्रुवम्॥ इयं स्थाली घृतस्य पूर्णाच्छिन्नपयाः शतधार उत्सः। मारुतेन शर्मणा दैव्येनेत्याज्यस्थालीम्॥२॥
04.08
तृप्तिरसि गायत्रं छन्दस्तर्पय मा तेजसा ब्रह्मवर्चसेन तृप्तिरसि त्रैष्टुभं छन्दस्तर्पय मौजसा वीर्येण तृप्तिरसि जागतं छन्दस्तर्पय मा प्रजया पशुभिरिति पुरोडाशानज्यमानान्॥१॥
यज्ञो ऽसि सर्वतः श्रितः सर्वतो मां भूतं भविष्यच्छ्रयतां शतं मे सन्त्वाशिषः सहस्रं मे सन्तु सूनृता इरावतीः पशुमतीः प्रजापतिरसि सर्वतः श्रितः सर्वतो मां भूतं भविष्यच्छ्रयतां शतं मे सन्त्वाशिषः सहस्रं मे सन्त 152 ranslation : THITE [IV.8 सूनृता इरावतीः पशुमतीरित्याग्नेयं पुरोडाशमासन्नमभिमृशति सर्वाणि वा हवींषि॥२॥
इदमिन्द्रियममृतं वीर्यमनेनेन्द्राय पशवो चिकित्सन्। तेन देवा अवतोप मामिहेषमूर्जं यशः सह ओजः सनेयं शृतं मयि श्रयतामिति प्रातर्दोहम्। यत्पृथि वीमचरत्तप्रविष्टं येनासिञ्चद्वलमिन्द्रे प्रजापतिः। इदं तच्छु– मधु वाजिनी वद्येनोपरिष्टादधिनोन्महेन्द्रं दधि मां धिनोत्विति दधि॥३॥
अयं यज्ञः समसदद्धविष्मानृचा साम्ना यजुषा देवताभिः। तेन लोकान्सूर्यवतो जयेमेन्द्रस्य सख्यममृतत्वमश्यामिति सर्वाणि हवींषि॥४॥
यो नः कनीय इह कामयाता अस्मिन्यज्ञे यजमानाय मह्यम्। अप तमिन्द्राग्नी भुवनान्नुदेतामहं प्रजां वीरवतीं विदेयेत्यैन्द्राग्नम्॥५॥
ममाग्ने वर्षो विहवेष्वस्त्विन्यनुवाकेन सर्वाणि हवींष्यासन्नान्यभिमृशे दष्टाभिर्वा॥६॥
चतुर्होत्रा पौर्णमास्या हवींष्यासन्नान्यभिमृशेत्प्रजाकामः पञ्चहोत्रामावास्यायां स्वर्गकामो नित्यवदेके समामनन्ति॥७॥
04.09
दशहोतारं वदेत्पुरस्तात्सामिधेनीनाम्॥१॥
अङ्गिरसो मास्य यज्ञस्य प्रातरनुवाकैरवन्त्वितिसामिधेनीनां प्रतिपदि जपति॥२॥
अनूच्यमानासु दशहोतारं व्याख्यायोच्छुष्मो अग्न इति समिध्यमानम्। समिद्धो अग्निराहुतः स्वाहाकृतः पिपर्तु नः। स्वगा देवेभ्य इदं नम इति समिद्धम्॥३॥
मनोऽसि प्राजापत्यमिति स्त्रौवमाघार्यमाणम्॥४॥
स्रुच्यमन्वारभ्य वागस्यैन्द्रीत्यनुमन्त्रयते॥५॥
देवाः पितरः पितरो देवा योऽहमस्मि स सन्यजे यस्यास्मि न तमन्तरेमि स्वं म इष्टं स्वं दत्तं स्वं पूर्तं स्वं श्रान्तं स्वं हुतम्। तस्य मेऽग्निरुपद्रष्टा वायुरुपश्रोतादित्योऽनुख्याता द्यौः पिता पृथिवी माता प्रजापतिबन्धुर्य एवास्मि स सन्यज इति होतृप्रवरेऽध्वर्युप्रवरे च प्रक्रियमाणे॥६॥
चतुर्होतारं व्याख्याय वसन्तमृतूनां प्रीणामीत्येतैः प्रतिमन्त्रं प्रयाजान्हु तंहुतम्॥७॥
एको ममैका तस्य योऽस्मान्द्वेष्टि यं च वयं द्विष्मो द्वौ मम द्वे तस्य त्रयो मम तिस्रस्तस्य चत्वारो मम चतस्रस्तस्य पञ्च मम न तस्य किंचन योऽस्मान्द्वेष्टि यं च वयं द्विष्म इत्येतैश्च प्रतिमन्त्रम्॥८॥
अग्नीषोमयोरहं देवयज्यया चक्षुष्मान्भूयासमित्याज्यभागौ॥९॥
विहृतानुमन्त्रणौ वा॥१०॥
अग्निना यज्ञश्चक्षुष्मानग्नेरहं देवयज्यया चक्षुष्मान्भूयासम्। सोमेन यज्ञश्चक्षुष्माँ सोमस्याहं देवयज्यया चक्षुष्मान्भूयासमिति विहृतौ॥११॥
पञ्चहोतारं वदेत्पुरस्ताद्धविरवदानस्य॥१२॥
अग्नेरहं देवयम्ययान्नादो भूयासमित्याग्नेयं हुतमनुमन्त्रयते दब्धिरसीत्यु पांशुयाजमग्नीषोमयोरित्यग्नीषोमीयमिन्द्राग्नियोरित्यैन्द्राग्नमिन्द्रस्येत्यैन्द्रं सांनाय्यं महेन्द्रस्येति माहेन्द्रमग्नेः स्विष्टकृत इति सौविष्टकृतम्॥१३॥
पुरस्तात्स्विष्टकृतो ऽन्यदेवतान्येके समामनन्ति॥१४॥
_____IV.10
इन्द्रस्य वैमृधस्याहं देवयज्ययापसपनो वीर्यवान्भूयासमिन्द्रस्य त्रातुरहं देवयज्यया त्रातो भूयासं द्यावापृथिव्योरहं देवयज्ययोभयोर्लोकयोध्यासं। भूमानं प्रतिष्ठां गमेयमित्येके॥ पूष्णो ऽहं देवयज्यया प्रजनिषीय प्रजया पशुभिः सरस्वत्या अहं देवयज्यया वाचमन्नाद्यं पुषेय विश्वेषां देवानामहं देवयज्यया प्राणं सायुज्यं गमेयमर्यम्णो ऽहं देवयञ्यया स्वर्ग लोकं गमेयमदित्या अहं देवयज्यया प्र प्रजया प्र पशुभिश्च जनिषीयेन्द्रस्येन्द्रियावतो ऽहं देवयज्यये न्द्रियाव्यन्नादो भूयासमिति यथालिङ्गं वैकृतीः॥१॥
अग्निर्मा दुरिष्टात्पात्विति प्राशित्रमवदीयमानम्॥२॥
सुरूपवर्षवर्ण एहीतीडाम्॥३॥
भूयस्येहि श्रेयस्येहि वसीयस्येहि चित्त एहि दधिष एहीड एहि सूनृत एहीतीडाया उपांशूपहवे सप्त देवगवीर्जपति। चिदसि मनासि धीरसि रन्ती रमतिः सूनुः सूनरीत्युच्चैरुपहवे सप्त मनुष्यगवीः। देवीर्देवैरभि मा निवर्तध्वं स्योनाः स्योनेन घृतेन मा समुक्षत नम इदमुदं भिषगृषिर्ब्रह्मा यद्ददे समुद्रादु दचन्निव स्रुचा वागणे विप्रस्य तिष्ठति शृङ्गेभिर्दशभिर्दिशन्निति च॥४॥
उपहूयमानायां वायविडा ते मातेति होतारमीक्षमाणो वायुं मनसा ध्यायेत्॥५॥
158
सा मे सत्याशीरित्याशिःषु। आशीर्म ऊर्जमिति च॥६॥
इडाया अहं देवयज्यया पशुमान्भूयासमित्युपहूताम्॥ इडा धेनुः सहवत्सा न आगादूर्जं दुहाना पयसा प्रपीना। सा नो अन्नेन हविषोत गोभिरिडाभ्यस्माँ आगादिति भक्षायाह्रियमाणाम्॥७॥
उक्त इडाभक्षो मार्जनी च॥८॥
ब्रन पिन्वस्व ददतो मे मा क्षायि कुर्वतो मे मोपदसद्विशां क्लूप्तिरसि दिशो मे कल्पन्तां कल्पन्तां मे दिशो दैवीश्च मानुषीश्चाहोरात्रे मे कल्पेताम र्धमासा मे कल्पन्तां मासा मे कल्पन्तामृतवो मे कल्पन्तां संवत्सरो मे कल्पतां कॢप्तिरसि कल्पतां म इति बर्हिषि पुरोडाशमासन्नमभिमृशति॥९॥
04.11
अथैनं प्रतिदिशं व्यूहत्याशानां त्वाशापालेभ्यश्चतुर्यो अमृतेभ्यः। इदं भूतस्याध्यक्षेभ्यो विधेम हविषा वयम्॥ ब्रह्म पाहि भजतां भागी भागे माभागो भक्त निरभागं भजामः। अपस्पिन्वौषधीर्जिन्व द्विपात्पाहि चतुष्पादव दिवो वृष्टिमेरय॥ ब्राह्मणानामिदं हविः सोम्यानां सोमपीथिनाम्। निर्भक्तो ऽब्राह्मणस्यास्तीति॥१॥
- With āśānāṁ tvāśāpālebhyaḥ…’ (the sacrificer) sepa rates (the four parts of) it (sacrificial bread).2
- TB III.7.5.8-10.
- See III.3.3.
उपहूतो द्यौः पितोप मां द्यौः पिता ह्वयतामग्निराग्नीध्रादायुषे वर्चसे जीवात्वै पुण्यायेत्याग्नीध्रभागस्य वैशेषिकम्॥२॥ 2. Upahuto dyauh pitā… is the special (formula) for (sepa rating) the portion (of sacrificial bread) for Āgnīdhra.
ब्रन पिन्वस्वेत्यन्तर्वेद्यन्वाहार्यमासन्नमभिमृशति॥ इयं स्थाल्यमृतस्य पूर्णा सहस्त्रधार उत्सो अक्षीयमाणः। स दाधार पृथिवीमन्तरिक्षं दिवं च तेनौदनेनातितराणि मृत्युमिति च॥३॥
उक्तः संप्रैषो ऽन्वाहार्यस्य च दानम्॥४॥
एषा ते अग्ने समिदित्यानूयाजिकी समिधमाधीयमानाम्॥ यं ते अग्न आवृश्चाम्यहं वा क्षिपितश्चरन्। प्रजां च तस्य मूलं च नीचैर्देवा निवृश्चत॥ अग्ने यो नोऽभिदासति समानो यश्च निष्टयः। इध्मस्येव प्रक्षायतो मा तस्योच्छेषि किंचन॥ यो मां द्वेष्टि जातवेदो यं चाहं द्वेष्मि यश्च माम्। सर्वांस्तानग्ने संदह यांश्चाहं द्वेष्मि ये च मामित्याहितायामग्निम्॥५॥
वेदिर्बर्हिः शृतं हविरिध्मः परिधयः शुचः। आज्यं यज्ञ ऋचो यजुर्यायाश्च वषट्काराः। सं मे संनतयो नमन्तामिध्मसंनहने हुत इति संमार्गान्हुतान्॥६॥
सप्तहोतारं वदेत्पुरस्तादनूयाजानामुपरिष्टाद्वा॥७॥
04.12
बर्हिषो ऽहं देवयम्यया प्रजावान्भूयासमित्येतैः प्रतिमन्त्रमनूयाजान्हुतंहु तम्॥१॥
उभौ वाजवत्यौ जपतः॥२॥
वसून्देवान्यज्ञेनापि रुद्रान्देवान्यज्ञेनापिप्रेमादित्यान्देवान्यज्ञेनापिप्रेमिति प्रतिमन्त्रं परिधीनग्यमानान्॥ समां बर्हिर्हविषा घृतेन समादित्यैर्वसुभिः से मरुद्भिः। समिन्द्रेण विश्वेभिर्देवेभिरङ्कां दिव्यं नभो गच्छतु यत्स्वाहेति प्रस्तरमज्यमानम्॥३॥
अग्नेरहमुज्जितिमनूज्जेषमिति यथालिङ्गं सूक्तवाकदेवताः॥४॥
यदा चास्य होता नाम गृह्णीयादथ ब्रूयादेमा अग्मन्नाशिषो दोहकामा इति॥५॥
सा मे सत्याशीर्देवानगम्याज्जुष्टाज्जुष्टतरा पण्यात्पण्यतरारेडता मनसा देवानगम्याद्यज्ञो देवानगच्छत्वदो म आगच्छत्विति सूक्तवाकस्याशिःषु यत्कामयते तस्य नाम गृह्णाति॥६॥
रोहितेन त्वाग्निर्देवतां गमयत्वित्येतैः प्रतिमन्त्रमग्नीधा प्रस्तरं प्रह्रिय माणम्॥७॥
162
दिवः खीलोऽवततः पृथिव्या अध्युत्थितः तेना सहस्रकाण्डेन गि शोचयामसि द्विषन्मे बहु शोचत्वोषधे मो अहं शुचमिति प्रस्तरतणे प्रहियमा
वि ते मुञ्चामीति परिधिषु विमुच्यमानेषु॥९॥
विष्णोः शंयोरिति शंयुवाके। यज्ञ नमस्ते यज्ञ नमो नमश्च ते यज्ञ शिवेन मे संतिष्ठस्व स्योनेन मे संतिष्ठस्व सुभूतेन मे संतिष्ठस्व ब्रह्मवर्चसेन मे संतिष्ठस्व यज्ञस्यर्द्धिमनु संतिष्ठस्वोप ते यज्ञ नम उप ते नम उप ते नम इति च। इष्टो यज्ञो भृगुभिर्द्रविणोदा यतिभिराशीर्दा वसुभिराशीर्वान् अथर्वभिस्तस्य मेष्टस्य वीतस्य द्रविणेहागमेरिति संस्राव हुतम्॥१०॥
04.13
सोमस्याहं देवयज्यया सुरेता रेतो धिषीयेति यथालिङ्गं पत्नीसंयाजान्हु तंहुतम्॥१॥
163
राकाया अहं देवयम्यया प्रजावान्भूयासं सिनीवाल्या अहं देवयज्यया पशमान्भूयासं कुह्वा अहं देवयज्यया पुष्टिमान्भूयासमिति काम्याः॥२॥
राकाया अहं देवयज्यया प्रजावती भूयासं सिनीवाल्या अहं देवयज्यया पशुमती भूयासं कुह्वा अहं देवश्यया पुष्टिमती पशुमती भूयासमिति पन्युपमन्त्रयते॥३॥
इडास्माननु वस्तां घृतेन यस्याः पदे पुनते देवयन्तः। वैश्वानरी शक्वरी वावृधानोप यज्ञमस्थित वैश्वदेवीत्याज्येडाम्॥४॥
अन्तर्वेदि वेदं निधायाभिमृशति वेदो ऽसीति॥५॥
पुरा विदेयेति यद्यद्भातृव्यस्याभिध्यायेत्तस्य नाम गृह्णीयात्। तदेवास्य सर्वं वृत इति विज्ञायते॥६॥
या सरस्वती विशोभगीना तस्यां मे रास्व तस्यास्ते भक्तिवानो भूयास्मेति फलीकरणहोमे हुते मुखं विमृष्ट७॥
वसर्यज्ञो वसुमान्यज्ञस्तस्य मा यज्ञस्य वसोर्वसुमतो वस्वागच्छलियोन आगच्छत्विति समिष्टयजुर्हतमनुमन्त्रयते॥ यत्कामयते तस्य नाम गहानि
सं यज्ञपतिराशिषेति यजमानभागं प्राश्नाति॥९॥
04.14
दधिक्राव्णो अकारिषमिति सायंदोहम्। इदं हविरिति प्रातःहम्॥१॥
नाब्राह्मणः सानाय्यं प्राश्नीयात्॥२॥
अन्तर्वेदि प्रणीतास्वध्वर्युः संततामुदकधारा स्त्रावयति। सदसि सन्मे भूया इत्यानीयमानायां जपति॥३॥
165
प्राच्यां दिशि देवा ऋत्विजो मार्जयन्तामित्येतैर्यथालिङ्गं व्युत्सिच्य समुद्रं वः प्रहिणोमि स्वां योनिमपिगच्छत। अच्छिद्रः प्रजया भूयासं मा परा सेचि मत्पय इत्यन्तर्वेदि शेषं निनीय यदप्सु ते सरस्वति गोष्वश्वेषु यन्मधु। तेन मे वाजिनीवति मुखमधि सरस्वति। या सरस्वती वैशम्बल्या तस्यां मे रास्व तस्यास्ते भक्षीय तस्यास्ते भूयिष्ठभाजो भूयास्मेति मुखं विमृष्टे॥४॥
उभौ कपालविमोचनं जपतः॥५॥
विष्णोः क्रमोऽसीति दक्षिणे वेद्यन्ने दक्षिणेन पदा चतुरो विष्णुक्रमान्याचः क्रामत्युत्तरमुत्तरं न्यायांसमनतिहरन्सव्यम्॥६॥
नाहवनीयमतिक्रामति॥७॥
अवस्थाय चतुर्थं जपति॥८॥
166
विष्णुक्रमान्विष्णवतिक्रमानतीमोक्षानिति व्यतिषक्तानेके समापननि विनिरूढानेके॥९॥
अग्निना देवेन पृतना जयामीति विष्णवतिक्रमाः। ये देवा यज्ञहन इत्यतीमोक्षाः॥१०॥
अगन्म सुवः सुवरगन्मेत्यादित्यमुपतिष्ठते॥११॥
04.15
उद्यन्ना मित्रमहः सपलान्मे अनीनशः। दिवैनान्विद्युता जहि निनोचन्नध रान्कृधि॥ उद्यन्नद्य वि नो भज पिता पुत्रेभ्यो यथा। दीर्घायुत्वस्य हेशिषे तस्य नो देहि सूर्य।। उद्यन्नद्य मित्रमह आरोहन्नुत्तरां दिवम्। हृद्रोगं मम सूर्य हरिमाणं च नाशय॥ शुकेषु मे हरिमाणं रोपणाकासु दध्मसि। अथो हारिद्रवेषु में हरिमाणं निदध्मसि॥ उदगादयमादित्यो विश्वेन सहसा सह। द्विषन्तं मम 167 रन्धयन्मो अहं द्विषतो रधम्। यो नः शपादशपतो यश्च न शपतः शपात्। उषाश्च तस्मै निमुक् च सर्वं पापं समूहतामिति च॥१॥
ऐन्द्रीमावृतमन्वावर्त इति प्रदक्षिणमावर्तते॥२॥
यद्यभिचरेदिदमहममुष्यामुष्यायणस्य प्राणं निवेष्टयामीति दक्षिणस्य पदः पाष्र्या निमृद्रीयात्॥३॥
पुण्या भवन्तु या लक्ष्मीः पराभवन्तु याः पापीरित्युक्त्वा समहं प्रजया सं मया प्रजेति पुनरुपावर्तते॥४॥
समिद्धो अग्ने मे दीदिहि समेद्धा ते अग्ने दीद्यासमित्याहवनीयमुपसमिद्ध। वसुमान्यज्ञो वसीयान्भूयासमित्युपतिष्ठते॥५॥
04.16
यो नः सपनो यो ऽरणो मर्तोऽभिदासति देवाः। इध्मस्येव प्रक्षायतो मा तस्योच्छेषि किंचनेति च॥१॥
अग्न आयूंषि पवस इत्याग्निपावमानीभ्यां गार्हपत्यमुपतिष्ठते। अपने गृहपत इति च॥२॥
पुत्रस्य नाम गृह्णाति तामाशिषमाशासे तन्तव इत्यजातस्य अमुष्मा इति जातस्य॥३॥
ज्योतिषे तन्तवे त्वासावनु मा तन्वच्छिन्नो दैव्यस्तन्तुर्मा मनुष्यश्छेदि दिव्याद्धाम्नो मा च्छित्सि मा मानुषादिति प्रियस्य पुत्रस्य नाम गृह्णाति॥४॥
अग्ने वह्ने स्वदितं नस्तनये पितुं पच। शं तोकाय तनुवे स्योन इति दक्षिणाग्निम्॥५॥
ज्योतिषे तन्तवे त्वेत्यन्तर्वेधुपविशति। पूर्ववन्नामग्रहणम्॥६॥
ज्योतिरसि तन्तव इत्युपविश्य जपति॥७॥
वेदमुपस्थ आधायान्तवेद्यासीनो ऽतीमोक्षाञ्जपति॥८॥
अत्र वेदस्तरणं यजमानभागस्य च प्राशनमेके समामनन्ति॥९॥
कस्त्वा युनक्ति स त्वा विमुञ्चत्विति यज्ञं विमुञ्चति॥१०॥
अग्ने व्रतपते व्रतमचारिषमिति व्रतं विसृजते॥११॥
यज्ञो बभूवेति यज्ञस्य पुनरालम्भं जपति॥१२॥
गोमानिति प्रादेत्य गोमती जपति॥१३॥
अत्र वा यजमानभागं प्राश्नीयात्॥१४॥
170 170
यज्ञं शं च म उप च म आयुश्च मे बलं च मे यज्ञ शिवो मे संतिष्ठान यज्ञ स्विष्टो मे संतिष्ठस्व यज्ञारिष्टो मे संतिष्ठस्वेति दर्शपूर्णमासाभ्यां सोरेन पशुना वेष्ट्वा जपति॥१५॥
वृष्टिरसि वृश्च पाप्मानमृतात्सत्यमुपागामितीष्ट्वाप उपस्पृशति। तदिदं सर्वयज्ञेषूपस्पर्शनं भवति॥१६॥
ब्राह्मणांस्तर्पयितवा इति संप्रेष्यति॥१७॥
प्रवसन्काले विहारमभिमुखो याजमानं जपति॥१८॥
प्राचो विष्णुक्रमान्क्रामति॥१९॥
प्रादेत्य गोमती जपति जपति॥२०॥