01 Darśapūrṇamāsau

NEW AND FULL-MOON-SACRIFICES

01.01

अथातो दर्शपूर्णमासौ व्याख्यास्यामः॥१॥

प्रातरग्निहोत्रं हुत्वान्यमाहवनीयं प्रणीयाग्नीनन्वादधाति॥२॥

न गतश्रियो ऽन्यमग्निं प्रणयति॥३॥

देवा गातुविदो गातुं यज्ञाय विदन्त। मनसस्पतिना देवेन वाताद्यज्ञः प्रयुज्यतामिति जपित्वा ममाग्ने वर्ची विहवेष्वस्त्वित्याहवनीयमुपसमिन्दधे। उत्तरया गार्हपत्यमुत्तरयान्वाहार्यपचनम्॥४॥

तिसृभिस्तिसृभिर्वा॥५॥

उत्तमां तु जपेदाहवनीये वादध्यात्॥६॥

व्याहृतीभिरन्वाधानमेके समामनन्ति॥७॥

संनयतः पलाशशाखां शमीशाखां वाहरति बहुपर्णा बहुशाखामप्रति शुष्काग्रामसुषिराम्॥८॥

यं कामयेतापशुः स्यादित्यपर्णां तस्मै शुष्काग्रामाहरेदपशुरेव भवति। यं कामयेत पशुमान्स्यादिति बहुपर्णा तस्मै बहुशाखामाहरेत्पशुमन्तमेवैनं करोतीति विज्ञायते॥९॥

सा या प्राच्युदीची प्रागुदीची वा भवतीघे त्वोर्जे त्वेति तामाच्छिनत्ति॥१०॥

अपि वेषे त्वेत्याच्छिनत्त्यूर्जे त्वेति संनमयत्यनुमार्टि वा॥११॥

01.02

इमां प्राचीमुदीचीमिषमूर्जमभिसंस्कृतां बहुपर्णामशुष्काग्रां हरामि पशुपामहमित्याहरति ॥१॥

वायव स्थोपायव स्थेति तया षडवराया॑न्वत्सानपाकरोति॥२॥

दभैंदर्भपुञ्जीलै॥३॥

देवो वः सविता प्रार्पयत्विति शाखया गोचराय गाः प्रस्थापयति॥४॥

प्रस्थितानामेकां शाखयोपस्पशति दर्भेर्दर्भपुञ्जीलै॥५॥

आप्यायध्वमनिया इन्द्राय देवभागमित्येके समामनन्ति। महेन्द्रायेत्येके॥

इन्द्रं निगमेषूपलक्षेयेदिन्द्रयाजिनो महेन्द्र महेन्द्रयाजिनः॥७॥

शुद्धा अपः सुप्रपाणे पिबन्तीः शतमिन्द्राय शरदो दुहानाः। रुद्रस्य हेतिः परि वो वृणक्त्विति प्रस्थिता अनुमन्त्रयते॥८॥

ध्रुवा अस्मिन्गोपतौ स्यात बह्वीरिति यजमानस्य गृहानभिपर्यावर्तते॥१॥

यजमानस्य पशून्पाहीत्यग्निष्ठे ऽनस्यग्न्यगारे वा पुरस्तात्प्रतीची शाखा मुपगृहति पश्चात्प्राची वा॥१०॥

यो वा अध्वर्योहान्वेद गृहवान्भवति। आ चतुर्थात्कर्मणो ऽभिसमीक्षेतेदं करिष्यामीदं करिष्यामीत्येते वा अध्वर्योहाः। य एवं वेद गृहवान्भवतीति विज्ञायते॥११॥

01.03

उत्तरेण गार्हपत्यमसिदो ऽश्वपशुरनडुत्पर्शर्वा निहिता॥१॥

देवस्य त्वा सवितुः प्रसव इत्यसिदमश्वपशुं वादत्ते तूष्णीमनडुत्पशुम्॥२॥

यज्ञस्य घोषदसीति गार्हपत्यमभिमन्त्र्य प्रत्युष्टं रक्षः प्रत्युष्टा अरातय इत्याहवनीये गार्हपत्ये वासिदं प्रतितपति॥३॥ न पशुम्॥४॥

प्रेयमगादित्युक्त्वोर्वन्तरिक्षमन्विहीति प्राचीमुदीची वा दिशमभिप्रव्रज्य यतः कुतश्चिद्वर्भमयं बर्हिराहरति॥५॥

देवानां परिषूतमसीति दर्भान्परिषौति॥६॥

विष्णो स्तूपो ऽसीत्यभिप्रेतानामेकं स्तम्बमुत्सृजति॥७॥

एकं वा स्तम्बं परिषूय तं सर्वं दाति॥८॥

अतिसृष्टो गवां भाग इति वैकां द्वे तिस्रो वा नाडीरुत्सृजति॥९॥

इदं देवानामिति परिषूतानभिमृशति। इदं पशूनामित्यतिसृष्टान्॥१०॥

देवस्य त्वा सवितुः प्रसवे ऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां बर्हिर्देवसदनमारभ इति विशाखेषु दर्भानारभते॥११॥

देवबर्हिर्मा त्वान्वङ्मा तिर्यगिति संयच्छति॥१२॥

पर्व ते राध्यासमित्यसिदमधिनिदधाति॥१३॥

आच्छेत्ता ते मा रिषमित्याच्छिनत्ति॥१४॥

संनखं मुष्टिं लुनोति॥१५॥

स प्रस्तरः॥१६॥

कुल्मिमात्रो ऽरनिः प्रादेश ऊर्वस्थि जान्वस्थि त्रुग्दण्ड इति वा तिर्यक् प्रमाणानि॥१७॥

01.04

पृथिव्याः संपृचः पाहीत्यनधो निदधाति॥१॥

अयुजो मुष्टील्लुनोति॥२॥

तथा निधनानि॥३॥

तेषां प्रस्तरो ऽयुगर्थ इत्येके॥४॥

प्रस्तरे याथाकामी॥५॥

यदन्यत्परिषवणादुत्सर्जनाच्च तत्सर्वत्रावर्तते॥६॥

प्रस्तरमेव मन्त्रेण दाति तूष्णीमितरदिति वाजसनेयकम्॥७॥

सर्वं लुत्वा देवबर्हिः शतवल्शं विरोहेत्यालवानभिमृशति॥८॥

सहस्त्रवल्शा वि वयं रुहेमेत्यात्मानम्॥९॥

अदित्यै रास्नासीति त्रिधातु पञ्चधातु वा शुल्बं करोति॥१०॥

आयुपिता योनिरिति प्रतिदधाति॥११॥

अदित्यै रास्तासीत्युदगग्रं वितत्य सुसंभृता त्वा संभरामीति तस्मिन्निधनानि संभृत्यालुभिता योनिरित्युत्तमे निधने प्रस्तरमत्याधायेन्द्राण्यै संनहनमिति संनयति॥१२॥

पूषा ते ग्रन्थिं ग्रथनात्विति ग्रन्थिं करोति॥१३॥

स ते मास्थादिति पुरस्तात्प्रत्यञ्चं ग्रन्थिमुपगृहति पञ्चात्प्राञ्चं वा॥१४॥

आपस्त्वामश्विनौ त्वामृषयः सप्त मामृजुः। बर्हिःसूर्यस्य रश्मिभिरुषसां केतुमारभ इति बर्हिरारभते। इन्द्रस्य त्वा बाहुभ्यामुद्यच्छ इत्युद्यच्छते। बृहस्पतेर्मूर्जा हरामीति शीर्षनधिनिधत्ते॥१५॥

01.05

प्रेयमगादुर्वन्तरिक्षमन्विहीति यौ गमनौ तौ प्रत्यायनौ॥१॥

अदित्यास्त्वोपस्थे सादयामीत्यन्तर्वेदि परिधिदेशे ऽनधः सादयति॥२॥

बर्हिरसि देवंगममित्यासन्नमभिमन्त्रयते॥३॥

देवंगममसीत्यनधो निदधाति यथा प्रागुपसादयेत्॥४॥

या जाता ओषधयो देवेभ्यस्त्रियुगं पुरा। तासां पर्व राध्यासं परिस्तरमाहरन्॥ अपां मेध्यं यज्ञियं सदेवं शिवमस्तु मे। आच्छेत्ता यो मा रिष जीवानि शरदः शतम्॥ अपरिमिताना परिमिताः संनद्ये सुकृताय कम्। एनो मा निगां कत मच्चनाहं पुनरुत्थाय बहुला भवन्विति परिस्तरणानामधि निधान्याच्छेदनी संनहनीति यथालिङ्गम्॥५॥

खादिरं पालाशं वैकविंशतिदारुमिमं करोति॥६॥

मा त्रयः प्ररिधयः॥७॥ पलाशकार्मर्यखदिरौदुम्बरबिल्वरोहीतकविकतानां ये वा यज्ञिया वृक्षाः ॥८॥

आर्द्राः शुष्का वा सत्वक्काः ॥९॥10) (10) )

स्थविष्ठो मध्यमो ऽणीयान्द्राधीयान्दक्षिणायॊ ऽणिष्ठो हसिष्ठ उत्तरार्ध्यः॥१०॥

द्वे आघारसमिधावनूयाजसमिदेकविंशति॥११॥

समूलानामृतेमूलानां वा दर्भाणां पूर्ववच्छुल्बं कृत्वोदगग्रं वितत्य॥१२॥

01.06

यत्कृष्णो रूपं कृत्वां प्राविशस्त्वं वनस्पतीन्। ततस्त्वामेकविंशतिधा संभरामि सुसंभृता॥ त्रीपरिधीस्तिस्त्रः समिधो यज्ञायुरनुसंचरान्। उपवेषं मेक्षणं धृष्टिं संभरामि सुसंभृतेति शुल्ब इध्मं संभरति॥१॥

कृष्णो ऽस्याखरेठो देव पुरश्चर सध्यासं त्वेति संनयति। पुरस्तात्प्रत्यञ्चं ग्रन्थिमुपगृहति पञ्चात्याचे वा। अनधो निदधाति॥२॥ __

इध्मप्रवचनानि निदधाति॥३॥

त्वया वेदि विविदुः पृथिवीं त्वया यज्ञो जायते विश्वदानिः। अच्छिद्रं यज्ञमन्वेषि विद्वांस्त्वया होता संतनोत्यर्धमासानिति दर्भाणां वेदं करोति।।४॥

वत्सर्जु पशुकामस्य मूतकार्यमन्नाद्यकामस्य त्रिवृच्छिरसं ब्रह्मवर्चसका मस्य॥५॥

शुल्बात्प्रादेशे परिवास्य वेदपरिवासनानि निदधाति॥६॥

अन्तर्वेदि शाखायाः पलाशान्यसर्वाणि प्रशात्य मूलतः शाखां परिवास्योपवेषं करोत्युपवेषो ऽसि यज्ञाय त्वां परिवेषमधारयन्। इन्द्राय हविः कृण्वन्तः शिवः शग्मो भवासि न इति॥७॥

तृतीयस्यै दिवो गायत्रिया सोम आभृतः। सोमपीथाय संनयितुं वकल मन्तरमादद इति परिवासनशकलमादाय प्रज्ञातं निदधाति॥८॥

त्रिवददर्भमयं पवित्रं कृत्वा वसूनां पवित्रमसीति शाखायां शिथिलमवसनकि मूले मूलान्यग्रे ऽग्राणि। न ग्रन्थिं करोति॥९॥

त्रिवृत्पलाशे दर्भ इयान्प्रादेशसंमितः। यज्ञे पवित्रं पोतृतमं पयो हव्यं करोतु मे॥ इमौ प्राणापानौ यज्ञस्याङ्गानि सर्वशः। आप्याययन्तौ संचरतां पवित्रे हव्यशोधन इति क्रियमाणे यजमानो ऽनुमन्त्रयते॥१०॥

समूहन्त्यग्न्यगारमुपलिम्पन्त्यायतनानि॥११॥

अलंकुर्वाते यजमानः पत्नी च॥१२॥

नवे सांनाय्यकुम्भ्यौ यावच्छर्करं गोमयेनालिप्ते भवतः॥१३॥

01.07

.

अमावास्यायां यदहश्चन्द्रमसं न पश्यन्ति तदहः पिण्डपितृयज्ञं कुरुते॥१॥

अपराह्ने ऽधिवृक्षसूर्ये वा पिण्डपितृयज्ञेन चरन्ति॥२॥

अपां मेध्यं यज्ञियमिति समूलं सकृदाच्छिन्नं बर्हिराहरति॥३॥ सकृदाच्छिन्नानि वा तृणान्युपमूलं दिनानि॥४॥

दक्षिणाप्रागौर्दभैर्दक्षिणमग्निं परिस्तीर्य दक्षिणतः पश्चाद्वा दर्भान्संस्तीर्य दक्षिणाप्राञ्च्येकैकशः पिण्डपितृयज्ञपात्राणि प्रयुनक्ति स्फ्यं मेक्षणं कृष्णा जिनमुलूखलं मुसलं शूर्पमाज्यस्थाली चरुस्थाली येन चान्येनार्थी भवति॥५॥

दक्षिणतः प्रागीषं व्रीहिमच्छकटमवस्थितं भवति॥६॥

अध्वर्युरुपवीती स्थालीमेकपवित्रेणान्तर्धाय तया दक्षिणतः शकटादधि निर्वपत्युत्तरतो वा॥७॥

तां पूरयित्वा निमाष्टि।८॥

मृन्मये निर्वपति पितृभ्यो वो जुष्टं निर्वपामीति तूष्णीं वा॥९॥

अपरेणान्वाहार्यपचनं प्रत्यगुदग्ग्रीवे कृष्णाजिन उलूखले प्रतिष्ठिते दक्षिणाप्राची तिष्ठन्ती पल्यवहन्ति परापावमविवेकम्॥१०॥

सकृत्फलीकरोति॥११॥

दक्षिणाग्नौ जीवतण्डुलं अपयति॥१२॥

अपहता असुरा रक्षांसि पिशाचा वेदिषद इत्यन्तरा गार्हपत्यान्वाहार्यपचनौ दक्षिणापूर्वेण वान्वाहार्यपचनं दक्षिणाप्राचीमेकस्फ्यां पराची वेदिमुद्धत्य शुन्धन्तां पितर इत्यभिरवोक्ष्यायन्तु पितरो मनोजवस इत्यभिमन्त्र्य सकृदाच्छिन्न 17 बर्हिरूर्णामृदु स्योनं पितृभ्यस्त्वा भराम्यहम्। अस्मिन्सीदन्तु मे पितरः सोम्याः पितामहाः प्रपितामहाश्चानुगैः सहेति सकृदाच्छिन्नेन बर्हिषा वेदिं स्तृणाति॥१३॥

01.08

उत्पूतेन नवनीतेनानुत्पूतेन वा सर्पिषा स्थालीपाकमभिघायॆकस्फ्यायां मेक्षणमासाद्य स्थालीपाकमासादयति॥१॥

दक्षिणतः कशिपूपबहणमाञ्जनमभ्यञ्जनमुदकुम्भमित्येवैकश आसादयति॥२॥

अध्वर्युरुपवीती दक्षिणं जान्वाच्य मेक्षण उपस्तीर्य तेनावदायाभिघार्य सामाय पितृपीताय स्वधा नम इति दक्षिणाग्नौ जुहोति॥३॥

यमायाङ्गिरस्वते पितृमते स्वधा नम इति द्वितीयाम्। अग्नये कव्यवाहनाय स्वधा नम इति तृतीयाम्॥४॥

ये मेक्षणे तण्डुलास्तान्हुत्वा तूष्णीं मेक्षणमादधाति॥५॥

न यमाय जुहोतीत्येके॥६॥

अपयन्त्वसुराः पितृरूपा ये रूपाणि प्रतिमुच्याचरन्ति। परापुरो निपुरो ये भरन्त्यग्निष्टांसोकात्प्रणुदात्यस्मात्॥ ये देवाः पितरो ये च मानुषा ये गर्भे मगुरुत ये परास्ताः। य उद्धता उत ये निखातास्ते सम्यञ्च इह मादयन्ताम्॥ ये रूपाणि प्रतिमुञ्चमाना असुराः सन्तः स्वधया चरन्ति। परापुरो निपुरो ये भरन्त्यग्निष्टांल्लोकात्प्रणुदात्यस्मात्॥ ये ज्ञातीनां प्रतिरूपाः पितृन्माययासुराः . प्रविष्टः। परापुरो निपुरो ये भरन्त्यग्ने तानस्मात्प्रणुदस्व लोकादिति दक्षिणाग्ने रेकोल्मुकं धूपायद्धरति।७॥

दक्षिणपूर्वमवान्तरदेशं सकृत्स्फ्येनोल्लिख्योदीरतामवर इत्यद्भिरवोक्ष्यो लिखितान्ते निदधाति॥८॥

यजमानो ऽत ऊर्ध्वं प्राचीनावीती कर्माणि करोति॥९॥

मार्जयन्तां मम पितरो मार्जयन्तां मम पितामहा मार्जयन्तां मम प्रपितामहा इत्येकस्फ्यायां त्रीनुदकाञ्जलीनिनयति॥१०॥

प्रसव्यं वा त्रिः परिषिञ्चति॥११॥

त्रीनुदपात्रान्वाजसनेयिनः समामनन्ति॥१२॥

mamanetarawn buning

सव्यं जान्वाच्यावाचीनपाणिः सकृदाच्छिन्ने बर्हिषि दक्षिणापवर्गान्पि ण्डान्ददात्येतत्ते ततासौ ये च त्वामन्वित्येतैः प्रतिमन्त्रम्॥१॥

तूष्णीं चतुर्थम्॥२॥

स कृताकृतः॥३॥

प्रपितामहप्रभृतीन्वा॥४॥

नानामगृहीतं गच्छति॥५॥

यदि बन्धून विद्यात्स्वधा पितृभ्यः पृथिविषद्भ्य इति प्रथमं पिण्डं दद्यात्। स्वधा पितृभ्यो ऽन्तरिक्षसभ्य इति द्वितीयम्। स्वधा पितृभ्यो दिविषद्भ्य इति तृतीयम्॥६॥

यदि द्विपिता स्यादेकैकस्मिन्पिण्डे द्वौद्वावुपलक्षयेत्॥७॥

यदि जीवपिता न दद्यादा होमात्कृत्वा विरमेत्॥८॥

यन्मे माता प्रममाद यच्चचाराननुव्रतम्। तन्मे रेतः पिता वृक्तामाभु रन्योपपद्यतां पितृभ्यः स्वधाविभ्यः स्वधा नमः पितामहेभ्यः स्वधाविभ्यः स्वध 1 नमः प्रपितामहेभ्यः स्वधाविभ्यः स्वधा नम इत्युपस्थायात्र पितरो यथाभागं मन्दध्वमित्युक्त्वा पराङावर्तते॥९॥

ओष्मणो व्यावृत उपास्ते॥१०॥

अमीमदन्त पितरः सोम्या इति व्यावृत्त ऊष्मण्यभिपर्यावर्तते ऽव्यावृत्ते वा॥११॥

यः स्थाल्यां शेषस्तमवजिघ्रति ये समानाः समनसः पितरो यमराज्ये। तेषां लोकः स्वधा नमो यज्ञो देवेषु कल्पतां वीरं धत्त पितर इति॥१२॥

आमयाविना प्राश्यो ऽन्नाद्यकामेन प्राश्यो यो ऽलमत्राद्याय सन्नाद्यात्तेन वा प्राश्यः॥१३॥

पूर्ववदेकस्फ्यायां त्रीनुदकाञ्जलीनुपनिनीयाञ्जनाभ्यञ्जने वासश्च त्रिरनपिण्डे ददाति॥१४॥

आक्ष्व ततासावाझ्व पितामहासावाझ्व प्रपितामहासावित्या अनम्॥१५॥

एवमभ्यञ्जनमभ्यद्भवेति मन्त्रं संनमति॥१६॥

यदि नामानि न विद्यादाञ्जतां मम पितर आञ्जतां मम पितामहा आञ्जतां मम प्रतितामहा इत्याञ्जनम्। एवमभ्यञ्जनमभ्यञ्जतामिति मन्त्रं संनमति॥१७॥

एतानि वः पितरो वासांस्यतो नो ऽन्यत्पितरो मा योष्टेति वाससो दशां छित्त्वा निदधात्यूर्णास्तुकां वा पूर्वे वयसि। उत्तर आयुषि स्वं लोम॥१॥


वीतोष्मसु पिण्डेषु नमो वः पितरो रसायेति नमस्काराञ्जपति॥२॥ 23

गृहान्नः पितरो दत्त सदो वः पितरो देष्मेति पितृनुपतिष्ठते॥३॥

ऊर्जं वृहन्तीरमृतं घृतं पयः कीलालं परित्रुतम्। स्वधा स्थ तर्पयत मे पितृनित्युदकं निनयति॥४॥

मनो न्वाहुवामह इति मनस्वतीभिरुपतिष्ठते॥५॥

उत्तिष्ठत पितरः प्रेत शूरा यमस्य पन्थामनुवेता पुराणाम्। धत्तादस्मासु द्रविणं यच्च भद्रं प्रणो ब्रूताद्भागधां देवतास्विति पितॄनुत्थापयति॥६॥

परेत पितरः सोम्या इति प्रवाहण्या पितृन्प्रवाहयति॥७॥

प्रजापते न त्वदेतानीति यज्ञोपवीती गार्हपत्यदेशं गच्छति॥८॥

यदन्तरिक्षमिति पतया गार्हपत्यमुपतिष्ठते॥९॥

अपां त्वौषधीनां रसं प्राशयामि भूतकृतं गर्भ धत्स्वेति मध्यमं पिण्ड पल्यै प्रयच्छति॥१०॥

आधत्त पितरो गर्भ कुमारं पुष्कररजम्। यथेह पुरुषो ऽसदिति नेपाली प्राश्नाति। पुमांसं ह जानुका भवतीति विज्ञायते॥११॥

ये सजाताः समनसो जीवाजीवेषु मामकाः। तेषां श्रीर्मयि कल्पतामस्मिंडोके शतं समा इत्यवशिष्टानामेकं यजमानः प्राश्नाति। न वा॥१२॥

स्थाल्यां पिण्डान्समवधाय ये समाना इति सकृदाच्छिन्नमग्नौ प्रहरति॥१३॥ __

अभूनो दूतो हविषो जातवेदा अवाड्ढव्यानि सुरभीणि कृत्वा। प्रादाः पितृभ्यः स्वधया ते अक्षन्प्रजाननग्ने पुनरप्येहि देवानित्येकोल्मुकं प्रत्यपिसृज्य प्रोक्ष्य पात्राणि द्वन्द्वमभ्युदाहरति॥१४॥

संतिष्ठते पिण्डपितृयज्ञः॥१५॥

अपः पिण्डानभ्यवहरेद्ब्राह्मणं वा प्राशयेत्॥१६॥

सो ऽयमेवंविहित एवानाहिताग्नेः॥१७॥

I.11] 25 ApSs Translation : THITE

औपासने श्रपणधर्मा होमश्च॥१८॥

अतिप्रणीते वा जुहुयात्॥१९॥

यस्मिञ्जुहुयात्तमुपतिष्ठेत॥२०॥

तत्र गार्हपत्यशब्दो लुप्येत संस्कारप्रतिषेधात्॥२१॥

01.11

अमावास्यायां रात्र्यां स्वयं यजमानो यवाग्वाग्निहोत्रं जुहोत्यग्निहोत्रोच्छे षणमातञ्चनार्थं निदधाति॥१॥

नास्यैतां रात्रि कुमाराश्चन पयसो लभन्ते॥२॥

हुते सायमग्निहोत्रे सायंदोहं दोहयति॥३॥

Após Translation : THITE [I. 11 26

अग्नीन्परिस्तीर्याग्निमग्नी वा सानाय्यपात्राणि प्रक्षाल्योत्तरेण या दर्भान्संस्तीर्य द्वन्द्वं न्यञ्चि प्रयुनक्ति।।४॥

कुम्भी शाखापवित्रमभिधानी निदाने दारुपात्रं दोहनमयस्पात्रं दारुपात्रं वापिधानार्थमग्निहोत्रहवणीमुपवेषं च॥५॥

समावप्रच्छिन्नाग्रौ दर्भी प्रादेशमात्रौ पवित्रे कुरुते॥६॥

पवित्रे स्थो वैष्णवी वायुवा मनसा पुनात्विति तृणं काष्ठं वान्तर्धाय छिनत्ति॥७॥

27

न नखेन॥८॥

विष्णोर्मनसा पूते स्थ इत्यद्भिरनुमृज्य पवित्रान्तर्हितायामग्निहोत्र जवण्यामप आनीयोदगग्राभ्यां पवित्राभ्यां प्रोक्षणीरुत्पुनाति देवो वः सवि नोत्पनात्विति प्रथमम्। अच्छिद्रेण पवित्रेणेति द्वितीयम्। वसोः सूर्यस्य रश्मिभिरिति तृतीयम्॥९॥

आपो देवीरग्रेपुव इत्यभिमन्त्र्योत्तानानि पात्राणि पर्यावर्त्य शुन्धध्वं दैव्याय कर्मण इति त्रिः प्रोक्ष्य प्रज्ञाते पवित्रे निदधाति॥ आपो देवीः शुद्धा स्थेमा पात्राणि शुन्धत। उपातळ्याय देवानां पर्णवल्कमुत शुन्धत॥ देवेन सवित्रोत्पूता वसोः सूर्यस्य रश्मिभिः गां दोहपवित्रे रज्जुं सर्वा पात्राणि शुन्ध तेति प्रोक्ष्यमाणान्यभिमन्त्र्यैता आचरन्ति मधुमहुहानाः प्रजावतीर्यशसो विश्वरूपाः बह्वीर्भवन्तीरुपजायमाना इह व इन्द्रो रमयतु गाव इति गा आयतीः प्रतीक्षते यजमानः॥१०॥

01.12

निष्टप्तं रक्षो निष्टप्तो ऽघशंस इति गार्हपत्ये सांनाय्यपात्राणि प्रतितपय धृष्टिरसि ब्रह्म यच्छेत्युपवेषमादाय निरूढं जन्यं भयं निरूढाः सेना अभीत्वरीरिति गार्हपत्यादुदीचो ऽङ्गारान्निरूह्य मातरिश्वनो घर्मो ऽसीति तेषु कुम्भीमधिश्रयति॥१॥

अप्रासाय यज्ञस्योखे उपदधाम्यहम्। पशुभिः संनीतं बिभृतामिन्द्राय शृतं दधीति वा॥२॥

भृगूणामङ्गिरसां तपसा तप्यस्वेति प्रदक्षिणमनारैः पर्युह्य वसूनां पवित्रमसीति तस्यां प्रागग्रं शाखापवित्रमत्यादधाति॥३॥

उदक् प्रातः।।४॥

29

कुम्भीमन्वारभ्य वाचं यच्छति॥५॥

पवित्रं वा धारयन्नास्ते॥६॥

अदित्यै रास्तासीत्यभिधानीमादत्ते॥७॥

त्रयस्त्रिंशो ऽसि तन्तूनां पवित्रेण सहागहि। शिवेयं रज्जुरभिछान्यनि यामुपसेवतामित्यादीयमानामभिमन्त्रयते यजमानः॥८॥

पूषासीति वत्समभिदधाति॥९॥

उपसृष्यं मे प्रब्रूतादिति संप्रेष्यति॥१०॥

उपसृजामीत्यामव्यते। अयक्ष्मा वः प्रजया संसृजामि रायस्पोषेण बहुला भवन्तीरिति वत्समुपसृजति॥११॥

ApSs Translation : THITE 30 [I.12

गां चोपसृष्टां विहारं चान्तरेण मा संचारिष्टेति संप्रेष्यति॥१२॥

यद्युपसृष्टां व्यवेयात्सांनाय्यं मा विलोपीति ब्रूयात्॥१३॥

उपसीदामीत्यामन्त्रयते। अयक्ष्मा वः प्रजया संसृजामि रायस्पोषेण बहुला भवन्तीः। ऊर्जं पयः पिन्वमाना घृतं च जीवो जीवन्तीरुप वः सदेयमिति दोग्धोपसीदति॥१४॥

न शूद्रो दुह्या ह्याद्वा॥१५॥

दारुपात्रे दोग्धि॥१६॥

उपसृष्टां दुह्यमानां धाराघोषं च यजमानो ऽनुमन्त्रयते॥ अयक्ष्मा वः प्रजया संसृजामीत्युपसृष्टाम्। द्यौश्चमं यज्ञं पृथिवी च संदुहाताम्। धाता सोमेन सह वातेन वायुः। यजमानाय द्रविणं दधात्विति दुह्यमानाम्॥१७॥

ApSs Translation : THITE 31

01.13

उत्सं दुहन्ति कलशं चतुर्बिलमिडां देवीं मधुमती सुवर्विदम्। तदिन्द्राग्नी जिन्वतं सूनृतावत्तद्यजमानममृतत्वे दधात्विति धाराघोषम्॥१॥

दुग्ध्वा हरति॥२॥

तं पृच्छति कामधुक्षः प्र णो ब्रूहीन्द्राय हविरिन्द्रियमिति॥३॥

अमूमिति निर्दिशति। यस्यां देवानां मनुष्याणां पयो हितमिति प्रत्याह॥४॥

सा विश्वायुरित्यनुमन्त्रयते॥५॥

देवस्त्वा सविता पुनातु वसोः पवित्रेण शतधारेण सुपुवेति कुम्भ्यां तिरः पवित्रमासिञ्चति॥६॥

हुत स्तोको हुतो द्रप्स इति विप्रुषो ऽनुमन्त्रयते॥७॥

एवं द्वितीयां तृतीयां च दोहयति॥८॥

सा विश्वव्यचा इति द्वितीयामनुमन्त्रयते। सा विश्वकर्मेति तृतीयाम्॥९॥

तिस्रो दोहयित्वा बहु दुग्धीन्द्राय देवेभ्यो हव्यमाप्यायतां पुनः। वत्सेभ्यो मनुष्येभ्यः पुनर्दोहाय कल्पतामिति निर्वाचं विसृज्यानन्वारभ्य तूष्णीमुत्तरा दोहयित्वा दोहने ऽप आनीय संपृच्यध्वमृतावरीरिति कुम्भ्यां संक्षालनमानी याविष्यन्दयन्सुशृतं करोति॥१०॥

दूंह गा दूंह गोपति मा वो यज्ञपती रिषदिति वर्त्म कुर्वन्प्रागुद्वासयत्युदक् प्रागुदग्वा॥११॥

33 एकस्या द्वयोस्तिसृणां वैकाहे व्यहे व्यहे वा पुरस्तादुपवसथादातञ्चनार्थं दोहयित्वा संततमभिदुहन्त्योपवसथात्॥१२॥

तेन शीतबुध्नमातनक्ति॥१३॥

सोमेन त्वातनच्मीन्द्राय दधीति दना॥१४॥

यज्ञस्य संततिरसि यज्ञस्य त्वा संततिमनुसंतनोमीत्यग्निहोत्रोच्छेषणमन्वव धायायं पयः सोमं कृत्वा स्वां योनिमपिगच्छतु। पर्णवल्कः पवित्रं सौम्यः सोमाद्धि निर्मित इति परिवासनशकलमन्ववदधाति॥१५॥

01.14

ओषधयः पूतिकाः क्वलास्तण्डुलाः पर्णवल्का इत्यातञ्चनविकल्पाः॥१॥

उच्छेषणाभावे तण्डुलैरातञ्च्यात्तण्डुलाभाव ओषधीभिः॥२॥

आपो हविःषु जागृत यथा देवेषु जाग्रथा एवमस्मिन्यज्ञे यजमानाय जागृतेत्ययस्पात्रे दारुपात्रे वाप आनीयादस्तमसि विष्णवे त्वा यज्ञायापि दधाम्यहम्। अद्भिररिक्तेन पात्रेण याः पूताः परिशेरत इति तेनापिदधाति॥ अमृन्मयं देवपात्रं यज्ञस्यायुषि प्रयुज्यताम्। तिरः पवित्रमतिनीता आपो धारय मातिगुरिति यजमानो जपति॥३॥

यदि मृन्मयेनापिदध्यात्तृणं काष्ठं वापिधाने ऽनुप्रविध्येत्॥४॥

विष्णो हव्यं रक्षस्वेत्यनधो निदधाति॥५॥

इमौ पर्णं च दर्भ च देवानां हव्यशोधनौ। प्रातर्वेषाय गोपाय विष्णो हव्यं हि रक्षसीति प्रज्ञातं शाखापवित्रं निदधाति॥६॥

तयैव शाखया दर्भेर्वा सायंदोहवत्प्रातःहाय वत्सानपाकरोति॥७॥

उपधाय कपालानि सायंदोहवत्प्रातर्दोहं दोहयति। आतञ्चनापिधाने निधानं च निवर्तते। नासोमयाजी संनयेत्संनयेद्वा॥८॥

नागतश्रीमहेन्द्रं यजेत। त्रयो वै गतश्रिय इत्युक्तम्॥९॥

और्वो गौतमो भारद्वाजस्ते ऽनन्तरं सोमेज्याया महेन्द्रं यजेरन्॥१०॥

यो वा कश्चित्॥११॥

ततः संप्रेष्यति परिस्तृणीत परिधत्ताग्निं भुनक्तु। अपां रस ओषधीनां सुवर्णो निष्का इमे यजमानस्य सन्तु कामदुघा अमुत्रामुष्मिंल्लोक इति॥१२॥

परिस्तरणीमेतामेके समामनन्ति॥१३॥

उदगग्रैः प्रागग्रैश्च दभैरग्नीपरिस्तृणाति॥१४॥

उदगग्राः पश्चात्पुरस्ताच्च॥१५॥

एतत्कृत्वोपवसति॥१६॥

अग्न्यन्वाधानं वत्सापाकरणमिमाबहिर्वेदो वेदिः। प्रागुत्तरात्परिग्राहात्कृत्वा श्वोभूत आप्यलेपं निनीयोत्तरं परिगृह्णीयात्। परिस्तरणं च। पूर्वेधुरमावास्यायां पौर्णमास्यां त्वन्वाधानपरिस्तरणोपवासाः॥१७॥

सद्यो वा सद्यस्कालायां सर्वं क्रियते॥१८॥

1.15

उदित आदित्ये पौर्णमास्यास्तन्त्रं प्रक्रमयति प्रागुदयादमावास्यायाः॥१॥

चत्वार ऋत्विजः॥२॥

पूर्ववदग्नीन्परिस्तुणाति यद्यपरिस्तीर्णा भवन्ति॥३॥

38 कर्मणे वां देवेभ्यः शकेयमिति हस्ताववनिज्य यज्ञस्य संततिरसिया त्वा संतत्यै स्तृणामि संतत्यै त्वा यज्ञस्येति गार्हपत्यात्प्रक्रम्य संततामुलपराजी स्तृणात्याहवनीयात्तूष्णीं दक्षिणामुत्तरां च॥४॥

दक्षिणेनाहवनीयं ब्रह्मयजमानयोरासने प्रकल्पयति पूर्वं ब्रह्मणो ऽपरं यजमानस्य॥५॥

उत्तरेण गार्हपत्याहवनीयौ दर्भान्संस्तीर्य द्वन्द्वं न्यञ्चि पात्राणि प्रयुनक्ति दशापराणि दश पूर्वाणि॥६॥

स्फ्यञ्च कपालानि चेति यथासमाम्नातमपराणि प्रयुज्य स्रुवं जुहूमुपभृतं ध्रुवां वेदं पात्रीमाज्यस्थाली प्राशिवहरणमिडापात्रं प्रणीताप्रणयनमिति पूर्वाणि॥७॥

तान्युत्तरेणावशिष्टानि॥८॥

अन्वाहार्यस्थालीमश्मानमुपवेषं प्रातर्दोहपात्राणीति॥९॥

प्रणीताप्रणयनं पात्रसंसादनात्पूर्वमेके समामनन्ति। खादिरः त्रुवः पर्णमयी जुहूराश्वत्थ्युपभृद्वैकङ्कती ध्रुवा॥१०॥

एतेषां वा वृक्षाणामेकस्य स्रुचः कारयेत्॥११॥

बाहुमात्र्यो ऽरलिमात्र्यो वाग्राग्रास्त्वक्तोबिला हंसमुख्यः॥१२॥

स्फ्यः शम्या प्राशित्रहरणमिति खादिराणि॥१३॥

वारणान्यहोमार्थानि भवन्ति॥१४॥

01.16

अत्र पूर्ववत्पवित्रे करोति यदि न संनयति।।

संनयतस्तु ते विभवतः।२।

वानस्पत्यो ऽसि देवेभ्यः शुन्धस्वेति प्रणीताप्रणयनं चमसमद्भिः परिक्षालयति तूष्णीं कंसं मृन्मयं च। कंसेन प्रणेयद्ब्रह्मवर्चसकामस्य मृन्मयेन प्रतिष्ठाकामस्य गोदोहनेन पशुकामस्य। अपरेण गार्हपत्यं पवित्रान्तर्हितं चमसं निधाय तस्मिन्को वो गृह्णाति स वो गृह्णातु कस्मै वो गृह्णामि तस्मै वो गृह्णामि पोषाय व इत्यप आनयति॥३॥

अपो गृह्णन्ग्रहीष्यंश्च पृथिवीं मनसा ध्यायति॥४॥

I.16] ĀPŚS Translation : THITE उपबिलं चमसं पूरयित्वा प्रोक्षणीवदुत्पूयाभिमन्त्र्य ब्रह्मनपः प्रणेष्यामि यजमान वाचं यच्छेति संप्रेष्यति॥५॥

सर्वत्र प्रसव उक्ते करोति॥६॥

प्रणीयमानासु वाचं यच्छतोऽध्वर्युर्यजमानश्चा हविष्कृतः॥७॥

को वः प्रणयति स वः प्रणयत्वपो देवीःप्रणयानि यज्ञं संसादयन्तु नः। इरं मदन्तीर्घतपृष्ठा उदाकुः सहस्रपोषं यजमाने न्यञ्चतीरिति समं प्राणैर्धारय माणः स्फ्येनोपसंगृह्याविषिञ्चन्हरति॥८॥

पृथिवीं च मनसा ध्यायति॥९॥

को वो युनिक्त स वो युनक्त्वित्युत्तरेणाहवनीयमसंस्पृष्टा दर्भेषु सादयति॥१०॥

AN नेङ्गयन्ति नेलयन्त्या संस्थातोर्दभैरभिच्छाद्य॥११॥

संविशन्तां दैवीर्विशः पात्राणि देवयज्याया इति सपवित्रेण पाणिना पात्राणि संमृश्य॥१२॥

01.17

वानस्पत्यासि दक्षाय त्वेत्यग्निहोत्रहवणीमादत्ते। वेषाय त्वेति शूर्पम्॥१॥

प्रत्युष्टं रक्षः प्रत्युष्टा अरातय इत्याहवनीये गार्हपत्ये वा प्रतितप्य यजमान हविनिर्वप्स्यामीत्यामन्त्रयते॥२॥

प्रवसत्यग्ने हविनिर्वस्यामीति॥३॥

उर्वन्तरिक्षमन्विहीति शकटायाभिप्रव्रजति॥४॥

अपरेण गार्हपत्यं प्रागीषमुदगीषं वा नद्धयुगं शकटमवस्थितं भवति व्रीहिमद्यवमद्वा॥५॥

धूरसीति दक्षिणां युगधुरमभिमृशत्युत्तरां वा॥६॥

त्वं देवानामसि सस्नितममित्युत्तरामीषामालभ्य जपति॥७॥

विष्णुस्त्वाकंस्तेति सव्ये चक्रे दक्षिणं पादमत्याधायाहृतमसि हविर्धा नमित्यारोहति॥८॥

उरु वातायेति परीणाहमपच्छाद्य मित्रस्य त्वा चक्षुषा प्रेक्ष इति पुरोडाशीयान्प्रेक्षते॥९॥

निरस्तं रक्षो निरस्तो ऽघशंस इति यदन्यत्पुरोडाशीयेभ्यस्तन्निरस्योर्जाय वः पयो मयि धेहीत्यभिमन्व्य दशहोतारं व्याख्याय शूर्पे पवित्रे निधाय तस्मिन्नग्निहोत्रहवण्या हवींषि निर्वपति तया वा पवित्रवत्या॥१०॥ ____

व्रीहीन्यवान्वा॥११॥

यच्छन्तां पञ्चेति मुष्टिं गृहीत्वा स्रुचि मुष्टिमोप्य देवस्य त्वेत्यनुद्रत्याग्नये जुष्टं निर्वपामीति त्रिर्यजुषा तूष्णीं चतुर्थम्॥१२॥

01.18

एवमुत्तरं यथादेवतमग्नीषोमाभ्यामिति पौर्णमास्याम्। इन्द्राग्निभ्यामित्य मावास्यायाम्॥१॥

चतुरो मुष्टीनिरुप्य निरुप्तेष्वन्वोप्येदं देवानामिति निरुप्तानभिमृशति। इदमु नः सहेत्यवशिष्टान्॥२॥

45 स्फात्यै त्वा नारात्या इति निरुप्तानेवाभिमन्त्र्येदमहं निर्वरुणस्य पाशादित्युपनिष्क्रम्य स्वरभिव्यख्यमिति प्राङ् प्रेक्षते॥३॥

सुवरभिविख्येषमिति सर्वं विहारमनुवीक्षते। वैश्वानरं ज्योतिरित्याहवनीयं स्वाहा द्यावापृथिवीभ्यामिति स्कन्नानभिमन्त्र्य दूहन्तां दुर्गा द्यावापृथिव्योरिति प्रत्यवरोह्योर्वन्तरिक्षमन्विहीति हरति॥४॥

अदित्यास्त्वोपस्थे सादयामीत्यपरेण गार्हपत्यं यथादेवतमुपसादयति॥५॥

आहवनीयं वा यद्याहवनीये श्रपयति॥६॥

AdSNASAla ranslation : THITE [I.19 यदि पात्र्या निर्वपेद्दक्षिणतः स्फ्यमुपधाय तस्यां सर्वाञ्छ्कटमन्त्रा अपेत्॥७॥

01.19

सशूकायामग्निहोत्रहवण्यामप आनीय पूर्ववदुत्पूयाभिमन्त्र्य ब्रह्मन्प्रोक्षिष्यामीति ब्रह्माणमामन्त्र्य देवस्य त्वेत्यनुद्रुतयाग्नये वो जुष्टं प्रोक्षामीति यथादेवतं हविस्त्रिः प्रोक्षन्नाग्निमभिप्रोक्षेत्॥१॥

यं द्विष्यात्तस्याभिप्रोक्षेत्॥२॥

उत्तानानि पात्राणि पर्यावर्त्य शुन्धध्वं दैव्याय कर्मण इति त्रिः प्रोक्ष्य प्रोक्षणीशेषमग्रेण गार्हपत्यं निधाय देवस्य त्वा सवितुः प्रसव इति कृष्णाजिनमादायावधूतं रक्षो ऽवधूता अरातय इत्युत्करे त्रिरवधूनोत्यूर्ध्वग्रीवं बहिष्टाद्विशसनम्॥३॥

अदित्यास्त्वगसीत्युत्तरेण गार्हपत्यमुत्करदेशे वा प्रतीचीनग्रीव मुत्तरलोमोपस्तृणाति॥४॥

पुरस्तात्प्रतीची भसदमुपसमस्यति॥५॥

अनुत्सृजन्कृष्णाजिनमधिषवणमसीति तस्मिन्नुलूखलमधिवर्तयति॥६॥

अनुत्सृजनुलूखलमग्नेस्तनूरसीति तस्मिन्हविरावपति त्रिर्यजुषा तूष्णीं चतुर्थम्॥७॥

अद्रिरसि वानस्पत्य इति मुसलमादाय हविष्कृदेहीति विरवहन्ति। अन वजन्वा हविष्कृतं ह्वयति॥८॥

हविष्कृदेहीति ब्राह्मणस्य हविष्कृदागहीति राजन्यस्य हविष्कृदाद्रवेति वैश्यस्य हविष्कृदाधावेति शूद्रस्य॥९॥

प्रथमं वा सर्वेषाम्॥१०॥ 10.

अव रक्षो दिवः सपलं वध्यासमित्यवहन्ति॥११॥

01.20

उच्चैः समाहन्तवा इति संप्रेष्यति॥१॥ 40 कुटरुरसि मधुजिह्व इत्याग्नीध्रो ऽश्मानमादायेषमावदोर्जमावदेति दृषदुपले समाहन्ति॥२॥

द्विदृषदि सकृदुपलायां त्रिः संचारयन्नवकृत्वः संपादयति॥३॥

सावित्रेण वा शम्यामादाय तया समाहन्ति॥४॥

वर्षवृद्धमसीति पुरस्ताच्छूर्यमुपोहत्युत्तरतो वा॥५॥

वर्षवृद्धा स्थेत्यभिमन्त्र्य प्रति त्वा वर्षवृद्धं वेत्त्वित्युद्वपति॥६॥

परापूतं रक्षः परपूता अरातय इत्युत्करे परापुनाति॥७॥

प्रविद्धं रक्षः पराध्माता अमित्रा इति तुषान्प्रस्कन्दतो ऽनुमन्त्र्यते॥८॥

मध्यमे पुरोडाशकपाले तुषानोप्य रक्षसां भागो ऽसीत्यधस्तात्कृष्णा जिनस्योपवपत्युत्तरमपरमवान्तरदेशम्॥९॥

हस्तेनोपवपतीति बृह्वचब्राह्मणम्॥१०॥

अद्भिः कपालं संस्पर्ध्य प्रज्ञातं निधायाप उपस्पृश्य वायुर्वो विविन क्त्विति विविच्य देवो वः सविता हिरण्यपाणिः प्रतिगृह्णात्विति पात्र्यां तण्डुलान्प्रस्कन्दयित्वादब्धेन वश्चक्षुषावपश्यामि रायस्पोषाय वर्चसे सुप्रजास्त्वाय चक्षुषो गोपीथायाशिषमाशास इत्यवेक्ष्य त्रिष्फलीकर्तवा इति संप्रेष्यति॥११॥

या यजमानस्य पत्नी साभिद्रुत्यावहन्ति॥१२॥

यो वा कश्चिदविद्यमानायाम्॥१३॥

01.21

देवेभ्यः शुन्धध्वं देवेभ्यः शुन्ध्यध्वं देवेभ्यः शुम्भध्वमिति सुफली कृतान्करोति। तूष्णीं वा॥१॥

प्रक्षाल्य तुण्डुलांस्त्रिष्फलीक्रियमाणानां यो न्यङ्गो अवशिष्यते। रक्षसां भागधेयमापस्तत्प्रवहतादित इत्युत्करे त्रिर्निनयति॥२॥

अत्र कृष्णाजिनस्यादानादि प्रागधिवर्तनात्कृत्वा दिव स्कम्भनिरसीति कृष्णाजिन उदीचीनकुम्बां शम्यां निधाय धिषणासि पार्वत्येति शम्यायां दृषदमत्याधाय धिषणासि पार्वतेयीति दृषधुपलामत्यादधाति॥३॥

पूर्ववदनुत्सर्गः।।४॥

अंशव स्थ मधुमन्त इति तण्डुलानभिमन्त्र्य देवस्य त्वेत्यनुद्रुत्याग्नये जुष्टमधिवपामीति यथादेवतं दृषदि तण्डुलानधिवपति निर्यजुषा तूष्णीं चतुर्थम्।।५॥

प्राणाय त्वेति प्राचीमुपलां प्रोहत्यपानाय त्वेति प्रतीची व्यानाय त्वेति मध्यदेशे व्यवधारयति प्राणाय त्वापानाय त्वा व्यानाय त्वेति संततं पिनष्टि॥६॥

दीर्घामनु प्रसितिमायुषे धामिति प्राचीमन्ततो ऽनुप्रोह्य देवो वः सविता हिरण्यपाणिः प्रतिगृह्णात्विति कृष्णाजिने पिष्टानि प्रस्कन्दयित्वादब्धेन वश्चक्षुषावेक्ष इत्यवेक्ष्यासंवपन्ती पिंषाणूनि कुरुतादिति संप्रेष्यति॥७॥

दासी पिनष्टि पत्नी वा॥८॥

अपि वा पल्यवहन्ति शूद्रा पिनष्टि।।९॥

01.22

आहवनीये गार्हपत्ये वा हवींषि अपयति॥१॥

maina 53 धृष्टिरसि ब्रह्म यच्छेत्युपवेषमादाय रक्षसः पाणिं दहाहिरसि बुध्निय इत्यभिमन्त्र्यापाग्ने ऽग्निमामादं जहीति गार्हपत्यात्प्रत्यञ्चावङ्गारौ निवर्त्य निष्क्रव्याद सेधेति तयोरन्यतरमुत्तरमपरमवान्तरदेशं निरस्या देवयजं वहेति दक्षिणमवस्थाप्य ध्वमसीति तस्मिन्मध्यमं पुरोडाशकपालमुपदधाति॥२॥

निर्दग्धं रक्षो निर्दग्धा अरातय इति कपाले ऽङ्गारमत्याधाय धमसीति पूर्वं द्वितीयं संस्पृष्टम्। धरुणमसीति पूर्वं तृतीयम्। चिदसि विश्वासु दिक्षु सीदेति मध्यमाद्दक्षिणम्। परिचिदसि विश्वासु दिक्षु सीदेति मध्यमादुत्तरम्॥३॥ . Translation : THITE [I.23 यथायोगमितराणि॥४॥

01.23

मरुतां शर्धो ऽसीति षष्ठम्। धर्मासीति सप्तमम्। चित स्थेत्यष्टमम्॥१॥

एवमुत्तरं कपालयोगमुपदधाति॥२॥

अपि वा मध्यममुपधाय सव्यस्य पाणेरडल्याभिनिधाय निर्दग्धं रक्षो निर्दग्धा अरातय इति कपाले ऽङ्गारमत्याधाय धमसीति तस्मादपरं धरुण मसीति तस्मात्पूर्वं यथायोगमितराणि॥३॥

तस्य तस्याङ्गल्याभिनिधानमगाराधिवर्तनं च वाजसनेयिनः समामनन्ति॥४॥

चित स्थोचित इत्यूर्ध्वमष्टाभ्य उपदधाति तूष्णीं वा॥५॥

भृगूणामङ्गिरसां तपसा तप्यध्वमिति वेदेन कपालेष्वङ्गारानध्यूह्य मदन्तीरधि श्रयति॥६॥

01.24

प्रक्षालितायां पात्र्यां निष्टप्तोपवातायां पवित्रवत्यां पिष्टानि संवपति देवस्य त्वेत्यनुद्रुत्याग्नये जुष्टं संवपामीति यथादेवतं त्रिर्यजुषा तूष्णीं चतुर्थम्॥१॥

संवपन्वाचं यच्छति तामभिवासयन्विसृजते॥२॥

प्रोक्षणीवत्पिष्टान्युत्पूय प्रणीताभिः संयौति॥३॥

अन्या वा यजुषोत्पूय यदि प्रणीता नाधिगच्छेत्॥४॥

नुवेण प्रणीताभ्य आदाय वेदेनोपयम्य समापो अद्भिरग्मतेति पिष्टेष्वा नीयाद्भिः परि प्रजाता इति तप्ताभिरनुपरिप्लाव्य जनयत्यै त्वा संयौमीति संयुत्य मखस्य शिरो ऽसीति पिण्डं कृत्वा यथाभागं व्यावर्तेथामिति विभज्य समौ पिण्डौ कृत्वा यथादेवतमभिमशतीदमग्नेरित्याग्नेयम्। इदमग्नीषोम योरित्यग्नीषोमीयम्॥५॥

इदमहं सेनाया अभीत्वर्यै मुखमपोहामीति वेदेन कपालेभ्यो ऽङ्गारानपोह्य धर्मो ऽसि विश्वायुरित्याग्नेयं पुरोडाशमष्टासु कपालेष्वधिश्रयति॥६॥

एवमुत्तरमुत्तरेषु।॥७॥

एवमनुपूर्वाण्येवैष्वत ऊर्ध्वं कर्माणि क्रियन्ते॥८॥

01.25

समानजातीयेन कर्मणैकैकमपवर्जयति॥१॥

यानि विभवन्ति सकृत्तानि क्रियन्ते॥२॥

उरु प्रथस्वोरु ते यज्ञपतिः प्रथतामिति पुरोडाशं प्रथयन्सर्वाणि कपा लान्यभिप्रथयति॥३॥

अतुङ्गमनपूपाकृति कूर्मस्येव प्रतिकृतिमश्वशफमात्रं करोति॥४॥

यावन्तं वा मन्यते॥५॥

तं न सत्रा पृथु करोतीत्येके॥६॥

त्वचं गृह्णीष्वेत्यद्भिः श्लक्ष्णीकरोत्यनतिक्षारयन्॥७॥

अन्तरितं रक्षो ऽन्तरिता अरातय इति सर्वाणि हवींषि त्रिः पर्षग्नि कृत्वा देवस्त्वा सविता श्रपयत्वित्युल्मुकैः परितपति॥८॥

अग्निस्ते तनुवं मातिधागिति दभैरभिज्वलयति ज्वालैर्वा॥९॥

अविदहन्तः श्रपयतेति वाचं विसृजते॥१०॥

आग्नीध्रो हवींषि सुशृतानि करोति॥११॥

सं ब्रह्मणा पृच्यस्वेति वेदेन पुरोडाशे साङ्गारं भस्माध्यूहति॥१२॥

अत्र वा वाचं विसृजेत्॥१३॥

अङ्गलिप्रक्षालनं पात्रीनिर्णेजनं चोल्मुकेनाभितप्य स्फ्येनान्तर्वेदि तिस्रो लेखा लिखति प्राचीरुदीची॥१४॥

तास्वसंस्यन्दयंस्त्रिर्निनयति प्रत्यगपवर्गमेकताय स्वाहेत्येतैः प्रतिमन्त्रम्॥१५॥

निनीय वाभितपेदभितपेत्॥१६॥

60

02.01

देवस्य त्वा सवितुः प्रसव इति स्फ्यमादायेन्द्रस्य बाहुरसि दक्षिण इत्यभिमन्त्र्य हरस्ते मा प्रतिगामिति दर्भेण संमृज्यापरेणाहवनीयं यजमान मात्रीमपरिमितां वा प्राची वेदिं करोति॥१॥

यथासन्नानि हवींषि संभवेदेवं तिरश्चीम्॥२॥

वेदेन वेदिं विविदुः पृथिवीं सा पप्रथे पृथिवी पार्थिवानि गर्भ बिभर्ति भुवनेष्वन्तस्ततो यज्ञो जायते विश्वदानिरिति पुरस्तात्स्तम्बयजुषो वेदेन वेदिं त्रिः संमायुपरिष्टाद्वा॥३॥

पूर्वार्धाद्वैदेवितृतीयदेशात्स्तम्बयजुर्हरति॥४॥

पृथिव्यै वर्मासीति तत्रोदगग्रं प्रागग्रं वा दर्भ निधाय पृथिवि देवयजनीति तस्मिन्स्फ्येन प्रहृतयापहतो ऽररुः पृथिव्या इति स्फ्येन सतृणान्पांसूनपादाय11.1] ĀPŚS Translation : THITE 61 व्रजं गच्छ गोस्थानमिति हरति। वर्षतु ते द्यौरिति वेदिं प्रत्यवेक्षते यजमानं AT11411

बधान देव सवितरित्युत्तरतः पुरस्ताद्वितृतीयदेश उदग्द्विपदे ऽपरिमिते a agfiaufanie 11

अररुस्ते दिवं मा स्कानिति न्युप्तमाग्नीध्रो ऽञ्जलिनाभिगृह्णाति॥८॥

एवं द्वितीयं तृतीयं च हरति॥९॥

तूष्णीं चतुर्थं हरन्सर्वं दर्भशेषं हरति॥१०॥

02.02

अपाररुमदेवयजनं पृथिव्या इति द्वितीये प्रहरणो ऽररुघाद्यां मा पप्तदिति तृतीये। अपहतो ऽररुः पृथिव्यै देवयजन्या इति द्वितीये ऽपादानो ऽपहतो ऽररुः पृथिव्या अदेवयजन इति तृतीये॥१॥

अपबाढं रक्ष इति द्वितीये निवपन आग्नीध्रो ऽभिगृह्णात्यवबाढो ऽघशंस इति तृतीये ऽवबाढा यातुधाना इति चतुर्थे ॥२॥

द्रप्सस्ते द्यां मा स्कानिति खनिं प्रत्यवेक्ष्य स्फ्येन वेदिं परिगृह्णाति वसवस्त्वा परिगृह्णन्तु गायत्रेण छन्दसेति दक्षिणतो रुद्रा इति पश्चादादित्या इत्युत्तरतः॥३॥

अपाररुमदेवयजनं पृथिव्या अदेवयजनो जहीति स्फ्येनोत्तमां त्वचमुद् धन्ति ॥४॥

समुद्धतस्याग्नीध्र उत्करे त्रिर्निवपति॥५॥

इमां नराः कृणुत वेदिमेत देवेभ्यो जुष्टामदित्या उपस्थे। इमां देवा अजुषन्त विश्वे रायस्पोषा यजमानं विशन्त्विति संप्रेष्यति॥६॥

देवस्य सवितुः सव इति खनति व्यङ्गलां व्यङ्गलां चतुरङ्गलां यावत्पाष्र्याः शुक्लं तावती पृथमात्री रथवर्ममात्रीं प्रादेशमात्री वा पुरीषवतीम्॥७॥

नैता मात्रा अतिखनति॥८॥

दक्षिणतो वर्षीयसी प्राक्प्रवणां प्रागुक्प्रवणां वा॥९॥

02.03

प्राञ्चौ वेद्यंसावुन्नयति प्रतीची श्रोणी॥१॥

पुरस्तादंहीयसी पञ्चात्प्रथीयसी मध्ये संनततरा भवति॥२॥

यन्मूलमतिशेते स्फ्येन तच्छिनत्ति न नखेन॥३॥

यत्पुरीषमतिशेत उत्करे तन्निवपति॥४॥

आहार्यपुरीषां पशुकामस्य कुर्यात्॥५॥

यत्प्राक् खननात्तत्कृत्वा यदाहरेत्तन्मन्त्रेण खनेत्॥६॥

ब्रह्मनुत्तरं परिग्राहं परिग्रहीष्यामीति ब्रह्माणमामन्त्र्य स्फ्येन वेदि परिगृह्णात्य॒तमसीति दक्षिणतः। ऋतसदनमसीति पश्चात्। ऋतश्रीरसीत्युत्तरतः॥७॥

विपरीतौ परिग्राहावेके समामनन्ति॥८॥

धा असि स्वधा असीति प्रतीची वेदिं स्फ्येन योयुप्यते॥९॥

उदादाय पृथिवीं जीरदानुरिति वेदिमनुवीक्षते॥१०॥

पश्चार्धे वेदेवितृतीयदेशे स्फ्यं तिर्यञ्चं स्तब्ध्वा संप्रेष्यति प्रोक्षणीरासा दयेध्माबर्हिरुपसादय नुवं च स्रुचञ्च संमृढि पत्नी संनद्याज्येनोदेहीति॥११॥

अपि वा न संप्रैषं ब्रूयात्॥१२॥

प्रोक्षणीरभिपूर्योदञ्चं स्फ्यमपोह्य दक्षिणेन स्फ्यमसंस्पृष्टा उपनिनीय स्फ्यस्य वर्मन्सादयत्तसधस्थेति द्वेष्यं मनसा ध्यायन्॥१३॥

शतभृष्टिरसि वानस्पत्यो द्विषतो वध इति पुरस्तात्प्रत्यञ्चमुत्करे स्फ्यमुदस्यति द्वेष्यं मनसा ध्यायन्॥१४॥

नानवनिग्य हस्तौ पात्राणि पराहन्ति॥१५॥

67 हस्ताववनिज्य स्फ्यं प्रक्षालयत्यग्रमप्रतिमृशन्॥१६॥

उत्तरेणाहवनीयं प्रागग्रमिध्माबर्हिरुपसादयति दक्षिणमिध्यमुत्तरं बर्हिः॥१७॥

02.04

पत्नीसंनहनमेके पूर्वं समामनन्ति नुक्संमार्जनमेके॥१॥

घृताचीरेताग्निो ह्वयति देवयज्याया इति स्रुच आदाय प्रत्युष्टं रक्षः प्रत्युष्टा अरातय इत्याहवनीये गार्हपत्ये वा प्रतितप्यानिशिता स्थ सपत्न क्षयणीरित्यभिमन्त्र्य वेदाग्राणि प्रतिविभज्याप्रतिविभज्य वा तैः सुचः संमार्टि प्राचीरुदीचीर्वोत्ताना धारयमाणः॥२॥

उपभृतमेवोदीचीमित्येके॥३॥

गोष्ठं मा निर्मक्षमिति स्वमग्रैरन्तरतो ऽभ्याकारं सर्वतो बिलमभिसमाहारण मूलैर्दण्डम्॥४॥

वाचं प्राणमिति जुहूमग्रैरन्तरतो ऽभ्याकारं प्राची मध्यैर्बाह्यतः प्रतीचीम्। मूलैर्दण्डम्॥५॥

चक्षुः श्रोत्रमित्युपभृतमुदीचीमग्रैरन्तरतो ऽभ्याकारं प्रतीची मध्यैर्बाह्यतः प्राचीम्। मूलैर्दण्डम्॥६॥

प्रजां योनिमिति यथा स्रुवमेवं ध्रुवाम्॥७॥

रूपं वर्णं पशूनां मा निर्मक्षं वाजि त्वा सपत्नसाहं संमार्फीति प्राशिवहरणं तूष्णीं वा॥८॥

न संमृष्टान्यसंमृष्टैः संस्पर्शयति॥९॥

अग्नेर्वस्तेजिष्ठेन तेजसा निष्टपामीति पुनः प्रतितप्य प्रोच्याओणोत्करं दर्भेषु सादयति जघनेन वा॥१०॥

शुक्संमार्जनान्यद्भिः संस्पय॥११॥

02.05

दिवः शिल्पमवततं पृथिव्याः ककुभिः श्रितं तेन वयं सहस्रवल्शेन सपलं नाशयामसि स्वाहेत्यग्नौ प्रहरति यस्मिन्प्रतितपत्युत्करे वा न्यस्यति॥१॥

आशासाना सौमनसमित्यपरेण गार्हपत्यमूर्ध्वजुमासीनां पत्नी संनयति तिष्ठन्तीं वा॥२॥ 70 .

वाचयतीत्येके॥३॥

मौञ्जेन दाम्नान्यतरतः पाशेन योक्त्रेण वाभ्यन्तरं वाससः॥४॥

न वासो ऽभिसंनयति। अभिसंनह्यतीत्येके॥५॥

उत्तरेण नाभिं निष्टयं ग्रन्थिं कृत्वा प्रदक्षिणं पर्दूह्य दक्षिणेन नाभिमवस्थाप्योपोत्थायाग्ने गृहपत उप मा ह्वयस्वेति गार्हपत्यमुपतिष्ठते॥६॥

देवानां पत्लीरुप मा ह्वयध्वं पलि पल्येष ते लोको नमस्ते अस्तु मा मा हिंसीरिति देवपत्तीरुपतिष्ठते॥७॥

d.a. तस्माद्देशादपक्रम्य सुप्रजसस्त्वा वयमिति दक्षिणत उदीच्युपविशतिम्॥

.II.6] ApSs Translation : THITE 71 इन्द्राणीवाविधवा भूयासमदितिरिव सुपुत्रा। अस्थूरि त्वा गार्हपत्योपनिषदे सुप्रजास्त्वायेति जपति॥९॥

युक्ता मे यज्ञमन्वासाता इति यजमानः संप्रेष्यति॥१०॥

बह्वाज्याभ्यां दर्शपूर्णमासाभ्यां यजत इति विज्ञायते॥११॥

02-06

पूषा ते बिलं विष्यत्विति सर्पिर्धानस्य बिलमपावर्त्य दक्षिणाग्नावाज्यं विलाप्यादितिरस्यच्छिद्रपत्रेत्याज्यस्थालीमादाय महीनां पयो ऽस्योषधीनां रसस्तस्य ते ऽक्षीयमाणस्य निर्वपामि देवयज्याया इति तस्यां पवित्रान्तर्हिता- यामाज्यं निरुप्येदं विष्णुर्विचक्रम इति दक्षिणाग्नावधिश्रित्येषे त्वेति दक्षिणार्धे गार्हपत्यस्याधिश्रित्योर्जे त्वेत्यपादाय वेदेनोपयम्य पल्या उपहरति॥१॥

तत्सा निमील्य वीक्ष्यानुच्छ्वसन्त्यवेक्षते महीनां पयो ऽसीति॥२॥

तेजो ऽसीत्युत्तरार्धे गार्हपत्यस्याधिश्रयति॥३॥

पल्यभावे तेजआदि लुप्यते गार्हपत्येऽधिश्रयणम्॥४॥

तेजसे त्वेत्यपादाय तेजो ऽसि तेजो ऽनुप्रेहीति हरति। अग्निस्ते तेजो मा विनैदित्याहवनीये ऽधिश्रित्याग्नेर्जिह्वासीति स्फ्यस्य वर्त्मन्सादयति॥५॥

आज्यमसि सत्यमसीत्यध्वर्युर्यजमानश्च निमील्य वीक्ष्यानुच्छ्वसन्तावाज्य मवेक्षेते॥६॥

ranslation : THITE II.7] 73 अथैनदुदगग्राभ्यां पवित्राभ्यां पुनराहारमुत्पुनाति॥७॥

02.07

. शुक्रमसीति प्रथमं ज्योतिरसीति द्वितीयं तेजो ऽसीति तृतीयम्॥१॥

पूर्ववदायलिप्ताभ्यां प्रोक्षणीरुत्पूयानिष्कासिना वेण वेदमुपभृतं कृत्वान्तवेद्याज्यानि गृह्णाति॥२॥

समंबिलं धारयमाणो जुह्वां मध्यदेश उपभृति भूमौ प्रतिष्ठितायां ध्रुवायाम्॥३॥

चतुर्जुह्वामष्टावुपभृति चतुर्बुवायाम्॥४॥

पशुकामस्य वा पञ्चगृहीतं ध्रुवायां यथाप्रकृतीतरयोः॥५॥

दशगृहीतमुपभृति पञ्चगृहीतमितरयोरित्येके॥६॥

भूयो जुह्वामल्पीय उपभृति भूयिष्ठं ध्रुवायाम्॥७॥

शुक्रं त्वा शुक्रायामिति त्रिभिः पञ्चानां त्वा वातानामिति च द्वाभ्यां । जुह्वां चतुः पञ्चकृत्वो वा प्रतिमन्त्रम्॥८॥

पञ्चानां त्वा दिशां पञ्चानां त्वा पञ्चजनानां पञ्चानां त्वा सलिलानां धाय गृह्णामि पञ्चानां त्वा पृष्ठानां धाय गृह्णामि धामासि प्रियं देवानामना धृष्टं देवयजनं देववीतये त्वा गृहामीति चरोस्त्वा पञ्चबिलस्येति च पञ्चभिरुपभृत्यष्टकृत्वो दशकृत्वो वा प्रतिमन्त्रम्॥९॥

ĀpsS Translation : THITE शेषेण ध्रुवायां चतुः पञ्चकृत्वो वा प्रतिमन्त्रम्॥१०॥

नोत्कर आज्यानि सादयति॥११॥

नान्तर्वेदि गृहीतस्य प्रतीचीनं हरन्ति॥१२॥

02.08

पूर्ववत्प्रोक्षणीरभिमन्व्य ब्रह्माणमामन्त्र्य विस्रस्येध्मं कृष्णो ऽस्याखरेष्ठ इति त्रिः प्रोक्षति। वेदिरसीति त्रिर्वेदिं बर्हिरसीति त्रिर्बर्हिः। अन्तर्वेदि पुरोग्रन्थि बहिरासाद्य दिवे त्वेत्यग्रं प्रोक्षत्यन्तरिक्षाय त्वेति मध्यं पृथिव्यै त्वेति मूलम्॥१॥

स्रुच्यग्राण्युपपाय्य मूलान्युपपाययति॥२॥

पोषाय त्वेति सहस्रुचा पुरस्तात्प्रत्यञ्चं ग्रन्थिं प्रत्युक्ष्य प्रोक्षणीशेषं स्वधा पितृभ्य इति दक्षिणायै श्रोणेरोत्तरस्याः संततं निनीय पूषा ते ग्रन्थिं विष्यत्विति ग्रन्थिं विस्त्रंसयति॥३॥

प्राञ्चमुद्गूढं प्रत्यञ्चमायच्छति॥४॥

विष्णो स्तूपो ऽसीति कर्षनिवाहवनीयं प्रति प्रस्तरमपादत्ते नोद्यौति न प्रयौति न प्रतियौति न विक्षिपति न प्रमाष्टिं न प्रतिमाष्टिं नानुमाटि।५॥

अयं प्राणश्चापानश्च यजमानमपिगच्छताम्। यज्ञे ह्यभूतां पोतारौ पवित्रे हव्यशोधने। यजमाने प्राणापानौ दधामीति तस्मिन्पवित्रे अपिसृज्य प्राणापानाभ्यां त्वा सतनुं करोमीति यजमानाय प्रयच्छति। यजमानो ब्रह्मणे॥६॥

ब्रह्मा प्रस्तरं धारयति यजमानो वा॥७॥

02.09

दःर्वेदिमन्तर्धाय दक्षिणतः संनहनं स्तृणात्यक्ष्णया वा॥१॥

ऊर्णाप्रदसं त्वा स्तृणामीति बर्हिषा वेदिं स्तृणाति बहुलमनतिदृश्यं प्रागपवर्ग वा त्रिधातु पञ्चधातु वा॥२॥

78 अग्रैर्मूलान्यभिच्छादयति॥३॥

धातौधातौ मन्त्रमावर्तयति॥४॥

प्रस्तरपाणिः संस्पृष्टान्परिधीन्परिदधाति गन्धर्वोऽसि विश्वावसुरित्यतैः प्रतिमन्त्रमुदगग्रं मध्यमं प्रागनावितरौ॥५॥

आहवनीयमभ्यग्रं दक्षिणमवाग्रमुत्तरम्॥६॥

सूर्यस्त्वा पुरस्तात्पात्वित्याहवनीयमभिमन्त्र्योपर्याहवनीये प्रस्तरं धारयन्नग्नि कल्पयति॥७॥

अनूयाजार्थे प्राची उल्मुके उदूहतीति वाजसनेयकम्॥८॥

मध्यम परिधिमुपस्पृश्योर्चे आधारसमिधावादधाति॥९॥

वीतिहोत्रं त्वा कव इति दक्षिणां समिदस्यायुषे त्वेत्युत्तराम्॥१०॥

तूष्णीं वा॥११॥

समावनन्तर्गभी दीं विधृती कुरुते॥१२॥

विशो यन्त्रे स्थ इत्यन्तर्वेधुदगग्रे निधाय वसूनां रुद्राणामादित्यानां सदसि सीदेति तयोः प्रस्तरमत्यादधाति॥१३॥

अभिहततराणि प्रस्तरमूलानि बर्हिर्मूलेभ्यः॥१४॥

ĀpsS Translation : THITE [II. 10 80 जुहूरसि घृताचीत्येतैः प्रतिमन्त्रमनूचीरसंस्पृष्टाः सुचः प्रस्तरे सादयति॥१५॥

02.10

अपि वा जुहूमेव प्रस्तरे॥१॥

समं मूलैर्जुह्वा दण्डं करोति। उत्तरेण जुहूमुपभृतं प्रतिकृष्टतरामिवा धस्ताद् विधृत्योः उत्तरेणोपभृतं ध्रुवां प्रतिकृष्टतरामिवोपरिष्टाद् विधृत्योः॥२॥

ऋषभोऽसि शाक्वरो घृताचीनां सूनुः प्रियेण नाम्ना प्रिये सदसि सीदेति दक्षिणेन जुहूं मुवं सादयत्युत्तरेणोत्तरेण वा ध्रुवाम्॥३॥

एता असदन्निति स्रुचोऽभिमत्र्य विष्णूनि स्थ वैष्णवानि धामानि स्थ प्राजापत्यानीत्याज्यानि कपालवत्पुरोडाशादङ्गारानपोह्य सूर्य ज्योतिर्विभाहि महत इन्द्रियायेत्यभिमत्र्याप्यायतां घृतयोनिरग्निर्हव्यानुमन्यताम्। खमद्भव सुरूपं त्वा वसुविदं पशूनां तेजसाग्नये जुष्टमभिधारयामीत्याग्नेयं पुरोडाशम भिधारयति तूष्णीमुत्तरम्॥४॥

यस्त आत्मा पशुषु प्रविष्टो देवानां निष्ठामनु यो वितस्थे। आत्मन्वान्सोम घृतवान्हि भूत्वा देवानगच्छ सुवर्विन्द यजमानाय मह्यमिति प्रातर्दोहम्॥५॥

स्योनं ते सदनं करोमि घृतस्य धारया सुशेवं कल्पयामि त इति पात्र्यामुपस्तीर्याः प्रथस्तुर्भुवनस्य गोपाः शृत उत्स्नाति जनिता मतीनामित्यपर्या वर्तयन्पुरोडाशंमुद्वास्य॥६॥

02.11

वेदेन भस्म प्रमृज्य तस्मिन्सीदामृते प्रतितिष्ठ व्रीहीणां मेध सुमनस्यमान इति पात्र्यां प्रतिष्ठापयति॥१॥

ApSs Translation : THITE [II. 11. तूष्णीं यवमयम्॥२॥

इरा भूतिः पृथिव्यै रसो मोत्क्रमीदिति स्रवेण कपालानि प्रत्यज्य देवस्त्वा सविता मध्वानक्त्विति स्रवेण पुरोडाशमनक्ति स्वक्तमकूर्मपृषन्त मपरिवर्गममणिकाषम्॥३॥

उपरिष्टादभ्यज्याधस्तादुपानक्ति।।४॥

चतुर्होत्रा पौर्णामास्यां हवींष्यासादयेत्पञ्चहोत्रामावास्यायाम्॥५॥

प्रियेण नाम्ना प्रियं सद आसीदेति यदन्यद्धविर्शपूर्णमासिकेभ्यस्तदेते नासादयेदिति विज्ञायते॥६॥

अपरेण स्रुचः पुरोडाशावासादयति॥७॥

उत्तरौ दौहौ॥८॥

अपि वा मध्ये वेद्याः सानाय्यकुम्भ्यौ संदधाति पूर्वं शृतमपरं दधि। अथैने व्युदूहति दक्षिणस्यां श्रोण्यां शृतमासादयत्युत्तरस्यां दधि॥९॥

अयं वेदः पृथिवीमन्वविन्ददगुहा सती गहने गह्वरेषु। स विन्दतु यजमानाय लोकमच्छिद्रं यज्ञं भूरिकर्मा करोत्वित्यग्रेणोत्तरेण वा ध्रुवां वेदं निधाय वेद्यन्तान्परिस्तीर्य होतृषदनं कल्पयित्वा सामिधेनीभ्यः प्रतिपद्यते॥१०॥

02.12

अग्नये समिध्यमानायानुब्रूहीति संप्रेष्यति समिध्यमानायानुब्रूहीति वा॥१॥

पञ्चदश सामिधेनीरन्वाह॥२॥

त्रीस्तृचानित्युक्तम्॥३॥

प्रणवेप्रणवे समिधमादधाति॥४॥

सामिधेनीविवृद्धौ काष्ठानि विवर्धन्ते। प्रतिहसमानासु प्रकृतिवत्॥५॥

समिद्धो अग्न आहुतेत्यभिज्ञायैकामनूयाजसमिधमवशिष्य सर्वमिध्म शेषमभ्यादधाति परिधानीयायां वा॥६॥

वेदेनाग्निं त्रिरुपवाज्य स्रवेण ध्रुवाया आज्यमादाय वेदेनोपयम्यासीन उत्तरं परिधिसंधिमन्ववहृत्य प्रजापतिं मनसा ध्यायन्दक्षिणाप्राञ्चमृजु संततं ज्योतिष्मत्याघारमाघारयन्सर्वाणीध्मकाष्ठानि संस्पर्शयति॥७॥

आघारयोर्वदत्यजू प्राञ्चौ होतव्यौ तिर्यञ्चौ वा व्यषिक्तावव्यतिषक्तौ वा॥८॥

वेणाज्यस्थाल्या आज्यमादायाप्यायतां ध्रुवा घृतेनेत्यवदायावदाय ध्रुवामाप्याययतीति सार्वत्रिकम्॥९॥

86 अग्नीत्परिधींश्चाग्निं च त्रिस्त्रिः संमृड्ढीति संप्रेष्यति॥१०॥

02.13

इध्मसंनहनैः सहस्फ्यैर्ऋतेस्फ्यैर्वाग्नीध्रो ऽनुपरिक्रामं परिधीन्यथापरि धितमन्वग्रं त्रिस्त्रिः संमृज्याग्ने वाजजिद्वाजं त्वा सरिष्यन्तं वाजं जेष्यन्तं वाजिनं वाजजितं वाजजित्यायै संमार्जुम्यग्निमन्नादमन्नाधायेति त्रिरग्निं प्राञ्चम्॥१॥

भुवनमसीत्यग्रेण ध्रुवां जुहूं वाञ्जलिं कृत्वा जुह्वेहीति जुहूमादत्त उपभृदेहीत्युपभृतम्॥२॥

सुयमे मे अद्य घृताची भूयास्तं स्वावृतौ सूपावृतावित्युपभृति जुहूमत्याद धाति॥३॥

मुखतोऽभिहृत्य मुखत उपावहरति॥४॥

सर्वत्रैवमत्याधानोपावहरणे भवतः॥५॥

न च संशिञ्जयति नाभिदेशे च स्रुचौ धारयति॥६॥

अग्नाविष्णू मा वामवक्रमिषमित्यग्रेण स्रुचोऽपरेण मध्यमं परिधिमनवक्रामं प्रदक्षिणेन पदा दक्षिणातिक्रामत्युदक् सव्येन॥७॥

एतद्वा विपरीतम्॥८॥

विष्णो स्थानमसीत्यवतिष्ठते॥९॥

अन्तर्वेदि दक्षिणः पादो भवत्यवघ्रः सव्यः॥१०॥

अथोर्ध्वस्तिष्ठन्दक्षिणं परिधिसंधिमन्ववहृत्य॥११॥

02.14

समारभ्योो अध्वर इति प्राञ्चमुदञ्चमृजु संततं ज्योतिष्मत्याघारमाघार यन्सर्वाणीध्मकाष्ठानि संस्पर्शयति॥१॥

यं कामयेत प्रमायुकः स्यादिति जिह्यं तस्येत्युक्तम्॥२॥

ऊर्ध्वमाघार्य विच्छिन्द्यादद्वेष्यस्य॥३॥ व्यूषण्वा॥४॥

न्यचं वृष्टिकामस्य॥५॥ द्वेष्यस्येत्येके॥६॥

ऊर्ध्वमाघारं स्वर्गकामस्य भूयिष्ठमाहुतीनां जुहुयात्॥७॥

ApSs Translation : THITE II.15] अपि वा नाघारयेत्पूर्वार्धे मध्ये पश्चार्धे वा जुहुयात्॥८॥

हुत्वाभिप्राणिति॥९॥

बृहद्भा इति स्रुचमुद्गृह्य पाहि माग्ने दुश्चरितादा मा सुचरिते भजेत्य- . संस्पर्शयन् स्रुचौ प्रत्याक्रामति॥१०॥

एते एवाक्रमणप्रत्याक्रमणे मन्त्रवती भवतः॥११॥

मखस्य शिरोऽसीति जुह्वा ध्रुवां द्विस्त्रिर्वा समनक्ति॥१२॥

उन्नीतं राय इति स्रवेण ध्रुवाया आज्यमादाय सुवीराय स्वाहेति जुहमभिधार्य जुद्दोऽपादाय यज्ञेन यज्ञः संतत इति ध्रुवां प्रत्यभिघार्यायतने स्रुचौ सादयित्वा॥१३॥

02.15

क इदमध्वर्युभविष्यति स इदमध्वर्युभविष्यति यज्ञो यज्ञस्य वागाविज्यं करोतु मन आर्वियं करोतु वाचं प्रपद्ये भूर्भुवः सुवर्विष्णोः स्थाने तिष्ठामीती ध्मसंनहनानि स्फ्य उपसंगृह्य वेद्याश्च तृणमव्यन्तमादायोत्तरतः प्रवरायावतिष्ठेते पूर्वोऽध्वर्युरपर आग्नीध्रः॥१॥

इध्मसंनहनान्याग्नीध्रोऽन्वारभ्य क इदमग्नीद्भविष्यति स इदमग्नीद्भ विष्यतीति मन्त्रं संनमति॥२॥

ब्रह्मन्प्रवरायाश्रावयिष्यामीति ब्रह्माणमामन्त्र्याश्रावयो श्रावय श्रावयोमा श्रावयेति वाश्रावयति॥३॥

अस्तु श्रौषडित्याग्नीध्रोऽपरेणोत्करं दक्षिणामुखस्तिष्ठन्स्पयं संमार्गांश्चधार यन्प्रत्याश्रावयति॥४॥

ApSs Translation : THITE II.16] आग्नीधे सोमे॥५॥.

सर्वत्रैवमाश्रुतप्रत्याश्रुते भवतः॥६॥

02.16

अनपव्याहरन्तः प्रचरन्ति॥१॥

आश्रावयिषयन्नान्यदाश्रावणाढ्यादाश्राविते नान्यदाग्नीध्रः प्रत्या श्रावणात्। प्रत्याश्राविते नान्यदध्वर्युर्यजेति वचनाद्यजेत्युक्ते होतानान्यद्वष ट्कारात्॥२॥

यद्यन्ययात्पुनरेवाश्रावयेत्॥३॥ व्याहृती जपेत्॥४॥

ऊर्ध्वजुमासीनं होतारं वृणीतेऽग्निर्देवो होता देवान्यक्षद्विद्वांश्चि कित्वान्मनुष्वद्भरतवदमुवदमुवदिति यथायो यजमानः॥५॥

त्रीन्यथर्षि मन्त्रकृतो वृणीते॥६॥

अपि वैकं द्वौ त्रीन्पञ्च॥७॥

न चतुरो वृणीते न पञ्चातिप्रवृणीते॥८॥

  • इत ऊर्ध्वानध्वर्युवृणीतेऽमुतोऽर्वाचो होता॥९॥

पुरोहितस्य प्रवेरण राजा प्रवृणीते॥१०॥

__93 ब्रह्मण्वदा च वक्षद्ब्रह्मणा अस्य यज्ञस्य प्रावितार इति प्रवरशेषमाह॥११॥

अपि वा नार्षेयं वृणीते। मनुवदित्येव ब्रूयात्॥१२॥

सीदति होता॥१३॥

होतुरुपांशु नाम गृह्णाति मानुष इत्युच्चैः॥१४॥

वेद्यां तृणमपिसृजति॥१५॥

02.17

घृतवति शब्दे जुहूपभृतावादाय दक्षिणा सकृदतिक्रान्तोऽपरेणाघारसंभेदं पञ्च प्रयाजान्प्राचो यजति॥१॥

प्रतिदिशं वा समिधः पुरस्तात्तनूनपातं दक्षिणत इडः पश्चादर्हिरुत्तरतः स्वाहाकारं मध्ये॥२॥ सर्वान्वैकध्यम्॥३॥

94 आश्रावमाश्रावं प्रत्याश्राविते समिधो यजेति समिधो यजेति प्रथमं संप्रेष्यति। यज यजेतीतरान्॥४॥

यं कामयेताभितरं वसीयान्स्यादित्यभिक्रामं तस्य जुहुयादवतरं पापीयानिति प्रतिक्रामं न वसीयान्न पापीयानिति समानत्र तिष्ठन्॥५॥

त्रीनिष्ट्वार्धमौपभृतस्य जुह्वामानीयोत्तराविष्ट्वा प्रत्याक्रम्य शेषेण ध्रुवा मभिधार्यानुपूर्वं हवींष्यभिधारयत्युपभृतमन्ततः॥६॥

न हवींष्यभिधारयेद्वेष्यस्य। आयतने त्रुचौ सादयति॥७॥

02.18

आग्नेयः सौम्यश्चाज्यविषावाज्यभागौ चतुर्ग्रहीताभ्याम्॥१॥

जमदग्नीनां तु पञ्चावत्तमप्यजामदग्न्यो जामदग्न्यमामन्त्र्य पञ्चावत्तं कुर्वीत HA11211

अवद्यन्नमुष्मा अनुब्रूहीति पुरोऽनुवाक्यां संप्रेष्यति। अवदायावदाय त्रुवेण प्रस्तरबर्हिः समज्य जुहूपभृतावादाय दक्षिणातिक्रम्याश्राव्य प्रत्या श्रावितेऽमुं यजेति याज्यामिति सार्वत्रिकम्॥३॥

Translation : THITE [II.18 उत्तरार्धपूर्वार्धेऽग्नये जुहोति।।४॥ दक्षिणार्धपूर्वार्धे सोमाय समं पूर्वेण॥५॥

उभे ज्योतिष्मति॥६॥

पूर्वमाज्यभागं प्रति स्रुचावात्ते न निदधात्या स्विष्टकृतः॥७॥

आज्यभागावन्तेरेणेतरा आहुतीर्जुहोति॥८॥

प्रत्याक्रम्य जुह्वामुपस्तीर्य मा भेर्मा संविक्था मा त्वा हिंसिषं मा ते तेजोऽ पक्रमीत्। भरतमुद्धरेमनुषिञ्चावदानानि ते प्रत्यवदास्यामि। नमस्ते अस्तु मा मा हिंसीरित्याग्नेयस्य पुरोडाशस्य मध्यादङ्गुष्ठपर्वमात्रमवदानं तिरीचीनमवद्यति। पूर्वार्धाद्वितीयमनूचीनं चतुरवत्तिनः। पश्चार्धात्तृतीयं पञ्चावत्तिनः॥९॥

97 ApSs Translation : THITE असंभिन्दन्मांससंहिताभ्यामङ्गष्ठेन च पुरोडाशस्यावद्यति॥१०॥

02.19

स्रवेणाज्यसानांय्ययोः॥१॥

आनुजावरस्य पूर्वार्धात्प्रथममवदानमवदाय पूर्वार्धे स्रुचो निदध्यात्। मध्यादपरमवदाय पश्चार्धे स्रुचः॥२॥

पूर्वप्रथमान्यवद्येज्ज्येष्ठस्य ज्यैष्ठिनेयस्य यो वा गतश्रीः स्यात्॥३॥

अपरप्रथमानि कनिष्ठस्य कानिष्ठिनेयस्य यो वानुजावरो यो वा बुभूषेत्॥४॥

अथ यदि पुरोहितः पुरोधाकामो वा यजेत पूर्वार्धात्प्रथममवदानमवदाय पूर्वार्धे स्रुचो निधाय पूर्वार्धेऽग्नेर्जुहुयात्॥५॥

अवदानान्यभिघार्य यदवदानानि तेऽवद्यन्विलोमाकार्षमात्मनः। आज्येन प्रत्यनजयेनत्तत्त आप्यायतां पुनरिति हविः प्रत्यभिघार्याग्नये ऽनुह्यग्निं यजेति संप्रेषौ॥६॥

आज्यं प्रश्चोत्यापिदधदिवाप्रक्षिणन्हुत्वाज्येनान्ववश्चोतयति॥७॥

आधारसंभेदेनाहुतीः प्रतिपादयति॥८॥

स्रुच्यमाघारमभिजुहोति पूर्वांपूर्वां संहिताम्॥९॥

यं द्विष्याद्यजमानस्तं व्यूषन्मनसाहुतीर्जुहुयात्॥१०॥

यदा वीतार्चिलेलायतीवाग्निरथाहुतीर्जुहोति॥११॥

आज्यहविरुपांशुयाजः पौर्णमास्यामेव भवति वैष्णवोऽग्नीषोमीयः प्राजापत्यो वा॥१२॥

प्रधानमेवोपांशु॥१३॥

विष्णुं बुभूषन्यजेत॥१४॥

02.20

अग्नीषोमौ भ्रातृव्यवान्॥१॥

आग्नेयवदुत्तरैर्हविर्भिर्यथादेवतं प्रचरति॥२॥

समवदाय दोहाभ्याम्॥३॥

100 100 दनोऽवदाय शृतस्यावद्यत्येतद्वा विपरीतम्। सर्वाणि द्रवाणि मुखेन जुहोति॥४॥

जुवेण पार्वणौ होमौ। ऋषभं वाजिनं वयं पूर्णमासं यजामहे। स नो दोहतां सुवीर्यं रायस्पोषं सहस्रिणम्। प्राणाय सुराधसे पूर्णमासाय स्वाहेति पौर्णमास्याम्॥ अमावास्या सुभगा सुशेवा धेनुरिव भूय आप्यायमाना। सा नो दोहतां सुवीर्यं रायस्पोषं सहस्रिणम्। अपानाय सुराधसेऽमावास्यायै स्वाहेत्यमावास्यायाम्॥५॥

नारिष्ठान्होमा होति दश ते तनुवो यज्ञ यज्ञियास्ताः प्रीणातु यजमानो घृतेन। नारिष्ठयोः प्राशिषमीडमानो देवानां दैव्येऽपि यजमानोऽमृतोऽभूत्॥ यं वां देवा अकल्पयन्नू| भागं शतक्रतू। एतद्वां तेन प्रीणाति तेन तृप्यतमंहहौ। अहं देवानां सुकृतामस्मिलोके ममेदमिष्टं न मिथुर्भवाति। अहं नारिष्ठावनुयजामि विद्वान्यदाभ्यामिन्द्रो अदधाद्भागधेयम्॥ अदारसृद्भवत देव सोमास्मिन्यज्ञे मरुतो मृडता नः। मा नो विददभिभामो अशस्तिर्मा नो विदद्जना द्वेष्या या॥६॥

02.21

ब्रह्म प्रतिष्ठा मनसो ब्रह्म वाचो ब्रह्म यज्ञानां हविषामाज्यस्य। अतिरिक्तं कर्मणो यच्च हीनं यज्ञः पर्वाणि प्रतिरन्नेति कल्पयन्। स्वाहाकृताहुतिरेतु देवान्॥ संशं मनसा मनः सं प्राणे प्राणं दधामि ते सं व्याने समपानं दधामिII.21] ĀPŚS Translation : THITE 101 ते। परिगृह्य यजमानोऽमृतोऽभूच्छं न एधि द्विपदे शं चतुष्पदे स्वाहेत्येतैः प्रतिमन्त्रम्॥१॥

एष उपहोमानां कालोऽनन्तरं वा प्रधानात्याग्वा समिष्टयजुषः॥२॥

जुह्वामुपस्तीर्य सर्वेषां हविषामुत्तरार्धात्सकृत्सकृत्स्विष्टकृतेऽवद्यति। द्विः पञ्चावत्तिनः॥३॥

दैवतसौविष्टकृतैडचातुर्धाकारणिकानामुत्तरमुत्तरं ज्यायः॥४॥

द्विरभिघार्य न हविः प्रत्यभिधारयति॥५॥

अग्नये स्विष्टकृतेऽनुब्रह्मग्निं स्विष्टकृतं यजेति संप्रैषौ। उत्तरार्धपूर्वार्धे जुहोत्यसंसक्तामितराभिराहुतीभिः॥६॥

प्रत्याक्रम्य जुह्वामप आनीय वैश्वानरे हविरिदं जुहोमि साहस्रमुत्सं शतधारमेतम्। स नः पितरं पितामहं प्रपितामहं स्वर्गे लोके पिन्वमानो बिभर्त स्वाहेत्यन्तः परिधि निनयति निनयति॥७॥

03.01

इडामेके पूर्वं समामनन्ति प्राशित्रमेके॥१॥

आग्नेयं पुरोडाशं प्राञ्चं तिर्यञ्चं वा विरुज्याङ्गष्ठेनोपमध्यमया चाङ्गल्या व्यूह्य मध्यात्प्राशित्रमवद्यति यवमानं पिप्पलमात्रं वाज्यायो यवमात्रादाव्या धात्कृत्यतामिदम्॥ मा रूरुपाम यज्ञस्य शुद्धं स्विष्टमिदं हविरिति॥२॥

एवमुत्तरस्यावद्यति॥३॥

ApSs Translation : THITE 103 III.1] उपस्तीर्य नाभिघारयत्येतद्वा विपरीतम्। अपि वोपस्तृणात्यभि च घारयति।।४॥

अत्रैवास्य परिहरणप्राशनमेके समामनन्ति॥५॥

इडापात्र उपस्तीर्य सर्वेभ्यो हविर्य इडां समवद्यति चतुरवत्तां पञ्चावत्तां वा॥६॥

मनुना दृष्टां घृतपदी मित्रावरुणसमीरिताम्। दक्षिणार्धादसंभिन्दन्नव द्याम्येकतोमुखामित्याग्नेयस्य पुरोडाशस्य दक्षिणार्धात्प्रथममवदानमवद्यति॥७॥

संभेदाद् द्वितीयम्॥८॥

पूर्वार्धाच्च यजमानभागमणुमिव दीर्घम्॥९॥

[III.2 104 ApSs Translation : THITE तमाज्येन संतमे ध्रुवाया उपोहति॥१०॥

अपि वा दक्षिणार्धादवदाय यजमानभागमथ संभेदात्॥११॥

एवमुत्तरस्यावद्यति॥१२॥

03.02

अभिघार्येडां होने प्रदाय दक्षिणेन होतारमतिक्रामत्यनृत्सृजन्॥१॥

होतेडयाध्वर्यु परिगृह्णाति॥२॥

अपि वा प्राचीमिडामपोह्य दक्षिणत आसीनः स्रवेण होतुरङ्गलिपर्वणी अनक्ति ॥३॥

ĀPŚS Translation : THITE 105 III.2] अपरमङ्क्त्वा पूर्वमेतद्वा विरीतम्॥४॥

उपस्पृष्टोदकाय पुरस्तात्प्रत्यङ्ङासीन इडाया होतुर्हस्तेऽवान्तरेडामवद्य ति॥५॥

अध्वर्युः प्रथममवदानमवद्यति स्वयं होतोत्तरम् एतद्वा विपरीतम्॥६॥

लेपादुपस्तरणाभिधारणे भवतः॥७॥

द्विरभिघारयेत्पञ्चावत्तिनः। उपहूयमानामन्वारभेते अध्वर्युर्यजमानश्च। दैव्या अध्वर्यव उपहूता इत्यभिज्ञायोपहूतः पशुमानसानीत्यध्वर्युर्जपति। उपहूतोऽयं यजमान इत्यभिज्ञायैतमेव मन्त्रं यजमानः॥८॥

उपहूतायामग्रेणाहवनीयं ब्रह्मणे प्राशित्रं परिहरति॥९॥

तस्मिन्प्राशिते होतावान्तरेडां प्राश्नाति वाचस्पतये त्वा हुतं प्राश्नामि सदस्पतये त्वा हुतं प्राश्नामीति॥१०॥

प्राशितायामिडे भागं जुषस्व नो जिन्व गा जिन्वार्वतः। तस्यास्ते भक्षि वाणः स्याम सर्वात्मानः सर्वगणा इति यजमानपञ्चमा इडां प्रांश्य॥११॥

03.03

वाग्यता आसत आ मार्जनात्॥१॥

मनो ज्योतिर्जुषतामित्यद्भिरन्तर्वेदि प्रस्तरे मार्जयित्वाग्नेयं पुरोडाशं चतुर्धा कृत्वा बर्हिषदं करोति बर्हिषदं वा कृत्वा चतुर्धाकरोति॥२॥

Após Translation : THITE 107 III.3] तं यजमानो व्यादिशतीदं ब्रह्मण इदं होतुरिदमध्वर्योरिदमग्नीध इति॥३॥

अग्नीत्प्रथमान्होतृप्रथमान्वा॥४॥

इदं यजमानस्येत्यखध्वर्युर्यजमानभागं निर्दिश्य स्थविष्ठमग्नीधे षडवत्तं संपादयति॥५॥

सकृदुपस्तीर्य द्विरादधदुपस्तीर्य द्विरभिघारयति॥६॥

अपि वा द्विरुपस्तृणाति द्विरादधाति द्विरभिघारयति॥७॥

अग्नेराग्नीध्रमस्यग्नेः शामित्रमसि नमस्ते अस्तु मा मा हिंसीरित्याग्नीध्रो भक्षयति॥८॥

वेदेन ब्रह्मयजमानभागौ परिहरति॥९॥ dh 108 पृथक् पात्राभ्यामितरयोः॥१०॥

पृथिव्यै भागोऽसीति होता भक्षयत्यन्तरिक्षस्य भागोऽसीत्यध्वर्युदिवो भागोऽसीति ब्रह्मा॥११॥

दक्षिणाग्नावन्वाहार्यं महान्तमपरिमितमोदनं पचति॥१२॥

क्षीरे भवतीत्येकै॥१३॥

तमभिघार्यानभिघार्य वोद्वास्यान्तवेद्यासाद्य॥१४॥

03.04

दक्षिणसभ्य उपहर्तवा इति संप्रेष्यति॥१॥

ये ब्राह्मणा उत्तरतस्तान्यजमान आह दक्षिणत एतेति॥२॥

III.4] Translation : THITE 109 तेभ्योऽन्वाहार्यं ददाति ब्राह्मणा अयं व ओदन इति॥३॥

प्रतिगृहीत उत्तरतः परीतेति संप्रेष्यति॥४॥

हविःशेषानुद्वास्यापिसृज्योल्मुके ब्रह्मन्प्रस्थास्यामः समिधमाधायाग्नीत्परि धींश्चाग्निं च सकृत्सकृत्संमृड्ढीति संप्रेष्यति॥५॥

अनुज्ञातो ब्रह्मणाग्नीध्रः समिधमादधात्येषा ते अग्ने समित्तया वर्धस्व चा च प्यायस्व वर्धतां च ते यज्ञपतिरा च प्यायतां वर्धिषीमहि च वयमा च प्यायिषीमहि स्वाहेति॥६॥

पूर्वपत्परिधीन्सकृत्सकृत्संमृज्याग्ने वाजजिद्वाजं त्वा सहवांसं वाजं जिगिवांसं वाजिनं वाजजितं वाजजित्यायै संमार्म्यग्निमन्नादमन्नाटायेति सकृदग्निं प्राञ्चम्॥७॥

110 . इध्मसंहनान्यद्भिः संस्पर्श्य यो भूतानामधिपती रुद्रस्तन्तिचरो वषा। पशुनस्माकं मा हिंसीरेतदस्तु हुतं तव स्वाहेत्यग्नौ प्रहरत्युत्करे वा न्यस्यति शालायां बलजायां परोगोष्ठे परोगव्यूतौ वा॥८॥

03.05

औपभृतं जुह्वामानीय जुहूपभृतावादाय दक्षिणा सकृदतिक्रान्तोऽग्रेणा घारसंभेदं प्रतीचस्त्रीननूयाजान्यजत्याश्रावमाश्रावं प्रत्याश्राविते देवान्यजेति प्रथमं संप्रेष्यति। यज यजेतीतरौ॥१॥

पूर्वार्धे प्रथमं समिधि जुहोति मध्ये द्वितीयं प्राञ्चमुत्तमं संस्थापयन्नि तरावनुसंभिद्य॥२॥

प्रत्याक्रम्यायतने स्रुचौ सादयित्वा वाजवतीभ्यां व्यूहति॥३॥

वाजस्य मा प्रसवेनेति दक्षिणेन हस्तेनोत्तानेन सप्रस्तरां जुहूमुद्यच्छति। अथा सपत्नानिति सव्येनोपभृतं नियच्छति॥४॥

उद्ग्राभं चेति जुहूमुद्यच्छति निग्राभं चेत्युपभृतं नियच्छति॥५॥

ब्रह्म देवा अवीवृधन्निति प्राची जुहूं प्रोहति॥६॥

अथा सपलानिति सव्येनोपभृतं प्रतीची बहिर्वेदि निरसित्वा प्रोक्ष्यै नामभ्युदाहृत्य जुह्वा परिधीननक्ति वसुभ्यस्त्वेति मध्यमं रुद्रेभ्यस्त्वेति दक्षिण मादित्येभ्यस्त्वेत्युत्तरम्॥७॥

न प्रस्तरे जुहूं सादयति॥८॥

संजानाथां द्यावापृथिवी मित्रावरुणौ त्वा वृष्ट्यावतामिति विधृतीभ्यां प्रस्तरमपादाय बर्हिषि विधृती अपिसृज्य सुक्षु प्रस्तरमनक्ति॥९॥

03.06

अक्तं रिहाणा इति जुह्वामग्रम्। प्रजां योनिमित्युपभृति मध्यम्। आप्यायन्तामाप ओषधय इति ध्रुवायां मूलम्। एवं त्रिः॥१॥

अपि वा दिव्यद्भवेति जुबामग्रम्। अन्तरिक्षेऽद्भवेत्युपभृति मध्यम्। पृथिव्यामद्भवेति ध्रुवायां मूलम्॥२॥

एवं पुनः॥३॥

अथापरम्। पृथिव्यै त्वेति ध्रुवायां मूलमन्तरिक्षायत्वेत्युपभृति मध्यं दिवे त्वेति जुह्वामग्रम्॥४॥

आयुषे त्वेत्यक्तस्य तृणमपादाय प्रज्ञातं निधाय दक्षिणोत्तराभ्यां प्रस्तरं गृहीत्वा जुह्वां प्रतिष्ठाप्यासीन आश्राव्य प्रत्याश्राविते संप्रेष्यतीषिता दैव्या होतारो भद्रवाच्याय प्रेषितो मानुषः सूक्तवाकाय सूक्ता ब्रूहीति॥५॥

अनूच्यमाने सूक्तवाके मरुतां पृषतय स्थेति सह शाखया प्रस्तरमाहवनीये प्रहरति॥६॥

न स्वाहाकरोति।७॥

Após Translation : THITE (111.7 न विधुनोति नावधूनोति न विक्षिपति न प्रमाटि न प्रतिमाटि नानपाति नोदञ्चं प्रहरेत्॥८॥

तिर्यञ्चं हस्तं धारयन्कर्षन्निवाहवनीये प्रहरति॥९॥

7 ufa squirritatiql8011

प्रथयित्वा प्रहरेद्यं कामयेत स्त्र्यस्य जायतेति॥११॥

đt: gfa uk Hafel® II

03.07

न्यञ्चं हस्तं पर्यावर्तयन्॥१॥

III.7] anslation : THITE 115 अग्नीद् गमयेति संप्रेष्यति॥२॥

त्रिरञ्जलिनाग्नीध्रोऽविष्वञ्चं प्रस्तरमूर्ध्वमुद्यौति रोहितेन त्वाग्निर्देवतां गमयत्वित्येतैः प्रतिमन्त्रम्॥३॥

अथैनमाहाग्नीध्रोऽनुप्रहरेति॥४॥

यत्प्रस्तरात्तृणमपात्तं तदनुप्रहरति स्वगा तनुभ्य इति॥५॥

एतदेतदिति त्रिरङ्गल्या निर्दिश्याग्निमभिमन्त्रयत आयुष्या अग्नेऽस्यायुमें पाहीति॥६॥

ध्रुवासीत्यन्तर्वेदि पृथिवीमभिमृशति॥७॥ अथैनमाहाग्नीध्रः संवदस्वेति॥८॥

116 116 अगानग्नीदित्यध्वर्युराह। अगन्नित्याग्नीध्रः। श्रावयेत्यध्वर्युः। श्रौष डित्याग्नीधः॥९॥

मध्यमं परिधिमन्वारभ्य संप्रेष्यति स्वगा दैव्या होतृभ्यः स्वस्तिर्मानुषेभ्यः शंयोर्ब्रहीति ॥१०॥

अनूच्यमाने शंयुवाक आहवनीये परिधीन्ग्रहरति॥११॥

यं परिधिं पर्यधत्था इति मध्यमम्। यज्ञस्य पाथ उपसमितमितीतरौ॥१२॥

उत्तरार्ध्यस्याग्रमङ्गारेषूपोहति॥१३॥ __

__यजमानं प्रथतेति परिधीनभिमन्त्र्य जुह्वामुपभृतोऽग्रमवधाय संस्त्रावभागा इति संस्त्रावेणाभिजुहोति॥१४॥

त्रैवविजो हविःशेषान्भक्षयन्ति॥१५॥

117

03.08

आज्यलेपान्प्रक्षाल्य सस्नुवे जुहूपभृतावध्वर्युरादत्ते वेदं होता स्फ्यमाज्य स्थालीमुदकमण्डलुं चाग्नीध्रः॥१॥

आग्नीध्रप्रथमाः पत्नीः संजाययिष्यन्तः प्रत्यञ्चो यन्ति॥२॥

अग्रेण गार्हपत्यं दक्षिणेनाध्वर्युः प्रतिपद्यत उत्तरेणेतरौ॥३॥

अग्नेर्वामपन्नगृहस्य सदसि सादयामीति कस्तम्भ्यां स्तुचौ सादयित्वा धुरि धुर्यो पातमिति युगधुरोः प्रोहति॥४॥

यदि पात्र्या निर्वपेदेताभ्यामेव यजुभ्यां स्फ्ये घुचौ सादयेत्॥५॥

118 त्रुग्भ्यां स्वाभ्यां वा पलीः संयाजयन्ति॥६॥

वेदमुपभृतं कृत्वा जुह्वा स्रवेण चेत्येके॥७॥

अपरेण गार्हपत्यमूर्ध्वज्ञव आसीना ध्वानेनोपांशु वा पत्नीः संयाजयन्ति॥८॥

दक्षिणेऽध्वर्युरुत्तर आग्नीध्रो मध्ये होता॥९॥

आज्येन सोमत्वष्टाराविष्ट्वा जान्या पत्नीः संयाजयन्त्याज्यस्य वा Jereda 118011

सोमायानुब्रूहि सोमं यजेति संप्रैषावुत्तरार्धे जुहोति॥११॥

एवमितरांस्त्वष्टारम्॥१२॥

119

03.09

देवानां पलीरग्निं गृहपतिमिति॥१॥

दक्षिणतस्त्वष्टारमुत्तरतो वा मध्येऽग्निं गृहपतिम्॥२॥

आहवनीयतः परिश्रिते देवपत्तीरपरिश्रिते वा॥३॥

राकां पुत्रकामो यजेत सिनीवाली पशुकामः कुहूं पुष्टिकामः।।४॥

नित्यवदेके समामनन्ति॥५॥

पुरस्ताद्देवपत्नीभ्य एता एके समामनन्ति। उपरिष्टाद्वा॥६॥

पूर्ववद्धोतुरङ्गलिपर्वणी अङ्क्त्वोपस्पृष्टोदकाय होतुर्हस्ते चतुर आज्य बिन्दुनिडामवद्यति षडग्नीधः।।७॥

उपहूयमानामबारभन्तेऽध्वर्युराग्नीध्रः पत्नी च॥८॥ उपहूतां प्राश्नीतो होताग्नीध्रश्च॥९॥

अत्र स्रवेण संपत्तीयं जुहोति पल्यामन्वारब्धायां सं पत्नी पत्या सुकृतेन गच्छतां यज्ञस्य युक्तौ धुर्यावभूताम्। संजानानौ विजहतामरातीदिवि ज्योतिरज रमारभेतां स्वाहेति॥१०॥

पुरस्ताद्देवपत्नीभ्य एतामेके समामनन्त्युपरिष्टाद्वा। उपरिष्टाद्वा पिष्टलेप फलीकरणहोमाभ्याम्॥११॥

दक्षिणाग्नाविध्मप्रव्रश्चनान्यभ्याधाय पिष्टलेपफलीकरणहोमौ जुहो ति॥१२॥

ApSs Translation : THITE 121

03.010

फलीकरणहोमं पूर्वमेतद्वा विपरीतम्। चतुर्ग्रहीत आज्ये फलीकरणानो प्याग्नेऽदब्धायोऽशीततनो इति जुहोति। एवं पिष्टलेपानुलूखले मुसले यच्च शूर्प आशिश्लेष दृषदि यत्कपाले। अवप्रुषो विपुषः संजयामि विश्वे देवा हविरिदं जुषन्ताम्। यज्ञे या विपुषः सन्ति बह्वीरग्नौ ताः सर्वाः स्विष्टाः सुहुता जुहोमि स्वाहेति॥१॥

या सरस्वती विशोभगीना तस्यै स्वाहा या सरस्वती वेशभगीना तस्यै स्वाहेन्द्रोपानस्यकेहगनसो वेशान्कुरु सुमनसः सजातान्स्वाहेति दक्षिणाग्नौ प्रतिमन्त्रं जुहोति।।२।।

वेदोऽसीति वेदं होता पल्या उपस्थे त्रिः प्रास्यति॥३॥

निर्द्विषन्तं निररातिं नुदेतीतरा प्रास्तंप्रास्तं प्रतिनिरस्यति॥४॥

122 ApSs Translation : THITE [III. 11 तन्तं तन्वन्निति वेदं होता गार्हपत्यात्प्रक्रम्य संततमाहवनीयात्स्तुणात्या वा वेदेः॥५॥

इमं विष्यामीति पत्नी योक्त्रपाशं विमुञ्चते॥६॥

तस्याः सयोकोऽञ्जलौ पूर्णपात्रमानयति॥७॥

समायुषा सं प्रजयेत्यानीयमाने जपति॥८॥

निनीय मुखं विमृज्योत्तिष्ठति पुष्टिमती पशुमती प्रजावती गृहमेधिनी भूयासमिति॥९॥

03.11

यथेतमाहवनीयं गत्वा जुह्वा स्रवेण वा सर्वप्रायश्चित्तानि जुहोति॥१॥

123 ब्रह्म प्रतिष्ठा मनस इत्येषा। आश्रावितमत्याश्रावितं वषट्कृतमत्यनूक्तं जयजे। अतिरिक्तं कर्मणो यच्च हीनं यज्ञः पर्वाणि प्रतिरन्नेति कल्पयन्। स्वाहाकताहुतिरेतु देवान्॥ यद्वो देवा अतिपादयानि वाचा चित्प्रयतं देवहेडनम्। अरायो अस्माँ अभिदुच्छुनायतेऽन्यत्रास्मन्मरुतस्तं निधेतन॥ ततं म आपस्तदु तायते पुनः स्वादिष्ठा धीतिरुचथाय शस्यते। अयं समुद्र उत विश्वभेषजः स्वाहाकृतस्य समु तृष्णुतर्भुवः॥ उद्वयं तमसस्पर्युदु त्यं चित्रमिमं मे वरुण तत्त्वा यामि त्वं नो अग्ने त्वं नो अग्ने त्वमग्ने अयास्यया सम्नमसा हितः। अयासन्हव्यमूहिषेऽया नो धेहि भेषजम्॥ प्रजापत इत्येषा। इष्टेभ्यः स्वाहा वषडनिष्टेभ्यः स्वाहा। भेषजं दुरिष्ट्यै स्वाहा निष्कृत्यै स्वाहा। दौरायै स्वाहा दैवीभ्यस्तनूभ्यः स्वाहा। ऋद्ध्यै स्वाहा समृद्ध्यै स्वाहा॥ अयाश्चा ग्नेऽस्यनभिशस्तिश्च सत्यमित्त्वमया असि॥ अयसा मनसा धृतोऽयसा हव्यमूहिषेऽया नो धेहि भेषजम्॥ यदस्मिन्यज्ञेऽन्तरगाम मन्त्रतः कर्मतो वा। अनयाहुत्या तच्छमयामि सर्वं तृप्यन्तु देवा आवृषन्तां घृतेन॥२॥

03.12

आज्ञातमनाज्ञातममतं च मतं च यत्। जातवेदः संधेहि त्वं हि वेत्थ यथातथम्॥ यदकर्म यन्नाकर्म यदत्यरेचि यन्नात्येरचि। अग्निष्टत्स्विष्टकृद्विद्वान्सर्वं स्विष्टं सुहुतं करोतु॥ यदस्य कर्मणोऽत्यरीरिचं यद्वा न्यूनमिहाकरम्। अग्निष्टत्स्विष्टकृद्विद्वान्सर्वं स्विष्टं सुहुतं करोतु॥ यत इन्द्र भयामहे ततो नो अभयं कृधि। मघवञ्छग्धि तव तन्न ऊतये वि द्विषो वि मृधो जहि॥ स्वस्तिदा विशस्पतिर्वत्रहा विमृधो वशी। वृषेन्द्रः पुर एतु नः स्वस्तिदा अभयंकरः॥ आभिर्गीर्भिर्यदतो न ऊनमाप्यायय हरिवो वर्धमानः। यदा स्तोतृभ्यो महि गोत्रा रुजासि भूयिष्ठभाजो अध ते स्याम॥ अनाज्ञातं यदाज्ञातं यज्ञस्य क्रियते मिथु। अग्ने तदस्य कल्पय त्वं हि वेत्थ यथातथम्॥ पुरुषसामतो यज्ञो यज्ञः पुरुषसंमितः। अग्ने तदस्य कल्पय त्वं हि तेत्थ पथातथम्॥ यत्पाकत्रा मनसा दीनदक्षा न यज्ञस्य मन्वते मर्तासः। अग्निष्टद्धोता [III.13 124 ĀPŚS Translation : THITE क्रतुविद्विजानन्यजिष्ठो देवाँ ऋतुशो यजाति॥ यद्विद्वांसो यदविद्वांसो मुग्धाः कुर्वन्त्य॒त्विजः। अग्निर्मा तस्मादेनसः श्रद्धा देवी च मुञ्चताम्॥१॥

03.13

। अयाडग्निर्जातवेदा अन्तरः पूर्वो अस्मन्निषद्य। सन्वन्सनिं सुविमुचा विमुञ्च धेह्यस्मासु द्रविणं जातवेदो यच्च भद्रम्॥ ये ते शतं वरुण ये सहस्त्रं यज्ञियाः पाशा वितताः पुरुत्रा। तेभ्यो न इन्द्रः सवितोत विष्णुर्विश्वे देवा मुञ्चन्तु मरुतः स्वस्त्या॥ यो भूतानामुबुध्यस्वाग्न उदुत्तममिति व्याहृतिभि विहृताभिः समस्ताभिश्च हुत्वा॥१॥


पूर्ववधुवामाप्याय्य देवा गातुविद इत्यन्तर्वेधूर्ध्वस्तिष्ठन्ध्रुवया समिष्ट यजुर्जुहोति॥२॥

मध्यमे स्वाहाकारे बर्हिरनुप्रहरति॥३॥

यदि यजमानः प्रवसेत्प्रजापतेर्विभान्नाम लोक इति ध्रुवायां यजमानभाग मवधाय समिष्टयजुषा सह जुहुयात्।।४॥

अभिस्तृणीहि परिधेहि वेदिं जामि मा हिंसीरमुया शयाना। होतृषदना हरिताः सुवर्णा निष्का इमे यजमानस्य ब्रन इति होतृषदनैर्वेदिमभिस्तीर्य को वोऽयोक्षीत्स वो विमुञ्चत्वित्यन्तर्वेदि प्रणीता आसाद्य विमुञ्चति॥५॥

यं देवा मनुष्येषूपवेषमधारयन्। ये अस्मदपचेतसस्तानस्मभ्यमिहा कुरु॥ उपवेषोपविड्ढि नः प्रजां पुष्टिमथो धनम्। द्विपदो नश्चतुष्पदो ध्रुवाननपगान्कुर्विति पुरस्तात्प्रत्यञ्चमुत्कर उपवेषं स्थविमत उपगृहति॥६॥

3.14

यद्यभिचरेद्योपवेषे शुक् सामुमृच्छतु यं द्विष्म इत्यथास्मै नामगृह्य प्रहरति॥१॥

निरमुं नुद ओकसः सपत्नो यः पृतन्यति। निर्बाध्येन हविषेन्द्र एणं परा शरीत्॥ इहि तिस्त्रः परावत इहि पञ्च जनाँ अति। तिस्रो ऽति रोचना यावत्सूर्यो असदिवि॥ परमां त्वा परावतमिन्द्रो समाभ्य इति हतो ऽसाववधिष्मामुमित्ये ताभिः पञ्चभिर्निरस्येन्निखनेद्वा॥२॥

अवसष्टः परापत शरो ब्रह्मसंशितः। गच्छामित्रान्प्रविश मैषां कंचनोच्छिा इति वा॥३॥

यानि घर्मे कपालानीति चतुष्पदयर्चा कपालानि विमुच्य संख्यायोद्वा सयति॥४॥

संतिष्ठेते दर्शपूर्णमासौ॥५॥

शंय्वन्तं वाहवनीये संस्थापयेदाज्येडान्तं गार्हपत्ये। इडान्तं वाहवनीये शंय्वन्तं गार्हपत्ये॥६॥

यदि शंय्वन्तं पश्चात्स्याद्वेदात्तृणमपादाय जुह्वामग्रमज्ज्यात्वे मध्यमुपभृति वाज्यस्थाल्यां मूलम्। तस्य प्रस्तरवत्कल्पः सूक्तवाकाद्या शंयुवाकात्॥७॥

127 127 स्वर्गकामो दर्शपूर्णमासौ॥८॥

एककामः सर्वकामो वा॥९॥

युगत्पकामयेताहारपृथक्त्वे वा॥१०॥

ताभ्यां यावज्जीवं यजेत॥११॥

त्रिंशतं वा वर्षाणि॥१२॥

जीर्णो वा विरमेत्॥१३॥

द्वे पौर्णमास्यौ द्वे अमावास्ये यजेत यः कामयेतर्जुयामित्युक्त्वाहैकामेव यजेतेति॥१४॥

01 nityāni kāmāni ca

OBLIGATORY AND OPTIONAL RITES CONNECTED WITH THE NEW AND FULL-MOON-SACRIFICES.

03.15

संस्थाप्य पौर्णमासीमिन्द्राय वैमृधाय पुरोडाशमेकादशकपालमनुनिर्व पति॥१॥

समानतन्त्रमेके समामनन्ति॥२॥

तस्य याथाकामी प्रक्रमे। प्रक्रमात्तु नियम्यते॥३॥

सप्तदशसमिधेनीको यथाश्रद्धदक्षिणः॥४॥

शर्धवत्यौ संयाज्ये। अग्ने शर्ध महते सौभगाय तव द्युम्नान्युत्तमानि सन्तु। सं जास्पत्यं सुयममाकृणुष्व शत्रूयतामभितिष्ठा महांसि॥ वातोपधूत इपिरो वशाँ अनु तृषु यदन्ना वेविषद्वितिष्ठसे। आ ते यतन्ते रथ्यो यथा पृथक् शर्धास्यग्ने अजराणि धक्ष्यस इति॥५॥

अग्नीषोमीयमेकादशकपालं पौर्णमास्यामनुनिर्वपत्यादित्यं घृते चलं सारस्वतं चरुममावास्यायां पौष्णं चैन्द्रमेकादशकपालममावास्यायां पौर्णमास्यां च भ्रातृव्यवतोऽभिचरतो वा॥६॥

129 इन्द्राय त्रात्रे चरुं द्वितीयं वैमृधस्य कुर्याद्यो मृत्योर्लान्या वा बिभीयात्। मुष्करो दक्षिणा॥७॥

इन्द्रायेन्द्रियावते पुरोडाशमेकादशकपालमनुनिर्वपेत्प्रजाकामः पशुकामः सजातकामः॥८॥

एतं वानुनिष्प्यं कुर्वीत॥९॥ इतरौ वा॥१०॥

यमभीव संशयीत॥११॥

03.16

स इन्द्राय वैमृधायानुनिर्वपेत्॥१॥

यो नेव घोषेन्नेव शृणुयात्स इन्द्रायांहोमुचे॥२॥

यो भ्रातृव्यवान्स्यात्स इन्द्राय वृत्रतुरे॥३॥

अथ यं कुतश्चनातपेत्स इन्द्रायैव॥४॥

यो भ्रातृव्यवान्स्यात्स पौर्णमासं संस्थाप्यतामिष्टिमनुनिर्वपेदाग्नावैष्ण वमेकादशकपालं सरस्वत्यै चरुं सरस्वते चरुम्॥५॥

पौर्णमासीमेव यजेत भ्रातृव्यवान्नामावास्याम्॥६॥

पितृयज्ञमेवामावास्यायां कुरुते॥७॥

संक्रामेसंक्रामे वजं भ्रातृव्याय प्रहरतीति विज्ञायते॥८॥

III.16] ApSS Translation : 100C त्र्यवराय॑ममावास्यां संक्रामति॥९॥

अग्नीषोमीयानि प्रधानानि स्युरमावास्यायां पौर्णमास्यां च भ्रातृव्यवतोऽ भिचरतो वा॥१०॥

सांकप्रस्थायीयेन यजेत पशुकाम इत्यमावास्या विक्रियते॥११॥

द्वौ सायं दोहावेवं प्रातः॥१२॥

सायं सायंदोहाभ्यां प्रचरन्ति प्रातः प्रातर्दोहाभ्याम्॥१३॥

सर्वैर्वा प्रातः॥१४॥

पात्रसंसादनकाले चत्वार्योदुम्बराणि पात्राणि प्रयुनक्ति॥१५॥

तेषां जुहूवत्कल्पः॥१६॥

132 आज्यभागाभ्यां प्रचर्याग्नेयेन च पुरोडाशेनाग्नीधे स्रुचौ प्रदाय सह कुम्भी भिरभिक्रामन्नाहेन्द्रायानुब्रूह्याश्रावयेन्द्रं यजेति संप्रैषौ॥१७॥

03.17

यावत्यः कुम्भ्यस्तावन्तो ब्राह्मणा दक्षिणतउपवीतिन उपोत्थाय कुम्भीभ्यः पात्राणि पूरयित्वा तैरध्वर्यु जुह्वतमनु जुह्वति॥१॥

स्विष्टकृद्भक्षाश्च न विद्यन्ते॥२॥

समानमत ऊर्ध्वम्। संतिष्ठते साकंप्रस्थायीयः॥३॥

133 ApSs Translation : THITE III.171 दाक्षायणयज्ञेन सुवर्गकामः।।४॥

द्वे पौर्णमास्यौ द्वे अमावास्ये यजेत॥५॥

आग्नेयोऽष्टाकपालोऽग्नीषोमीय एकादशकपालः पूर्वस्यां पौर्णमास्या माग्नेयोऽष्टाकपाल ऐन्द्रं दध्युत्तरस्याम्। आग्नेयोऽष्टाकपाल ऐन्द्राग्न एकादश कपालः पूर्वस्याममावास्यायामाग्नेयोऽष्टाकपालो मैत्रावरुण्यामिक्षा द्वितीयो त्तरस्याम्॥६॥

व्यावृत्काम इत्युक्तम्॥७॥

ऋत्वे वा जायामुपेयात्॥८॥

134 Āpss Translation : THITE (III. 18 सोऽयं दर्शपूर्णमासयोः प्रक्रमे विकल्पोऽनेन दर्शपूर्णमासाभ्यां वा यजेत॥९॥

तेन पञ्चदश वर्षाणीष्ट्वा विरमेद्यजेत वा॥१०॥

संतिष्ठते दाक्षायणयज्ञः॥११॥

एतेनैडादधः सार्वसेनियज्ञो वसिष्ठयज्ञः शौनकयज्ञश्च व्याख्याताः॥१२॥

02 brahmā

THE BRAHMAN IN THE NEW AND FULL-MOON-SACRIFICES

03.18

ब्रह्मिष्ठो ब्रह्मा दर्शपूर्णमासयोः॥१॥

135 तं वृणीते भूपते भुवनपते महतो भूतस्य पते ब्रह्माणं त्वा वृणीमह इति॥२॥

वृतो जपति॥३॥ अहं भूपतिरहं भुवनपतिरहं महतो भूतस्य पतिर्देवेन सवित्रा प्रसूत आविज्यं करिष्यामि देव सवितरेतं त्वा वृणते बृहस्पतिं दैव्यं ब्रह्माणं तदहं मनसे प्रब्रवीमि मनो गायत्रियै गायत्री त्रिष्टुभे त्रिष्टुब्जगत्यै जगत्यनुष्टुभेऽनुष्टुप्पङक्त्यै पङ्क्तिः प्रजापतये प्रजापतिर्विश्वेभ्यो देवेभ्यो विश्वे देवा बृहस्पतये बृहस्पतिर्ब्रह्मणे ब्रह्म भूर्भुवः सुववृहस्पतिर्देवानां ब्रह्माहं मनुष्याणां बृहस्पते यज्ञं गोपायेत्युक्त्वापरेणाहवनीयं दक्षिणातिक्रम्य निरस्तः पराग्वसुः सह पाप्मनेति ब्रह्मसदनात्तृणं निरस्येदमहमर्वाग्वसोः सदने सीदामि प्रसूतो देवेन सवित्रा बृहस्पतेः सदने सौदामि तदग्नये प्रब्रवीमि तद्वायवे तत्सूर्याय तत्पृथिव्या इत्युपविशति॥४॥

आहवनीयमभ्यावृत्यास्ते॥५॥

कर्मणिकर्मणि वाचं यच्छति॥६॥

मन्त्रवत्सु वा कर्मसु। याथाकामी तूष्णीकेषु॥७॥

यदि प्रमत्तो व्याहरेद्वैष्णवीमृचं व्याहृतीश्च जपित्वा वाचं यच्छेत्॥८॥

ब्रह्मन्नपः प्रणेष्यामीत्युच्यमाने॥९॥

03.19

प्रणय यज्ञं देवता वर्धय त्वं नाकस्य पृष्ठे यजमानो अस्तु। सप्तर्षीणां सुकृता यत्र लोकस्तत्रेमं यज्ञं यजमानं च धेह्यों प्रणयेति प्रसौति॥१॥

सर्वेष्वामन्त्रणेष्वेवं प्रसवस्तेन कर्मणा यस्मिन्नामन्त्रयते॥२॥

प्रोक्ष यज्ञमिति हविष इध्माबहिषश्च प्रोक्षे। बृहस्पते परिगृहाण वेदि स्वगा वो देवाः सदनानि सन्तु। तस्यां बर्हिः प्रथतां साध्वन्तरहिंसा नः पृथिवी देव्यस्त्वित्युरस्मिन् परिग्राहे। प्रजापतेऽनुब्रूहि यज्ञमिति सामिधेनीरनुवक्ष्यन्तम्। वाचस्पते वाचमाश्रावयैतामाश्रावय यज्ञं देवेषु मां मनुष्येष्विति प्रवरे॥३॥

137 देवता वर्धय त्वमिति सर्वत्रानुषजति॥४॥

मित्रस्य त्वा चक्षुषा प्रेक्ष इति प्राशित्रमवदीयमानं प्रेक्षते॥५॥

ऋतस्य पथा पर्येहीति परिह्रियमाणं सूर्यस्य त्वा चक्षुषा प्रतिपश्यामीत्या ह्रियमाणम्॥६॥

सावित्रेण प्रतिगृह्य पृथिव्यास्त्वा नाभौ सादयामीडायाः पद इत्यन्तर्वेदि व्यूह्य तृणानि प्राग्दण्डं सादयित्वादब्धेन त्वा चक्षुषावेक्ष इत्यवेक्ष्य सावित्रेणा ङ्गप्ठेनोपमध्यमया चाइल्यादायाग्नेस्त्वास्येन प्राश्नामि ब्राह्मणस्योदरेण बृहस्पते ब्रह्मणेन्द्रस्य त्वा जठरे सादयामीत्यसंम्लेत्यापिगिरति॥७॥

03.20

या अप्स्वन्तर्देवतास्ता इदं शमयन्तु स्वाहाकृतं जठरमिन्द्रस्य गच्छ स्वाहेत्यद्भिरभ्यवनीयाचम्य घसीना मे मा संपृक्था ऊर्ध्वं मे नाभेः सीदेन्द्रस्य त्वा जठरे सादयामीति नाभिदेशमभिमृशति॥१॥

वाङ्म आसन्निति यथालिङ्गमङ्गानि॥२॥

अरिष्टा विश्वानीत्यवशिष्टानि॥३॥

प्रक्षाल्य पात्रं पूरयित्वा दिशो जिन्वेति पराचीनं निनयति॥४॥ मां जिन्वेत्यभ्यात्मम्॥५॥

यत्रास्मै ब्रह्मभागमाहरति तं प्रतिगृह्य नासंस्थिते भक्षयति॥६॥

139 ब्रह्मन्ब्रह्मासि ब्रह्मणो त्वाहुताद्य मा मा हिंसीरहुतो मह्यं शिवो भवेत्यन्त वैद्यन्वाहार्यमासन्नमभिमृशति॥७॥

ब्रह्मन्प्रस्थास्याम इत्युच्यमाने देव सवितरेतत्ते प्राह तत्प्र च सुव प्रच यज बृहस्पतिर्ब्रह्मा स यज्ञं पाहि स यज्ञपतिं पाहि स मां पाह्यों प्रतिष्ठेति प्रसौति॥८॥

भूमिभूमिमगान्माता मातरमप्यगात् । भूयास्म पुत्रैः पशुभिर्यो नो द्वेष्टि स भिद्यतामिति यत्किंच यज्ञे मृन्मयं भिद्येत तदभिमन्त्रयेत॥९॥

ब्रह्मभागं प्राश्यायाडग्निर्जातवेदाः प्र णो यक्ष्यभि वस्यो अस्मान्सं नः सृज सुमत्या वाजवत्येत्याहवनीयमुपस्थाय यथेतं प्रतिनिष्क्रामति॥१०॥

एवं विहितमिष्टिपशुबन्धानां ब्रह्मत्वं ब्रह्मत्वम्॥११॥