१८ गृहप्रवेशविधिः

१७ ०७ पालाशं शमीमयम्

पालाशं शमीमयं वेध्मम् +++(पाकाग्वाव्)+++ आदीप्योत्तरयर्चा +++(“उद्ध्रियमाण"इत्येतया पञ्चपादया)+++ ऽग्निम् उद्धृत्य

उ॒द्ध्रि॒यमा॑ण॒ उद्ध॑र पा॒प्मनो॑ मा॒
यद् अवि॑द्वा॒न् यच् च॑ वि॒द्वाँश् च॒कार॑ ।
+++(रात्रौ प्रवेशे)+++ अह्ना॒ यद् एनः॑ कृ॒तम् अ॑स्ति पा॒पँ
+++(अहनि प्रवेशे)+++ रात्र्या॒ यद् एनः॑ कृ॒तम् अ॑स्ति पा॒पँ
सर्व॑स्मा॒न् मोद्धृ॒तो +++(त्वम्)+++ मु॑ञ्च॒ तस्मा॑त् ।


अगारप्रतिपादनम्

उत्तरेण यजुषा +++(“इन्द्र स्य गृहा वसुमन्तो वरूथिनः”)+++ ऽगारं प्रपाद्य

इन्द्र॑स्य +++(मम)+++ गृ॒हा वसु॑मन्तो वरू॒थिन॒स्+++(=गृह[+अवयवा])+++ -
तान् अ॒हँ सु॒मन॑सः॒ प्रप॑द्ये ।


प्रतिष्ठापनम्

उत्तरपूर्वदेशे ऽगारस्योत्तरया +++(“अमृताहुति"मित्यनया)+++ ऽग्निं प्रतिष्ठापयति ७

अ॒मृ॒ता॒हु॒तिम् अ॒मृता॑याञ् जुहोम्य्+++(→स्थापयामि)+++
अ॒ग्निं पृ॑थि॒व्याम् अ॒मृत॑स्य॒ जित्यै॑ ।
तया॑ ऽन॒न्तं काम॑म् अ॒हञ् ज॑यानि
प्र॒जाप॑ति॒र् यं प्र॑थ॒मो जि॒गाय॑
+अ॒ग्निम् अ॑ग्नौ॒+++(→पृथिव्यां)+++ स्वाहा॑ ।
+++(इयं वा अग्निर्वैश्वानरः इति श्रुतेः।)+++

१७ ०८ तस्माद्दक्षिणमुदधानायतनम् भवति

तस्माद् दक्षिणम् उदधानायतनं भवति ८

१७ ०९ तस्मिन्विषूचीनाग्रान् दर्भान्

तस्मिन् विषूचीन् आग्रान्+++(=सर्वतो-दिक्कान्)+++ दर्भान् संस्तीर्य तेषूत्तरया +++(“अन्नपत"इत्येतया)+++ व्रीहियवान् न्युप्य तत्रोदधानं प्रतिष्ठापयति ९

अन्न॑प॒ते ऽन्न॑स्य नो देहि।
अ॒न॒मी॒वस्य॑+++(=आरोग्यकरस्य)+++ शु॒ष्मिणः॑+++(=बलिनः)+++ ।
प्रप्र॑ दा॒तार॑न् तारिषः।
ऊर्ज॑न्+++(=अन्नं बलं वा)+++ नो धेहि द्वि॒पदे॒ चतु॑ष्पदे ।

१७ १० तस्मिन्नुत्तरेण यजुषा

तस्मिन्न् उत्तरेण यजुषा+++(“अरिष्टा अस्माक"मित्यनेन)+++ चतुर उद-कुम्भान् आनयति १०

अरि॑ष्टा अ॒स्माकं॑ वी॒रास् स॑न्तु॒
मा परा॑ सेचि मे॒ धन॑म् ।+++(र४)+++

१७ ११ दीर्घमुत्तरयाऽनुमन्त्रयते अथ

+++(यदि उदधानं दीर्णम्,)+++ दीर्णम् उत्तरया +++(“भूमिर्भूमिम् अगात्"इत्येतया)+++ ऽनुमन्त्रयते ११

भूमि॒र् भूमि॑म् अगान्
मा॒ता मा॒तर॒म् अप्य् अ॑गात् ।
भू॒यास्म॑ पु॒त्रैः प॒शुभि॒र्
यो नो॒ द्वेष्टि॒ स भि॑द्यताम् ।+++(र५)+++

१७ १२ अग्नेरुपसमाधानाद्याज्यभागान्ते

अग्नेर् उपसमाधानाद्य्-आज्यभागान्ते उत्तरा आहुतीर् +++(“वास्तोष्पते प्रतिजानीहि, वास्तोष्पते शग्मया, वास्तोष्पते प्रतरणो न एधि, अमीवहा वास्तोष्पत”)+++ हुत्वा जयादि प्रतिपद्यते १२

वा᳓स्तोष्पते प्र᳓ति जानीह्य् अस्मा᳓न्त्
स्व्-आवेशो᳓+++(=सुगमो)+++ अनमीवो᳓+++(=आरोग्यकरः)+++ भवा नः ।
य᳓त् त्वे᳓महे प्र᳓ति त᳓न् नो जुषस्व
शं᳓ न एधि द्विप᳓दे शं᳓ च᳓तुष्पदे ।

वा᳓स्तोष्पते शग्म᳓या+++(=सुखया)+++ सँस᳓दा ते
सक्षीम᳓हि+++(←सच समवाये)+++ रण्व᳓या+++(=रममाणया)+++ गातुम᳓त्या+++(=गामिन्या)+++) ।
आ᳓वः क्षे᳓म+++(य्=लब्धस्य रक्षणे)+++ उत᳓ यो᳓गे+++(=अलब्धस्य लाभे)+++ व᳓रं नो
+++(हे विश्वेदेवाः)+++ यूय᳓म् पात स्वस्ति᳓भिः स᳓दा नः ।

वा᳓स्तोष्पते प्रत᳓रणो न एधि
गो᳓भिर् अ᳓श्वेभिर् इन्दो+++(←इन्दिर् ऐश्वर्यकर्मा/ उदिर्वा क्लेदकर्मा)+++ ।
अज᳓रासस् ते सख्ये᳓ स्याम
पिते᳓व पुत्रा᳓न् प्र᳓ति नो जुषस्व ।

२१ अमीवहा वास्तोष्पते …{Loading}…

अमीवहा᳓+++(=व्याधिहा)+++ वास्तोष्पते
वि᳓श्वा रूपा᳓ण्य् आ विश᳓न्
स᳓खा सुशे᳓व+++(फ)+++ एधि नः ।

१७ १३ परिषेचनान्तङ् कृत्वोत्तरेण

परिषेचनान्तं कृत्वोत्तरेण +++(“शिवं शिव"मित्यनेन)+++ यजुषोदकुम्भेन +++(न हस्तेन)+++ त्रिः प्रदक्षिणम् अन्तरतो+++(=न बहिः)+++ ऽगारं निवेशनं+++(=शयनदेशः)+++ वा परिषिच्य

शि॒वँ॒ शि॒वम् ॥

अग्न्यन्तरानयनम्

+++(ततो ऽग्न्यन्तराण्य् अप्य् औपासनादीन्य् आनयति।)+++

ब्राह्मणभोजनम्

ब्राह्मणान् भोजयेद् अपूपैस् सक्तुभिर् ओदनेनेति १३