१४ नामकरणम्

१५ ०८ दशम्यामुत्थितायां स्नातायाम्

दशम्यामुत्थितायां स्नातायां पुत्रस्य नाम दधाति पिता मातेति ८

१५ ०९ द्व्यक्षरञ् चतुरक्षरम्

द्व्यक्षरं चतुरक्षरं वा नामपूर्वमाख्यातोत्तरं +++(=क्विबन्तोत्तरम्)+++ दीर्घाभिनिष्ठानान्तं +++(=दीर्घात्परोऽभिनिष्ठानो विसर्जनीयोऽन्ते यस्य तत्)+++ घोषवदाद्यन्तरन्तस्थम् +++(यरलवा अन्तस्थाः।)+++
+++(हरदत्तोदाहरणानि - गाः श्रयते इति गोश्रिः । गां प्रीणतीति गोप्रीः । हिरण्यः ददातीति हिरण्यदाः भूरिदाः हरदत्त इत्यादीन्युदाहरणानि ।
सुदर्शनसूर्युदाहरणानि - द्व्यक्षरस्योदाहरणं - वाः उदकं ददातीति वार्दाः, गिरं ददातीति गीर्दाः इत्यादि । चतुरक्षरस्य तु भाष्योक्तं “द्रविणोदाः वरिवोदाः” इति । एतद्द्वयमपि छान्दसम् । अन्यदपि हिरण्यदा युवतिदाइत्यादि ॥)+++ ९

१५ १० अपि वा

अपि वा यस्मिन्स्वित्युपसर्गस्स्यात् तद्धि प्रतिष्ठितमिति हि ब्राह्मणम् +++(सुभद्रस्सुमुख इत्याद्युदाहरणम् । सुजातः सुदर्शन इत्यादि ।)+++ १०

१५ ११ अयुजाक्षरङ् कुमार्याः

अयुजाक्षरं कुमार्याः ११

१५ १२ प्रवासादेत्य

प्रवासादेत्य पुत्रस्योत्तराभ्यामभिमन्त्रणं +++(=अङ्गादङ्गात्)+++

अङ्गा॑दङ्गा॒त् संभ॑वसि॒ हृद॑या॒दधि॑ जायसे । वे॒दो वै पुत्र॒नामा॑ऽसि॒ स जी॑व श॒रद॑श्श॒तम् ।

मूर्धन्यवघ्राणं +++(=अश्मा भव)+++ दक्षिणे कर्ण

मूर्धन्यवघ्राणम् -

अश्मा॑ भव पर॒शुर्भ॑व॒ हिर॑ण्य॒मस्तृ॑तं भव ।
प॒शू॒नान्त्वा॑ हिङ्का॒रेणा॒भि जि॑घ्राम्य् असौ+++(→नामनिर्देशः)+++।

कर्णे जपः

उत्तरान्मन्त्रान् +++(=अग्निरायुष्मान् स वनस्पतिभिः)+++ जपेत् १२

मूलम् (संयुक्तम्)

अ॒ग्निरायु॑ष्मा॒न्त्स वन॒स्पति॑भि॒रायु॑ष्मा॒न्तेन॒ त्वायु॒षायु॑ष्मन्तङ्करोमि॒ सोम॒ आयु॑ष्मा॒न्त्स ओष॑धीभिर्य॒ज्ञ आयु॑ष्मा॒न्त्स दक्षि॑णाभि॒र्ब्रह्मायु॑ष्म॒त्तद्ब्रा॑ह्म॒णैरायु॑ष्मद्दे॒वा आयु॑ष्मन्त॒स्ते॑ऽमृते॑न पि॒तर॒ आयु॑ष्मन्त॒स्ते स्व॒धयायु॑ष्मन्त॒स्तेन॒ त्वायु॒षायु॑ष्मन्तङ्करोमि ॥ [40]

विश्वास-प्रस्तुतिः

+++(हे यजमान)+++
अ॒ग्निर् आयु॑ष्मा॒न् ,
स वन॒स्-पति॑भि॒र् आयु॑ष्मा॒न् ,
तेन॒ त्वा ऽऽयु॒षा ऽऽयु॑ष्मन्तङ् करोमि ।

सोम॒ आयु॑ष्मा॒न् स ओष॑धीभिर् [आयु॑ष्मा॒न् तेन॒ त्वा ऽऽयु॒षा ऽऽयु॑ष्मन्तङ् करोमि ।]

+++(हे यजमान)+++ य॒ज्ञ [आयु॑ष्मा॒न्], स दक्षि॑णाभि॒र् आयु॑ष्मा॒न्, [तेन॒ त्वा ऽऽयु॒षा ऽऽयु॑ष्मन्तङ् करोमि ।]

+++(हे यजमान)+++ ब्रह्मायु॑ष्म॒त्, तद्ब्रा॑ह्म॒णैरायु॑ष्मत् , [तेन॒ त्वा ऽऽयु॒षा ऽऽयु॑ष्मन्तङ् करोमि ।]

+++(हे यजमान)+++ दे॒वा आयु॑ष्मन्तः।
ते॒॑ऽमृते॑न [+आयु॑ष्मन्तः] [तेन॒ त्वा ऽऽयु॒षा ऽऽयु॑ष्मन्तङ् करोमि ।]

पि॒तर॒ आयु॑ष्मन्त॒स् ते स्व॒धयाऽऽयु॑ष्मन्त॒स्, तेन॒ त्वा ऽऽयु॒षा ऽऽयु॑ष्मन्तङ् करोमि ।

मूलम्

अ॒ग्निरायु॑ष्मा॒न् ,
स वन॒स्पति॑भि॒रायु॑ष्मा॒न् ,
तेन॒ त्वायु॒षायु॑ष्मन्तङ्करोमि ।

सोम॒ आयु॑ष्मा॒न् , स ओष॑धीभिर्य॒ज्ञ आयु॑ष्मा॒न्,

स दक्षि॑णाभि॒र्ब्रह्मायु॑ष्म॒त्,

तद्ब्रा॑ह्म॒णैरायु॑ष्मत् ,

दे॒वा आयु॑ष्मन्तः ते॑ऽमृते॑न
पि॒तर॒ आयु॑ष्मन्त॒स्ते स्व॒धयायु॑ष्मन्त॒स्तेन॒ त्वायु॒षायु॑ष्मन्तङ्करोमि

भट्टभास्कर-टीका

अग्निरायुष्मान् दीर्घायुः । स वनस्पतिभिरायुष्मान् तैर्हेतुभिस्तैर्वासह । तेनायुषा उभयेनायुषा त्वामायुष्मन्तं करोमि दीर्घायुषं करोमि । हे यजमान सोमादिषु ‘आयुष्मान्तेन’ इत्याद्यनुषज्यते । सोम ओषधीभिः, यज्ञो दक्षिणाभिः ब्रह्म ब्राह्मणैः, देवा अमृतेन, पितरस्स्वधया ॥

इति द्वितीये तृतीये दशमोनुवाकः ॥

१५ १३ कुमारीमुत्तरेण

कुमारीमुत्तरेण यजुषा +++(“सर्व॑स्मादा॒त्मन॒स्संभू॑ताऽसि॒ सा जी॑व श॒रद॑श्श॒तम् । “)+++ ऽभिमन्त्रयते १३

सर्व॑स्माद् आ॒त्मन॒स् संभू॑ताऽसि॒, सा जी॑व श॒रद॑श् श॒तम् ।


  1. Comp. above, Sūtra 1. ↩︎