१४ नामकरणम्

१५ ०८ दशम्यामुत्थितायां स्नातायाम्

दशम्यामुत्थितायां स्नातायां पुत्रस्य नाम दधाति पिता मातेति ८

१५ ०९ द्व्यक्षरञ् चतुरक्षरम्

द्व्यक्षरं चतुरक्षरं वा नामपूर्वमाख्यातोत्तरं +++(=क्विबन्तोत्तरम्)+++ दीर्घाभिनिष्ठानान्तं +++(=दीर्घात्परोऽभिनिष्ठानो विसर्जनीयोऽन्ते यस्य तत्)+++ घोषवदाद्यन्तरन्तस्थम् +++(यरलवा अन्तस्थाः।)+++
+++(हरदत्तोदाहरणानि - गाः श्रयते इति गोश्रिः । गां प्रीणतीति गोप्रीः । हिरण्यः ददातीति हिरण्यदाः भूरिदाः हरदत्त इत्यादीन्युदाहरणानि ।
सुदर्शनसूर्युदाहरणानि - द्व्यक्षरस्योदाहरणं - वाः उदकं ददातीति वार्दाः, गिरं ददातीति गीर्दाः इत्यादि । चतुरक्षरस्य तु भाष्योक्तं “द्रविणोदाः वरिवोदाः” इति । एतद्द्वयमपि छान्दसम् । अन्यदपि हिरण्यदा युवतिदाइत्यादि ॥)+++ ९

१५ १० अपि वा

अपि वा यस्मिन्स्वित्युपसर्गस्स्यात् तद्धि प्रतिष्ठितमिति हि ब्राह्मणम् +++(सुभद्रस्सुमुख इत्याद्युदाहरणम् । सुजातः सुदर्शन इत्यादि ।)+++ १०

१५ ११ अयुजाक्षरङ् कुमार्याः

अयुजाक्षरं कुमार्याः ११

१५ १२ प्रवासादेत्य

प्रवासादेत्य पुत्रस्योत्तराभ्यामभिमन्त्रणं +++(=अङ्गादङ्गात्)+++

अ᳓ङ्गाद् अङ्गात् सं᳓भवसि
हृ᳓दयाद् अ᳓धि जायसे ।
वेदो᳓ वै᳓ पु᳓त्र ना᳓माऽसि
स᳓ जीव शर᳓दश् शत᳓म् ।

मूर्धन्यवघ्राणं +++(=अश्मा भव)+++ दक्षिणे कर्ण

मूर्धन्यवघ्राणम् -

अ᳓श्मा भव, परशु᳓र् भव
हि᳓रण्यम् अ᳓स्तृतं भव ।
पशूना᳓न् त्वा हिङ्कारे᳓णाभि᳓ जिघ्राम्य् असौ+++(→नामनिर्देशः)+++।

कर्णे जपः

उत्तरान्मन्त्रान् +++(=अग्निरायुष्मान् स वनस्पतिभिः)+++ जपेत् १२

+++(हे यजमान)+++
अग्नि᳓र् आ᳓युष्मान् ,
स᳓ व᳓नस्-प᳓तिभिर् आ᳓युष्मान् ,
ते᳓न त्वा᳓ ऽऽयुषा᳓ ऽऽयुष्मन्तङ् करोमि ।

सो᳓म आ᳓युष्मान् स᳓ ओ᳓षधीभिर् [आ᳓युष्मान् ते᳓न त्वा᳓ ऽऽयुषा᳓ ऽऽयुष्मन्तङ् करोमि ।]

+++(हे यजमान)+++ यज्ञ᳓ [आ᳓युष्मान्], स᳓ द᳓क्षिणाभिर् आ᳓युष्मान्, [ते᳓न त्वा᳓ ऽऽयुषा᳓ ऽऽयुष्मन्तङ् करोमि ।]

+++(हे यजमान)+++ ब्र᳓ह्मा᳓युष्मत्, त᳓द्ब्राह्मणै᳓रा᳓युष्मत् , [ते᳓न त्वा᳓ ऽऽयुषा᳓ ऽऽयुष्मन्तङ् करोमि ।]

+++(हे यजमान)+++ देवा᳓ आ᳓युष्मन्तः।
ते᳓ऽमृ᳓तेन [+आ᳓युष्मन्तः] [ते᳓न त्वा᳓ ऽऽयुषा᳓ ऽऽयुष्मन्तङ् करोमि ।]

१५ १३ कुमारीमुत्तरेण

कुमारीमुत्तरेण यजुषा +++(“सर्व॑स्मादा॒त्मन॒स्संभू॑ताऽसि॒ सा जी॑व श॒रद॑श्श॒तम् । “)+++ ऽभिमन्त्रयते १३

सर्व॑स्माद् आ॒त्मन॒स् संभू॑ताऽसि॒, सा जी॑व श॒रद॑श् श॒तम् ।


  1. Comp. above, Sūtra 1. ↩︎