१३ जातकर्म

१५ ०१ जातं वात्सप्रेणाभिमृश्योत्तरेण

जातं +++(=जातमात्रम्, “प्राङ्नाभिवर्धनात्पुंसो जातकर्म विधीयते”)+++ वात्सप्रेण +++(=दिवसस्परीत्येषः)+++ +अभिमृश्य,

दिव᳓स् प᳓रि प्रथमं᳓ जज्ञे अग्नि᳓र्
अस्म᳓द् द्विती᳓यम् प᳓रि जात᳓वेदाः ।
तृती᳓यम् अप्सु᳓ नृ-म᳓णा अ᳓जस्रम्
इ᳓न्धान एनं जरते+++(=स्तौति)+++ स्वाधीः᳓+++(=सुप्रज्ञाता)+++ ।

+++(प्रतिज्ञा+ऋक्। अग्रिमायाम् उत्तरम्।)+++
विद्मा᳓ ते अग्ने त्रेधा᳓ +++(रूपाणि अग्नि-विद्युत्-सूर्यास्)+++ त्रया᳓णि
विद्मा᳓ ते स᳓द्म +++(नानाकुण्डेषु)+++ वि᳓भृतम् पुरुत्रा᳓ +++(=बहुधा)+++।
विद्मा᳓ ते ना᳓म परमं᳓ गु᳓हा य᳓द्
विद्मा᳓ त᳓म् उ᳓त्सं +++(=fount)+++ य᳓त आजग᳓न्थ ।

+++(प्राक्तनाया विस्तारः!)+++ समुद्रे᳓ त्वा नृम᳓णा अप्सु᳓ अन्त᳓र्
नृच᳓क्षा +++(=नृद्रष्टा)+++ ईधे +++(=दीपयते)+++ दिवो᳓ अग्न ऊ᳓धन्न् +++(=उधस्स्थानीये मेघे)+++ ।
तृती᳓ये त्वा᳓ र᳓जसि +++(=लोके)+++ तस्थिवाँ᳓सम्
ऋत᳓स्य यो᳓नौ महिषा᳓ अहिन्वन्न् +++(=बुद्धवन्तः)+++ ।

अ᳓क्रन्दद् अग्निः᳓ स्तन᳓यन्निव द्यौः᳓
क्षा᳓मा +++(=पृथिवीं)+++ रे᳓रिहद् +++(=आस्वादयन्)+++ वीरु᳓धः +++(={वृक्ष}गुल्मान्)+++ समञ्ज᳓न्न्
सद्यो᳓ जज्ञानो᳓ +++(दावानलः)+++ वि᳓ ही᳓म् इद्धो᳓
अ᳓ख्यद् आ᳓ रो᳓दसी भानु᳓ना भात्य् अन्तः᳓ ।

उशि᳓क् +++(=कामयिता)+++ पावको᳓ अरतिः᳓ +++(=गन्ता)+++ सुमेधा᳓
म᳓र्तेष्व् अग्नि᳓र् अमृ᳓तो नि᳓धायि ।
इ᳓यर्ति +++(=गमयति)+++ धूम᳓म् अरुष᳓म् +++(=महत्)+++ भ᳓रिभ्रद्
उ᳓च् छुक्रे᳓ण शोचि᳓षा द्या᳓म् इ᳓नक्षत् +++(=दीपयत्)+++।

वि᳓श्वस्य केतु᳓र् भु᳓वनस्य ग᳓र्भ
आ᳓ रो᳓दसी अपृणाज् +++(=अपूरयत्)+++ जा᳓यमानः ।
वीडुं᳓ +++(=दृढं)+++ चिद् अ᳓द्रिम् अभिनत् पराय᳓ञ् +++(=परागच्छन्)+++
ज᳓ना य᳓द् अग्नि᳓म् अ᳓यजन्त प᳓ञ्च ।

श्रीणा᳓म् उदारो᳓ धरु᳓णो रयीणा᳓म्
मनीषा᳓णाम् प्रा᳓र्पणः सो᳓म-गोपाः ।
व᳓सोः सूनुः᳓ स᳓हसो अप्सु᳓ रा᳓जा +++(=दीप्यमानः)+++
वि᳓ भात्य् अ᳓ग्र उष᳓साम् इधानः᳓

य᳓स् ते अद्य᳓ कृण᳓वद् भद्रशोचे
ऽपूपं᳓ देव घृत᳓वन्तम् अग्ने।
प्र᳓ तं᳓ नय प्रतरां᳓ +++(=नितरां)+++ व᳓स्यो +++(=वसीयः)+++
अ᳓च्छाभि᳓ द्युम्नं᳓ +++(=धनं)+++ देव᳓भक्तं यविष्ठ ।

आ᳓ त᳓म् भज सौश्रवसे᳓ष्व् +++(स्वन्नेषु [यागेषु])+++ अग्न
उक्थ᳓-उक्थ आ᳓ भज शस्य᳓माने ।
प्रियः᳓ सू᳓र्ये प्रियो᳓ अग्ना᳓ भवात्य्
उ᳓ज् जाते᳓न +++(पुत्रादिना)+++ भिन᳓दद् +++(=उद्भिद्य प्रकाशताम्)+++ उ᳓ज्ज᳓नित्वैः +++(=जनिष्यमाणैः)+++।

त्वा᳓म् अग्ने य᳓जमाना अ᳓नु द्यू᳓न्
वि᳓श्वा व᳓सूनि दधिरे वा᳓र्याणि +++(=वरणीयानि)+++ ।
त्व᳓या सह᳓ द्र᳓विणम् इच्छ᳓माना
व्रजं᳓ गो᳓मन्तम् उशि᳓जो +++(=मेधाविनो)+++ वि᳓ वव्रुः

दृशानो᳓ रुक्म᳓ +++(=रोचमानः)+++ उर्व्या᳓ +++(=महत्या)+++ व्य᳓द्यौद्,
दुर्म᳓र्षम् आ᳓युः श्रिये᳓ रुचानः᳓
अग्नि᳓र् अमृ᳓तो अभवद् व᳓योभिर्
य᳓द् एनं द्यौ᳓र् अ᳓जनयत् सुरे᳓ताः ॥

उपस्थ आधानम्

उत्तरेण यजुषोपस्थ आधाय +++(=“अस्मिन्नह"मित्यनेन)+++,

अ॒स्मिन्न॒हँस॒हस्रं॑ पुष्या॒म्येध॑मान॒स् स्वे वशे॑ ।

अभिमन्त्रणम्

उत्तराभ्याम् +++(“अङ्गादङ्गाद्” इति)+++ अभिमन्त्रणं ,

अङ्गा॑दङ्गा॒त्संभ॑वसि॒ हृद॑या॒दधि॑ जायसे ।
आ॒त्मा वै पुत्र॒नामा॑ऽसि॒ स जी॑व श॒रद॑श्श॒तम् ।

मूर्धन्यवघ्राणम्

+++(“अश्मा भवे"ति)+++ मूर्धन्यवघ्राणं,

अश्मा॑ भव पर॒शुर्भ॑व॒ हिर॑ण्य॒मस्तृ॑तं भव ।
प॒शू॒नान्त्वा॑ हिङ्का॒रेणा॒भि जि॑घ्राम्य् असौ+++(→नामनिर्देशः)+++।

दक्षिणकर्णे-जपः

+++(“मेधां त” इति)+++ दक्षिणे कर्णे जापः १

मे॒धान् ते॑ दे॒वस् स॑वि॒ता
मे॒धान् दे॒वी सर॑स्वती ।
मे॒धान् ते॑ अ॒श्विनौ॑ दे॒वाव्
आध॑त्तां॒ पुष्क॑रस्रजा ।

१५ ०२ नक्षत्रनाम च

+++(“अभिजिघ्राम्यसौ”)+++ नक्षत्रनाम च निर्दिशति २

१५ ०३ तद्रहस्यम् भवति

तद्रहस्यं भवति +++(सूक्र्तवाकाभिवादनादिष्वपि!)+++३

१५ ०४ मधु घृतमिति

मधु घृतम् इति संसृज्य
तस्मिन् दर्भेण हिरण्यं निष्टर्क्य +++(= शिखाबन्धनवत्सरन्ध्रेण ग्रन्थिना)+++,
बध्वा
ऽवदाय
+उत्तरैर् मन्त्रैः +++(“त्वयि मेधाम्” इति)+++ कुमारं प्राशयित्वा,

त्वयि॑ मे॒धां त्वयि॑ प्र॒जां
त्वय्य् अ॒ग्निस् तेजो॑ दधातु ।
त्वयि॑ मे॒धां त्वयि॑ प्र॒जां
त्वयीन्द्र॑ इन्द्रि॒यं द॑धातु ।
त्वयि॑ मे॒धां त्वयि॑ प्र॒जां
त्वयि॒ सूर्यो॒ भ्राजो॑ दधातु ।

स्नापनम्
प्रतिज्ञा

उत्तराभिः पञ्चभिस् +++(=“ऽक्षेत्रियै त्वे"त्यादिभिः)+++ स्नापयित्वा,

क्षे॒त्रि॒यै +++(=अचिकित्स्यव्याधेः)+++ त्वा॒ निर्ऋ॑त्यै त्वा..
द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त् ।
अ॒ना॒गसं॒ ब्रह्म॑णे त्वा करोमि
शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे इ॒मे ।

शान्तिवचनम्

शन् ते॑ अ॒ग्निस् स॒हाद्भिर् अ॑स्तु॒
शं द्यावा॑पृथि॒वी स॒हौष॑धीभिः ।
शम् अ॒न्तरि॑क्षँ स॒ह वाते॑न ते॒
शन् ते॒ चत॑स्रः प्र॒दिशो॑ भवन्तु।

या दैवी॒श् चत॑स्रः प्र॒दिशो॒ वात॑-पत्नीर्,
अ॒भि सूर्यो॑ विच॒ष्टे +++(=विपश्यति)+++ ।
तासा॑न् त्वा ऽऽज॒रस॒ आ द॑धामि॒।
प्र यक्ष्म॑ एतु॒ निर्ऋ॑तिं परा॒चैः +++(=प्राङ्मुखः)+++ ।

अवर्तिनिवारणम्

अमो॑चि॒ यक्ष्मा॑द् दुरि॒ताद् अव॑र्त्यै +++(=आपत्तः)+++।
द्रु॒हः पाशा॒न् निर्ऋ॑त्यै॒ च+उद॑मोचि ।
अहा॒ +++(=अहासीत्)+++ अव॑र्ति॒म् +++(=दारिद्र्यम्)+++, अवि॑दत् स्यो॒नम् +++(=सुस्वम्)+++।
अप्य॑भूद् भ॒द्रे सु॑कृ॒तस्य॑ लो॒के ।

सूर्यग्रहणमोक्षनिदर्शनम्
/devaH/lokAntaram/images/solar_eclipse_receeding.jpg

सूर्य॑म् ऋ॒तन् +++(=प्राप्तम्)+++ तम॑सो॒ ग्राह्या॒
यद् दे॒वा अमु॑ञ्च॒न्नसृ॑ज॒न् व्ये॑नसः +++(=व्यसृजन् एनसः)+++ ।

+++(प्रतिज्ञापूर्तिः- )+++
ए॒वम् अ॒हम् इ॒मं क्षे॑त्रि॒याज् +++(=आनुवंशिकाद् [रोगात्])+++ जा॑मिशँ॒साद् +++(=बन्धूक्ताद्)+++
द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त् ।

दधि-घृत-प्राशनम्

दधि घृतमिति संसृज्य कांस्येन पृषदाज्यं व्याहृतीभिरोङ्कारचतुर्थाभिः +++(“भूः स्वाहेत्यादिभिः प्रतिमन्त्रम्”)+++ कुमारं प्राशयित्वा, अद्भिश् शेषं संसृज्य गोष्ठे निनयेत् ४

भूस्स्वाहा॒ भुव॒स्स्वाहा॒ सुव॒स्स्वाहा। ॐ स्वाहा॑ ॥

१५ ०५ उत्तरया मातुरुपस्थ

उत्तरया +++(=“मा ते कुमारम्”)+++ मातुरुपस्थ आधाय,

मा ते॑ कुमा॒रँ रक्षो॑वधी॒न्
मा धे॒नुर॑त्यासा॒रिणी॑ ।
प्रि॒या धन॑स्य भूया॒
एध॑माना॒ स्वे गृ॒हे ।

दक्षिणे स्तने प्रतिधाप्य

उत्तरया +++(=“अयं कुमारः”)+++ दक्षिणं स्तनं प्रतिधाप्य,

अ॒यं कु॑मा॒रो ज॒रां ध॑यतु दी॒र्घमायुः॑ ।
यस्मै॒ त्व२ँ स्तन॒! प्रप्या॒य +++(=प्रक्षर)+++
+आयु॒र्वर्चो॒ यशो॒ बल॑म् ।

पृथिव्या अभिमर्शः

उत्तराभ्यां +++(=“यद्भूमेर्हृदयम्”)+++ पृथिवीमभिमृश्य,

  • यद्भूमे॒र्हृद॑यन्दि॒वि च॒न्द्रम॑सि श्रि॒तम् । तदु॑र्वि पश्यं॒ +++(=पश्येयम्)+++ माऽहं पौत्र॒मघँ॑ रुदम् ।
  • यत्ते॑ सुसी॒मे हृद॑यं॒ वेदा॒हं तत् प्र॒जाप॑तौ +++(=चन्द्रमसि [छायारूपेण])+++ । वेदा॑म॒ तस्य॑ ते व॒यं माऽहं पौत्र॒मघँ॑ रुदम् ।
संविष्टस्याभिमर्शनम्

उत्तरेण यजुषा +++(=“नामयति न रुदति”)+++ संविष्टम् ॥

न +आम॑यति॒, न रु॑दति॒, यत्र॑ व॒यं व॑दामसि॒, यत्र॑ चा॒भिमृ॑शामसि ।

१५ ०६ उत्तरेण यजुषा

उत्तरेण यजुषा शिरस्य् उदकुम्भं निधाय,

आप॑स्सु॒प्तेषु॑ जाग्रत॒ रक्षाँ॑सि॒ निरि॒तो नु॑दद्ध्वम् ।

सूतकहोमः

सर्षपान् फलीकरणमिश्रानञ्जलिनोत्तरैस् त्रिस्त्रि प्रतिस्वाहाकारं हुत्वा

हरदत्तो ऽत्र

  • +++(सर्षपान् फलीकरणमिश्रान् जुहोति।)+++

अ॒यं क॒लिं प॒तय॑न्तँ+++(=प्रतिगच्छन्तम्)+++ श्वा॒नम् इ॒वोद्-वृ॑द्धम् ।
अ॒जां वाशि॑ताम् इव मरुतः॒ पर्या॑द्ध्वँ॒+++(=पर्यास्यध्वम्)+++ स्वाहा॑ ।

शण्डे॒रथ॒श्+++(शण्डो रथे यस्य)+++ शण्डि॑केर+++(शण्डिकम् बलम् ईरयति)+++ उलूख॒लः ।
च्यव॑नो॒ नश्य॑ताद् इ॒तः स्वाहा॑ ।

अय॒श् शण्डो॒ मर्क॑
उप॒वीर॑+++(यमवेक्ष्यान्ये वीरा न्यूनाः)+++ उलूख॒लः ।
च्यव॑नो॒ नश्य॑ताद् इ॒तः स्वाहा॑ ।

के॒शिनी॒श् श्वलो॒मिनीः॒ खजा॑पो॒+++(=खञ्जा =पङ्ग्वयो भूत्वाप्नुवन्ति)+++
ऽजोप॑काशिनीः+++(=अजनिभाः)+++ ।
अपे॑त॒ नश्य॑ताद् इ॒तस् स्वाहा॑ ।

मि॒श्रवा॑ससः कौबेर॒का
र॑क्षोरा॒जेन॒ प्रेषि॑ताः ।
ग्रामँ॒ सजा॑नयो गच्छन्ती॒-
च्छन्तो॑ ऽपरि॒दाकृ॒तान्थ्+++(अनुपनीतान् - “अग्नये त्वा परिददामीति” तत्र मन्त्रः)+++ स्वाहा॑ ।

ए॒तान् घ्न॑तै॒तान् गृ॑ह्णी॒ते-
त्य् अ॒यं ब्रह्म॑णस्पु॒त्रः ।
तान् अ॒ग्निः पर्य॑सर॒त्
तान् इन्द्र॒स् तान् बृह॒स्पतिः॑ ।
तान् अ॒हं वे॑द ब्राह्म॒णः
प्र॑मृश॒तः कू॑टद॒न्तान्,
वि॑के॒शान् लं॑बनस्त॒नान्त् स्वाहा॑ ॥ (13)

न॒क्त॒ञ्चा॒रिण॑ उरस्पे॒शाञ्+++(=उरस्युज्ज्वलान्)+++
छू॑ल-ह॒स्तान् क॑पाल॒पान् ।
पूर्व॑ एषां पि॒ता +++(“ए॒तान् घ्न॑तै॒तान् गृ॑ह्णी॒त”)++++इत्य्
उ॒च्चैश् श्रा॑व्य क॒र्णकः॑ ।
मा॒ता ज॑घ॒न्या॑ सर्प॑ति॒
ग्रामे॑ विधु॒रम् इ॒च्छन्ती॒ स्वाहा॑ ।

नि॒शी॒थ॒चा॒रिणी॒ स्वसा॑
स॒न्धिना॒ प्रेक्ष॑ते॒ कुल॑म् ।
या स्वप॑न्तं बो॒धय॑ति॒
यस्यै॒ विजा॑तायां॒ मनः॑ ।
तासां॒ त्वं कृ॑ष्ण॒वर्त्म॑ने
क्लो॒मानँ॒+++(=श्वासकोशः)+++ हृद॑यं॒ यकृ॑त्+++(=liver)+++ ।
अग्ने॒ अक्षी॑णि नि॒र्दह॒ स्वाहा॑ ।

+++(पिता)+++ संशास्ति- “प्रविष्टे प्रविष्ट एव तूष्णीमग्नावावपते"ति ६

१५ ०७ एवमहरहरानिर्दशतायाः

एवमहरहरानिर्दशतायाः +++(=“निर्दशा"निर्गता दशभ्योऽहोरात्रेभ्यो या रात्रिस्सा)+++७


  1. 15, 1. We ought to read uttarābhir, not uttarābhyām. Comp. below, Sūtra 12. ↩︎