११उ ०१
अथात उपाकरणोत्सर्जने व्याख्यास्यामः १
>
हरदत्तः
अथात उपाकरणोत्सर्जने व्याख्यास्यामः ॥१॥ अथ शब्दः आदौ मङ्गलार्थः प्रकरणान्तरत्वात् । अतश्शब्दो हेतौ । यस्मादेतयोर्व्याख्यानमन्तरेण प्रयोगो न शक्यते कर्तुं अत एते व्याख्यास्यामः इति ॥१॥
>
अथात उपाकरणोत्सर्जने व्याख्यास्यामः।
११उ ०२
+++(आर्तव)+++श्रवणा+++(पूर्व)+++पक्ष
ओषधीषु जातासु
हस्तेन पौर्णमास्यां वा ऽध्यायोपाकर्म २
विश्वास-टिप्पनी
वर्षऋताव् एव प्ररोहन्ति धन्याः।
>
हरदत्तः
श्रवणापक्षेश्रवणस्य मासस्य पूर्वपक्ष इत्यर्थः । ओषधीषु जातासु प्रवर्षणाद् रूढासु हस्तेन नक्षत्रेण पौर्णमास्यां वा श्रावणस्य कर्तव्यमित्यर्थः । अध्यायस्योपाकरणं अध्यायोपाकर्मप्रारम्भ इत्यर्थः । ओषधीषु जातास्विति वचनादाजातास्वोषधीषु प्रोष्ठपद्यां भवति । तथा च कल्पान्तरं-श्रावण्यां पौर्णमास्यां प्रोष्ठपद्यामाषाढ्यां वेति ॥२॥
>
श्रवणापक्ष ओषधीषु जातासु हस्तेन पौर्णमास्यां वाध्यायोपाकर्म ॥२॥
११उ ०३
+++(शिष्टाचारानुसारेण मध्याह्नात् परं)+++
अग्नेर् उपसमाधानाद्य्-आज्यभागान्ते
ऽन्वारब्धेषु +++(शिष्येषु)+++ काण्ड-ऋषिभ्यो जुहोति,
सदसस्पतये, सावित्र्या,
ऋग्वेदाय यजुर्वेदाय सामवेदायाथर्वणवेदायेति हुत्वा
उपहोमो +++(= सांहितीभ्यो, याज्ञिकीभ्यो, वारुणीभ्यो, ब्रह्मणे स्वयंभुवे इति सुदर्शनसूरिः। हरदत्तस्तु जयादय इति।)+++,
वेदाहुतीनाम् उपरिष्टात् सदसस्पतिम् इत्येके ३
####### ०८ सदसस्पतिमद्भुतम् प्रियमिन्द्रस्य …{Loading}…
स᳓दसस्प᳓तिम् अ᳓द्भुतं
प्रिय᳓म् इ᳓न्द्रस्य का᳓म्यम् ।
सनिं᳓ +++(=दानरूपम्)+++ मेधा᳓म् अयासिषम् ६
विश्वास-टिप्पनी
होम-स्थाने तर्पणम् बहुधा क्रियते।
होमाङ्गत्वेनाध्ययनम् इच्छन्ति केचित्।
>
हरदत्तः
एवमुपाकरणस्य काल उक्तः ।
अथ प्रयोगः– अग्नेरुपसमाधानादि तन्त्रं प्रतिपद्यते । अग्निश्च श्रोत्रियागाराद्वाहार्यः, मन्थ्यो वा, न त्वौपासनो बहूनामत्र सहत्वाभावात् । भार्यायाश्च सहत्वाभावात् वचनमत्र प्रयोग? । विद्यासंस्कारार्थमिदं कर्म वेदसंयुक्तम् । तत्राज्यभागान्ते ऽन्वारब्धेषु शिष्येषु प्रधानाहुतीर्जुहोति । काण्डऋषिभ्यः प्रजापतिस्सोमोऽग्निर्विश्वदेवा ब्रह्मा स्वयंभूः इति पञ्च काण्डऋषयः । तत्र प्रजापतये स्वाहेति होमः । प्रजापतये काण्डऋषये स्वाहेत्यन्ये । “सदसस्पतिमद्भुतम्” इत्यनेन सदसस्पतये जुहोति । “तत्सवितुर्” इत्येतया सावित्र्यै, कल्पान्तरे तथा दर्शनात् । ऋग्वेदाय यजुर्वेदाय सामवेदायाथर्वणवेदायेति चतस्रो वेदाहुतयः । तत उपहोमाः । जयादि प्रतिपद्यते इत्यर्थः । एक आचार्या वेदाहुतीनामुपरिष्टात् सदसस्पतिं होतव्यं मन्यन्ते ॥३॥
>
अग्नेरुपसमाधानाद्याज्यभागान्तेऽन्वारब्धेषु काण्डऋषिभ्यो जुहोति सदसस्पतये सावित्र्या ऋग्वेदाय यजुर्वेदाय सामवेदायाथर्वणवेदायेति हुत्वा उपहोमो वेदाहुतीनामुपरिष्टात्सदसस्पतिमित्येके ॥३॥
११उ ०४
परिषेचनान्तं कृत्वा
त्रीन् अनुवाकान् आदितो ऽधीयीरन् ४
>
हरदत्तः
तन्त्रशेषं समाप्य वेदस्य आदितः त्रीननुवाकानधीयीरन्(१) “इषे त्वोर्जेत्वा” (२)“आप उन्दन्तु” (३)“उद्धन्यमानं” (४)“अनुमत्यै पुरोडाशमष्टाकपालं निर्वपति धेनुर्दक्षिणा” । एते प्राजापत्यसौम्याग्नेयवैश्वदेवानामादितश्चत्वारोऽनुवाकाः । (५)“सह वै देवानां चासुराणां च” इति स्वयंभुवः । एतेषां वा पञ्चानां अनुवाकानां अध्ययनम् ॥४॥
>
परिषेचनान्तं कृत्वा त्रीननुवकानादितोऽधीयीरन् ॥४॥
११उ ०५
प्रथमोत्तमाव् अनुवाकौ वा ५
>
हरदत्तः
यदि वा वेदस्य प्रथमोत्तमौ अनुवाकावधीयीरन् “इषे त्वा” (६)“भृगुर्वैवारुणिर्” इति ॥५॥
>
प्रथमोत्तमावनुवाकौ वा ॥५॥
११उ ०६
त्र्यहम् एकाहं वा क्षम्याधीयीरन् ६
>
हरदत्तः
यस्मिन्न् अहन्न्य् उपाकरणं कृतं
तत आरभ्य त्र्यहमेकाहं वा क्षम्य विरम्याधीयीरन् ।
उपाकृते त्र्यहम् एकाहं वानध्याय इत्यर्थः ।
तत्र काण्डोपकरणे एकाहः
पारायणोपाकरणे त्र्यहः ।
अधीयीरन्न् इति वचनं
उपाकृत्य त्र्यहाद् ऊर्ध्वं नियमेनाध्ययनं यथा स्याद् इति ॥६॥
>
त्र्यहमेकाहं वा क्षम्याधीयीरन् ॥६॥
११उ ०७
यथोपाकरणमध्यायः +++(नाम त्रीनध्यायान् अधीयीरन्, प्रथमोत्तमौ वा)+++ ७
>
हरदत्तः
येन प्रकारेणोपाकरणं कृतं तथाऽध्ययनं कर्तव्यम् । यदि सर्वेभ्यः काण्डऋषिभ्यो हुत्वा वेदादौ त्रयाणामनुवाकानामारम्भः कृतः प्रथमोत्तमयोर्वा तथा सति यथाध्यायमध्ययनं कर्तव्यम् । यदि तु काण्डादीनां सर्वेषामारम्भः तथा सति यथाकाण्डमध्येतव्यम् । यस्तु कृत्स्नं वेदमरण्येऽनुवाक्यानि परिहाप्य प्रागुत्सर्जनादध्येतुं न शक्नोति तस्य पृथक्काण्डोपाकरणम् । तत्र तस्यैव काण्डस्यैक ऋषिः सदसस्पतिः सावित्री वेदाहुतय उपहोमाः परिष्चनान्ते तस्यैव काण्डस्यानुवाकं एकाहमनध्यायः तस्यैव काण्डस्याध्ययनम् ॥
>
यथोपाकरणमध्यायः ॥७॥
११उ ०८
तैषी+++(=पौष)+++-पक्षस्य रोहिण्यां पौर्णमास्यां वोत्सर्गः ८
>
हरदत्तः
एवम् उपाकृत्य,
अनध्याय-वर्जं
वेदं काण्डं वा ऽरण्ये ऽनुवाक्यानि परिहाप्य
अधीयानस्य रोहिण्याम् उत्सर्गः कर्तव्यः,
पौर्णमास्यां वा तैषी-पक्षस्यैव ।
तत्रास्मिन् कर्मणि होमोऽपि भवति ।
कथं भवति ? उपाकरणवत् समान-विधानाद्
उपाकरणवद् गृहे हुत्वैव
क्षम्यमाणं कर्म प्रतिपद्यते ।
हिरण्य-केशिनां तु तर्पणाद् ऊर्ध्वं उदकान्ते होमः ॥८॥
>
तैषीपक्षस्य रोहिण्यां पौर्णमास्यां वोत्सर्गः ॥८॥
११उ ०९
प्राचीमुदीचीं वा सगणो दिशम् उपनिष्क्रम्य
यत्रापः पुरस्तात् सुखाः सुखावगाहा अवकिन्यः +++(=तीरतृणवत्यः)+++ शङ्खिन्यः, तासाम् अन्तं गत्वा
ऽभिषेकान् कृत्वा
सुरभिमत्या ऽब्लिङ्गाभिर् वारुणीभिर्+++(=“अवते हेड, उदुत्तमम्, इमं मे वरुण, तत्वा यामी"त्य् एताभिः)+++ हिरण्यवर्णाभिः+++(=“हिरण्यवर्णाश् शुचयः पावका” इति चतसृभिः)+++ पावमनीभिर्+++(=“पवमानः सुवर्जन” इत्येतेनानुवाकेन)+++ इति मार्जयित्वा
ऽन्तर्-जल-गतो ऽघ-मर्षणेन+++(=तृचेन “ऋतं च सत्यं च” इत्य् अघमर्षण-दृष्टेन)+++ त्रीन् प्राणायामान् धारयित्वा
उत्तीर्याचम्योपोत्थाय
दर्भान् अन्योन्यस्मै सम्प्रदाय
शुचौ देशे प्राक्-कूलैर् दर्भैर् आसनानि कल्पयन्ति ९
मन्त्राः
######## ०६ दधिक्राव्णो अकारिषं …{Loading}…
+++(pegasus-प्रोष्ठपदासु)+++ दधि-क्रा᳓व्णो अकारिषं
जिष्णो᳓र् अ᳓श्वस्य वाजि᳓नः ।
सुरभि᳓ नो मु᳓खा करत्
प्र᳓ ण आ᳓यूँषि तारिषत् ।
######## आपो हि ष्ठा …{Loading}…
आ᳓पो हि᳓ ष्ठा᳓ मयो-भु᳓वस्
ता᳓ न ऊर्जे᳓+++(जाः)+++ दधातन ।
महे᳓ र᳓णाय+++(=रमणीयाय)+++ च᳓क्षसे+++(=दर्शनाय)+++ ॥
यो᳓ वः शिव᳓तमो र᳓सस्
त᳓स्य भाजयतेह᳓ नः ।
उशती᳓र्+++(=कामयमाना)+++ इव मात᳓रः ॥
+++(रसाय)+++ त᳓स्मा अ᳓रं+++(=शीघ्रम्)+++ गमाम वो
यस्य +++(प्रभावेण)+++ क्ष᳓याय+++(=निवासाय)+++ जि᳓न्वथ+++(=प्रीणयथ)+++ ।
आ᳓पो +++(प्रजा)+++ जन᳓यथा च नः ॥
+++(चादिषु च इति न स्वर-निघातः। )+++
######## वारुण्यः …{Loading}…
अ᳓व ते हे᳓ळो+++(←हेड् अवज्ञायां)+++ वरुण न᳓मोभिर्
अ᳓व यज्ञे᳓भिर् ईमहे+++(→नयामः)+++ हवि᳓र्भिः ।
क्ष᳓यन्न्+++(=निवसन्)+++ अस्म᳓भ्यम् असुर प्रचेता
रा᳓जन्न् ए᳓नांसि शिश्रथः+++(=शिथिलीकुरु)+++ कृता᳓नि ॥
उ᳓द् उत्तमं᳓ वरुण पा᳓शम् अस्म᳓द्
अ᳓वाधमं᳓ वि᳓ मध्यमं᳓ श्रथाय
अ᳓था वय᳓म् आदितिय व्रते᳓ त᳓व
अ᳓नागसो अ᳓दितये सियाम
इमं᳓ मे वरुण श्रुधी +++(=श्रुणु)+++
ह᳓वम्+++(=आह्वानम्)+++ अद्या᳓ च मृळय +++(=सुखय)+++।
त्वा᳓म् अवस्यु᳓र् आ᳓ चके +++(=अवदन्)+++॥
त᳓त् त्वा यामि ब्र᳓ह्मणा व᳓न्दमानस्
त᳓द् आ᳓ शास्ते य᳓जमानो हवि᳓र्भिः ।
अ᳓हेळमानो +++(=अक्रुध्यन्)+++ वरुणेह᳓ बोध्य् उ᳓रुशंस
मा᳓ न आ᳓युः प्र᳓ मोषीः ॥
######## हिरण्यवर्णाश् शुचयः …{Loading}…
हिर॑ण्यवर्णा॒श् शुच॑यᳶ पाव॒का,
यासु॑ जा॒तᳵ क॒श्यपो॒, यास्व् इन्द्रः॑ ।
अ॒ग्निय्ँ या गर्भ॑न् दधि॒रे, विरू॑पा॒स् -
ता न॒ आप॒श् शँ स्यो॒ना भ॑वन्तु ।
यासाँ॒ राजा॒ वरु॑णो॒ याति॒ मध्ये॑,
सत्यानृ॒ते अ॑व॒पश्य॒ञ् जना॑नाम् ।
म॒धु॒श्-चुत॒श् शुच॑यो॒ याᳶ पा॑व॒कास् -
ता न॒ आप॒श् शँ स्यो॒ना भ॑वन्तु ।
यासा॑न् दे॒वा दि॒वि कृ॒ण्वन्ति॑ भ॒क्षय्ँ -
या अ॒न्तरि॑क्षे बहु॒धा भव॑न्ति ।
याᳶ पृ॑थि॒वीम् पय॑सो॒न्दन्ति॑ शु॒क्रास् -
ता न॒ आप॒श् शँ स्यो॒ना भ॑वन्तु ।
शि॒वेन॑ मा॒ चक्षु॑षा पश्यतापश् -
शि॒वया॑ त॒नुवोप॑ स्पृशत॒ त्वच॑म् मे ।
सर्वाँ॑ अ॒ग्नीँर् अ॑प्सु॒-षदो॑ हुवे वो॒,
मयि॒ वर्चो॒ बल॒म् ओजो॒ नि ध॑त्त ।
पव॑मान॒स् सुव॒र्-जनः॑ ।
प॒वित्रे॑ण॒ +++(नाना-विषयेषु)+++ विच॑र्षणिः ।
यᳶ पोता॒ स पु॑नातु मा ।
पु॒नन्तु॑ मा देवज॒नाः ।
पु॒नन्तु॒ मन॑वो धि॒या ।
पु॒नन्तु॒ विश्व॑ आ॒यवः॑+++(=मनुष्याः)+++ ।
जात॑वेदᳶ प॒वित्र॑वत् ।
प॒वित्रे॑ण पुनाहि+++(=पुनीहि)+++ मा ।
शु॒क्रेण॑ देव॒ दीद्य॑त् ।
अग्ने॒ क्रत्वा॒+++(=प्रज्ञया)+++ क्रतूँ॒र् अनु॑ ॥46॥
यत् ते॑ प॒वित्र॑म् अ॒र्चिषि॑ ।
अग्ने॒ वित॑तम् अन्त॒रा ।
ब्रह्म॒ तेन॑ पुनीमहे ।
उ॒भाभ्या॑न् देव सवितः ।
प॒वित्रे॑ण स॒वेन॑ च ।
इ॒दम् ब्रह्म॑ पुनीमहे ।+++(5)+++
वै॒श्व॒दे॒वी पु॑न॒ती दे॒व्य् आगा॑त्+++(=आगच्छतु)+++ ।
यस्यै॑ ब॒ह्वीस् त॒नुवो॑ वी॒त-पृ॑ष्ठाः+++(=कान्त-स्तुतयः)+++ ।
तया॒ मद॑न्तस् सध॒-माद्ये॑षु +++(=सह माद्यन्ति येषु सवनेषु)+++ ।
व॒यँ स्या॑म॒ पत॑यो रयी॒णाम् ॥47॥
वै॒श्वा॒न॒रो र॒श्मिभि॑र् मा पुनातु ।
वात॑ᳶ प्रा॒णेने॑षि॒रो+++(←इष गतौ)+++ म॑यो॒भूः ।
द्यावा॑पृथि॒वी पय॑सा॒ पयो॑भिः +++(इति क्रमशः)+++ ।
ऋ॒ताव॑री+++(=ऋतवत्यौ)+++ य॒ज्ञिये॑ मा पुनीताम् ।
बृ॒हद्भि॑स् सवित॒स् तृभिः॑+++(=त्रिभिः [लोकगणनया]/ तृप्यतेः करणे क्विप्)+++ ।
वर्षि॑ष्ठैर्+++(=प्रवृद्ध-धर्मैः)+++ देव॒ मन्म॑भिः+++(=मननीयैः)+++ ।
अग्ने॒ दक्षै॑ᳶ पुनाहि मा ।
येन॑ दे॒वा अपु॑नत ।
येनापो॑ दि॒व्यङ् कशः॑+++(←कशेर् गतिकर्मणो ऽसुन्)+++ ।
तेन॑ दि॒व्येन॒ ब्रह्म॑णा ॥48॥
इ॒दम् ब्रह्म॑ पुनीमहे ।
यᳶ पा॑वमा॒नीर् अ॒ध्येति॑ ।
ऋषि॑भि॒स् सम्भृ॑तँ॒ रस॑म् ।
सर्वँ॒ स पू॒तम् अ॑श्ञाति ।
स्व॒दि॒तम्+++(=स्वादुकृतं)+++ मा॑त॒रिश्व॑ना+++(=वायुना)+++ ।
पा॒व॒मा॒नीर् यो अ॒ध्येति॑ ।
ऋषि॑भि॒स् सम्भृ॑तँ॒ रस॑म् ।
तस्मै॒ सर॑स्वती दुहे ।
क्षी॒रँ स॒र्पिर् मधू॑द॒कम् ।
पा॒व॒मा॒नीस् स्व॒स्त्य्-अय॑नीः ॥49॥
सु॒-दुघा॒ हि पय॑स्वतीः ।
ऋषि॑भि॒स् सम्भृ॑तो॒ रसः॑ ।
ब्रा॒ह्म॒णेष्व् अ॒मृतँ॑ हि॒तम् ।
पा॒व॒मा॒नीर् दि॑शन्तु नः ।
इ॒मल्ँ लो॒कम् अथो॑ अ॒मुम् ।
कामा॒न्त् सम॑र्धयन्तु नः ।
दे॒वीर् दे॒वैस् स॒माभृ॑ताः ।
पा॒व॒मा॒नीस् स्व॒स्त्य्-अय॑नीः ।
सु॒-दुघा॒ हि घृ॑त॒श्-चुतः॑+++(=क्षारयित्र्यः)+++ ।
ऋषि॑भि॒स् सम्भृ॑तो॒ रसः॑ ॥50॥
ब्रा॒ह्म॒णेष्व् अ॒मृतँ॑ हि॒तम् ।
येन॑ दे॒वाᳶ प॒वित्रे॑ण ।
आ॒त्मान॑म् पु॒नते॒ सदा॑ ।
तेन॑ स॒हस्र॑-धारेण ।
पा॒व॒मा॒न्यᳶ पु॑नन्तु मा ।
प्रा॒जा॒प॒त्यम् प॒वित्र॑म् ।
श॒तोद्या॑मँ हिर॒ण्मय॑म् ।
तेन॑ ब्रह्म॒-विदो॑ व॒यम् ।
पू॒तम् +++(यथा तथा स्वीयम्)+++ ब्रह्म॑ पुनीमहे ।
इन्द्र॑स् सुनी॒ती+++(त्या)+++ स॒ह मा॑ पुनातु ।
सोम॑स् स्व॒स्त्या वरु॑णस् स॒मीच्या॑+++(=सम्यगञ्चनया)+++ ।
य॒मो राजा॑ प्रमृ॒णाभि॑ᳶ+++(=प्रमारिकाभिः)+++ पुनातु मा ।
जा॒तवे॑दा मा+ऊ॒र्जय॑न्त्या पुनातु ॥51॥
विस्तारः (द्रष्टुं नोद्यम्)
जले निमज्जने विनियोग आपस्तम्बगृह्यसूत्र उक्तः।
ऋतं᳓ च सत्यं᳓ चाभी᳙द्धात्
त᳓पसो᳓ ऽध्यजायत ।
त᳓तो रा᳓त्रिर् +++(रात्र्य् इति शाकले)+++ अजायत
त᳓तः समुद्रो᳓ अर्णवः᳓+++(←अर्णः = जलम्)+++ ॥
समुद्रा᳓द् अर्णवा᳓द्+++(←अर्णः = जलम्)+++ अ᳓धि
संवत्सरो᳓ अजायत ।
अहो-रात्रा᳓णि विद᳓धद्
वि᳓श्वस्य +++(नेत्राभ्यां)+++ मिषतो᳓ +++(प्राणिजातस्य)+++ वशी᳓ +++(प्रजापतिर् demiurge)+++॥
सूर्या-चन्द्रम᳓सौ धाता᳓
यथा-पूर्व᳓म् अकल्पयत् ।
दि᳓वं च पृथिवीं᳓ चान्त᳓रिक्षम् अ᳓थो स्वः᳙+++(=लोक-विशेषम्)+++ ॥
>
हरदत्तः
सगण सशिष्यः यत्रापः पुरस्तादिति यत्र देशे पूर्वस्यां दिशि अपः पश्यतीत्यर्थः ।
सुखाः सुखस्पर्शाः ।
सुखावगाहाः सुतीर्थाः
यास्व् अवका भवन्ति ताः अवकिन्यः, तथा शंखिन्यः, तासाम् अन्तं समीपं गत्वा
अभिषेकान् कुंभैः कृत्वा
ततः सुरभिमत्या = दधिक्राव्ण्ण इत्येतया
ऽब्लिङ्गाभिः “आपोहि ष्ठा मयो भुव” इति तिसृभिः
वारुणीभिः “अवते हेड, उदुत्तमम्, इमं मे वरुण, तत्वा यामी"त्य् एताभिः
हिरण्यवर्णीयाभिः “हिरण्यवर्णाश्शुचयः पावका” इति चतसृभिः
पावमानीभिः “पवमानः सुवर्जन” इत्येतेनानुवाकेन
मार्जयित्वा अभ्युक्ष्य, प्रतिमन्त्रं क्रियाभ्यावृत्तिः - प्रतिपादम् इत्य् अन्ये ।
ततो ऽन्तर्जल-गतः जलस्यान्तर् निमग्नो
ऽघमर्षणेन तृचेन “ऋतं च सत्यं च” इत्य् अघमर्षण-दृष्टेन
त्रीन् प्राणायामान् धारयति ।
सर्वत्र सगण इत्येव ।
अप्सु निमज्यैतम् अनुवाकं सकृज् जपति - स एकः प्राणायामः ।
एवं त्रिर् धारयित्वोत्तीर्य
गृह्यान्तर-दर्शनात् प्रक्षालितोपदातान्य् आक्लिष्टानि वासांसि परिधाय +
आचम्योत्थाय
द्वौ संभूय दर्भानन्योन्यस्मै संप्रदाय
ततः शुचौ देशे उदकान्त एव स्थण्डिलानि पृथक्कृत्वा
दर्भैः प्रागग्रैः आसनानि कल्पयन्ति ॥९॥
केभ्यः? देवेभ्यः पितृभ्यः ऋषिभ्यश्च ।
>
प्राचीमुदीचीं वा सगणो दिशमुपनिष्क्रम्य यत्रापः पुरस्तात् सुखाः सुखावगाहा अवकिन्यः शङ्खिन्यः तासामन्तं गत्वाभिषेकान् कृत्वा सुरभिमत्याब्लिङ्गाभिर्वारुणीभिर्हिरण्यवर्णाभिः पावमानीभिरिति मार्जयित्वाऽन्तर्जलगतोऽघमर्षणेन त्रीन् प्राणायामान् धारायित्वोत्तीर्याचम्योपोत्थाय दर्भानन्योन्यस्मै सम्प्रदाय शुचौ देशे प्राक्कूलैर्दर्भैरासनानि कल्पयन्ति ॥९॥
११उ १०
ब्रह्मणे, प्रजा-पतये, बृहस्-पतये,
ऽग्नये, वायवे, सूर्याय,
चन्द्रमसे, नक्षत्रेभ्यः,
ऋतुभ्यस्, संवत्सराय,
इन्द्राय राज्ञे, सोमाय राज्ञे, यमाय राज्ञे, वरुणाय राज्ञे, वैश्रवणाय राज्ञे,
वसुभ्यो, रुद्रेभ्य, आदित्येभ्यो,
विश्वेभ्यो देवेभ्यस्, साध्येभ्यो,
मरुद्भ्य, ऋभुभ्यो,
भृगुभ्यो, ऽङ्गिरोभ्य, +++(कल्पयामि)+++ इति +++(२४)+++ देवगणानाम् +++(स्थापन-क्रमेण +उदग्-अपवर्गाण्य् आसनानि दर्भैः प्रागग्रैः कल्पयति।)+++ १०
>
हरदत्तः
देवगण इति देवानां च तद्गणानां चेत्यर्थः । अत्र ब्रह्मादि दश देवताः । इन्द्रादयः पञ्च राजानः । वस्वादयः दश देवगणाः । सर्वान्ते कल्पयन्तीति वचनात् सर्वत्र कल्पयामीत्यस्य सम्बन्धः । ब्रह्मणे कल्पयामि प्रजापतये कल्पयामीति । एतानि पञ्चविंशतिरासनान्युदगपवर्गाणि । तर्पणं चैषां दैवेन तीर्थेन भवति ॥१०॥
>
ब्रह्मणे प्रजापतये बृहस्पतयेऽग्नये वायवे सूर्याय चन्द्रमसे नक्षत्रेभ्यः ऋतुभ्यस्संवत्सराय इन्द्राय राज्ञे सोमाय राज्ञे यमाय राज्ञे वैश्रवणाय राज्ञे वसुभ्यो रुद्रेभ्य आदित्येभ्यो विश्वेभ्यो देवेभ्यस्साध्येभ्यो मरुद्भ्य ऋभुभ्यो भृगुभ्योऽङ्गिरोभ्य इति देवगणानाम् ॥१०॥
११उ ११
अथर्षयः -
विश्वामित्रो जमदग्निर् भरद्वाजो गौतमो ऽत्रिर् वसिष्ठः +++(अरुन्धत्याः कल्पान्तर-दर्शनात्)+++ कश्यप इत्य् एते सप्तर्षयः।
सप्तर्षिभ्यः +++(देवानाम् उत्तरत आसनानि दर्भैः)+++ कल्पयित्वा, दक्षिणतो +++(प्राचीन-प्रवणे)+++ ऽगस्त्याय कल्पयन्ति ११
>
हरदत्तः
देवानाम् उत्तरतः सप्तर्षीणामासनानि, दक्षिणतोऽगस्त्याय, कश्यपाद् ऊर्ध्वम् अरुन्धत्याः+++(5)+++, (१)गृह्यान्तरदर्शनात् ॥११॥
>
अथर्षयः — विश्वामित्रो जमदग्निर्भरद्वाजो गौतमोऽत्रिर्वसिष्ठः कश्यप इत्येते सप्तर्षयः सप्तर्षिभ्यः कल्पयित्वा दक्षिणतोऽगस्त्याय कल्पयन्ति ॥११॥
११उ १२
+++(निवीतिन उत्तरत उदीचीनप्रवण उदगग्रैर्दर्भैः प्राग्-अपवर्गाण्य् आसनानि)+++
ततो यावद् +++(सप्तर्षिभिः)+++ एक-वैद्य्-अन्तैः कल्पयन्ति १२
विश्वास-टिप्पनी
हिरन्यकेश्यनुसारेण -
- कृष्ण-द्वैपायनाय जीतू-कर्ण्याय तरुक्षाय तृणी-बिन्दवे
- वर्मिणे वरूथिने वाजिने
- वाजश्रवसे सत्यश्रवसे सुश्रवसे सुतश्रवसे
- सोमशुष्मायणाय सत्ववते
- बृहदुक्थाय वामदेवाय वाजिरत्नाय हर्यज्वायनायोदमयाय
- गौतमाय ऋणञ्जयाय ऋतञ्जयाय कृतञ्जयाय धनञ्जयाय
- बभ्रवे त्र्यरुणाय त्रिवर्षाय त्रिधातवे शिबिन्ताय पराशराय
- विष्णवे रुद्राय स्कन्दाय काशीश्वराय श्वराय
- धर्मायार्थाय कामाय क्रोधाय
- वसिष्ठायेन्द्राय त्वष्ट्रे कर्त्रे धर्त्रे धात्रे मृत्यवे
- सवित्रे सावित्र्यै
- वेदेभ्यश्च पृथक्
- पृथग् ऋग्वेदाय यजुर्वेदाय सामवेदायाथर्ववेदायेतिहासपुराणायेति ६
>
हरदत्तः
ततः अनन्तरं, यावन्तः एकवेद्यन्ताः समान-वेद्य्-अन्ताः
कैः? सप्तर्षिभिः,
तेभ्यः कल्पयन्ति ।
के पुनस्ते? कृष्णद्वैपायनादय ऋषयः । एतदुक्तं भवति – कृष्ण-द्वैपायनाय जातूकर्ण्याय तरुक्षाय तृणबिन्दवे सोम-शुष्मिणे सोम-शुष्काय वर्मिणे सनद्-वाजाय बृहद्-उक्थाय वामदेवाय वाच+++(ज?)+++रत्नाय हरित-यज्वन उद-मयाय गौतमाय ऋणञ्-जयाय कृतञ्-जयाय बभ्रवे त्र्य्-अरुणाय त्रिधातवे त्रिवर्षाय शिबिन्ताय पराशराय कृतञ्-जयायन्द्राय मृत्यवे कर्त्रे त्वष्ट्रे धात्रे सवित्रे भृत-श्रवसे सावित्र्यै वेदेभ्यश् चेति पृथक् ।
एते कृष्णद्वैपायनादयश् चतुस्त्रिंशद् ऋषयः । वेदाश् चत्वार इत्य् अष्टात्रिंशद् एकवेद्यन्ताः सप्तर्षिभिः ।
केचिद् अथर्वाङ्गिरस इतिहास-पुराणानि सर्प-देवजनान् सर्व-भूतानीत्य् एतेषामपि वेदग्रहणेन ग्रहणमिच्छन्ति; कल्पान्तरे तथा दर्शनात् ॥१२॥
>
ततो यावदेकवैद्यन्तैः कल्पयन्ति ॥१२॥
११उ १३
प्राचीनावीतानि कृत्वा
+++(देवानाम् अगस्त्यस्य च दक्षिणा-प्रवणदेशे दक्षिणाग्रैः प्रत्यग्-अपवर्गम्)+++ दक्षिणतो
वैशम्पायनाय, पैङ्गये, तित्तिरये, उखाय,
आत्रेयाय पदकाराय, कौण्डिन्याय वृत्तिकाराय,
बौधायनाय प्रवचनकाराय, आपस्तम्बाय सूत्रकाराय, भरद्वाजाय सूत्रकाराय, सत्याषाढाय हिरण्यकेशाय,
आचार्येभ्य ऊर्ध्व-रेतोभ्य, एकपत्नीभ्यो वानप्रस्थेभ्यः
कल्पयामीति +++(दर्भैर् आसनानि कल्पयति)+++ ॥ १३
>
हरदत्तः
ततः सर्वे प्राचीनावीतानि कृत्वा वैशम्पायनादिभ्यो द्वादशभ्य आसानानि कल्पयन्ति दक्षिणतो देवानाम् अगस्त्यस्य च । तत्र दक्षिणा-प्रवणदेशे दक्षिणाग्रैः प्रत्यगपवर्गम्(स.गृ.२.१९-७.) इति कल्पान्तरम् ॥१३॥
>
प्राचीनावीतानि कृत्वा दक्षिणतो वैशम्पायनाय पैङ्गये तित्तिरये उखायात्रेयाय पदकाराय, कौण्डिन्याय वृत्तिकाराय, बौधायनाय प्रवचनकाराय, आपस्तम्बाय सूत्रकाराय, भरद्वाजाय सूत्रकाराय, सत्याषाढाय हिरण्यकेशाय, आचार्येभ्य ऊर्ध्वरेतोभ्य, एकपत्नीभ्यो वानप्रस्थेभ्यः कल्पयामीति ॥१३॥
११उ १४
अथ यथास्वं +++(=जीवपितृकत्वं परिगणय्य)+++ पितृभ्यः कल्पयन्ति
मातामहेभ्यश् च पृथक् १४
>
हरदत्तः
यथास्वं यस्य ये पितरः पितामहाः प्रपितामहा मातामहाश्च मातुर्ये पितृपितामहप्रपितामहाः सर्वेभ्य उभयेभ्यः कल्पयन्तीत्यर्थः । प्राचीनावीतानि कृत्वा दक्षिणत इति चानुवर्तते । तत्र यथास्वं पित्रादीनां नामभिः कल्पनं–रुद्रशर्मणे विष्णुशर्मण इति । अन्ये पितृभ्य इत्येव कल्पयन्ति । किमर्थं तर्हि यथास्वमिति? जीवपितृकाणामिहापि पिण्डदानवदुपायविशेषप्रतीत्यर्थः ॥१४॥
>
अथ यथास्वं पितृभ्यः कल्पयन्ति मातामहेभ्यश्च पृथक् ॥१४॥
११उ १५
यज्ञोपवीतानि कृत्वा
तेष्व् एव देशेषु, तथैवानुपूर्व्या, तैर् एव नामभिर्,
देवान् ऋषींश् च तर्पयन्ति।
वैशम्पायन-प्रभृतींस् तु मातुः प्रपितामह-पर्यन्तान् प्राचीनावीतिनस् तर्पयन्ति।
“अमुं तर्पयाम्य्, अमुं तर्पयाम्य्, अमुं तर्पयामी"ति १५
>
हरदत्तः
अथ कल्पान्तरे दृष्टो विशेषः–अमुष्मै नमोऽमुष्मै नम इति गन्धपुष्पधूपदीपैः, अमुष्मै स्वाहामुष्मै स्वाहेत्यन्नेन, अमुं तर्पयाम्यमुं तर्पयामीति फलोदकेनेति(भा.गृ.३-११) (स.गृ.२-२०-५,६,७) ॥१५॥
>
यज्ञोपवीतानि कृत्वा तेष्वेव देशेषु तयैवानुपूर्व्या तैरेव नामाभिर्देवानृषींश्च तर्पयन्ति वैशम्पायनप्रभृतींस्तु मातुः प्रपितामहपर्यन्तान् प्राचीनावीतिनस्तर्पयन्ति – अमुं तर्पयाम्यमुं तर्पयाम्यमुं तर्पयामीति ॥१५॥
११उ १६
>
अभिप्यन्ते +++(=प्रार्थयन्ते [स्नानादिकं सहैव कर्तुं])+++ वान्योन्यम् १६
>
हरदत्तः
आप्नोतेरेतद्रूपम् । अभिप्या प्रार्थना । इहोत्सर्जने कर्मणि शिष्याणामुपाध्यायस्य च स्नानादिषु कर्मसु सह प्रवृत्तिश्चोदिता । सर्वत्र वहुवचननिर्देशात् अभिषेकान् कृत्वाऽऽसनानि कल्पयन्तीति । तत्रायं विशेषो वैकल्पिक उपदिश्यते । अन्योन्यमभिप्यन्ते वा द्वौ द्वौ सम्भूयान्योऽन्यं प्रार्थयन्ते वासःप्रवृत्यर्थं न सर्वे सहेति । अधीत्सन्त इति पाठे ऋध्यतेरेतद्रूपम् । उपसर्गवशाच्च स एवार्थः । ये त्वधिशब्दात् परं तकारमेवाधीयते न ररेफमपि तेषां धातुर्मग्यार्थ एव ॥१६॥
>
अभिप्यन्ते वान्योन्यम् ॥१६॥
११उ १७
>
यज्ञोपवीतानि कृत्वा त्रीनादितोऽनुवाकानधीयीरन् १७
>
हरदत्तः
अध्ययनप्रकार उपाकरणे व्याख्यातः ॥१७॥
>
यज्ञोपर्वातानि कृत्वा त्रीनादितोऽनुवाकानधीयीरन् ॥१७॥
११उ १८
>
काण्डादीन्प्रथमोत्तमौ वा १८
>
हरदत्तः
अयमपि विकल्प उपाकरणे व्याख्यातः ॥१८॥
>
काण्डादीन् प्रथमोत्तमौ वा ॥१८॥
११उ १९
>
“काण्डात् काण्डात् प्ररोहन्ती"ति द्वाभ्यामुपोदके दूर्वा रोपयन्ति ॥१९॥
काण्डा॑त्-काण्डात् प्र॒रोह॑न्ती॒
परु॑षᳶपरुष॒ᳶ+++(=पर्वणः पर्वणः)+++ परि॑ ।
ए॒वा नो॑ दूर्वे॒ प्र त॑नु
स॒हस्रे॑ण श॒तेन॑ च ।
>
हरदत्तः
अथ समूलं दूर्वास्तम्बमाहृत्य तमुदकस्य समीपे रोपयति । यथा दूर्वा प्ररोहति तथा निखनन्ति “काण्डात् काण्डात् प्ररोहन्ती"ति द्वाभ्यामृग्भ्याम् । तत्र दूर्वां इत्येकवचनश्रवणात् एक एव मुख्यो निखनति तमितरेऽन्वारभेरन् । अन्ये प्रतिपूरुषमिच्छन्ति ॥ १९ ॥
>
“काण्डात् काण्डात् प्ररोहन्ती"ति द्वाभ्यामुपोदके दूर्वा रोपयन्ति ॥१९॥
११उ २०
>
अपः प्रगाह्योदधिं कुर्वन्ति +++(=क्षोभयन्ति)+++ २०
>
हरदत्तः
अथापः प्रविश्य तत्रोदधिं कुर्वन्ति । उदधिः समुद्रः तमिव क्षोभयन्तीत्यर्थः ॥२०॥ कथं तदित्याह–
>
अपः प्रगाह्योदधिं कुर्वन्ति ॥२०॥
११उ २१
>
सर्वतः परिवार्योर्मिमन्तः कुर्वन्ति २१
>
हरदत्तः
बहुभिः परिवार्य सर्वतस् सन्निरुध्य यथोर्मयस्तत्रोत्पद्यन्ते तथा कुर्वन्तीत्यर्थः । एवं त्रिः कुर्वन्ति ॥२१॥
>
सर्वतः परिवार्योर्मिमन्तः कुर्वन्ति ॥२१॥
११उ २२
>
उद्गाह्य +आतमितोर् +++(=श्रमं यावत्)+++ आजिं +++(प्राचीमुदीचीं वा)+++ धावन्ति २२
>
हरदत्तः
उद्गाह्य उत्तीर्य आतमितोः आश्रमजननात् आजिं धावन्ति । प्राचीमुदीचीं वा दिशमभिधावन्ति । तथापवर्गः ॥२२॥
>
उद्गाह्याऽतमितोराजिं धावन्ति ॥२२॥
११उ २३
>
प्रत्येत्य
+अभिदानानि+++(=??)+++ सक्तुभिर् ओदनेनेति
ब्राह्मणान् भोजयित्वा वाचयति २३
>
हरदत्तः
प्रत्येत्य गृहान् प्रविश्येत्यर्थः । आशिषः पुण्याहाद्याः पुण्याहं स्वस्त्यृध्यतामिति वाचयित्वेति ॥२३॥
>
प्रत्येत्याभिदानादि सक्तुभिरोदनेनेति ब्राह्मणान् भोजयित्वा वाचयति ॥२३॥
११उ २४
>
एवं पारायण+++(=यथारुच्यध्ययनमिति केचित्)+++समाप्तौ च -
काण्डादि+++(-अध्ययन)+++-दूर्वारोपणोदधि-धावनवर्जम् २४
>
हरदत्तः
यथास्मिन् वार्षिके ऽप्य् अध्याये समाप्ते
उत्सर्गश् चोदितः
एवम् एव पारायण-समाप्ताव् अपि कर्तव्यम् ।
तत्र वर्ज्याणि–
काण्डादीनामध्ययनं, दूर्वारोपणमुधिकरणमाजिधावनं चेति ॥२४॥
काण्डादि-ग्रहणात् पारायणाध्ययने यथाकाण्डम् एवाध्ययनम्,
न तु सम्भिन्नस्य पाठस्येति केचित् ।
अन्ये तु काण्डादि-ग्रहणस्योपलक्षणत्वात्
सर्व-प्रकारस्यानुवाकाध्ययनस्य प्रतिषेधः ।
पारायणे च यथारुच्यध्ययनामित्याहुः ॥२५॥
>
एवं पारायणसमाप्तौ च काण्डादि दूर्वारोपणोदधिधावनवर्जम् ॥२४॥
११उ २५
+++(पारायण-समाप्तौ)+++ प्रत्येत्य ब्राह्मण-भोजनादि कर्म प्रतिपद्यते २५
>
हरदत्तः
MISSING??
>
प्रत्येत्य ब्राह्मणभोजनादि कर्म प्रतिपद्यते ॥२५॥
११उ २६
एवम् एवाद्भिर् +++(एवासनादिवर्जम्)+++ अहरहर् देवान् ऋषीन् पितॄंश् च तर्पयेत् ॥२६॥
>
हरदत्तः
अद्भिर् इति वचनात्
अहरहस् तर्पणम् अद्भिर् एव ।
तेनोत्सर्गकर्मणि पूर्वोक्तानां गन्धादीनामपि प्रवृत्तिः ।
अहरहस् तर्पणं ब्रह्मयज्ञानन्तरम्,
कल्पान्तरे दर्शनात् ॥२६॥
इति गृह्यसूत्रावृत्तावनाकुलायां उपाकर्मोत्सर्जनपटलः ॥
>
एवम् एवाद्भिर् अहर्-अहर् देवान् ऋषीन् पितॄंश्च तर्पयेत् ॥२६॥