०७ उपनयनप्रकरणम्

१० ०१ उपनयनं व्याख्यास्यामः

उपनयनं व्याख्यास्यामः १

१० ०२ गर्भाष्टमेषु ब्राह्मणमुपनयीत

गर्भाष्टमेषु+++(=गर्भवर्षाद्य्-अष्टमं येषां तेषु [वर्षेषु])+++ ब्राह्मणम् उपनयीत २

१० ०३ गर्भैकादशेषु राजन्यम्

गर्भैकादशेषु राजन्यं
गर्भद्वादशेषु वैश्यम् ३

१० ०४ वसन्तो ग्रीष्मश्

वसन्तो ग्रीष्मश् शरद् इत्य् ऋतवो वर्णानुपूर्व्येण ४

१० ०५ ब्राह्मणान् भोजयित्वाशिषो

ब्राह्मणान् भोजयित्वाशिषो वाचयित्वा कुमारं भोजयित्वा
+++(उपनयने - एवमन्तं पित्रादेः कर्म । अथाचार्यः उष्णाश्शीताश्चापः संसृजति।)+++
ऽनुवाकस्य प्रथमेन यजुषाऽपः +++(“उष्णेनवाय” वित्येतेन)+++ संसृज्योष्णाश् शीतास्व् आनीय +++(न शीता उष्णासु)+++

हरदत्तो ऽत्र।

+++(उष्णा आपः शीतास्वानयति)+++ उष्णे᳓न वायव् उदके᳓ने᳓ह्य्,
अ᳓दितिः के᳓शान् वपतु ।

उत्तरया +++(आप उन्दन्त्विऽत्येतया)+++ शिर उनत्ति ५

+++(शिरस उन्दनम् = आर्द्रीकरणम्)+++ आ᳓प उन्दन्तु जीव᳓से
दीर्घायुत्वा᳓य व᳓र्चसे ।
ज्यो᳓क् च सू᳓र्यं दृशे᳓ ।

१० ०६ त्रींस्त्रीन्

त्रींस्त्रीन् दर्भान् अन्तर्धायोत्तराभिश् चतसृभिः +++(“येनावपत्"इत्यादिभिः)+++ प्रतिमन्त्रं प्रतिदिशं प्रवपति ६

+++(प्राच्यान्दिशि)+++ ये᳓ना᳓वपत् सविता᳓ क्षुरे᳓ण
सो᳓मस्य रा᳓ज्ञो व᳓रुणस्य विद्वा᳓न् ।
ते᳓न ब्रह्माणो! वपतेद᳓म् अस्या᳓-
ऽऽयुष्माञ् ज᳓रदष्टिर् य᳓था᳓ ऽसद् अय᳓म्
असौ᳓ +++(←अत्रोहः)+++।

+++(दक्षिणतः)+++ ये᳓न पूषा᳓ बृ᳓हस्प᳓तेर् अग्ने᳓र्
इ᳓न्द्रस्य चा᳓ऽऽयुषे᳓ ऽवपत् ।
ते᳓नास्या᳓ऽऽयुषे वप
सौ᳓श्लोक्याय स्वस्त᳓ये ।

+++(पश्चात्)+++ ये᳓न भू᳓यश् च᳓रात्य् अय᳓ञ्,
ज्यो᳓क् च प᳓श्याति सू᳓र्यम् ।
ते᳓नास्या᳓ऽऽयुषे वप
सौ᳓श्लोक्याय स्वस्त᳓ये ।

+++(उत्तरे)+++ ये᳓न पूषा᳓ बृ᳓हस्प᳓तेर् अग्ने᳓र्
इ᳓न्द्रस्य चा᳓ऽऽयुषे᳓ ऽवपत् ।
ते᳓न ते वपाम्य् असाव्+++(←अत्रोहः)+++
आ᳓युषा व᳓र्चसा य᳓था ज्यो᳓क् सुम᳓ना अ᳓साः ।

१० ०७ वपन्तमुत्तरयानुमन्त्रयते

वपन्तम् उत्तरया +++(“यत् क्षुरेण” इत्य् एतया)+++ ऽनुमन्त्रयते दक्षिणतो माता ब्रह्मचारी वा ७

+++(नापितम् अनुमन्त्रयति-)+++ य᳓त् क्षुरे᳓ण मर्च᳓यता +++(=तीक्ष्णेन)+++
सुपेश᳓सा व᳓प्त्रा व᳓पसि के᳓शान् ।
शु᳓न्धि शि᳓रो, मा᳓स्या᳓युः प्र᳓मोषीः ।

१० ०८ आनडुहे शकृत्पिण्डे

आनडुहे शकृत्पिण्डे यवान् निधाय तस्मिन् केशान् उपयम्योत्तरया +++(“उप्त्वाय केशा"नित्येतया)+++ उम्बर-मूले दर्भ-स्तम्बे वा निदधाति ८

उप्त्वा᳓स्य के᳓शान् व᳓रुणस्य रा᳓ज्ञो,
बृ᳓हस्प᳓तिस् सविता᳓ सो᳓मो अग्निः᳓ ।
ते᳓भ्यो +++(=केशेभ्यः)+++ निधा᳓नं बहुधा᳓ ऽन्वविन्दन्न्
अन्तरा᳓ द्या᳓वापृथिवी᳓ अप᳓स् सु᳓वः ॥

१० ०९ स्नातम् अग्नेर्

स्नातम् +++(शुचि-वाससं बद्ध-शिखं यज्ञोपवीतिनम्)+++ अग्नेर् उपसमाधानाद्य् आज्य-भागान्ते +++(शम्याः परिध्यर्थे, सकृत्पात्रप्रयोगः)+++
पालाशीं समिधम् उत्तरया +++(“आयुर्दा देव"इत्येतया ऽऽचार्योक्तया)+++ ऽऽधाप्य

आयुर्दा᳓ देव जर᳓सं गृणानो᳓
घृत᳓+++(√ क्षरणदीप्त्यो)+++-प्रतीको+++(=अवयवो)+++ घृत᳓-पृष्ठो अग्ने ।
घृतं᳓ पि᳓बन्न् अमृ᳓तञ् चा᳓रु ग᳓व्यं
पिते᳓व पुत्र᳓ञ् जर᳓से नयेम᳓म् ।

उत्तरेण अग्निं, दक्षिणेन पदा ऽश्मानम् आस्थापयत्य् - आतिष्ठेति ९
+++(तत्रैव चावस्थापनं यावत् तिष्ठति। )+++

आ᳓तिष्ठेम᳓म् अ᳓श्मानम्
अ᳓श्मेव त्वँ᳓ स्थिरा᳓+++(रो पुंसि)+++ भव ।
अभि᳓तिष्ठ पृतन्यत᳓स्+++(=पृतनाकामान्)+++
स᳓हस्व पृतनायतः᳓+++(=पृतनाकामान्)+++ ।+++(र५)+++

१० १० वासः

वासः सद्यःकृत्तोतम् +++(=सद्यः कृत्तम् ऊतं च - विनूतनम्)+++ उत्तराभ्याम् +++(“रेवतीस्त्वे"त्येताभ्यां)+++ अभिमन्त्र्य

+++(नक्षत्रेषु)+++ रेव᳓तीस् त्वा व्य᳙क्ष्णन्+++(=व्यध्वंसयन् [मेषादिभ्यः])+++
कृ᳓त्तिकाश् चा᳓कृन्तँस् त्वा ।
धि᳓यो ऽवयन्न्, अ᳓व ग्ना᳓+++(=देवता)+++ अवृञ्जन्त्+++(=अच्छिन्दन्)+++
सह᳓स्रम् अ᳓न्ताँ+++(=दशासूत्राणि)+++ अभि᳓तो अयच्छन् ।

देवी᳓र् देवा᳓य +++(वस्त्र)+++परिधी᳓+++(धौ)+++ सवित्रे᳓ ।
मह᳓त् त᳓द् आसाम् अभवन् महित्वन᳓म्+++(=महत्वम्)+++ ।+++(र४)+++

वासः-परिधापनम्

उत्तराभिस्तिसृभिः +++(“या अकृन्त"न्नित्येताभिः)+++ परिधाप्य

+++(पूर्वमन्त्रस्योल्लेखो ऽत्र)+++

या᳓ अ᳓कृन्तन्न् अ᳓वयन् या᳓ अ᳓तन्वत
या᳓श् च देवी᳓र् +++(वस्त्रस्य)+++ अ᳓न्तान् अभि᳓तो ऽददन्त+++(←दद् दाने)+++ ।
ता᳓स् त्वा देवी᳓र् जर᳓से सं᳓व्ययन्त्व्
आ᳓युष्मान् इदं᳓ प᳓रिधत्स्व वा᳓सः ।

प᳓रिधत्त धत्त वा᳓ससैनँ
शता᳓युषं कृणुत दीर्घ᳓म् आ᳓युः ।
बृ᳓हस्प᳓तिः प्रा᳓यच्छद् वा᳓स एत᳓त्
सो᳓माय रा᳓ज्ञे प᳓रिधातवा᳓ उ ।

जरां᳓ गच्छासि, प᳓रिधत्स्व वा᳓सो
भ᳓वा कृष्टीना᳓म्+++(=मनुष्याणां)+++ अभिशस्ति-पा᳓वा+++(ता)+++ ।
शत᳓ञ् च जीव शर᳓दस् सुव᳓र्चा
राय᳓श् च पो᳓षम् उ᳓प सं᳓व्ययस्व +++(वासो यथा रायस्पोषं भवति तथा)+++।

परिहितम् उत्तरयानुमन्त्रयते +++(“परीदं वास”)+++ १०

+++(परिहितवन्तं कुमारम् उत्तरयानुमन्त्रयते)+++

प᳓रीदं᳓ वा᳓सो अ᳓धि+++(+अ)+++धास् स्वस्त᳓ये
+अ᳓भूर् आपीना᳓म्+++(=आप्तानां)+++ अभिशस्ति-पा᳓वा+++(ता!)+++ ।
शत᳓ञ् च जीव शर᳓दः पुरूची᳓र्+++(=बहुगतीः)+++
व᳓सूनि चार्यो᳓ वि᳓भजासि+++(विभजासि)+++ जी᳓वन् ।

१० ११ मौञ्जीम् मेखलाम्

मौञ्जी

मौञ्जीं मेखलां त्रिवृतां+++(तं)+++ त्रिःप्रदक्षिणम् उत्तराभ्यां +++(“इयं दुरुक्ता"दित्येताभ्यां कुमारोक्ताभ्यां)+++ परिवीय

इयं᳓ दु᳓रुक्तात् परिबा᳓धमाना
श᳓र्म व᳓रूथं+++(=वरणीयं)+++ पुनती᳓ न आ᳓गात् ।
प्राणापाना᳓भ्यां ब᳓लम् आभ᳓रन्ती
प्रिया᳓ देवा᳓नाँ सुभ᳓गा मे᳓खलेय᳓म् ।

ऋत᳓स्य गोप्त्री᳓, त᳓पसः परस्+++(=प्र)+++पी᳓+++(=पात्री)+++
घ्नती᳓ र᳓क्षस् स᳓हमाना अ᳓रातीः ।
सा᳓ नस् समन्त᳓म् अ᳓नु प᳓रीहि भद्र᳓या
भर्ता᳓रस्+++(=बिभ्राणाः)+++ ते मेखले मा᳓ रिषाम ।

अजिनमन्त्रः

+अजिनम् उत्तरमुत्तरया +++(मित्रस्य चक्षुरित्येतया कुमारोक्तया)+++ ११

+++(धर्मसूत्रेषु - “क्षत्र-वृद्धिम् इच्छन् वस्त्राण्य्, एवोभय-वृद्धिम् इच्छन्न् उभयमिति हि ब्राह्मणम् ९” इत्यादि विकल्पा उक्ताः। तस्मिन् पक्षे ऽजिनप्रतिनिधित्वेन प्रायेण ग्राह्यं वस्त्रम्। )+++

११ मित्रस्य चक्षुर्धरुणम् …{Loading}…

मित्र᳓स्य च᳓क्षुर्, ध᳓रुणं ब᳓लीयस्
ते᳓जो यशस्वि᳓ स्थ᳓विरँ स᳓मिद्धम् ।
अनाहनस्यं᳓+++(=अधूर्तयोग्यं)+++ व᳓सनञ् जरिष्णु᳓
प᳓रीदं᳓ वाज्य्+++(=अन्नवत्)+++ अ᳓जि᳓नन् दधे ऽह᳓म् ॥ (२)

१० १२ उत्तरेणाग्निन् दर्भान्

उदकाञ्जलिम् अस्मा अञ्जलाव् +++(प्रोक्षणार्थम्)+++ आनीयोत्तरया +++(“समुद्रादूर्मि"रित्येतया)+++ त्रिः प्रोक्ष्य +++(कुमार-कृत्यम् एतत्। आचार्यः प्रोक्षति तत इति विश्वासः। सकृत् मन्त्रेण, द्विस्तूष्णीम् ।)+++

+++(प्रोक्षणमन्त्रः)+++

समुद्रा᳓द् ऊर्मि᳓र् म᳓धुमाँ उ᳓दारद् +++(=उदागमद् [एतैः प्रोक्षणबिन्दुभिः])+++
उपाँशु᳓ना+++(=उपांशैः →अंशुनिभैः)+++ स᳓म् अमृतत्व᳓म् अश्याम् ।
इमे᳓ नु᳓ ते᳓ रश्म᳓यस् सू᳓र्यस्य
ये᳓भिस् सपित्वं᳓+++(=समानपानं)+++ पित᳓रो न आ᳓यन् ।

+++(यैः रश्मिभिस् सह वामदेवस्य पितरो सोमपानं कृतवन्तः , तत्कारणका बिन्दवो मयि पतिताः )+++

हस्तग्रहणम्

उत्तरैर् +++(अग्निष्टे हस्तमग्रमीदित्यादिभिः)+++ दक्षिणे हस्ते गृहीत्वा +++(- प्रतिमन्त्रं ग्रहणावृत्तिः)+++

अग्नि᳓ष् टे ह᳓स्तम् अग्रभी+++(ही)+++त्।

सो᳓मस् ते ह᳓स्तम् अग्रभीत्।

सविता᳓ ते ह᳓स्तम् अग्रभीत्।

स᳓रस्वती ते ह᳓स्तम् अग्रभीत्।

पूषा᳓ ते ह᳓स्तम् अग्रभीत्।

अर्यमा᳓ ते ह᳓स्तम् अग्रभीत्।

अँ᳓शुस् ते ह᳓स्तम् अग्रभीत्।

भ᳓गस् ते ह᳓स्तम् अग्रभीत्।

मित्र᳓स् ते ह᳓स्तम् अग्रभीत्।

मित्र᳓स् त्व᳓म् असि ध᳓र्मणा,
ऽग्नि᳓र् आचार्य᳓स् त᳓व ।+++(५)+++

+++(कीदृशश्च सः? मित्रं देवा अब्रुवन्त - सोमं राजानं हनामेति। सो ऽब्रवीन् - नाहं सर्वस्य वा अहं मित्रम् अस्मि ।)+++

परिदानम्

उत्तरैर् +++(“अग्नये त्वा परिददामी"त्यादिभिः)+++ देवताभ्यः परीदाय

+++(असौशब्दस्य स्थाने माणवकस्य नाम निर्देशः संबुद्ध्या ॥)+++

+++(असौशब्दस्य स्थाने माणवकस्य नाम निर्देशः संबुद्ध्या, स्वरं विना ॥)+++

अग्न᳓ये त्वा प᳓रिददाम्य्+++(→रक्षार्थे दानं परिदानम्)+++ असौ।

सो᳓माय त्वा प᳓रिददाम्य् असौ।

सवित्रे᳓ त्वा प᳓रिददाम्य् असौ।

स᳓रस्वत्यै त्वा प᳓रिददाम्य् असौ।

मृत्य᳓वे त्वा प᳓रिददाम्य् असौ।

यमा᳓य त्वा प᳓रिददाम्य् असौ।

गदा᳓य त्वा प᳓रिददाम्य् असौ।

अ᳓न्तकाय त्वा प᳓रिददाम्य् असौ।

अद्भ्य᳓स् त्वा प᳓रिददाम्य् असौ।

ओ᳓षधीभ्यस् त्वा प᳓रिददाम्य् असौ।

पृथिव्यै᳓ त्वा स᳓वैश्वानरा᳓यै+++(←उदात्तद्वयम्??)+++ प᳓रिददाम्य् असौ ।

उपनयनम्

उत्तरेण यजुषा +++(“देवस्य त्वा सवितुः” इत्येतेन स्वसमीपं)+++ +उपनीय

देव᳓स्य त्वा सवितुः᳓ प्रसव᳓+++(=अनुज्ञायाम्)+++ उ᳓पनये ऽसौ᳓ +++(←नामनिर्देशः पूर्ववत् । केचित्तु - अन्तोदात्तस्य पाठात् आचार्यस्य नाम्नः प्रथमया निर्देशं मन्यन्ते ॥ )+++ ।

सुप्रजा इति +++(“सुपोषः पोषै"रित्येवमन्तम्)+++ दक्षिणे कर्णे जपति १२

+++(कर्णे जपः)+++

सुप्रजाः᳓ प्रज᳓या भूयास्,
सुवी᳓रो वीरै᳓स्,
सुव᳓र्चा व᳓र्चसा,
सुपो᳓षः पो᳓षैः ।
+++(→सूपसर्ग-बहुव्रीहाव् उत्तरपदादिर् उदात्तः। )+++

११ ०१ ब्रह्मचर्यमागामिति कुमार

“ब्रह्मचर्यम् आगाम्” इति +++(सवित्रा प्रसूत इत्येवमन्तो मन्त्रः)+++ कुमार आह १

+++(कुमारस्य मन्त्रः)+++

ब्रह्मच᳓र्यम् आ᳓गाम्, उ᳓प मा᳓ऽऽनयस्व, देवे᳓न सवित्रा᳓ प्र᳓सूतः+++(=अनुज्ञातः)+++ ।

११ ०२ प्रष्टम् परस्य

प्रष्टं परस्य प्रतिवचनं कुमारस्य २

+++(आचार्यः-)+++ को᳓ ना᳓मासि?
+++(ब्रह्मचारी-)+++ असौ᳓+++(←नामनिर्देशः प्रथमया)+++ ना᳓माऽस्मि।
+++(आचार्यः-)+++ क᳓स्य ब्रह्मचार्य᳙सि +असौ+++(←नामनिर्देशस्संबुद्ध्या)+++?
+++(ब्रह्मचारी-)+++ “प्राण᳓स्य ब्रह्मचार्य् अ᳙स्मि असौ᳓"+++(←स्वनामनिर्देशः प्रथमया)+++।

११ ०३ शेषम् परो

शेषं +++(“एष ते देव सूर्ये”)+++ परो +++(आचार्यः)+++ जपति ३

+++(आचार्यः-)+++ एष᳓ ते देव सूर्य ब्रह्मचारी᳓।
तं᳓ गोपाय, स᳓ मा᳓ मृत।
एष᳓ ते सूर्य पुत्र᳓स्,
स᳓ दीर्घायु᳓स्, स᳓ मा᳓ मृत ।
याँ᳓ स्वस्ति᳓म् अग्नि᳓र् वायु᳓स् सू᳓र्यश् चन्द्र᳓मा आ᳓पो᳓ ऽनु सञ्च᳓रन्ति,
ताँ᳓ स्वस्ति᳓म् अ᳓नु स᳓ञ्चरासौ+++(←नामनिर्देशस्संबुद्ध्या)+++ ।

११ ०४ प्रत्यगाशिषञ् चैनम्

प्रत्यगाशिषं +++(आत्मगाम्याशीःफलं यस्मिन्मन्त्रे,अध्वनामित्यारभ्य आ उपनयनसमाप्तेर्ये प्रत्यगाशिषो मन्त्राः"योगे"इत्यादयः )+++ चैनं वाचयति ४

+++(ब्रह्मचारी सूर्यम् प्रति-)+++ अ᳓ध्वनाम् अध्वपते +++(सूर्य)+++ श्रे᳓ष्ठस्या᳓ऽध्वनः +++(ब्रह्मचर्यामार्गस्य)+++ पार᳓म् अशीय ॥ (3)

११ ०५ उक्तमाज्यभागान्तम्

उक्तम् आज्यभागान्तम् +++(“आ॒यु॒र्दा दे॑व …” इति समिदाधाने)+++ ५

११ ०६ अत्रैनमुत्तरा आहुतीर्हावयित्वा

अत्रैनम् उत्तरा +++(“योगे योगे” इत्येकादर्शचः)+++ आहुतीर् हावयित्वा जयादि प्रतिपद्यते ६

विश्वास-टिप्पनी

तत्र द्वितीयचतुर्थौ “इममग्न आयुषे” “अग्निष् ट आयुः प्रतराम्” इति लिङ्गविरोधात् “आयुर्दा देव जरसम्” इतिवत् स्वयमेव ब्रूयात्, नैनं वाचयति । प्रधान-होमेषु हावयित्वेति वचनाद् उपहोमेष्व् आचार्य एव कर्ता।

ते च सर्वे माणवकस्यैव । द्वितीयचतुर्थाव् आचार्यस्येत्येके ।

+++(रथादि)+++यो᳓गेयोगे तव᳓स्+++(=गति[वत्])+++तरव्ँ
वा᳓जेवाजे हवामहे ।
+++(वयं स्तोतृत्वेन)+++ स᳓खाय+++(ः)+++ इ᳓न्द्रम् ऊत᳓ये ।+++(५)+++

०२ इममग्न आयुषे …{Loading}…

इम᳓म् अग्न आ᳓युषे व᳓र्चसे कृधि
प्रियँ᳓ रे᳓तो वरुण सोम राजन् ।
माते᳓वास्मा अदिते श᳓र्म यच्छ
वि᳓श्वे देवा ज᳓र-दष्टिर् य᳓था᳓ऽसत् ।

शत᳓म् इ᳓न् नु᳓ शर᳓दो अ᳓न्ति+++(कं)+++ देवा,
य᳓त्रा नश् चक्रा᳓+++(क्रुः)+++ जर᳓सन् तनू᳓नाम् ।
पुत्रा᳓सो य᳓त्र पित᳓रो भ᳓वन्ति
+++(तादृशे काले)+++ मा᳓ नो मध्या᳓ रीरिषता᳓ऽऽयुर् +++(आ स्वतो)+++ग᳓न्तोः+++(=गमनात्)+++ ।+++(४)+++

(दे॒वेभ्यः॒ इद॒न्न मम॑ । )

अग्नि᳓ष् ट आ᳓युः प्र+++(कृष्ट)+++तरां᳓ दधात्व्
अग्नि᳓ष् टे पु᳓ष्टिं प्रतरां᳓ कृणोतु ।
इ᳓न्द्रो मरु᳓द्भिर् ऋतु-धा᳓ +++(पुष्टिं)+++ कृणोत्व्
आदित्यै᳓स् ते व᳓सुभिर् आ᳓ दधातु ।

+++(अग्नीन्द्र-मरुद्-आदित्य-वसुभ्य इदन्न मम ।)+++

मेधां᳓ म᳓ह्यम् अ᳓ङ्गिरसो
मेधाँ᳓ सप्तऋष᳓यो ददुः ।
मेधां᳓ म᳓ह्यं प्रजा᳓पतिर्
मेधा᳓म् अग्नि᳓र् ददातु मे ।

+++(अङ्गिरस्-सप्तर्षि-प्रजापति+अग्निभ्यः इदन्न मम । )+++

अप्सरा᳓सु या᳓ मेधा᳓
गन्धर्वे᳓षु च य᳓द् य᳓शः ।
दै᳓वी या᳓ मानुषी᳓ मेधा᳓
सा᳓ मा᳓मा᳓ विशताद् इह᳓ ।

+++(मेधायशोभ्याम् इदन्न मम ।)+++

इमं᳓ मे वरुण श्रुधी +++(=श्रुणु)+++
ह᳓वम्+++(=आह्वानम्)+++ अद्या᳓ च मृळय +++(=सुखय)+++।
त्वा᳓म् अवस्यु᳓र् आ᳓ चके +++(=अवदन्)+++॥

त᳓त् त्वा यामि ब्र᳓ह्मणा व᳓न्दमानस्
त᳓द् आ᳓ शास्ते य᳓जमानो हवि᳓र्भिः ।
अ᳓हेळमानो +++(=अक्रुध्यन्)+++ वरुणेह᳓ बोध्य् उ᳓रुशंस
मा᳓ न आ᳓युः प्र᳓ मोषीः ॥

त्व᳓न् नो अग्ने व᳓रुणस्य विद्वा᳓न्
देव᳓स्य हे᳓डो᳓+++(=क्रोधो )+++ ऽव यासिसीष्ठाः+++(=यक्षीष्ठाः)+++ ।
य᳓जिष्ठो +++(हविर्)+++व᳓ह्नितमश् शो᳓शुचानो+++(=देदीप्यमानः)+++
वि᳓श्वा द्वे᳓षाँसि प्र᳓ मुमुग्ध्य् अस्म᳓त् ।

+++(अग्नीवरुणाभ्याम् इदं न मम)+++

स᳓ त्व᳓न् नो अग्ने ऽवमो᳓+++(=मूलभूतो)+++ भव+ऊती᳓+++(त्या)+++
+++(“अग्निरवमो देवतानां विष्णुः परमः” इति ब्राह्मणम्)+++
ने᳓दिष्ठो+++(=अन्तिकतमो)+++ अस्या᳓ उष᳓सो व्यु᳙ष्टौ+++(=व्युष्टायाम्)+++ ।
अ᳓व यक्ष्व नो व᳓रुणँ, र᳓राणो
वीहि᳓+++(=खाद)+++ मृडीकँ᳓+++(=सुखयितारं [हविः])+++ सुह᳓वो न एधि ।

+++(अग्नीवरुणाभ्याम् इदं न मम)+++

१६ त्वमग्ने अयाऽस्यया …{Loading}…

त्व᳓म् अग्ने अया᳓+++(=एतव्यः/ प्रत्येता)+++ ऽस्य्
अया᳓ स᳓न् म᳓नसा हितः᳓ ।
अया᳓ स᳓न् हव्य᳓म् ऊहिषे
ऽया᳓ नो धेहि भेषज᳓म् ॥ (4)

११ ०७ परिषेचनान्तङ्

परिषेचनान्तं कृत्वा
ऽपरेणाग्निम् उदग्-अग्रं कूर्चं निधाय
तस्मिन्न् उत्तरेण +++(“राष्ट्रभृदसि"इत्यनेन)+++ यजुषोपनेता +++(आचार्यः)+++ +उपविशति ७

+++(हे कूर्च!)+++ राष्ट्रभृ᳓द् अस्य् आचार्याऽऽसन्दी᳓,
मा᳓ त्व᳓द्+++(तः)+++ योषम्+++(←यौतिः पृथग्भावे)+++ ।

११ ०८ पुरस्तात्प्रत्यङ्ङासीनः कुमारो

पुरस्तात् प्रत्यङ्ङ् आसीनः कुमारो दक्षिणेन पाणिना दक्षिणं पादम् अन्वारभ्य +++(=उपसंगृह्य)+++ आह “सावित्रीं भो अनुब्रूहि” इति ८

११ ०९ तस्मा अन्वाह

तस्मा अन्वाह - “तत् सवितुर्” इति ९

त᳓त् सवितु᳓र् व᳓रेण्य+++(णिय)+++म्
भ᳓र्गो+++(=भर्जनम्)+++ देव᳓स्य धीमहि+++(←धा धारणे/ ध्यै ध्याने / धी आराधने)+++ ।
धि᳓यो यो᳓ नः प्रचोद᳓यात् ॥

११ १० पच्छोऽर्धर्चशस्ततस्सर्वाम्

पच्छो ऽर्धर्चशस् ततस् सर्वाम् १०

११ ११ व्याहृतीर्विहृताः

व्याहृतीर् विहृताः - पादादिष्व् अन्तेषु वा, तथार्धर्चयोर्, उत्तमां कृत्स्नायाम् ११

(आद्युच्चारणपक्षे)

पादशः

ओं भूस् तत् सवि॒तुर् वरे॑ण्य+++(णिय)+++म्।
ओं भुव॒र् +++(पापादि)+++भर्गो॑+++(=भर्जनम्)+++ दे॒वस्य॑ धीमहि+++(←ध्यै ध्याने / धी आराधने)+++ ।
ओं सुव॒र् धियो॒ यो नः॑ प्रचो॒दया॑त् ॥

अर्धशः पूर्णश्श्च

ओं भूस् तत् सवि॒तुर् वरे॑ण्य+++(णिय)+++म् +++(पापादि)+++भर्गो॑+++(=भर्जनम्)+++ दे॒वस्य॑ धीमहि+++(←ध्यै ध्याने / धी आराधने)+++ ।
ओं भुव॒र् धियो॒ यो नः॑ प्रचो॒दया॑त् ॥

ओं सुव॒स्

त᳓त् सवितु᳓र् व᳓रेण्य+++(णिय)+++म्
भ᳓र्गो+++(=भर्जनम्)+++ देव᳓स्य धीमहि+++(←धा धारणे/ ध्यै ध्याने / धी आराधने)+++ ।
धि᳓यो यो᳓ नः प्रचोद᳓यात् ॥

पुनः पूर्णोच्यते कैश्चित्

ॐ भूर्-भुव॒स्-सुव॒स्

त᳓त् सवितु᳓र् व᳓रेण्य+++(णिय)+++म्
भ᳓र्गो+++(=भर्जनम्)+++ देव᳓स्य धीमहि+++(←धा धारणे/ ध्यै ध्याने / धी आराधने)+++ ।
धि᳓यो यो᳓ नः प्रचोद᳓यात् ॥

११ १२ कुमार उत्तरेण

कुमार उत्तरेण +++(“वृधमसौ सोभ्ये"त्यनेन, असावित्यनेन प्राणोऽभिधीयते)+++ मन्त्रेणोत्तरमोष्ठम् उपस्पृशते १२

+++(सावित्रीग्रहणात्)+++ अ᳓वृधम् असौ᳓+++(←प्राण-सम्बोधने)+++ सौम्य प्राण᳓, स्वं᳓ मे गोपाय ।+++(५)+++

+++(सम्बोधने स्वरः कथम्??)+++

११ १३ कर्णावुत्तरेण

कर्णावुत्तरेण +++(“ब्रह्मण आणी स्थ"इत्यनेन)+++ १३

+++(सावित्री)+++ब्र᳓ह्मण+++(=मन्त्रस्य)+++ आणी᳓+++(=कीले)+++ स्थः ॥+++(५)+++

११ १४ दण्डमुत्तरेणाऽऽदत्ते

+++(पलाश-)+++दण्डमुत्तरेणाऽऽदत्ते +++(“सुश्रवस्सुश्रवस"मित्यनेन)+++१४

सु᳓श्रवस् +++(पलाश! सुश्र᳓वस्)+++ सुश्र᳓वसं मा कुरु।+++(५)+++
य᳓था त्वँ᳓ सुश्रवस् +++(सुश्र᳓वस्)+++ सुश्र᳓वा अस्य्,
एव᳓म् अहँ᳓ सुश्रवस् +++(सुश्र᳓वस्)+++ सुश्र᳓वा भूयासम्॥
य᳓था त्वँ᳓ सुश्रवस् +++(सुश्र᳓वस्)+++! सुश्रवो +++(सुश्र᳓वो)+++! देवा᳓नां निधिगोपो᳙ ऽस्य्,
एव᳓म् अहं᳓ ब्राह्मणा᳓नां ब्र᳓ह्मणो निधि-गोपो᳓ भूयासम् ।+++(५)+++

११ १५ पालाशो दण्डो

पालाशो दण्डो ब्राह्मणस्य
नैय्यग्रोधस् स्कन्धजो ऽवाङ्ग्रो+++(=अवाञग्रः)+++ राजन्यस्य
बादर औदुम्बरो वा वैश्यस्य १५

११ १६ वार्क्षो दण्ड

वार्क्षो दण्ड इत्य् अवर्ण-संयोगेनैक उपदिशन्ति १६+++(5)+++

११ १७ स्मृतञ् च

“स्मृतं च म” इत्य् एतद्वाचयित्वा

स्मृत᳓ञ् च मे, अ᳓स्मृतञ् च मे - त᳓न् म उभ᳓यं व्रत᳓म्,

निन्दा᳓ च मे, अ᳓निन्दा च मे - त᳓न् म उभ᳓यं व्रत᳓म्,

श्रद्धा᳓ च मे, अ᳓श्रद्धा च मे - त᳓न् म उभ᳓यं व्रत᳓म्,

विद्या᳓ च मे, अ᳓विद्या च मे - त᳓न् म उभ᳓यं व्रत᳓म्,

श्रुत᳓ञ् च मे, अ᳓श्रुतञ्च मे - त᳓न् म उभ᳓यं व्रत᳓म्,

सत्य᳓ञ् च मे, अ᳓नृतञ्च मे - त᳓न् म उभ᳓यं व्रत᳓म्,

त᳓पश् च मे, अ᳓तपश्च मे - त᳓न् म उभ᳓यं व्रत᳓म्,

व्रत᳓ञ् च मे, अ᳓व्रतञ्च मे - त᳓न् म उभ᳓यं व्रत᳓म्,

य᳓द् ब्राह्मणा᳓नां ब्र᳓ह्मणि+++(=वेदविषये)+++ व्रत᳓म्,
य᳓द् अग्ने᳓स् +++(→यातृत्वं)+++ से᳓न्द्रस्य +++(→प्राधान्यम्)+++ स᳓प्रजापतिकस्य +++(→स्रष्टृत्वं)+++
स᳓देवस्य +++(→दातृत्वादि)+++ स᳓देवराजस्य
स᳓मनुष्यस्य +++(→प्रियवचनादि)+++ स᳓मनुष्यराजस्य +++(→प्रजारक्षणम्)+++
स᳓पितृकस्य +++(→पुत्रोत्पत्ति)+++ स᳓पितृराजस्य +++(यमस्य → सर्वसमत्वं)+++
स᳓गन्धर्वाप्सरस्क᳓स्य +++(→परिचरणकौशलम्, उदात्तद्वयम्?? )+++,
य᳓न् म आत्म᳓न आत्म᳓नि व्रत᳓न्,
ते᳓नाहँ᳓ स᳓र्वव्रतो भूयासम् ।

वरदानम्

गुरवे वरं +++(अग्न्याधाने “गौर्वै वरः”(आप.श्रौ.४११४))+++ दत्त्वा

उत्थापनमन्त्रः

+उदायुषेत्य् उत्थाप्य

+++(कुमारो वदति -)+++

उ᳓द् आ᳓युषा स्वायु᳓षा,
+उ᳓द् ओ᳓षधीनाँ र᳓सेन+,
+उ᳓त् पर्ज᳓न्यस्य शु᳓ष्मेण+++(=बलेन)++++
+उ᳓द् अस्थाम्,
अमृ᳓ताँ+++(=देवान्)+++ अ᳓नु ।

आदित्योपस्थानम्

उत्तरैर् +++(“तच्चक्षुर्देव हितम्”)+++ आदित्यम् उपतिष्ठते १७

+++(सूर्यस्)+++ त᳓च् च᳓क्षुर् देव᳓+++(नि)+++हितं पुर᳓स्ताच् छुक्र᳓+++(द्ध)+++म् उच्च᳓रत् -
प᳓श्येम शर᳓दश् शतं᳓
जी᳓वेम शर᳓दश् शतं᳓
न᳓न्दाम शर᳓दश् शतं᳓
मो᳓दाम शर᳓दश् शतं᳓
भ᳓वाम शर᳓दश् शतँ᳓
शृण᳓वाम शर᳓दश् शतं᳓
प्र᳓ब्रवाम शर᳓दश् शत᳓म्
अ᳓जीताः स्याम शर᳓दश् शतं᳓
ज्यो᳓क्+++(=दीर्घकालं)+++ च सू᳓र्यन् दृशे᳓ ।

११ १८ यङ् कामयेत

यं कामयेत +++(मत्)+++ नायमाच्छिद्येतेति, तम् उत्तरया +++(“यस्मिन् भूतमि"त्येतया)+++ दक्षिणे हस्ते गृह्णीयात् १८

य᳓स्मिन् भूत᳓ञ् च भ᳓व्यञ् च
स᳓र्वे लोका᳓स् समा᳓हिताः ।
ते᳓न गृह्णामि त्वाम् अहं᳓,
म᳓ह्यं गृह्णामि त्वाम् अहं᳓
प्रजा᳓पतिना त्वा म᳓ह्यं गृह्णाम्य् असौ+++(→नामनिर्देशः)+++ ॥

११ १९ त्र्यहमेतमग्निन् धारयन्ति

+++(पित्रादयः)+++ त्र्यहम् एतम् अग्निं धारयन्ति १९

११ २० क्षारलवणवर्जनञ् च

+++(त्र्यहम्)+++ क्षार-लवण-वर्जनं च २०

११ २१ ‘परित्वे’ ति

परि त्वेति परिमृज्य

प᳓रि त्वाऽग्ने प᳓रिमृजाम्य् आ᳓युषा च ध᳓नेन च ।
सुप्रजाः᳓ प्रज᳓या भूयासँ,
सुवी᳓रो वीरै᳓स्, सुव᳓र्चा व᳓र्चसा, सुपो᳓षः पो᳓षैस्, सुगृ᳓हो गृहै᳓स्, सुप᳓तिः प᳓त्या+++(→आचार्येण)+++, सुमेधा᳓ मेध᳓या, सुब्र᳓ह्मा +++(स)+++ब्रह्मचारि᳓भिः ।

समिदाधानम्

तस्मिन्न् उत्तरैर् मन्त्रैस् +++(“अग्नये समिध"मित्यादिभिः द्वादशभिः प्रतिमन्त्रं)+++ समिध आदध्यात् २१

अग्न᳓ये समि᳓धम् आ᳓हार्षं
बृहते᳓ जात᳓-वेदसे ।
य᳓था त्व᳓म् अग्ने समि᳓धा समिध्य᳓स,
एवं᳓ मा᳓म् आ᳓युषा व᳓र्चसा सन्या᳓ +++(=लाभेन)+++
मेध᳓या प्रज᳓या पशु᳓भिर् ब्रह्मवर्चसे᳓नान्ना᳓द्येन+++(=अन्नादनेन)+++
स᳓मेधय स्वा᳓हा ।

+++(हे समित्, अग्नेर्)+++ ए᳓धो+++(←इन्धी दीप्तौ)+++ ऽस्य्,
एधिषीम᳓हि स्वा᳓हा ।

समि᳓द् असि,
समेधिषीम᳓हि +++(अग्निं)+++ स्वा᳓हा ।

ते᳓जो ऽसि,
ते᳓जो म᳓यि धेहि स्वा᳓हा ।+++(५)+++

अ᳓पो+++(=कर्म)+++ अद्य᳓ +अ᳓न्वचारिषँ
+++(श्रद्धा)+++र᳓सेन स᳓मसृक्ष्महि+++(=संसृष्टो भवेयम्। समगन्महीति शाकले)+++ ।
प᳓यस्वाँ+++(→हविष्मान्)+++ अग्न आ᳓गमन्
तं᳓ मा सँ᳓सृज व᳓र्चसा स्वा᳓हा ।

सं᳓ माऽग्ने व᳓र्चसा सृज
प्रज᳓या च ध᳓नेन च स्वा᳓हा ।

विद्यु᳓न्+++(र्)+++ मे अस्य देवा᳓
इ᳓न्द्रो विद्या᳓त् सह᳓र्षिभिः स्वा᳓हा ।+++(५)+++

अग्न᳓ये बृहते᳓ ना᳓काय स्वा᳓हा ।
+++(दिविनाको नामाग्निः इति ब्राह्मणम् ।)+++

द्या᳓वापृथिवी᳓भ्याँ स्वा᳓हा ।

एषा᳓ ते अग्ने समि᳓त्,
त᳓या व᳓र्धस्व चा᳓प्यायस्व च,
त᳓याऽहं᳓ व᳓र्धमानो भूयासम्, आप्या᳓यमानश्च स्वा᳓हा ।

यो᳓ माऽग्ने भागि᳓नँ सन्त᳓म्
अ᳓थाभाग᳓ञ् चि᳓कीर्षति ।
अभाग᳓म्+++(←“नञ्सुभ्याम्”)+++ अग्ने तं᳓ कुरु
मा᳓म् अग्ने भागि᳓नं कुरु स्वा᳓हा ।+++(५)+++

समि᳓धम् आधा᳓याग्ने
स᳓र्वव्रतो भूयासँ स्वा᳓हा ।

११ २२ एवमन्यस्मिन्नपि

एवम् अन्यस्मिन्न् अपि +++(अग्नौ, तस्मिन्न् एव वा धार्यमाणे -)+++ सदा ऽरण्याद् +++(न ग्राम्यात् फलवतः)+++ एधान् आहृत्य +++(समिदाधानं कुर्यात्)+++२२ +++(नात्र पलाशनियमः!)+++

११ २३ उत्तरया सँशास्ति

उत्तरया +++(“ब्रह्मचार्यसी"त्येतया)+++ सँशास्ति २३ +++(बाढमिति प्रतिवचनम् ।)+++

ब्रह्मचार्य् अ᳙सि।
(वटुः - बाढ᳓म्।)

अ᳓पोऽशान +++(नानिवेदितम् अन्नम्)+++।
(वटुः - बाढ᳓म्।)

क᳓र्म कुरु।
(वटुः - बाढ᳓म्।)

मा᳓ सु᳓षुप्थाः।
+++(अथ यः पूर्वोत्थायी जघन्यसंवेशी तमाहुर्न स्वपितीति एवंविधो वा स्वापाभावः ।)+++
(वटुः - बाढ᳓म्।)

भिक्षाचर्य᳙ञ् चर। (वटुः - बाढ᳓म्।)

आचार्याधीनो᳓ भव ।
(वटुः - बाढ᳓म्।)

११ २४ वासश्चतुर्थीमुत्तरयादत्तेऽन्यत्परिधाप्य

+++(त्र्यहं मन्त्रवत्-परिहितमेव)+++ वासश् चतुर्थीम्+++(चतुर्थाहोरात्रे अहन्येव)+++ उत्तरया +++(“यस्य ते प्रथमवास्य"मित्येतया)+++ ऽऽदत्ते +++(=स्वीकरोति)+++

य᳓स्य ते प्रथमवास्यँ᳙+++(=प्रथमाच्छादितं)+++ ह᳓रामस्
तं᳓ त्वा वि᳓श्वे अवन्तु देवाः᳓ ।
त᳓न् त्वा भ्रा᳓तरस् सुवृ᳓धो व᳓र्धमानम्
अ᳓नु जायन्तां बह᳓वस् सु᳓जातम् ॥

ऽन्यत् परिधाप्य २४


  1. 10, 6, 7. The difference which Haradatta makes between the teacher who begins to shave him (pravapati) and the barber who goes on with shaving (vapantam) seems too artificial. ↩︎ ↩︎

  2. Haradatta: The teacher addresses the barber, &c. - Sudarśanārya: The mother of the boy or a Brahmacārin [comp. Sūtra 8] . . . addresses the teacher who shaves him. ↩︎ ↩︎

  3. Comp. above, II, 4, 3. ↩︎ ↩︎

  4. Comp. Āpast. Dharma-sūtra I, I, 2, 33; I, 3, 3 seq. ↩︎

  5. As to the words, ‘he initiates him’ (upanayati), comp. Śāṅkhāyana II, 2, 11. 12; Āśvalāyana I, 20, 4 &c. ↩︎