०४ विवाहप्रकरणम्

०४ ०१ सुहृदस्समवेतान् मन्त्रवतो

सुहृदस् समवेतान् मन्त्रवतो ऽवरान् +++(वरः)+++ प्रहिणुयात् १

०४ ०२ तानादितो द्वाभ्यामभिमन्त्रयेत

तानादितो द्वाभ्यामभिमन्त्रयेत २ +++(कृतप्राणायामोऽवरान् प्रेषयिष्येऽइति सङ्कल्प्य, “प्रसुग्मन्ते"ति द्वाभ्यां वरानभिमन्त्र्य, “यूयममुष्मात्कुलात्मह्यं कन्यां वृणीध्वम्” इति प्रेषयेत् । ततस्ते दुहितृमतो गृहं गत्वा, कन्यां दत्तसगोत्रत्वादिदोषरहितां बन्ध्वादिगुणसम्पन्नां च यत्नतोऽवधार्य, दुहितृमन्तं पित्रीदिकं “गौतमगोत्राय विष्णुशर्मणे वराय भवदीयां कन्यां प्रजासहत्वकर्मभ्यो वृणीमहे"इति ब्रूयुः । ततस्स पित्रादिर् “दास्यामी"ति प्रतिब्रूयात् । ततस्ते प्रत्येत्य, “सिद्धार्ता वय"मिति वरायावेदयेयुः । एतच्च वरप्रेषणाद्यासुरार्षयोरेव, नान्येषु अर्थलोपात् ।)+++

+++(हे सुहृदः)+++

प्र॒सु॒ग्मन्ता॑+++(=प्रकर्षेण सुष्ठु गन्तारः)+++ धि॒यसा॒नस्य॑+++(=ध्यायमानस्य)+++ स॒क्षणि॑+++(=समाने क्षणे)+++
व॒रेभि॑र्+++(=श्रेष्ठैः [पथिभिः])+++ व॒राँ+++(=वरयितव्यान् [कन्यायाः पित्रादीन्])+++ अ॒भि षु॒ प्रसी॑दत+++(=प्रगच्छत)+++ ।
अ॒स्माक॒म्+++(=कन्याया मम च, अस्मदो द्वयोश्च इति बहुवचनम्)+++ इन्द्र॑ उ॒भयं॑ जुजोषति॒
यत् +++(यज्ञेषु)+++ सौ॒म्यस्यान्ध॑सो॒ बुबो॑धति ।

अनृक्षरा᳓+++(=कंटकशर्करादिरहिताः)+++ ऋज᳓वस् सन्तु प᳓न्था
ये᳓भिस् स᳓खायो य᳓न्ति नो वरेय᳓म्+++(=वरणीयं [कन्यायाः पित्रादिकं प्रति])+++ ।
स᳓म् अर्यमा᳓ सं᳓ भ᳓गो नो+++(=आवाम्, अस्मदो द्वयोश्च इति बहुवचनम्)+++ निनीयात्
स᳓ञ् जास्पत्यँ᳓+++(=जायापतिभावः)+++ सुय᳓मम् अस्तु देवाः ।+++(र५)+++

०४ ०३ स्वयन् दृष्ट्वा

स्वयं दृष्ट्वा +++(दृष्ट्वैव चक्षुषी उपसंहरति)+++ तृतीयां +++(=अभ्रातृघ्नीमित्येताम्)+++ जपेत् ३

अभ्रा॑तृघ्नीं॒ वरु॒णा-
ऽप॑तिघ्नीं बृहस्पते ।
इन्द्राऽपु॑त्रघ्नीं ल॒क्ष्म्य॑न्,
ताम् अ॒स्यै स॑वितस् सुव ।+++(र५)+++

०४ ०४ चतुर्थ्या समीक्षेत

चतुर्थ्या +++(=अघोरचक्षुरित्येषा)+++ समीक्षेत ४

अघो॑र-चक्षु॒र् अप॑तिघ्न्य् एधि
शि॒वा प॒तिभ्य॑स् सु॒मना॑स् सु॒वर्चाः॑ ।
जी॒व॒सूर् दे॒वका॑मा स्यो॒ना+++(=प्रशस्ता)+++
शन्नो॑ भव द्वि॒पदे॒ शञ्चतु॑ष्पदे ।+++(र५)+++

०४ ०५ अङ्गुष्ठेनोपमध्यमया चाङ्गुल्या

अङ्गुष्ठेनोपमध्यमया चाङ्गुल्या दर्भं संगृह्योत्तरेण यजुषा +++(=इदमहमित्यनेन)+++ तस्या भ्रुवोरन्तरँ संमृज्य, प्रतीचीनं +++(प्रत्यग्गतम् उपर्युपरि शिरो )+++ निरस्येत् ५

+++(अङ्गुष्ठेनोपमध्यमया चाङ्गुल्या दर्भं संगृह्योत्तरेण यजुषा भ्रुवोरन्तरं संमृज्य प्रतीचीनं निरस्येत्।)+++

इ॒दम् अ॒हय्ँ या त्वयि॑ पति॒घ्न्य् अ॑ल॒क्ष्मिस्, तां निर्दि॑शामि ।+++(र५)+++

०४ ०६ प्राप्ते निमित्त

प्राप्ते निमित्त +++(=वध्वा स्वबन्धूनां च रोदनं)+++ उत्तरां जपेत् +++(“जीवारुदन्ती”)+++ ६ +++(निमित्तावृत्तौ मन्त्र आवर्तते ।)+++

+++(कन्याया एव रोदन इत्याश्वलायनः । यथाह - जीवां रुदन्तीति रुदत्याम् इति ।)+++

+++(हर्षस्थाने)+++ जी॒वाँ रु॑दन्ति॒ वि+++(नि)+++म॑यन्ते अद्ध्व॒रे
दी॒र्घाम् अनु॒ +++(भाव)+++प्रसि॑तिं+++(=बन्धं)+++ दीधियु॒र्+++(=ध्यायन्तु)+++ नरः॑+++(बहुवचनम्)+++ ।
वा॒मं पि॒तृभ्यो॒ य इ॒दँ स॑मेरि॒रे+++(=प्रवर्तयन्ति)+++
मयः॒+++(=सुखदं)+++ पति॑भ्यो॒, जन॑यः+++(=जन्याः [वध्वाः])+++ परि॒ष्वजे॑ ।

०४ ०७ युग्मान् समवेतान्

युग्मान् समवेतान् मन्त्रवत उत्तरया +++(=व्युक्षत्क्रूर…)+++ ऽद्भ्यः +++(स्नानार्थजलाहरणार्थं)+++ प्रहिणुयात् ॥

व्यु॑क्षत्+++(=अपगच्छेत्)+++ +++(यदपां)+++ क्रू॒रम्,
उद॑च॒न्त्व्+++(=उद्गच्छन्तु)+++ आप॒,
आऽस्यै ब्रा॑ह्म॒णास् स्नप॑नँ हरन्तु ।
अ-वी॑र-घ्नी॒र्+++(!)+++ उद् अ॑च॒न्त्व् आपः॑ ।

०४ ०८ उत्तरेण यजुषा

उत्तरेण यजुषा +++(=अर्यम्णो अग्निं)+++ तस्याश्शिरसि दर्भेण्वं +++(=दर्भैः परिकल्पितमिण्वं निगलाकृतिं परिमण्डलाकारम् रोमककिरीटम् इव)+++ निधाय,

अ॒र्य॒म्णो +++(प्रसादात्)+++ अ॒ग्निं परि॑यन्तु क्षि॒प्रं
प्रती॑क्षन्ताँ॒ श्वश्र्वो॑ दे॒वरा॑श् च ।

तस्मिन्नुत्तरया +++(=खेऽनस)+++ दक्षिणं युगच्छिद्रं प्रतिष्ठाप्य,

+++(तस्मिन्निण्वे दक्षिणं युगच्छिद्रं प्रतिष्ठापयति )+++

खे+++(=छिन्द्रावकाशे)+++ ऽनसः॒+++(=शकटस्य)+++ खे रथः॒+++(थस्य)+++ खे युग॑स्य +++(अपो निस्सार्य प्रसन्न)+++ शचीपते ।
अ॒पा॒लाम् इ॑न्द्र॒ त्रिः पू॒त्व्य्॑ अकर॒त् सूर्य॑वर्चसम् ।+++(र५)+++

(अत्रेतिहासमाचक्षते - अपाला नाम काचित् कन्या श्वित्रिणी +++(=श्वेतकुष्टवती)+++ । तां न कश्चिदुपयेमे । तस्याश्च मनसि कामः सदा बभूव, कथमहं इन्द्रं यजे इति । सा कदाचित् स्नानार्थं नद्याम् अवतीर्णा स्रोतसा ह्रियमाणा, तम् एव कामं मनसि दधाना, स्रोतसा ऽपनीतं सोमम् अपश्यत् । तं दन्तैः पिष्ट्वा तद्रसं इन्द्राय उपाहरत् । तम् इन्द्रः पीत्वा रथस्यानसो+++(=शकटस्य)+++ युगस्येति त्रयाणां छिद्रेषु अपो निस्सार्य, ताभिः तां त्रिः पूर्त्वा सूर्यवर्चसम् अकरोत् । तदेतत् “कन्या वारवायती” (ऋग्वेदे) इत्यस्मिन् वर्गे द्रष्टव्यम् । रथ इति षष्ठ्यर्थे प्रथमा । रथादीनां खेषु छिद्रेषु, अपो निस्सार्य त्रिः पूर्त्वी । छान्दसो रेफोपजनः । पूत्वा शोधयित्वा हे शचीपते हे इन्द्र । त्वं अपालां नाम कन्यां सूर्यवर्चसं अकरत् अकरोः । पुरुषव्यत्ययश्छान्दसः । तथैव एनामपि कुर्वित्यर्थः ॥ )

छिद्रे सुवर्णमुत्तरया +++(=शं ते हिरण्यम्)+++ ऽन्तर्धाय,

+++(युगच्छिद्रे सुवर्णनिधानम् - )+++
शन् ते॒ +++(छिद्रे निधीयमानं)+++ हिर॑ण्यँ॒ शम् उ॑ स॒न्त्व् आप॒श्
शन् ते॑ मे॒धी+++(=खलेवाली, खले धान्यपेषणस्थाने वाल्यन्ते वृषा इति - अत्र युगः)+++ भ॑वतु॒, शय्ँ यु॒गस्य॒ तृद्म॑+++(=छिद्रम्)+++ ।
शन् त॒ आप॑श् श॒त-प॑वित्रा भव॒न्त्व्
अथा॒ पत्या॑ त॒न्वँ॑ सँसृ॑जस्व ।। (1)

स्नानम्

उत्तराभिः पञ्चभिस् +++(=हिरण्यवर्णा)+++ स्नापयित्वा,

हिर॑ण्य-वर्णा॒श् शुच॑यः पाव॒काः
प्रच॑क्रमुर् ‌हि॒त्वा ऽव॒द्यम् आपः॑ ।
श॒तं प॒वित्रा॒ वित॑ता॒ ह्य् आ॑सु॒ +++(अप्सु)+++
ताभि॑ष् ट्वा दे॒वस् स॑वि॒ता पु॑नातु ।+++(र५)+++

हिर॑ण्य-वर्णा॒श् शुच॑यः पाव॒का
यासु॑ जा॒तः क॒श्यपो॒ यास्व् अ॒ग्निः ।
या अ॒ग्निं गर्भं॑ दधि॒रे सु॒वर्णा॒स्
तास् त॒ आप॒श् शँ स्यो॒ना +++(=सुखा)+++ भ॑वन्तु ।+++(५)+++

यासाँ॒ राजा॒ वरु॑णो॒ याति॒ मद्ध्ये॑
सत्यानृ॒ते अ॑व॒पश्य॒ञ् जना॑नाम् ।
या अ॒ग्निं गर्भं॑ दधि॒रे सु॒वर्णा॒स्
तास् त॒ आप॒श् शँ स्यो॒ना भ॑वन्तु ।+++(५)+++

यासां॑ दे॒वा दि॒वि कृ॒ण्वन्ति॑ भ॒क्षं या अ॒न्तरि॑क्षे बहु॒धा भ॑वन्ति।
या अ॒ग्निं गर्भं॑ दधि॒रे सु॒वर्णा॒स्ता न॒ आपः॒ शं स्यो॒ना भ॑वन्तु ॥

शि॒वेन॑ +++(यजमान!)+++ त्वा॒ चक्षु॑षा पश्यन्त्व् +++(हे)+++ आपश्!
शि॒वया॑ त॒न्वा+उ॒प॒स्पृ॒श॒न्तु॒ त्वच॑न् ते ।
घृ॒त॒श्-चुत॒श्+++(=दुहन्त्यः)+++ शुच॑यो॒ याः पा॑व॒कास्
तास् त॒ आप॒श् शँ स्यो॒ना भ॑वन्तु ।+++(५)+++

विश्वास-टिप्पनी

अथर्ववेदे - “शि॒वेन॑। मा॒। चक्षु॑षा। प॒श्य॒त॒। आ॒पः॒। शि॒वया॑। त॒न्वा। उप॑। स्पृ॒श॒त॒। त्वच॑म्। मे॒। " त्वत्कारप्रयोगम् अत्र घटयितुं तर्हि कठिनम् एव।
My guess is that some ancient ritualist copied over the AtharvaNa mantra and modified it without fixing the svara appropriately, leaving later commentators to either ignore the svara-error or multi-sambodhana error.

अहतस्य वाससः परिधानम्

उत्तरया +++(=परि त्वा गिर्वणो गिरः)+++ ऽहतेन वाससाच्छाद्य,

प᳓रि त्वा गिर्-वणो+++(=सम्भक्तः)+++
गि᳓र इमा᳓ भवन्तु विश्व᳓तः ।
वृद्धा᳓युम्+++(=वृद्धगम्)+++ अ᳓नु वृ᳓द्धयो,
+++(त्वया)+++ जु᳓ष्टा भवन्तु जु᳓ष्टयः ।+++(र४)+++

योक्त्रबन्धनम्

उत्तरया +++(=आशासाना सौमनसम्)+++ योक्त्रेण सन्नह्यति ८

आ॒शासा॑ना सौमन॒सं
प्र॒जां सौभा॑ग्यं तनूम्।
अ॒ग्नेर् अनु॑व्रता भू॒त्वा +++(तिष्ठति/ तिष्ठामि)+++,
+++(तां)+++ सं न॑ह्ये सुकृ॒ताय॒ कम् +++(=सुखम् [यथा])+++।

०४ ०९ अथैनामुत्तरया दक्षिणे

अथैनामुत्तरया +++(=पूषात्वेत)+++दक्षिणे हस्ते गृहीत्वाग्निमभ्यानीयापरेणाग्निमुदगग्रं कटमास्तीर्य तस्मिन्नुपविशत+++(ः)+++। उत्तरो वरः ॥

पूषा᳓ त्वा᳓+इतो᳓ नयतु ह᳓स्त-गृ᳓ह्या
ऽश्वि᳓नौ त्वा प्र᳓वहताँ र᳓थेन ।
+++(मदीयान्)+++ गृहा᳓न् गच्छ गृह᳓पत्नी
य᳓था᳓ ऽसो+++(=स्या)+++ वशि᳓नी त्वं᳓ विद᳓थम्+++(=यज्ञं)+++ आ᳓वदासि+++(=आवद)+++ ।। (2)

०४ १० अग्नेर्

अग्नेरुपसमाधानाद्याज्यभागान्ते +++(उत्थाय)+++ ऽथैनाम् +++(तृतीयस्यानुवाकस्य)+++ आदितो द्वाभ्याम् +++(=सोमः प्रथम)+++ अभिमन्त्रयेत ॥

सो᳓मः प्रथमो᳓ विविदे +++(लेभे)+++
गन्धर्वो᳓ विविद उ᳓त्तरः ।
तृती᳓यो अग्नि᳓ष् टे प᳓तिस्
तुरी᳓यस्ते मनुष्यजाः᳓ ।+++(र५)+++

+++(स्त्रीमनस् तादृशम् - आदाव् अन्नं, ततः कामकलाः, ततो हि धर्मः, ततः पतिः।)+++

सो᳓मो ददद् गन्धर्वा᳓य
गन्धर्वो᳓ ददद् अग्न᳓ये
रयिं᳓ च पुत्रां᳓श् च अदाद्
अग्नि᳓र् म᳓ह्यम् अ᳓थो इमा᳓म्

०४ ११ अथास्यै दक्षिणेन

अथास्यै +++(=अस्याः)+++ दक्षिणेन नीचा +++(=न्यग्भूतेन)+++ हस्तेन दक्षिणमुत्तानं हस्तं गृह्णीयात्।

०४ १२ यदि कामयेत

यदि कामयेत स्त्रीरेव जनयेयमित्यङ्गुलीरेव गृह्णीयात् ॥

०४ १३ यदि कामयेत

यदि कामयेत पुंस एव जनयेयमित्यङ्गुष्ठमेव सोऽभीवाङ्गुष्ठमभीव लोमानि +++(=यथा वरस्याङ्गुष्ठलोमानि सर्वाण्येवोपरि भवन्ति तथा)+++ गृह्णाति ॥

०४ १४ गृभ्णामि त

गृभ्णामि त इत्येताभिश्चतसृभिः ॥

गृभ्णा᳓+++(ह्णा)+++मि ते सुप्रजास्त्वा᳓य ह᳓स्तं
म᳓या प᳓त्या जर᳓दष्टिर् य᳓था᳓ ऽसः ।
भ᳓गो अर्यमा᳓ सविता᳓ पु᳓रन्धिर् +++(=बहुप्रज्ञा बहुकर्मा वा)+++
म᳓ह्यन् त्वा ऽदुर् गा᳓र्हपत्याय+++(=गार्हस्थ्याय)+++ देवाः ।+++(र५)+++

ते +++(भगादयः)+++ ह॒ पूर्वे॒ जना॑सो॒
यत्र॑ +++(गार्हस्थ्ये)+++ पूर्व॒-वहो॑+++(=पूर्वविवाहकृतः)+++ हि॒ताः ।
मू॒र्द्ध॒न्वान्+++(=प्राधान्यवान् [अग्निः])+++ यत्र॑ सौभ्र॒वः +++(=सुभ्रुवा अदितेः पुत्रः)+++
पूर्वो॑ दे॒वेभ्य॒ आऽत॑पत् ।

सर॑स्वति॒ प्रेदम् अ॑व॒
सुभ॑गे॒ वाजि॑नी+++(=अन्नक्रिया/स्तुति)+++वति ।
तां त्वा॒ विश्व॑स्य
भू॒तस्य॑ प्र॒-गाया॑मस्य् +++(“इदन्तो मसि”)+++ अग्र॒तः ।

य एति॑ प्र॒दिश॒स् सर्वा॒
दिशोऽनु॒ पव॑मानः ।
हिर॑ण्यहस्त ऐर॒म्मस्+++(=अग्निः)+++
+++(इरा अन्नं तां मिमीते करोतीतीरंमः अग्निः)+++
स त्वा॒ मन्म॑नसं+++(!)+++ कृणोतु ।

०४ १५ अथैनामुत्तेरणाग्निन् दक्षिणेन

अथैनामुत्तेरणाग्निं - दक्षिणेन पदा प्राचीमुदीचीं वा दिशमभि प्रक्रमयत्य् “एकमिष” इति ॥

एक॑म् - इ॒षे+++(=अन्नाय)+++ विष्णु॒स्त्वाऽन्वे॑तु ।+++(५)+++
द्वे - ऊ॒र्जे+++(=बलाय)+++ विष्णु॒स्त्वाऽन्वे॑तु ।
त्रीणि॑ - व्र॒ताय॒ विष्णु॒स्त्वाऽन्वे॑तु ।
च॒त्वारि॒ - मायो॑+++(=सुख)+++भवाय॒ विष्णु॒स्त्वाऽन्वे॑तु ।
पञ्च॑ - प॒शुभ्यो॒ विष्णु॒स्त्वाऽन्वे॑तु ।
षड् - रा॒यस्पोषा॑य॒ विष्णु॒स्त्वाऽन्वे॑तु ।
स॒प्त - +++(यज्ञेषु)+++ स॒प्तभ्यो॒ होत्रा॑भ्यो॒ विष्णु॒स्त्वाऽन्वे॑तु ।
+++(होता प्रशास्ता ब्राह्मणाच्छंसी पोता नेष्टाच्छावाक आग्नीध्र इत्येतास्सप्त होत्राः)+++
सखा॑यस् स॒प्तप॑दा अभूम ।
स॒ख्यन्ते॑ गमेयम् ।

०४ १६ सखेति सप्तमे

सखेति सप्तमे पदे जपति ॥

सखा॑ +++(हे)+++ स॒प्तप॑दा भव॒।
सखा॑यौ स॒प्तप॑दा बभूव+++(=बभूविव)+++।
स॒ख्यन्ते॑ गमेयँ।
स॒ख्यात् ते॒ मा यो॑षँ+++(=पृथकृतो मा भूवं)+++।
स॒ख्यान् मे॒ मा यो॑ष्ठा॒स्,
सम॑याव॒, सङ्क॑ल्पावहै॒, सं प्रि॑यौ रोचि॒ष्णू+++(=दीप्यमानौ)+++ सु॑मन॒स्यमा॑नौ+++(=सुमनायमानौ)+++ ।
इष॒म् ऊर्ज॑म् अ॒भि सं॒वसा॑नौ॒
सन्नौ॒ मनाँ॑सि॒ सं व्र॒ता समु॑ चि॒त्तान्याक॑रम् ।

सा +++(ऋक्)+++ त्वम् अ॒स्य् अमू॒+++(=साम)+++ ऽहम्, अमू॒हम् अ॑स्मि॒। +++(५)+++
+++(सैव नाम ऋगासीदमो नाम साम इति बह्वृचब्राह्मणदर्शनात् । बह्वृचानां तु अमोहम् इति एव पाठः ।)+++
सा त्वं द्यौर् अ॒हं पृ॑थि॒वी।
त्वँ रेतो॒ ऽहँ रे॑तो॒भृत्।
त्वं मनो॒ ऽहम॑स्मि॒ वाक्।
त्वँ सामा॒हम॒स्म्यृ॑क्।

त्वँ॒ सा माम् अनु॑व्रता भव।
पुँ॒से पु॒त्राय॒ वेत्त॑वै+++(=लाभाय)+++,
श्रि॒यै पु॒त्राय॒ वेत्त॑वा॒,
एहि॑ सूनृते+++(=प्रियवाग्वति)+++ ।। (3)

०५ ०१ प्राग्घोमात् प्रदक्षिणमग्निम्

प्राग्घोमात् प्रदक्षिणमग्निं कृत्वा, यथास्थानम् उपविश्यान्वारब्धायाम् उत्तरा +++(१६)+++ आहुतीर् जुहोति - “सोमाय जनिविदे स्वाहे"त्येतैः प्रतिमन्त्रम् ॥

षोडश प्रधानाहुतिमन्त्राः

मन्त्रः

सोमा॑य जनि॒+++(=जाया)+++विदे॒ स्वाहा॑ ।
ग॒न्ध॒र्वाय॑ जनि॒विदे॒ स्वाहा॑ ।
अ॒ग्नये॑ जनि॒विदे॒ स्वाहा॑ ।

क॒न्य॒ला+++(=कन्यैव, लशब्द उपजनः)+++ पि॒तृभ्यो॑ य॒ती+++(=गच्छन्ती)+++ प॑तिलो॒कम्
अव॑+++(उपसर्गः)+++ +++(कन्या)+++दी॒क्षाम् अ॑दास्थ॒+++(=अवक्षपितवती त्यक्तवती)+++ स्वाहा॑ ।
+++(दीङ् क्षये। तकारस्य थकारः छान्दसः)+++

प्रेतो मु॒ञ्चाति॒, नाऽमुत॑स्+++(=पतिलोकात्)+++
सुब॒द्धाम् अ॒मुत॑स् करत्+++(=कुरु)+++ ।
यथे॒यम् इ॑न्द्र मीढ्वस्+++(=वर्षक इन्द्र)+++
सुपु॒त्रा सु॒भगा ऽस॑ति+++(=स्यात्)+++ ।+++(र५)+++

इ॒मान् त्वम् इ॑न्द्र मीढ्वस्+++(=वर्षक इन्द्र)+++
सुपु॒त्राँ सु॒भगां॑ कुरु ।
दशा॑ऽस्यां पु॒त्रान् आ धे॑हि॒
पति॑म् एकाद॒शं कृ॑धि ।+++(५)+++

अ॒ग्निर् ऐ॑तु प्रथ॒मो दे॒वता॑नाँ॒
सो॑ऽस्यै प्र॒जां मु॑ञ्चतु मृत्युपा॒शात् ।
तद॒यँ राजा॒ वरु॒णो ऽनु॑मन्यतां॒
यथे॒यँ स्त्री पौत्र॑म् अ॒घन्+++(=पापजं व्यसनम्)+++ न रोदा॑त् ।+++(र५)+++

इ॒माम् अ॒ग्निस् त्रा॑यतां॒ गार्ह॑पत्यः
प्र॒जाम् अ॑स्यै नयतु दी॒र्घम् आयुः॑ ।
अशू॑न्योपस्था॒+++(!)+++, जीव॑ताम् अस्तु मा॒ता
पौत्र॑मान॒न्दम् अ॒भि प्रबु॑द्ध्यताम् इ॒यम् ।+++(५)+++

मा ते॑ गृ॒हे नि॒शि +++(रोदन)+++घोष॒ उत्था॑द्
अ॒न्यत्र॒ त्वद्+++(=त्वत्तः)+++ रु॑द॒त्य॑स् सव्ँ वि॑शन्तु ।
मा त्वं वि॑के॒श्य् उर॒ आवधि॑ष्ठा+++(=आताडयेः)+++ जी॒वप॑त्नी
पतिलो॒के विरा॑ज॒ पश्य॑न्ती प्र॒जाँ सु॑मन॒स्यमा॑नाम् ।+++(५)+++

द्यौस्ते॑ पृ॒ष्ठँ र॑क्षतु
वा॒युर् ऊ॒रू
अ॒श्विनौ॑ च॒ स्तन॒न्
+++(स्तनं)+++ धय॑न्तँ+++(=चूसन्तम्)+++ सवि॒ताऽभि र॑क्षतु ।+++(५)+++
आ वास॑सः परि॒धाना॒द् +++(परि॑ त्वा गिर्-वणो॒ इत्यादिना)+++ बृह॒स्पति॒र्,
विश्वे॑ दे॒वा अ॒भिर॑क्षन्तु प॒श्चात् ।

अ॒प्र॒ज॒स्तां पौ॑त्र मृ॒त्युं
पा॒प्मान॑म् उ॒त वा॒ ऽघम् ।
शी॒र्ष्णस् स्रज॑म् इवो॒न्मुच्य॑
द्वि॒षद्भ्यः॒ प्रति॑मुञ्चामि॒ पाश॑म् । +++(५)+++

इमं᳓ मे वरुण श्रुधी +++(=श्रुणु)+++
ह᳓वम्+++(=आह्वानम्)+++ अद्या᳓ च मृळय +++(=सुखय)+++।
त्वा᳓म् अवस्यु᳓र् आ᳓ चके +++(=अवदन्)+++॥

त᳓त् त्वा यामि ब्र᳓ह्मणा व᳓न्दमानस्
त᳓द् आ᳓ शास्ते य᳓जमानो हवि᳓र्भिः ।
अ᳓हेळमानो +++(=अक्रुध्यन्)+++ वरुणेह᳓ बोध्य् उ᳓रुशंस
मा᳓ न आ᳓युः प्र᳓ मोषीः

१४ त्वन्नो अग्ने …{Loading}…

त्व᳓न् नो अग्ने व᳓रुणस्य विद्वा᳓न्
देव᳓स्य हे᳓डो᳓+++(=क्रोधो )+++ ऽव यासिसीष्ठाः+++(=यक्षीष्ठाः)+++ ।
य᳓जिष्ठो +++(हविर्)+++व᳓ह्नितमश् शो᳓शुचानो+++(=देदीप्यमानः)+++
वि᳓श्वा द्वे᳓षाँसि प्र᳓ मुमुग्ध्य् अस्म᳓त् ।

+++(अग्नीवरुणाभ्याम् इदं न मम)+++

स᳓ त्व᳓न् नो अग्ने ऽवमो᳓+++(=मूलभूतो)+++ भव+ऊती᳓+++(त्या)+++
+++(“अग्निरवमो देवतानां विष्णुः परमः” इति ब्राह्मणम्)+++
ने᳓दिष्ठो+++(=अन्तिकतमो)+++ अस्या᳓ उष᳓सो व्यु᳙ष्टौ+++(=व्युष्टायाम्)+++ ।
अ᳓व यक्ष्व नो व᳓रुणँ, र᳓राणो
वीहि᳓+++(=खाद)+++ मृडीकँ᳓+++(=सुखयितारं [हविः])+++ सुह᳓वो न एधि

+++(अग्नीवरुणाभ्याम् इदं न मम)+++

त्वम् अ॑ग्ने अ॒या+++(=एतव्यः/ प्रत्येता)+++ ऽस्य्
अ॒या सन् मन॑सा हि॒तः
अ॒या सन् ह॒व्यम् ऊ॑हिषे॒
ऽया नो॑ धेहि भेष॒जम् ॥ (4)

०५ ०२ अथैनामुत्तरेणाग्निन् दक्षिणेन

अथैनाम् उत्तरेणाग्निं दक्षिणेन पदा ऽश्मानम् आस्थापयत्य् आतिष्ठेति ॥

आति॑ष्ठे॒मम् अश्मा॑न॒म्
अश्मे॑व॒ त्वँ स्थि॒रा+++(रो पुंसि)+++ भ॑व ।
अ॒भिति॑ष्ठ पृतन्य॒तस्+++(=पृतनाकामान्)+++
सह॑स्व पृतनाय॒तः+++(=पृतनाकामान्)+++ ।+++(र५)+++

०५ ०३ अथास्या अञ्जलावुपस्तीर्य

अथास्या अञ्जलावुपस्तीर्य, द्विर् लाजानोप्याभिघारयति।

०५ ०४ तस्यास्सोदर्यो

तस्यास्सोदर्यो लाजानावपतीत्येके।

०५ ०५ जुहोतीयन् नारीति

+++(वर एव तस्याः पाणिना)+++ जुहोति “इयं नारी"ति ॥

इ॒यन् ना॒र्य् उप॑ब्रूते॒
कुल्पा॑न्य् +++(=लाजान्)+++ आवपन्ति॒का+++(=आवपन्ती)+++ ।
दी॒र्घा॒युर् अ॑स्तु मे॒ पति॒र्
जीवा॑तु+++(=जीव्यात्)+++ श॒रद॑श्श॒तम् ।+++(र५)+++

०५ ०६ उत्तराभिस्तिसृभिः

उत्तराभिस्तसृभिः +++(=तुभ्यमाग्रे पर्यवहन्नित्यादिभिः)+++ प्रदक्षिणमग्निं कृत्वा ऽऽश्मानमास्थापयति यथा पुरस्तात् ॥ +++(यथा पुरस्तात्)+++

+++(सूर्या नाम सवितुर्दुहिता विवाहस्य अधिष्ठात्री देवता - सूर्यासूक्ते दृश्या।)+++

तु᳓भ्यम् +++(अग्नये)+++ अ᳓ग्रे +++(गन्धर्वाः)+++ प᳓र्यवहन्त्
सूर्यां᳓ वहतु᳓ना सह᳓ ।
पु᳓नः प᳓तिभ्यो जायां᳓ दा᳓+++(ः)+++
अग्ने प्रज᳓या सह᳓ ।+++(र५)+++

पु᳓नः प᳓त्नीम् अग्नि᳓र् अदाद्
आ᳓युषा सह᳓ व᳓र्चसा ।
दीर्घायु᳓र् अस्या यः᳓ प᳓तिस्
स᳓ एतु शर᳓दश् शत᳓म् ॥+++(र५)+++

वि᳓श्वा उत᳓ त्व᳓या वयं᳓
धा᳓रा उदन्या᳙+++(=उदक-सम्बन्धिनीः)+++ इव ।
अ᳓तिगाहेमहि द्वि᳓षः ।+++(५)+++

०५ ०७ होमश्चोत्तरया यथा

होमश्चोत्तरया +++(=अर्यमणं नु देवम्)+++ ॥

अ॒र्य॒मण॒न् नु+++(=क्षिप्रं)+++ दे॒वं क॒न्या॑+++(ः)+++
अ॒ग्निम् +++(च)+++ अयक्षत +++(पतिलाभाय)+++।
स इ॒मां दे॒वो अ॑द्ध्व॒रः+++(=अहिंसितः)+++ प्रेतो मु॒ञ्चाति॒ नाऽमुत॑स्+++(=पतिलोकात्)+++
सुब॒द्धाम् अ॒मुत॑स् करत्+++(=कुरु)+++ ।+++(५)+++

०५ ०८ पुनः परिक्रमणम्

पुनः परिक्रमणम् ॥

०५ ०९ आस्थापनम् पुनरपि

+++(अश्मन)+++ आस्थापनम् ॥

+++(सूर्या नाम सवितुर्दुहिता विवाहस्य अधिष्ठात्री देवता - सूर्यासूक्ते दृश्या।)+++

तु᳓भ्यम् +++(अग्नये)+++ अ᳓ग्रे +++(गन्धर्वाः)+++ प᳓र्यवहन्त्
सूर्यां᳓ वहतु᳓ना सह᳓ ।
पु᳓नः प᳓तिभ्यो जायां᳓ दा᳓+++(ः)+++
अग्ने प्रज᳓या सह᳓ ।+++(र५)+++

पु᳓नः प᳓त्नीम् अग्नि᳓र् अदाद्
आ᳓युषा सह᳓ व᳓र्चसा ।
दीर्घायु᳓र् अस्या यः᳓ प᳓तिस्
स᳓ एतु शर᳓दश् शत᳓म् ॥+++(र५)+++

वि᳓श्वा उत᳓ त्व᳓या वयं᳓
धा᳓रा उदन्या᳙+++(=उदक-सम्बन्धिनीः)+++ इव ।
अ᳓तिगाहेमहि द्वि᳓षः ।+++(५)+++

०५ १० होमश्चोत्तरया उत्तरया

होमश्चोत्तरया +++(=त्वमर्यमा भवसि)+++॥

त्व᳓म् अर्यमा᳓ भवसि य᳓त् कनी᳓+++(न्या)+++नान्
ना᳓म स्वधा᳓+++(=अन्न)+++वत् स्व᳙र्यं+++(र्ग्यं)+++ बिभ᳓र्षि ।
अञ्ज᳓न्ति+++(=सिञ्चन्ति)+++ वृक्षँ᳓ सु᳓धितन्+++(=सुष्ठु निहितं)+++ न᳓ गो᳓भिर्+++(=गोविकारैराज्यादिभिः)+++
य᳓द्द᳓म्पती स᳓+++(मान)+++मनसा+++(सौ)+++ कृणो᳓षि ।

०५ ११ पुनः परिक्रमणम्

पुनः परिक्रमणम् ॥

०५ १२ जयादि प्रतिपद्यते

जयादि प्रतिपद्यते ॥

०५ १३ परिषेचनान्तङ्

+++(=प्र त्वा मुञ्चामीति)+++ योक्त्रं विमुच्य, तां ततः प्र वा वाहयेत् +++(=रथादिभिर्नयनं)+++, प्र वा हारयेत् +++(=मनुष्यवाह्येन शिबिकादिना नयनम्)+++ ॥

प्र त्वा॑ मुञ्चामि॒ वरु॑णस्य॒ पाशा॒द् +++(योक्त्र-विमोकेन)+++
येन॒ त्वा ऽब॑द्ध्नात् सवि॒ता सु॒केतः॑+++(=सुप्रज्ञानो)+++ ।
धा॒तुश् च॒ योनौ॑ सुकृ॒तस्य॑ लो॒के
+++(सुकृतस्य लोको हि धातुर् योनिर् दम्पत्योः कृते।)+++
स्यो॒नन्+++(=सुखं)+++ ते॑ स॒ह पत्या॑ करोमि ।+++(र४)+++

इ॒मं विष्या॑मि॒+++(=विस्रंसयामि)+++ वरु॑णस्य॒ पाशं॒
यम् अब॑द्ध्नीत सवि॒ता सु॒शेवः॑+++(=सुसुखः)+++ ।
धा॒तुश्च॒ योनौ॑ सुकृ॒तस्य॑ लो॒के
+++(सुकृतस्य लोको हि धातुर् योनिर् दम्पत्योः कृते।)+++
ऽरि॑ष्टां+++(=अविनाशिनीम्)+++ त्वा स॒ह पत्या॑ करोमि ।

०५ १४ समोप्यैतमग्निमनुहरन्ति एतम्

+++(उखायाम् = पात्र-विशेषे)+++ समोप्यैतम् अग्निम् अनु-हरन्ति +++(- न पुरस्तात्)+++ ॥

विश्वास-टिप्पनी

“औपासनस्य च गृह्यान्तरेण प्रयाणे विहितं समारोपणं स्यात्” इति सुदर्शनः। बौधायनो विदधाति समित्-समारोपणम्। गृहे ऽप्रयाणे ऽपि धारणाशक्तौ दृश्यते समारोपणम् आचारे।
“अनेन श्रौतवत् समारोपस्य प्रतिषेध” इति तु हरदत्तः।

०५ १५ नित्यः

नित्यः ।

०५ १६ धार्यः एष

धार्यः ॥

०५ १७ अनुगतो मन्थ्यः

अनुगतो मन्थ्यः +++(प्राग्दग्धाङ्गारेभ्यः - साक्षाद्, भस्मनारणी-संस्पृश्य वा)+++ ॥

०५ १८ श्रोत्रियागाराद्वाहार्यः

श्रोत्रियागाराद् वा ऽऽहार्यः +++(पचनाग्निः)+++ ॥

०५ १९ उपवासश्चान्यतरस्य भार्यायाः

उपवासश् चान्यतरस्य भार्यायाः पत्युर्वा ॥

०५ २० अनुगतेऽपि वोत्तरया

अनुगते ऽपि वोत्तरया +++(=अयाश्चाग्ने)+++ जुहुयान् नोपवसेत् +++(- प्रायश्चित्तं त्वत्राप्य् अस्त्य् एव)+++॥

अया᳓श्+++(=एतुम् योग्यः, गमनशीलो वा)+++ चाग्ने᳓ ऽस्य् अनभिशस्ती᳓श्च+++(=अनवद्यः)+++
सत्य᳓म् इ᳓त् त्व᳓म्+++(←स्वरः शोधितः)+++ अया᳓ असि ।
अय᳓सा+++(=प्रतिगन्त्रा←स्वरः शोधितः)+++ म᳓नसा धृतो᳓
अय᳓सा हव्य᳓म् ऊहिषे+++(=वहस्व)+++
अया᳓ नो धेहि भेषज᳓म् ।।+++(५)+++

०५ २१ उत्तरा रथस्योत्तम्भनी

उत्तरा +++(=सत्येनोत्तभितेत्येषा )+++ रथस्योत्तम्भनी ॥

सत्ये᳓नो᳓त्तभिता भू᳓मिस्
सू᳓र्येणो᳓त्तभिता द्यौः᳓ ।
ऋते᳓नाऽऽदित्या᳓स् ति᳓ष्ठन्ति
दिवि᳓ सो᳓मो अ᳓धि श्रितः᳓ ।+++(५)+++

०५ २२ वाहावुत्तराभ्यां युनक्ति

वाहावुत्तराभ्यां +++(=युञ्जन्ति ब्रध्नं)+++ युनक्ति दक्षिणमग्रे ॥

युञ्ज᳓न्ति ब्रद्ध्न᳓म्+++(=महान्तम्)+++ अरुष᳓ञ्+++(=गन्तारं)+++
च᳓रन्तम् प᳓रि तस्थु᳓षः ।
+++(यावद्)+++ रो᳓चन्ते रोचना᳓ दिवि᳓ ।+++(र५)+++

+++(रथादि)+++यो᳓गेयोगे तव᳓स्+++(=गति[वत्])+++तरव्ँ
वा᳓जेवाजे हवामहे ।
+++(वयं स्तोतृत्वेन)+++ स᳓खाय+++(ः)+++ इ᳓न्द्रम् ऊत᳓ये ।+++(५)+++

०५ २३ आरोहतीमुत्तराभिरभिमन्त्रयते अथ

आरोहतीमुत्तराभिरभिमन्त्रयते +++(=“सुकिंशुकमि"त्येवमादिभिः)+++ ॥

सु॒किँ॒शु॒क+++(पुष्प)+++ँ, +++(निर्माणेन)+++ श॑ल्म॒लिं, वि॒श्वरू॑पँ॒,
हिर॑ण्य-वर्णँ, सु॒वृतँ॑, सुच॒क्रम् +++(रथम्)+++। आरो॑ह वध्व् अ॒मृत॑स्य लो॒कँ +++(तत्सङ्केतत्वेन)+++
स्यो॒नं+++(=सुखं)+++ पत्ये॑ वह॒तुं+++(=स्त्रीधनं)+++ कृ॑णुष्व ।+++(४)+++

उदु॑त्त॒रम् आ॒रोह॑न्ती
व्य॒स्यन्ती॑ पृतन्य॒तः+++(=योद्धुकामान्)+++ ।
मू॒र्द्धानं॒ पत्यु॒र् आ रो॑ह
प्र॒जया॑ च वि॒राड् भ॑व ।+++(५)+++

सम्रा᳓ज्ञी श्व᳓शुरे भव
सम्रा᳓ज्ञी श्वश्रुवां᳓ भव ।
न᳓नान्दरि सम्रा᳓ज्ञी भव
सम्रा᳓ज्ञी अ᳓धि देवृ᳓षु ।+++(५)+++

स्नु॒षाणाँ॒ श्वशु॑राणां
प्र॒जाया॑श्च॒ धन॑स्य च ।
पती॑नाञ्च देवॄ॒णाञ्च॑
सजा॒तानां॑ वि॒राड् भ॑व ।+++(५)+++

०५ २४ सूत्रे

+++(द्वे)+++ सूत्रे वर्त्मनोर् +++(=चक्रयोर्)+++ व्यवस्तृणात्त्य् +++(=तिर्यक्स्तृणाति)+++ उत्तरया +++(= नीललोहित इत्येतया)+++ नीलं दक्षिणस्यां लोहितमुत्तरस्याम् ॥

नी॒ल॒लो॒हि॒ते +++(सूत्रे)+++ भ॑वतः
+++(एकतरेण?)+++ +++(कु)+++कृ॒त्या-स॒क्तिर् +++(दूरं)+++ व्य॑ज्यते ।
एध॑न्तेऽस्या ज्ञा॒तयः॒
+++(एकतरेण?)+++ पति॑र् ब॒न्धेषु॑ बद्ध्यते ।

०५ २५ ते उत्तराभिरभियाति

ते ते उत्तराभिर् +++(= ये वध्वश्चन्द्रमित्येताभिः)+++ अभियाति +++(= उपरि गच्छति)+++ ॥


+++(ते सूत्रे उत्तराभिरभियाति)+++

ये᳓ वद्ध्व᳓श् चन्द्रं᳓+++(=आह्लादकं)+++ वहतुं᳓+++(=स्त्रीधनं)+++
य᳓क्ष्मा य᳓न्ति ज᳓नाँ अ᳓नु ।
पु᳓नस् ता᳓न् यज्ञि᳓या देवा᳓
न᳓यन्तु य᳓त आ᳓गताः ।+++(र४)+++

मा᳓ विदन् परिपन्थि᳓नो
य᳓ आसी᳓दन्ति द᳓म्पती ।
सुगे᳓भिर् दुर्ग᳓म् +++(तौ)+++ अ᳓तीताम्
अ᳓प द्रा+++(द्रव)+++न्त्व् अ᳓रातयः ।

सु॒गं पन्था॑न॒म् आरु॑क्ष॒+++(ह)+++म्
अरि॑ष्टँ स्वस्ति॒-वाह॑नम् ।
यस्मि॑न् वी॒रो न रिष्य॑त्य्,
अ॒न्येषां॑ वि॒न्दते॒ वसु॑ ॥ (6)

०५ २६ तीर्थस्थाणुचतुष्पथव्यतिक्रमे

तीर्थ-स्थाणु+++(=गवां कण्डूयनार्थ निखातः स्तम्भः)+++-चतुष्पथव्यतिक्रमे चोत्तरां +++(=ता मन्दसाना)+++ जपेत् ॥

तीर्थादिव्यतिक्रमे जपः

ता᳓+++(=तौ)+++ मन्दसाना᳓+++(=स्तूयमानौ)+++ म᳓नुषो दुरोण᳓+++(=गृहे)+++
आ᳓ धत्तँ᳓ रयिं᳓ दश᳓-वीरं वचस्य᳓वे+++(=वचनवते)+++ ।
कृतं᳓+++(=कुरुतं)+++ तीर्थँ᳓ सु-प्रपाणँ᳓ शुभस्-पती +++(अश्विनौ)+++,
स्थाणुं᳓ पथेष्ठा᳓म् अ᳓प दुर्मतिँ᳓ हतम्

०६ ०१ नावमुत्तरयाऽनुमन्त्रयते अथ

नावम् उत्तरयानुमन्त्रयते +++(=अयं नो मह्याः पारं स्वस्ति)+++ ॥

अ॒यन् नो॑ म॒ह्याः+++(=महत्याः [नद्याः])+++ पा॒रँ
स्व॒स्ति ने॑ष॒द् वन॒स्पतिः॑ ।
सीरा॑+++(=नदि!)+++ नस् सु॒तरा॑ भव
दीर्घायु॒त्वाय॒ वर्च॑से ।

०६ ०२ न च

न च नाव्यांस् +++(=तरयितॄन्)+++ तरती वधूः पश्येत् ॥

०६ ०३ तीर्त्वोत्तराञ् जपेत्

तीर्त्वोत्तरां +++(=अस्य पारः)+++ जपेत् ॥

+++(तीर्त्वा जपः)+++
अ॒स्य॒ +++(नद्यादेः)+++ पा॒रे +++(तीरे)+++ नि॑र्ऋ॒तस्य॑+++(=निस्तरितस्य)+++
जी॒वा ज्योति॑र् अशीमहि
म॒ह्या+++(=महत्यै)+++ इ॑न्द्रस् स्व॒स्तये॑ +++(ऽस्तु)+++।

०६ ०४ श्मशानादिव्यतिक्रमे भाण्डे

श्मशानाधिव्यातिक्रमे भाण्डे रथे वा रिष्टे ऽग्नेरुपसमाधानाद्याज्यभागान्ते ऽन्वारब्धायाम् उत्तरा आहुतीर् +++(= “यदृतेचिद्” इत्याद्यास्सप्त)+++ हुत्वा जयादि प्रतिपद्यते, परिषेचनान्तं करोति ॥

यद् ऋ॒ते-चि॑द् अभि॒श्रि+++(श्लि)+++षः॑
पु॒रा ज॒र्तृ+++(तु)+++भ्य॑ आ॒तृदः॑+++(=दृढीकुर्वन्ति)+++ ।
सन्धा॑ता स॒न्धिं म॒घवा॑ पुरो॒वसु॒र्+++(=बहुधनः)+++,
निष्+++(=संस्)+++क॑र्ता॒ विहृ॑+++(ह्रु)+++तं॒+++(=विनष्टं)+++ पुनः॑ । +++(स्वाहा॑!)+++

इडा॑म्+++(=अन्नम्)+++ अग्ने पुरु॒दँसँ॑+++(=बहुदर्शनीयं)+++
स॒निङ् गोश् श॑श्वत्त॒मँ हव॑म् आनाय साध+++(य)+++ ।
स्यान् न॑स् सू॒+++(सु)+++नुस् तन॑यो+++(=पौत्रः)+++
वि॒जावा+++(विजनक)+++ ऽग्ने॒ सा ते॑ सुम॒तिर् भू॑त्व् अ॒स्मे+++(=स्मासु)+++ ।

इमं᳓ मे वरुण श्रुधी +++(=श्रुणु)+++
ह᳓वम्+++(=आह्वानम्)+++ अद्या᳓ च मृळय +++(=सुखय)+++।
त्वा᳓म् अवस्यु᳓र् आ᳓ चके +++(=अवदन्)+++॥

०६ ०५ क्षीरिणामन्येषां वा

+++(“सकृदेव, न पुनः पुनरित्यर्थः” इति हरदत्तः।)+++ क्षीरिणाम् अन्येषां वा लक्ष्मण्यानां +++(= प्रसिद्धानां सीमावृक्षणामित्यर्थः)+++ वृक्षाणां नदीनां धन्वनां +++(=दीर्घाण्यरण्यानि येषु ग्राम्याः पशवो न निवसन्ति)+++ च व्यतिक्रम उत्तरे +++(=“ये गन्धर्वाः” इति वृक्षाणां व्यतिक्रमे,“या ओषधयः” इति नदीनां धन्वनाम् ।)+++ यथालिङ्गं जपेत्॥

ये ग॑न्ध॒र्वा अ॑प्स॒रस॑श् च दे॒वीर्
ए॒षु वृ॒क्षेषु॑ वानस्प॒त्येष् आस॑ते ।
शि॒वास् ते अ॒स्यै व॒द्ध्वै॑ भवन्तु॒
मा हिँ॑सिषुर् वह॒तुम्+++(=स्त्रीधनम्)+++ ऊ॒ह्यमा॑नाम् ।

नद्याद्यतिक्रमे जपः

या ओष॑धयो॒ या न॒द्यो॑
यानि॒ धन्वा॑नि॒+++(=निर्जलस्थानानि)+++ ये वना॑ ।
ते त्वा॑ वधु प्र॒जाव॑तीं॒
प्र त्वे+++(=त्वां)+++ मु॑ञ्च॒न्त्व् अँह॑सः ।

०६ ०६ गृहानुत्तरया सङ्काशयति

+++(ज्ञातिधनसंयुक्तान् )+++ गृहान् उत्तरया +++(=“सङ्काशयामि” इत्यनया)+++ सङ्काशयति +++(=दर्शयति)+++॥

+++(गृहानुत्तरया संकाशयति, तत्र वहतुः पूर्वं प्रापयितव्यः।)+++

संका॑शयामि+++(=प्रदर्शयामि)+++ वह॒तुं+++(=स्त्रीधनं)+++ ब्रह्म॑णा
गृ॒हैर् +++(सह)+++ अघो॑रेण॒ चक्षु॑षा॒ मैत्रे॑ण ।
+++(आभरणादिकम्)+++ प॒र्या-ण॑द्धं वि॒श्वरू॑पं॒ यद् अ॒स्याँ
स्यो॒नं पति॑भ्यस्+++(=पत्यादिभ्यः)+++ सवि॒ता कृ॑णोतु॒ तत् ।+++(र४)+++

०६ ०७ वाहावुत्तराभ्यां विमुञ्चति

वाहावुत्तराभ्यां +++(“आवामगन्” इति द्वाभ्याम्)+++ विमुञ्चति दक्षिणमग्रे।
+++(वाहौ विमुञ्चति)+++

आ᳓ वाम् अगन्त् सुमति᳓र्, वाजिनी+++(=अश्वी)+++वसू
न्य् +++(हे)+++ अ᳓श्विना, हृत्सु᳓ +++(गृहप्राप्ति)+++का᳓माँ अयँसत+++(=नियती कृताः)+++ ।
अ᳓भूतङ् गोपा᳓ मिथुना᳓ शुभस्पती
प्रिया᳓ अर्यम्णो᳓ दु᳓र्याँ+++(=गृहान्)+++ अशीमहि+++(=प्रविशेम)+++ ।

+++(वाह!)+++ अ॒यन् नो॑ दे॒वस् स॑वि॒ता बृह॒स्पति॑र्
इन्द्रा॒ग्नी मि॒त्रावरु॑णा स्व॒स्तये॑ ।
त्वष्टा॒ विष्णुः॑ प्र॒जया॑ सँररा॒णः+++(=सन्ददानः)+++
काम॒+++(य्)+++ आया॑तं॒ कामा॑य त्वा॒ विमु॑ञ्चतु ॥ (7)

०६ ०८ लोहितञ् चर्मानडुहम्

लोहितं चर्माऽऽनडुहं प्राचीनग्रीवम् उत्तर+++(=ऊर्ध्व)+++लोमम् मध्येऽगारस्योत्तरया +++(=“शर्मा वर्मे"त्येतया)+++ ऽऽस्तीर्य, गृहान् प्रपादयन्न् उत्तरां +++(=“गृहान् भद्रान्”)+++ वाचयति, दक्षिणेन पदा +++(गृहान् प्रपादयन्)+++।


+++(चर्मास्तरणम्)+++

शर्म॒ वर्मे॒दम् आह॑रा॒+
ऽस्यै नार्या॑ उप॒स्तिरे॑+++(=उपस्तरणे)+++ ।
सिनी॑वालि॒+++(=शुक्लप्रथमाकला)+++ प्रजा॑यताम्
इ॒यं भग॑स्य सुम॒ताव् अ॑सत् ।


+++(गृहान् प्रपादयन् वधूं वाचयति)+++

गृ॒हान् भ॒द्रान्त् सु॒मन॑सः॒ प्रप॒द्ये
ऽवी॑रघ्नी वी॒रव॑तस् सु॒वीरान्॑ ।
इरां॒+++(=अन्नं)+++ वह॑तो घृ॒तम् +++(प्र+)+++उ॒क्षमा॑णा॒स्
तेष्व् अ॒हँ सु॒मना॒स् सं वि॑शामि ।+++(र५)+++

०६ ०९ न च

न च देहलीमभि+++(धि)+++तिष्ठति।

०६ १० उत्तरपूर्वे

उत्तरपूर्वे देशे ऽगारस्याग्नेर् उपसमाधानाद्याज्यभागान्ते ऽन्वारब्धायाम् उत्तरा +++(=“आगन्गोष्ठ"मित्याद्याः, लिङ्गविरोधे सत्यपि वर एव जुहोति, विधेर्बलीयस्त्वात् )+++ आहुतीर् हुत्वा जयादि प्रतिपद्यते

आग॑न् गो॒ष्ठं महि॑षी॒ गोभि॒र् अश्वै॒र्
आयु॑ष्मत्पत्नी, प्र॒जया॑ स्व॒र्वित् +++(यतो “नापुत्रस्य लोकोस्ति”)+++।
ब॒ह्वीं प्र॒जाञ् ज॒नय॑न्ती सुरत्ने॒- -मम् अ॒ग्निँ श॒त-हि॑मास् +++(शतवर्षाणि)+++ सपर्यात्+++(=परिचरतु)+++ ।

+++(पुरा हिमवदृतुभिर् वर्षाणि गण्यन्ते स्मेति विस्मयः।)+++

अ॒यम् अ॒ग्निर् गृ॒ह-प॑तिस्+++(!)+++
सुसँ॒सत्+++(=शोभनसदनः)+++ पु॑ष्टि॒वर्द्ध॑नः ।
यथा॒ भग॑स्या॒+++(=भगाय)+++ऽऽभ्यां दद॑द्
र॒यिं पुष्टि॒म् अथो॑ प्र॒जाम् ।

प्र॒जाया॑ आभ्यां प्रजापत॒
इन्द्रा॑ग्नी॒ शर्म॑ यच्छतम् ।
यथैन॑यो॒र् न प्र॑मी॒याता॑+++(य्)+++
उ॒भयो॒र् जीव॑तोः प्र॒जा ।

मन्त्रः

तेन॑ भू॒तेन॑ ह॒विषा॒यमा प्या॑यतां॒ पुनः॑।
जा॒यां याम॑स्मा॒ आवा॑क्षु॒स्तां रसे॑ना॒भि व॑र्धताम् ॥

अ॒भिव॑र्द्धतां॒ पय॑सा॒
ऽभि रा॒ष्ट्रेण॑ वर्द्धताम् ।
र॒य्या स॒हस्र॑पोषसे॒-
मौ स्ता॒म् अन॑पेक्षितौ ।+++(र४)+++

इ॒हैव स्तं॒ मा वियो॑ष्टं॒
विश्व॒म् आयु॒र् व्य॑श्नुतम् ।
म॒ह्या+++(य्)+++ इ॑न्द्रस् स्व॒स्तये॑ +++(ऽस्तु)+++ ।+++(र४)+++

ध्रु॒वैधि पो॑ष्या॒ मयि॒
मह्य॑न् त्वा ऽदा॒द् बृह॒स्पतिः॑ ।
मया॒ पत्या॑ प्र॒जाव॑ती॒
सं जी॑व श॒रद॑श्श॒तम् ।+++(र४)+++

त्वष्टा॑ जा॒याम् अ॑जनय॒त्
+++(“त्वष्टा रुपाणि पिंशतु” इति गर्भाधाने)+++
त्वष्टा॑ ऽस्यै॒+++(स्याः)+++ त्वां पति॑म् ।
त्वष्टा॑ स॒हस्र॒म् आयूँ॑षि
दी॒र्घम् आयुः॑ कृणोतु वाम् ।

इमं᳓ मे वरुण श्रुधी +++(=श्रुणु)+++
ह᳓वम्+++(=आह्वानम्)+++ अद्या᳓ च मृळय +++(=सुखय)+++।
त्वा᳓म् अवस्यु᳓र् आ᳓ चके +++(=अवदन्)+++॥

इति श्रीहरदत्तविरचिते एकाग्निकाण्डमन्त्रव्याख्याने अष्टमः खण्डः ॥

उपवेषनम्

परिषेचनान्तं कृत्वोत्तरया +++(=इह गावः प्रजायध्वम्)+++ चर्मण्युपविशत उत्तरो वरः +++(प्राङ्मुखौ)+++ ।

+++(उत्तरया चर्मण्युपविशतः। आमन्त्रितनिघातः छान्दसत्वान्नभवति ।)+++

इ॒ह गावः॒ प्रजा॑यद्ध्वम्
इ॒हाश्वा॑ इ॒ह पूरु॑षाः ।
इ॒हो+++(ह+उ)+++ स॒हस्र॑-दक्षिणो
रा॒यस्पोषो॒ निषी॑दतु ।+++(र५)+++

०६ ११ अथास्याः पुँस्वोर्जीवपुत्रायाः

अथास्याः पुंस्वो +++(=या पुमांसमेव सूते न स्त्रियं सा )+++ जीवपुत्रायाः पुत्रमङ्क उत्तरयोपवेश्य +++(=“सोमेनादित्या”)+++ तस्मै फलान्युत्तरेण +++(=प्रस्वस्थः प्रेयः)+++ यजुषा प्रदायोत्तरे +++(=“इह प्रियं प्रजयाः”)+++ जपित्वा वाचं यच्छत +++(=मौनमाचरतः)+++ आ नक्षत्रेभ्यः ॥


+++(अथ या पुमांसमेव सूतवती जीवपुत्रा च, तस्याः पुत्रं वध्वा अङ्के उपवेशयति।)+++

सोमे॑नादि॒त्या ब॒लिन॒स्
सोमे॑न पृथि॒वी दृ॒ढा ।
अथो॒ नक्ष॑त्राणाम् ए॒षाम्
उ॒पस्थे॒ सोम॒ आधि॑+++(हि)+++तः।

+++( एवमयं बालः तवोपस्थे उपविशतु)+++ +++(५)+++

+++(तस्मै फलानि प्रयच्छति)+++

मन्त्रः

+++(हे फलानि!)+++ प्र स्वस्+++(=सूताः)+++ स्थः॒,
प्रेयं प्र॒जया॒ भुव॑ने शोचेष्ट+++(=सोषीष्ट, √ सू)+++ ।


+++(उत्तरे जपति)+++

इह᳓ प्रिय᳓म् प्रज᳓या ते स᳓म् ऋध्यताम्
अस्मि᳓न् गृहे᳓ गा᳓र्हपत्याय जागृहि
एना᳓ प᳓त्या तनु᳓वं सं᳓ सृजस्व
अ᳓धा जि᳓व्री विद᳓थम् आ᳓ वदाथः

इ॒ह प्रि॒यं प्र॒जया॑ ते॒ समृ॑द्ध्यताम्,
अ॒स्मिन् गृ॒हे गार्ह॑पत्याय +++(भावाय)+++ जागृहि +++(अतिथीनामग्नीनां च सेवया)+++।
ए॒ना पत्या॑ त॒न्वँ॑ सँ सृ॑ज॒स्वा-
ऽथा॒ जीव्री॑+++(=जीर्णा)+++ वि॒दथ॒म्+++(=यज्ञं)+++ आ व॑दासि +++(पौत्रादिभ्यः)+++।

सुमङ्गली᳓र् इयं᳓ वधू᳓र्
इमाँ᳓ समेत प᳓श्यत ।
सौ᳓भाग्यम् अस्यै᳓ दत्वा᳓या᳓+++(=दत्वा)+++-
ऽथा᳓ऽऽस्तं +++(स्वस्वगृहाणि)+++ वि᳓ प᳓रेतन+++(=गच्छत)+++ ।+++(र४)+++

०६ १२ उदितेषु नक्षत्रेषु

उदितेषु नक्षत्रेषु प्राचीमुदीचीं वा दिशम् उपनिष्क्रम्योत्तराभ्यां +++(=ध्रुवक्षितिर् ध्रुवयोनिः)+++ यथालिङ्गं +++(=तेनोत्तरस्याम् ऋचि सर्वेषां सप्तर्षीणां कृत्तिकादिनाम् अरून्धत्याश्च सहदर्शनम्)+++ ध्रुवम् अरुन्धतीं च दर्शयति॥

+++(ध्रुवं दर्शयति)+++

ध्रु॒व-क्षि॑तिर् ध्रु॒व-यो॑निर्
ध्रु॒वम् अ॑सि ध्रु॒वत॑स् स्थि॒तम् ।
त्वन् नक्ष॑त्राणां मे॒थ्य्+++(=खलेवाली, खले धान्य-पेषण-स्थाने वाल्यन्ते वृषा इति)+++ असि॒
+++(अन्यत्र ध्रुवसम्बन्धे मेढीकृत इति शब्दः प्रयुज्यते पुराणेषु।)+++
स मा॑ पाहि पृतन्य॒तः+++(=योद्धुकामात्)+++ ।


+++(अरुन्धतीं दर्शयति। ६ कृत्तिकाः + अरुन्धती = ७ कृत्तिकाः सप्तऋषिपन्त्यः। अरुन्धती स्थिरा, शिष्टास् त्यक्ताः शङ्कया।)+++

स॒प्त॒ऋ॒षयः॑ प्रथ॒मां कृत्ति॑कानाम् अरुन्ध॒तीम् यद् ध्रु॒वताँ॒ ह नि॒न्युः। षट्कृत्ति॑कामुख्ययो॒गं वह॑न्ति +++(तस्याम्)+++।
+++(वधूर्)+++ इयम् अ॒स्माक॑म् एधत्व् अष्ट॒मी ।+++(र५)+++

०७ ०१ अथैनाम् आग्नेयेन

अथैनाम् आग्नेयेन स्थालीपाकेन +++(वर ऋत्विग् इव)+++ याजयति +++(अथेति वचनादेतस्यामव रात्र्यां स्थालीपाको भवति ।)+++॥

०७ ०२ पत्न्यवहन्ति

पत्न्य् अवहन्ति +++(व्रीहीन् यवान् वा नवान्। न तु श्रपणादिकमपि। पर्वसु पतिर् एवावहन्यात्।)+++ ॥

०७ ०३ श्रपयित्वाभिघार्य

श्रपयित्वा ऽभिघार्य प्रचीनम् उदीचीनं वोद्वास्य प्रतिष्ठितम् अभिघार्याऽग्नेरुपसमाधानाद्याज्यभागान्ते ऽन्वारब्धायां स्थालीपाकाज् जहोति ॥

०७ ०४ सकृदुपस्तरणाभिघारणे

सकृदुपस्तरणाभिघारणे द्विरवदानम् ॥

०७ ०५ अग्निर्देवता स्वाहाकारप्रदानः

+++(त्रिर्जमदग्नीनाम्।)+++ अग्निर्देवता स्वाहाकारप्रदानः॥

०७ ०६ अपि वा

अपि वा सकृदुपहत्य जुहुयात् ॥

०७ ०७ अग्निस्स्विष्टकृद् द्वितीयः

अग्निस्स्विष्टकृद् द्वितीयः।

०७ ०८ सकृदुपस्तरणावदाने

सकृदुपस्तरणावदाने द्विरभिघारणम् +++(जमदग्नीनां तु द्विरवदानम् ।)+++ ॥

०७ ०९ मध्यात् पूर्वस्यावदानम्

मध्यात् पूर्वस्यावदानम् ॥

०७ १० मध्ये होमः

मध्ये होमः ॥

०७ ११ उत्तरार्धादुत्तरस्य

उत्तरार्धादुत्तरस्य ॥

०७ १२ उत्तरार्धपूर्वार्धे होमः

उत्तरार्धपूर्वार्धे होमः ॥

०७ १३ लेपयोः प्रस्तरवत्

लेपयोः प्रस्तरवत्तूष्णीं बर्हिरङ्क्त्वा ऽऽग्नौ प्रहरति ॥

०७ १४ सिद्धमुत्तरम् परिषेचनम्

सिद्धमुत्तरं परिषेचनम् +++(= अनेनोपहोमा भवन्तीति केचिन्, नेत्यन्ये)+++॥

०७ १५ तेन सर्पिष्मता

तेन सर्पिष्मता ब्राह्मणं भोजयेत् ॥

०७ १६ योऽस्यापचितस्तस्मा ऋषभम्

योऽस्यापचितस् तस्मा ऋषभं ददाति +++(वराय याजकेन न दक्षिणा वध्वा देयेति भावेन, तत्प्रतिनिधिः)+++॥

०७ १७ एवमत ऊर्ध्वम्

एवम् अत ऊर्ध्वं दक्षिणावर्जम् उपोषिताभ्यां पर्वसु कार्यः ॥

०७ १८ पूर्णपात्रस्तु दक्षिणेत्येके

पूर्णपात्रस् तु +++(=१००/ १२८ मुष्टिमात्रम् अन्नम् पात्रे)+++ दक्षिणेत्येके ॥

०७ १९ सायम् प्रातरत

सायं प्रातरत ऊर्ध्वं हस्तेनैते आहुती तण्डुलैर्यवैर्वा जुहुयात् ॥

०७ २० स्थालीपाकवद्दैवतम् देवतैव

स्थालीपाकवद्दैवतम् ॥

०७ २१ सौरी पूर्वाहुतिः

सौरी पूर्वाहुतिः प्रातरित्येके ॥

०७ २२ उभयतः परिषेचनम्

उभयतः परिषेचनं यथा पुरस्तात् ॥

०७ २३ पार्वणेनातो ऽन्यानि

पार्वणेनातो ऽन्यानि +++(पक्व-हविर्-युक्तानि स्थालीपाक-पश्वादीनि)+++ कर्माणि व्याख्यातान्य् - आचाराद् +++(→शास्त्रान्तराद् अपि)+++ यानि गृह्यन्ते २३

०७ २४ यथोपदेशन् देवताः

यथोपदेशं देवताः २४

०७ २५ अग्निं स्विष्टकृतम्

अग्निं स्विष्टकृतं चान्तरेण २५

०७ २६ अविकृतमातिथ्यम्

अविकृतम् आतिथ्यम् +++(= गवालम्भे न स्थालीपाकतन्त्रम्)+++२६

०७ २७ वैश्वदेवे विश्वे

वैश्वदेवे विश्वे देवाः २७

०७ २८ पौर्णमास्याम् पौर्णमासी

पौर्णमास्यां पौर्णमासी यस्यां क्रियते २८

०८ ०१ उपाकरणे समापने

+++(स्थालीपाकतन्त्रेण होमे - )+++ उपाकरणे समापने च ऋषिर् यः प्रज्ञायते १

०८ ०२ सदसस्पतिर्द्वितीयः

+++(सदसस्पतिमद्भुतमिति मन्त्रेण)+++ सदसस्पतिर् द्वितीयः +++(स्विष्टकृतस् स्थान इति सुदर्शनसूरिः)+++ २

स᳓दसस्प᳓तिम् अ᳓द्भुतं
प्रिय᳓म् इ᳓न्द्रस्य का᳓म्यम् ।
सनिं᳓ +++(=दानरूपम्)+++ मेधा᳓म् अयासिषम् ६

०८ ०३ स्त्रियाऽनुपेतेन

स्त्रिया ऽनुपेतेन क्षार-लवणावरान्न-संसृष्टस्य च होमं परिचक्षते ३

०८ ०४ यथोपदेशङ् काम्यानि

यथोपदेशं काम्यानि बलयश् च ४

०८ ०५ सर्वत्र स्वयम्

सर्वत्र स्वयं +++(धमनादि पुरुषप्रयत्नमन्तरेण)+++ प्रज्वलितेऽग्नावुत्तराभ्यां +++(=उद्दीप्यस्व जातवेदः, मा नो हिंसीः)+++ समिधावादध्यात् ५

उद्दी॑प्यस्व जातवेदो
ऽप॒घ्नन् निर्ऋ॑तिं॒ मम॑ ।
प॒शूँश् च॒ मह्य॒म् आ व॑ह॒
जीव॑नञ् च॒ दिशो॑ दश ।+++(र५)+++

मा नो॑ हिँसीज् जातवेदो॒
गाम् अश्वं॒ पुरु॑ष॒ञ् जग॑त् ।
+++(परहवींष्य्)+++ अबि॑भ्र॒द्+++(न्)+++ अग्न॒ आग॑हि+++(=आगच्छ)+++,
श्रि॒या मा॒ परि॑पातय ॥ (9)

०८ ०६ आपन्माश्रीः श्रीर्मागादिति

“आपन् मा श्रीः, श्रीर् मा गाद्” इति वा ६

०८ ०७ एतदहर्विजानीयाद्यदहर्भार्यामावहते

एतदहर् विजानीयाद् यदहर् भार्याम् आवहते +++(विवाहाब्दिकम् अत्रोक्तम् इति हरदत्तः)+++ ७

०८ ०८ त्रिरात्रमुभयोरधश्शय्या

त्रिरात्रमुभयोरधश् शय्या ब्रह्मचर्यं क्षारलवणवर्जनं च ८

०८ ०९ तयोश्शय्यामन्तरेण दण्डो

तयोश् शय्यामन्तेरण दण्डो गन्धलिप्तो वाससा सूत्रेण वा परिवीतस्तिष्ठति ॥

०८ १० तञ् चतुर्थ्याऽपररात्र

तं +++(दण्डं)+++ चतुर्थ्या ऽपररात्र +++(=रात्रेस्तृतीयो भागः)+++ उत्तराभ्याम् +++(=“उदीर्ष्वात” इत्येताभ्यां)+++ उत्थाप्य, प्रक्षाल्य, निधाय,

उदीर्ष्वा᳓ऽतो विश्वावसो +++(गन्धर्व)+++
न᳓मसेडामहे त्वा ।
अन्या᳓म् इच्छ प्रफर्व्यँ᳙+++(=प्रथमवयसं)+++
सञ्जायां᳓ प᳓त्या सृज ।

उ᳓दीर्ष्व᳓+++(=उद्गच्छ)+++ +अ᳓तः प᳓तिवती ह्ये३᳓षा᳓
विश्वा᳓वसुं न᳓मसा गीर्भि᳓र् ईळे ।
अन्या᳓म् इच्छ पितृष᳓दं व्य᳙क्तां
स᳓ ते भागो᳓ जनु᳓षा त᳓स्य विद्धि ॥२१

उ॒दी॒र्ष्वातः॒ पति॑वती॒ ह्य् ए॑षा
वि॒श्वाव॑सुं॒ नम॑सा गी॒र्भिर् ई॑ट्टे+++(=याचे)+++ ।
अ॒न्याम् इ॑च्छ पितृ॒षदं॒ व्य॑क्ताँ॒
स ते॑ भा॒गो ज॒नुषा॒ तस्य॑ विद्धि ।

शेष-होम-मन्त्राः

अग्नेरुपसमाधानाद्याज्यभागान्ते ऽन्वारब्धायाम् उत्तरा आहुतीर् +++(=सप्त प्रधानाहुतीर्जुहोति “अग्ने प्रायश्चित्ते"इत्येवमाद्याः)+++ हुत्वा जयादि प्रतिपद्यते।

अग्ने॑ प्रायश्+++(=विनाश)+++-चित्ते॒+++(=सन्धातः)+++! त्वन् दे॒वानां॒ प्राय॑श्चित्तिर् असि।
ब्राह्म॒णस् त्वा॑ ना॒थ-का॑मः॒ प्रप॑द्ये॒।
याऽस्यां प॑ति॒घ्नी त॒नूः प्र॑जा॒घ्नी प॑शु॒घ्नी ल॑क्ष्मि॒घ्नी, जा॑र॒घ्नीम् अ॑स्यै॒ ताङ् कृ॑णोमि॒ स्वाहा॑ ।+++(र५)+++

वायो॑ प्रायश्चित्ते॒! त्वन् दे॒वानां॒ प्राय॑श्चित्तिर् असि।
ब्राह्म॒णस् त्वा॑ ना॒थ-का॑मः॒ प्रप॑द्ये॒।
याऽस्यां प॑ति॒घ्नी त॒नूः प्र॑जा॒घ्नी प॑शु॒घ्नी ल॑क्ष्मि॒घ्नी, जा॑र॒घ्नीम् अ॑स्यै॒ ताङ् कृ॑णोमि॒ स्वाहा॑ ।+++(र५)+++

आदि॑त्य प्रायश्चित्ते॒! त्वन् दे॒वानां॒ प्राय॑श्चित्तिर् असि।
ब्राह्म॒णस् त्वा॑ ना॒थ-का॑मः॒ प्रप॑द्ये॒।
याऽस्यां प॑ति॒घ्नी त॒नूः प्र॑जा॒घ्नी प॑शु॒घ्नी ल॑क्ष्मि॒घ्नी, जा॑र॒घ्नीम् अ॑स्यै॒ ताङ् कृ॑णोमि॒ स्वाहा॑ ।+++(र५)+++

प्रजा॑पते प्रायश्चित्ते॒! त्वन् दे॒वानां॒ प्राय॑श्चित्तिर् असि।
ब्राह्म॒णस् त्वा॑ ना॒थ-का॑मः॒ प्रप॑द्ये॒।
याऽस्यां प॑ति॒घ्नी त॒नूः प्र॑जा॒घ्नी प॑शु॒घ्नी ल॑क्ष्मि॒घ्नी, जा॑र॒घ्नीम् अ॑स्यै॒ ताङ् कृ॑णोमि॒ स्वाहा॑ ।+++(र५)+++

प्र॒स॒वश्+++(=अनुज्ञा)+++ चो॑पया॒मश्+++(=पृथिवी)+++ च॒
+++(इयं वा उपयामः इति श्रुतेः)+++
काट॑श्+++(=लिङ्गरूपरुद्रः)+++ चार्ण॒वश् च॑
धर्ण॒सिश्+++(=गृहं)+++ च॒ द्रवि॑णञ् च॒
भग॑श् चा॒न्तरि॑क्षञ् च॒
सिन्धु॑श् च समु॒द्रश् च॒
सर॑स्वाँश् च वि॒श्वव्य॑चाश् च॒
ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒, तमे॑षा॒ञ् जम्भे॑+++(=दन्ते)+++ दद्ध्म॒स् स्वाहा॑ ।

+++(वसन्तादीनां षण्णामृतूनां द्वौद्वौ मासौ-)+++

मधु॑श्च॒ माध॑वश्च
शु॒क्रश्च॒ शुचि॑श्च॒
नभ॑श्च नभ॒स्य॑श् च॒
+इ॒षश् चो॒र्जश्च॒
सह॑श् च सह॒स्य॑श् च॒
तप॑श् च तप॒स्य॑श् च॒
ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षा॒ञ् जम्भे॑+++(=दन्ते)+++ दद्ध्म॒स् स्वाहा॑ ।

चि॒त्तञ् च॒ चित्ति॒श् चा+
ऽकू॑त॒ञ्+++(=अभिप्रेतम्)+++ चाकू॑ति॒श्+++(=अभिप्रायः)+++ च
+अधी॑त॒ञ् चाधी॑तिश्च॒
विज्ञा॑तञ्च वि॒ज्ञान॑ञ्च॒
नाम॑ च॒ क्रतु॑श्+++(=आकृतिः)+++ च॒
दर्श॑श्च पू॒र्णमा॑सश्च॒
ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षा॒ञ् जम्भे॑+++(=दन्ते)+++ दद्ध्म॒स् स्वाहा॑ ।

वध्वाश् शिरस्य् आज्यशेषानयनम्

भूस् स्वाहा॒, भुव॒स् स्वाहा॒, सुव॒स् स्वाहोँ स्वाहा॑ ॥ (10)

+++(भूरादयः त्रयो लोकाः । ओमिति ब्रह्म ॥)+++

इति श्रीहरदत्तविरचिते एकाग्निकाण्डमन्त्र व्याख्याने दशमः खण्डः

परस्परवीक्षणम्

परिषेचनान्तं कृत्वा, अपरेणाग्निं प्राचीम् उपवेश्य तस्याश् शिरस्याज्यशेषाद् व्याहृतिभिर् ओङ्कारचतुर्थाभिरानीयोत्तराभ्यां +++(=“अपश्यं त्वे"त्येताभ्यां)+++ यथालिङ्गं +++(=पूर्वया वधूः उत्तरया वरः)+++ मिथस्समीक्ष्य,

+++(वधूर् वरं समीक्षते)+++

अप॑श्यन् त्वा॒ मन॑सा॒ चेकि॑तानं॒+++(=जानन्तं)+++
तप॑सो जा॒तं तप॑सो॒ विभू॑तम् ।
इ॒ह प्र॒जाम् इ॒ह र॒यिँ ररा॑णः॒
प्रजा॑यस्व प्र॒जया॑ पुत्रकाम ।


+++(वरो वधूम् ईक्षते)+++

अप॑श्यन् त्वा॒ मन॑सा॒ दीध्या॑नाँ॒+++(=ध्यायन्तीं)+++
स्वायां॑ त॒नूँ+++(न्वां)+++ ऋ॒त्विये॒ +++(काले)+++ नाथ॑मानाम् ।
उप॒ माम् +++(सम्भोगकाले)+++ उ॒च्चा यु॑व॒तिर् बुभू॑याः॒+++(=अनुभूयाः)+++
प्रजा॑यस्व प्र॒जया॑ पुत्रकामे ।+++(४)+++

उत्तरया +++(=“समञ्जन्त्वि"त्येतया)+++ ऽज्यशेषेण हृदयदेशौ संमृज्य,


+++(उत्तरयाऽऽज्यशेषेण हृदयदेशौ समनक्ति)+++

स᳓मञ्जन्तु वि᳓श्वे देवाः᳓
स᳓मा᳓पो हृ᳓दयानि नौ ।
सं᳓ मातरि᳓श्वा सं᳓ धाता᳓
स᳓मु दे᳓ष्ट्री+++(=दात्री [फलानाम्])+++ दधातु नौ ॥

सम॑ञ्जन्तु॒ विश्वे॑ दे॒वास्
समापो॒ हृद॑यानि नौ ।
सं मा॑त॒रिश्वा॒ सं धा॒ता
समु॒ देष्ट्री॑+++(=सरस्वती)+++ दिदेष्टु नौ ।+++(र५)+++

अथ जपः

उत्तरास् तिस्रो +++(=“प्रजापते तन्व"मित्याद्याः)+++ जपित्वा,

प्रजा॑पते त॒न्वं॑ मे जुषस्व॒
त्वष्ट॑र् दे॒वेभि॑स् स॒हसा॒म+++(न= सममान)+++ इ॑न्द्र ।
विश्वै॑र् दे॒वै रा॒तिभि॑स् सँ ररा॒णः
पुँ॒सां ब॑हू॒नां मा॒तर॑स् स्याम ।+++(र४)+++

+++(गृहप्रवेशे - )+++

आ᳓ नः प्रजा᳓ञ् जनयतु प्रजा᳓पतिर्
आजरसा᳓य +++(स्नेहाय)+++ स᳓मनक्त्व् अर्यमा᳓ ।
अ᳓-दुर्-मङ्गलीः पतिलोक᳓म् आ᳓ विश
श᳓न् नो भव द्विप᳓दे श᳓ञ् च᳓तुष्पदे ।

तां᳓ पूषञ् छिव᳓तमाम् ए᳓रयस्व
य᳓स्यां बी᳓जं मनुष्या᳙ व᳓पन्ति ।
या᳓ न ऊरू᳓ उशती᳓+++(=कामयमाना)+++ विस्र᳓+++(श्र)+++यातै+++(=विश्लिष्टौ कुर्यात्)+++
य᳓स्याम् उश᳓न्तः+++(=कामयमानाः)+++ प्र᳓हरेम शे᳓फम् ॥+++(५)+++ (11)

शेषं +++(=“आरोहोरु"मित्यादि)+++ समावेशने जपेत् ॥

+++(अन्तरात्मन्!)+++ आरो॑हो॒रुम् उप॑बर्हस्व बा॒हुं
परि॑ष्वजस्व जा॒याँ सु॑मन॒स्यमा॑नः +++(=प्रीयमाणः)+++ ।
तस्यां॑ पुष्यतं मिथु॒नौ सयो॑नी (=सङ्गतोपस्थौ)
ब॒ह्वीं प्र॒जां ज॒नय॑न्तौ॒ सरे॑तसा ।

आ॒र्द्रया+++(आज्याक्तया)+++ऽर॑ण्या॒ +++(अग्निम्)+++ यत्रा+++(था)+++ऽम॑न्थ॒त्,
+++(तथा)+++ पुरु॑षं॒ +++(गर्भम्)+++ पुरु॑षेण +++(शेफेन)+++ श॒क्रः ।
तद् ए॒तौ मि॑थु॒नौ सयो॑नी+++(=सङ्गतोपस्थौ)+++
प्र॒जया॒ऽमृते॑ने॒ह ग॑च्छतम् ।

०८ ११ अन्यो वैनामभिमन्त्रयेत

अन्यो वैनाम् अभिमन्त्रयेत +++(अत्र सुदर्शनाचार्यः - इदं च “अहं गर्भमदधाम्” इत्यादि लिङ्गविरोधेऽपि श्रुतेर्बलीयस्त्वा)+++११

अ॒हं गर्भ॒म् अद॑धा॒म् ओष॑धीष्व्
अ॒हं विश्वे॑षु॒ भुव॑नेष्व् अ॒न्तः ।
अ॒हं प्र॒जा अ॑जनयं पितॄृ॒णाम्
अ॒हं जनि॑भ्यो +++(=जन्याः = वध्वाः)+++ अप॒रीषु॑ +++(=पश्चात्कालस्नुषासु)+++ पु॒त्रान् ।+++(५)+++

पु॒त्रिणे॒मा कु॑मा॒रिणा॒ विश्व॒म् आयु॒र् व्य॑श्नुतम् ।
उ॒भा हिर॑ण्य-पेशसा+++(=रूपौ)+++ वी॒ति+++(=हविर्)+++हो॑त्रा कृ॒तद्व॑सू (=कृतवसू)।

द॒श॒स्यन्त्वा॒ +++(=दशस्यन्तौ =दातारौ)+++ ऽमृता॑य॒ कँ (पादपूरणे) श+++(स)+++म् ऊधो॑
रोम॒शँ ह॑थो+++(=श्लिष्टं कुरुतम्)+++ दे॒वेषु॑ कृ॒णुतो॒ दुवः॑ (=परिचरणम्)।+++(४)+++

०८ १२ यदा मलवद्वासाः

यदा मलवद्वासाः स्यादथैनां ब्राह्मण-प्रतिषिद्धानि कर्माणि संशास्ति “यां मलवद्वाससम्”+++(तै.सं. २.५.१)+++ इत्येतानि ॥


  1. 4, 8. As to the last sentence of this Sūtra, comp. the statements collected by Hillebrandt, Neu- and Vollmondsopfer, p. 59. ↩︎ ↩︎ ↩︎ ↩︎

  2. See below, IV, 10, 9. ↩︎ ↩︎ ↩︎

  3. ‘The action of sacrificing belongs to the bridegroom; the hands of the wife represent the sacrificial vessel.’ Haradatta. - ‘It is the bridegroom who sacrifices the grain with the verse, “This wife.”’ Sudarśanārya. ↩︎ ↩︎

  4. See above, Sūtra 3. ↩︎ ↩︎

  5. 11, 12. See Section 2, Sūtras 7. 8; Section 4, Sūtra 8. ↩︎ ↩︎

  6. 12 seq. Comp. Hiraṇyakeśin I, 7, 22, 1 seq. ↩︎ ↩︎

  7. See I, 2, 3. 8. ↩︎

  8. See I, 1, 1. ↩︎

  9. See below, V, 13, 16. ↩︎

  10. See Āpastamba Dharma-sūtra II, 2, 3, 1 (S.B.E., vol. ii, p. 103). ↩︎

  11. For instance, the Srāvaṇī paurṇamāsī is the deity of the ceremony described below, VII, 18, 5 seq. ↩︎