१९ १३ ईशानाय स्थालीपाकम्
१९ १३ ईशानाय स्थालीपाकम् ...{Loading}...
ईशानाय स्थालीपाकं श्रपयित्वा, क्षैत्रपत्यं च,
प्राचीमुदीचीं वा दिशम् उपतिष्क्रम्य +++(ग्रामात्)+++
स्थण्डिलं कल्पयित्वा
ऽग्नेर् उपसमाधानादि १३
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- 1 Having prepared a Sthālīpāka for Lana and one for Kṣetrapati, he goes out in an easterly or northerly direction, prepares a raised surface, (and then follow the ceremonies) beginning with the putting of wood on the fire.
हरदत्तः
अथ ईशानबलिर्नाम पाकयज्ञो वक्ष्यते शूलगव इति यस्य प्रसिद्धिः । गवालम्भनं च तत्र शास्त्रान्तरे चोदितमस्माकं तु स्थालीपाक एव । एतावत् गोरालम्भस्थानमिति नियमात् । नित्यश्चायं पुरुषसंस्कारः न काम्यो नैमित्तिको वा । कामनिमित्तयोरश्रुतत्वात् । सकृच्च कर्तव्यः । कालसंयोगाभावात् । कालसंयोगे ह्यभ्यावृत्तिर्भवति । तस्य कालस्य पुनःपुनस्सम्बन्धात् । कः पुनरस्य कालः? शरदि वसन्ते वेति शास्त्रान्तरम् । आर्द्रया कर्तव्यमिति च । उदगयनादिनियमश्चास्माकम् । तत्र फाल्गुने मासि पूर्वपक्षे अष्टम्यार्द्रया सम्पद्यते सोऽस्य मुख्यः कालः । तेन यक्ष्यमाणो गृहे स्थालीपाकं श्रपयति औपासने ईशानाय देवाय सङ्कल्पितमेकं, क्षेत्रपतये चापरम् । तैस्सह प्राचीमुदीचीं वा दिशं ग्रामात् बहिर् उपनिष्क्रम्य यत्र यक्ष्यमाणो भवति तत्र देवयजनाय देवगृहयोश्च पर्याप्तमेकं स्थण्डिलं कल्पयित्वा तस्य पूर्वार्धे अगन्यायतनमुल्लिख्याग्निं प्रतिष्ठाप्योपसमाधानादि तन्त्रं प्रतिपद्यते । द्वन्द्व पात्राणि, परिधयः ॥१३॥
सुदर्शनः
“ईश ऐश्वर्ये” इति धात्वर्थस्मृतेः निरतिशयमैश्वर्यं यस्य स ईशानः प्रणवोपासनादिभिरुपास्यो महेश्वर इत्यर्थः । तस्मै ईशानाय स्थालीपाकं होमादिभ्यः पर्याप्तं पार्वणवदौपासने श्रपयित्वा, प्रतिष्ठिताभिघारणान्तं करोति । केचित्—त्रीनोदनान् कल्पयित्वाग्निमभ्यानीय ततो बहिः प्रतिष्ठाप्य त्रयाणामभिघारणमिति । तेन क्षैत्रपत्यं च स्थालीपाकं लौकिकाग्नौ श्रपयति, तस्यानग्नौ प्रदेयत्वात् । अथ यथार्थं सम्भारानादाय ग्रामात् प्राचीमुदीचीं वा दिशमुपनिष्क्रम्या ग्निकुट्यादिभ्योऽलं स्थण्डिलादि कल्पयित्वा, तस्मिन् “यत्र क्वचाग्निम्” (आ.ध.३-१३.) इति विधिनाग्निं प्रतिष्ठाप्य, अग्नेरुपसमाधानादि तन्त्रं प्रतिपद्यते । तन्त्रविधानं च क्रमार्थमित्युक्तमेव ॥१३॥
मूलम् ...{Loading}...
ईशानाय स्थालीपाकं श्रपयित्वा क्षैत्रपत्यं च प्राचीमुदीचीं वा दिशमुपनिष्क्रम्य स्थण्डिलं कल्पयित्वाऽग्नेरुपसमाधानादि ।
१९ १४ अपरेणाग्निन् द्वे
१९ १४ अपरेणाग्निन् द्वे ...{Loading}...
अपरेणाग्निं द्वे कुटी कृत्वा १४
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- To the west of the fire he builds two huts.
हरदत्तः
तत अग्नेः पश्चात् द्वे कुटी करोति देवाय देव्यै च । प्रत्यग्द्वारे प्राग्द्वारे वा । दक्षिणोत्तरे उदगपवर्गः । तयोर्देवस्य देव्याश्च प्रतिकृती कृत्वा ॥१४॥
इति श्रीहरदत्तमिश्रविरचितायां गृह्यसूत्रवृत्तावनाकुलायां एकोनविंशः खण्डः ॥
सुदर्शनः
अग्निमुखान्ते कृते अपरेणाग्निं द्वे कुटी प्राग्द्वारे उदगपर्गे कृत्वा ॥१४॥ इति श्रीसुदर्शनाचार्यविरचिते गृह्यतात्पर्यदर्शने एकोनविंशः खण्डस्समाप्तः ॥
मूलम् ...{Loading}...
अपरेणाग्निं द्वे कुटी कृत्वा।
२० ०१ उत्तरया
२० ०१ उत्तरया ...{Loading}...
उत्तरया दक्षिणस्याम् ईशानम् आवाहयति १
१० आ त्वा ...{Loading}...
आ त्वा॑ वहन्तु॒ हर॑य॒स्+++(=हरितवर्णाश्वाः)+++ सचे॑तसश्
श्वे॒तैर् अश्वै॑स् स॒ह के॑तु॒मद्भिः॑ ।
वाता॑जिरै॒र्+++(=वातगतिभिः)+++ मम॑ ह॒व्याय॑ शर्व+++(←शॄ हिंसायाम्)+++ ।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- 2 With the next (verse, II, 18, 10) he has the Īśāna led to the southern (hut),
हरदत्तः
मध्ये जयंतस्य प्रतिकृतिमाकाश एव कृत्वा दक्षिमस्याम् ईशानमावाहयति उत्तरयर्चा “आ त्वा वहन्त्व्” इत्येतया । अग्नेरुपसमाधानादीत्त्युक्तत्वात् प्रधानाहुतीनां च वक्ष्यमाणत्वात् आज्यभागान्ते कुटीकरणमेव भवति ॥१॥
सुदर्शनः
अथोत्तरया “आ त्वा वहन्तु” इत्येतया दक्षिणस्यां कुट्या मीशानमावाहयति । मूर्तिमानिहागच्छेति ध्यायेत् ॥१॥
मूलम् ...{Loading}...
उत्तरया दक्षिणस्यामीशानमावाहयति ।
२० ०२ लौकिक्या वाचोत्तरस्याम्
२० ०२ लौकिक्या वाचोत्तरस्याम् ...{Loading}...
लौकिक्या वाचोत्तरस्यां मीढुषीम् २
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- With worldly words the ‘bountiful goddess’ to the northern (hut),
हरदत्तः
+++(सम्पादकटिप्पनी - इदं सूत्रम् अग्रिमे व्याख्यातम् ।)+++
सुदर्शनः
+++(सम्पादकटिप्पनी - इदं सूत्रम् अग्रिमे व्याख्यातम् ।)+++
मूलम् ...{Loading}...
लौकिक्या वाचोत्तरस्यां मीढुषीम्।
२० ०३ मध्ये जयन्तम्
२० ०३ मध्ये जयन्तम् ...{Loading}...
मध्ये जयन्तम्+++(=स्कन्दः, इन्द्रसूनुर् वा)+++ ३
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- To the middle (between the two huts) the ‘conqueror.’
हरदत्तः
उत्तरस्यां लौकिक्या वाचा मीढुषीं देवीं आवाहयति । मध्ये जयन्तम् आवाहयति । लौकिक्या वाचा-आयाहि जयन्त, जयन्तमावाहयामीति वा । जयन्तः स्कन्दः । लौकिक्येत्यनुच्यमाने पूर्वेण मन्त्रेणावाहनं प्राप्नोति ॥२॥
सुदर्शनः
तथोत्तरस्यां कुट्यां लौकिक्या वाचा “आयाहि मीढुषि” इति मीढुषीम् ईशानस्य पत्नीं आवाहयतीत्येव ॥२॥ कुट्योर्मध्ये आकाशे जयन्तम् इन्द्रसूनुं स्कन्दं वा “आयाहि जयन्त” इत्यावाहयति । अत्र सूत्रे अनुक्तमप्यौचित्यादावाहितेभ्य आसनानि ददाति ॥३॥
मूलम् ...{Loading}...
मध्ये जयन्तम् ।
२० ०४ यथोढमुदकानि प्रदाय
२० ०४ यथोढमुदकानि प्रदाय ...{Loading}...
यथोढम् उदकानि प्रदाय
त्रीन् ओदनान्+++(→ओदनभागान्)+++ कल्पयित्वा
ऽग्निम् अभ्यानीयोत्तरैर् उपस्पर्शयित्वा
उत्तरैर् यथास्वम् ओदनेभ्यो हुत्वा
सर्वतस् समवदायोत्तरेण यजुषाग्निं स्विष्टकृतम् ।
११ -३० उपस्पृशतु मीढ्वान्मीढुषे ...{Loading}...
उप॑स्पृशतु मी॒ढ्वान्, मी॒ढुषे॒ स्वाहा।
उप॑स्पृशतु मी॒ढुषी॑ मी॒ढुष्यै॒ स्वाहा॑ ।
ज॒य॒न्तोप॑स्पृश जय॒न्ताय॒+++(=स्कन्दाय)+++ स्वाहा॑ ।
हवनम्
भ॒वाय॑ दे॒वाय॒ स्वाहा॑।
श॒र्वाय॑ दे॒वाय॒ स्वाहा।
ईशा॑नाय दे॒वाय॒ स्वाहा॑।
पशु॒पत॑ये दे॒वाय॒ स्वाहा॑।
रु॒द्राय॑+++(=रोदयित्रे)+++ दे॒वाय॒ स्वाहा।
उग्राय॑ दे॒वाय॒ स्वाहा॑।
भी॒माय॑ दे॒वाय॒ स्वाहा॑।
मह॒ते दे॒वाय॒ स्वाहा॑ ।
भ॒वस्य॑ दे॒वस्य॒ पत्न्यै॒ स्वाहा॑।
श॒र्वस्य॑ दे॒वस्य॒ पत्न्यै॒ स्वाहा।
ईशा॑नस्य दे॒वस्य॒ पत्न्यै॒ स्वाहा॑।
पशु॒पते॑र्दे॒वस्य॒ पत्न्यै॒ स्वाहा॑।
रु॒द्रस्य॑ दे॒वस्य॒ पत्न्यै॒ स्वाहा॑।
उ॒ग्रस्य॑ दे॒वस्य॒ पत्न्यै॒ स्वाहा॑।
भी॒मस्य॑ दे॒वस्य॒ पत्न्यै॒ स्वाहा॑।
मह॒तो दे॒वस्य॒ पत्न्यै॒ स्वाहा॑ ।
ज॒य॒न्ताय॒ स्वाहा॑ ।
३१ अग्नये स्विष्टकृते ...{Loading}...
अ॒ग्नये॑ स्विष्ट॒कृते॒ सुहु॑तहुत॒ आहु॑तीनां॒ कामा॑नाꣳ समर्द्धयि॒त्रे स्वाहा॑ ।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- He gives them water to drink in the same order in which they have been led (to their places), takes three portions of boiled rice (from the Sthālīpāka prepared for Īśāna), takes (these portions of rice) to the fire, makes (the three gods) touch them with the next (formulas, II, 18, II-13), sacrifices of these portions, to each god of the portion which belongs to him, with the next (formulas, II, 18, 14-30), cuts off (Avadānas) from all (portions), and sacrifices with the next Yajus (II, 18, 31) to Agni Sviṣṭakṛt.
हरदत्तः
(येन शब्देन येषु स्थानेषु येन क्रमेणावाहनं चोदितं तद्देवताकान्यर्घ्याणि प्रयच्छति) । पृथक्पात्रैः कल्पितानि अर्घ्यत्वात् पुष्पाक्षतैस्संयुक्तानि । ईशानेदं ते अर्घ्यम्, जयन्तेदं ते अर्घ्यमिति । ततो गन्धपुष्पधूपदीपैरभ्यर्च्य ततः स्थालीपाकादुद्धृत्य त्रीनोदनान् कल्पयति त्रिषु पात्रेषु देव्यै स्कन्दाय च देवाय होमार्थं उपहारार्थं च । स्थाल्यां च भूयांसमोदनमवशिनष्टि ब्राह्मणभोजनार्थम् । ततस्तानोदनानग्निसमीपमानीय्यापरेणाग्निं बर्हिंषि प्रतिष्ठापयति दक्षिणत उत्तरतो मध्ये च । अत्र प्रतिष्ठिताभिघारणम् । तत उत्तरैर्मन्त्रैस्त्रिभिर्यथोढं त्रीनोदनानुपस्पर्शयति । स्वस्वामिसम्बन्धं कारयति । उत्तरैर् मन्त्रैः “उपस्पृशतु मीढ्वान्” इत्यादिभिः । यथादेवतमभिमृशति “इदमग्नेरित्याग्नेयम्” इतिवत् । एवमुपस्पर्शयित्वा तत उत्तरैर्मन्त्रैस्सप्तदशभिः प्रधानाहुतीर्जुहोति यथास्वमोदनेभ्यः येनौदनेन यस्यै देवतायै स्वत्वसम्बन्ध उपस्पर्शनेनोपलक्षितः तस्मात् तस्य जुहोतीत्यर्थः । तत्र “भवाय देवाये"त्यादिभिरष्टाभिः देवस्यौदनात् । “भवस्य देवस्य पत्न्यै स्वाहे"त्यष्टाभिः मीढुष्याः । “जयन्ताय स्वाहे"ति जयन्तस्य । एवं प्रधानाहुतीर्हुत्वा ततस् सर्वतः समवादायोत्तरेण यजुषा “अग्नये स्विष्टकृते सुहुत” इत्यनेनाग्निं स्विष्टकृतं यजति । सर्वतस्समवदायेत्त्युच्यते यथा स्वमोदनेभ्यः पृथक्पृथक् स्विष्टकृन्मा भूदिति । यद्यपि स्विष्टकृतोऽनन्तरमिदमुक्तमुपस्थानादि, तथापि “जयादीनुपजुहोति” इत्यत्रोपशब्दश्रवणात् प्रधानहोमानन्तरं जयादयः । परिषेचनान्ते उपस्थानादि ॥३॥
सुदर्शनः
अथ यथोढं येन क्रमेणोढा आवाहितास्तेन क्रमेण । उदकानि पाद्यादीनि प्रत्येकं स्वैस्स्वैर्नामभिर्नमोन्तैः प्रददाति प्रकर्षेण भक्तिपुरस्सरं ददाति । उदकग्रहणस्य प्रदर्शनार्थत्वात् दीपान्तं प्रददातीत्युपदेशः । अथेशानस्थालीपाकादुद्धृत्य त्रीनोदनान् त्रिषु पात्रेषु कल्पयति ईशानमीढुषीजयन्तेभ्यो होमार्थम् बल्यर्थञ्च । स्थाल्यां च ब्राह्मणानां भोजनानार्थं भूयांसमोदनमवशिनष्टि । ततस्तानोदनानग्नेस्समीपमानीय अपरेणाग्निं प्रतिष्ठापयति । अथैतान् उत्तरैस् त्रिभिर्मन्त्रैः “उपस्पृशतु मीढ्वान्” इत्यादिभिर्यथासङ्ख्यं यथादेवतम् उपस्पर्शयति । अस्य चोपस्पर्शनविधेर्द्वितीयतृतीययोरोदनयोरपनीतेशानदेवताकयोर्मीढुषीजयन्ताख्यदेवतान्तरसम्बन्धविज्ञाने तात्पर्यम्, अभ्युदयेष्ट्यादिवत् । प्रथमे त्वीशानसम्बन्धस्थापने मीढ्वच्छब्दस्येशानवाचकत्वात् । अथोत्तरैर्मन्त्रैः “भवाय देवाय” इत्यादिभिस्सप्तदशभिः यथास्वमोदनेभ्यः यो य ओदनो यस्या यस्या देवतायास्स्वभूतस्तस्मात्तस्माद्यथालिङ्गं पार्वणवदानधर्मेणावदाय प्रधानाहुतीर्जुहोति । तत्र “भवाये"त्यष्टभिरीशानस्यौदनात् । युक्तं चैतत् भवशर्वादिशब्दानां ईशानवाचकत्वादिति । “भवस्य देवस्ये"त्यष्टाभिस्तु मीढुष्यास्स्वात् । “जयन्ताये"ति जयन्तस्य स्वात् । ततस्सर्वतस्सर्वेभ्यस्त्रिभ्य ओदनेभ्यः स्विष्टकृतोऽवदानधर्मेण समवदाय सहावदाय उत्तरेण यजुषा “अग्नये स्विष्टकृते सुहुत हुत” इत्यनेनाग्निं स्विष्टकृतं जुहोति । अतः सर्वतस्समवदायेति वचनं आग्रयणमासिश्राद्धादिवत् सकृदेवावदाय स्विष्टकृदिति शङ्कानिरासार्थम् ॥४॥
मूलम् ...{Loading}...
यथोढमुदकानि प्रदाय त्रीनोदनान् कल्पयित्वाऽग्निमभ्यानीयोत्तरैरुपस्पर्शयित्वा उत्तरैर्यथास्वमोदनेभ्यो हुत्वा सर्वतस्समवदायोत्तरेण यजुषाग्निं स्विष्टकृतम् ।
२० ०५ उत्तरेण
२० ०५ उत्तरेण ...{Loading}...
उत्तरेण यजुषोपस्थाय
३२ स्वस्ति नः ...{Loading}...
स्व॒स्ति नः॑ पूर्ण॒मुखः॒ परि॑क्रामतु ।
उत्तरैस् सहोदनानि पर्णान्य् एकैकेन द्वे द्वे दत्त्वा
देवसेनाभ्यो दशोत्तराभ्यः ५
३३ -४५ गृहपोपस्पृश गृहपाय ...{Loading}...
- उत्तरस्याम्
- गृ॒ह॒पोप॑स्पृश। गृह॒पाय॒ स्वाहा॑ ।
- गृ॒ह॒प्युप॑स्पृश। गृह॒प्यै स्वाहा॑ ।
- मध्ये ।
- घो॒षिण॒ उप॑स्पृशत। घो॒षिभ्यः॒ स्वाहा॑ ।
- दक्षिणस्याम् ।
- श्वा॒सिन॒ उप॑स्पृशत। श्वा॒सिभ्यः॒ स्वाहा॑ ।
- उत्तरस्याम्
- वि॒चि॒न्वन्त॒ उप॑स्पृशत। विचि॒न्वद्भ्यः॒ स्वाहा॑ ।
- मध्ये ।
- प्र॒पु॒न्वन्त॒ उप॑स्पृशत। प्रपु॒न्वद्भ्यः॒ स्वाहा॑ ।
- दक्षिणस्याम् ।
- स॒म॒श्नन्त॒ उप॑स्पृशत। सम॒श्नद्भ्यः॒ स्वाहा॑ ।
- दश देवसेनाभ्यः दश
- दे॒व॒से॒ना उप॑स्पृशत। देवसे॒नाभ्यः॒ स्वाहा॑ ।
- या आख्या॑ता॒ याश् चाना॑ख्याता देवसे॒ना उप॑स्पृशत। देवसे॒नाभ्यः॒ स्वाहा॑ ।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- Having worshipped (the god Īśāna) with the next Yajus (II, 18, 32), he distributes with the next (formulas, II, 18, 33-39) leaves together with portions of boiled rice, two (leaves) with each (Yajus), then ten to the divine hosts (II, 18, 40), and ten to the (divine hosts) that follow (and are referred to in the next Yajus, II, 18, 41).
हरदत्तः
उत्तरेण यजुषा “स्वस्तिनः पूर्णमुख” इत्यनेन उपस्थानं च महादेवस्य, तत्प्रधानत्वात् कर्मणः । “पूर्णमुख” इत्यपि तस्यैव निर्देशः । पूर्णाहुतिभिः पूर्णमुखः । उपस्थाय तत उत्तरैर्मन्त्रैः “गृहपोपस्पृशेत्यादिभिः अष्टादशभिः सहौदनानि पर्णानि मन्त्रप्रतीताभ्यो देवताभ्यो ददाति । तत्र चादितस्सप्तभिः प्रतिमन्त्रं द्वे द्वे पर्णेददाति । अष्टमेन दशदेवसेनाभ्य इति वदन् मन्त्रप्रतीता देवता दर्शयति । तत्र गृहप इति महादेवाभिधानं मन्यते गृहान् पातीति । “नमो रुद्राय वास्तोष्पतय” इति च मन्त्रान्तरम् । तस्मादनेन देवाय पर्णद्वयं तस्यैवौदनात् । गृहपी देवी, तस्मादनेन मन्त्रेण देव्यै दातव्यं तस्या एवौदनात् । घोषिणी इत्यादयः, सर्वगणा देवस्यानुचराः । तेभ्योऽपि देवकुटीसमीपे तस्यावोदनात् पर्णद्वयानि । देवसेना भूतगणाः । तेभ्योऽपि सर्पगणवत् । दशोत्तराभ्यः “या आख्याता” इत्यस्मिन्नुत्तरे मन्त्रे प्रतीता उत्तरा देवताः । ताभ्यो दश पर्णानि तेनैव मन्त्रेण देवस्यैवौदनात् ॥५॥
सुदर्शनः
उत्तरेण यजुषा “स्वस्ति नः पूर्णमुख” इत्यनेन अग्निमीशानं वोपतिष्ठते । इदं च यथापाठं स्विष्टकृतोऽनन्तरम् । ततो लेपयोरित्यादितन्त्रशेषसमाप्तिः, “परिषेचनान्तं कृत्वा पर्णदानम्” इति भाष्यकारवचनात् । केचित्—उपस्थानादि तन्त्रशेषसमाप्तिरिति । ततो यथास्वमोदनेभ्य एव यज्ञियेषु पर्णेष्वदाय तानि सहौदनानि ओदनसहितानि पर्णान्युत्तरैः “गृहपोपस्पृश” इत्यादिभिस्सप्तभिर्ददातीति सामान्येन विधाय विशिनष्टि एकैकेन मन्त्रेण द्वे द्वे पर्णे इति । अथ द्वे द्वे इत्येतदपवदति—दशेत्यादिना । देवस्येशानस्य सेनाः देवसेनाः, ताभ्यो दश पर्णानि दक्षिणस्यां कुट्यां देवस्यैवौदनादवदाय ददाति । तथा दशैव पर्णान्य् उत्तराभ्यो देवसेनाभ्यः । उत्तरस्मिन् मन्त्रे “या आख्याता याश्चानाख्याता” इति गुणद्वयवत्यस्ता उत्तरा देवसेनाः ॥५॥
मूलम् ...{Loading}...
उत्तरेण यजुषोपस्थायोत्तरैस्सहौदनानि पर्णान्येकैकेन द्वे द्वे दत्वा दश देवसेनाभ्यो दशोत्तराभ्यः ॥
२० ०६ पूर्ववदुत्तरैः
२० ०६ पूर्ववदुत्तरैः ...{Loading}...
पूर्ववद् उत्तरैः ६
३३ -४५ गृहपोपस्पृश गृहपाय ...{Loading}...
- द्वा॒रा॒पोप॑स्पृश। द्वारा॒पाय॒ स्वाहा॑ ।
- द्वा॒रा॒प्युप॑स्पृश द्वारा॒प्यै स्वाहा॑ ।
- +++(देव्या)+++ अ॒न्वा॒सा॒रिण॒ उप॑स्पृशत। अन्वासा॒रिभ्य॒स् स्वाहा॑ +++(→मध्ये द्वे)+++।
- नि॒ष॒ङ्गिन्न् +++(जयन्त!)+++ उप॑स्पृश। निष॒ङ्गिणे॒ स्वाहा॑ +++(→दक्षिणस्यां द्वे)+++।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- With the next (formulas, II, 18, 42-45) he does the same as before (i.e. he distributes two leaves with each Mantra).
हरदत्तः
पूर्ववद्उत्तरैर्मन्त्रैः “द्वारापोस्पृशे"त्यादिभिः चतुर्भिः पर्णानि देयानि पूर्ववद् एकैकेन द्वे द्वे इत्यर्थः । अत्र द्वारापो देवः द्वारपालः । द्वारापी देवी च द्वारापाला । अभ्यासारिणोऽपि देव्या अनुचराः । निषिङ्गिन्न् इति जयन्तस्याभिधानम् । तेभ्यो यथा स्वमोदनैस्तत्र तत्र दानम् ॥६॥
सुदर्शनः
पूर्वं यथा “गृहपोपस्पृश” इत्यादिभिर्दक्षिणोत्तरकुट्योर्मध्ये च स्वेभ्य एवौदनेभ्यो द्वे द्वे पर्णे प्रतिमन्त्रं दत्ते, एवं उत्तरैः “द्वारापोपस्पृश” इत्यादिभिश्चतुर्भिर्दद्यात् ॥ अथ प्रयोगः—परिषेचनान्ते कृते “गृहपोपस्पृश” इति दक्षिणस्याम् । “गृहप्युपस्पृशे"त्युत्तरस्याम् । “घोषिणः” इति मध्ये । ततश्च “श्वासिनः” इति दक्षिणस्याम् । “विचिन्वन्तः” इत्युत्तरस्याम् । “प्रपुन्वन्तः” इति मध्ये । ततः “समश्नन्तः” इति दक्षिणस्याम् । एतदन्तं द्वे द्वे पर्णे । ततो दक्षिणस्यामेव “देवसेनाः” इति दश पर्णानि । तथैव “या आख्याताः” इति दश पर्णानि । तस्यामेव ततः पुनरपि तत्रैव “द्वारापोपस्पृश” इति द्वे पर्णे । “द्वारापि” इत्युत्तरस्याम् । “अन्वासारिणः” इति मध्ये द्वे । “निषङ्गिन्” इति दक्षिणस्यां द्वे इति । अत्र यद्यपि केचन मन्त्रा अव्यक्तलिङ्गका बहुवचनलिङ्गकाश्च, तथापीशानमीढुषीजयन्ता एव देवताः । प्रमाणं च “गृहपि"“द्वारपि” “निषङ्गिन्” इति मन्त्रलिङ्गदर्शनम् । “दश देवसेनाभ्यो दशोत्तराभ्य, इत्यत्र तु सूत्रकारवचनाद्देवस्येशानस्य सेना देवसेना एव देवताः । ममकारास्पदीभूतस्य च पुत्रभृत्यादेः पूजापि पितृस्वाम्यादिपूजैव, पुत्रादिपूजायां सत्यां पित्रादेरहमेव पूजित इति मानसप्रत्यक्षोदयात् । अत एव च जातेष्टेस्संवलिताधिकारत्वम् । तस्मादिह देवस्यौदनाद्देवसेनाभ्यो दानं न विरुध्यते । केचित्—मान्त्रवर्णिक्य एव देवताः । तेन गृहपेति देवाय; “रुद्रः खलु वै वास्तोष्पतिः” (तै.सं.३-४-१०.) इति श्रुतेः । “गृहपी"ति देव्यै । “घोषिण” इति तु पञ्चभिर्देवस्यानुचरेभ्यः सर्पगणेभ्यः । आश्वलायनीये स्पष्टत्वात् । ततो “देवसेनाः” इति द्वाभ्यां देवसेनाभ्यः । “द्वारापे"ति देवस्य द्वारपालाय । “द्वारपी"ति देव्यै द्वारपालायै । “अन्वासारिण” इति देव्या एवानुचरेभ्यः । “निषङ्गिन्” इति जयन्ताय, तस्याप्यावाहितस्य बलिना भाव्यत्वादिति ॥६॥
मूलम् ...{Loading}...
पूर्ववदुत्तरैः ।
२० ०७ ओदनपिण्डं संवृत्य
२० ०७ ओदनपिण्डं संवृत्य ...{Loading}...
+++(होमबलिशेषेभ्यः त्रिभ्यः ओदनेभ्य उपादाय - केचित्जयन्तस्योदनादिति)+++
ओदनपिण्डं संवृत्य
पर्ण-पुटे ऽवधायोत्तरेण यजुषा वृक्ष आसजति+++(=अवलम्बयति)+++ ७
४६ नमो निषङ्गिणे ...{Loading}...
नमो॑ निष॒ङ्गिणे+++(→ इषुव्यतिरिक्तानां शस्त्राणाम् आवासस्थानवते ।)+++
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- Having formed a lump of boiled rice, he puts it into a basket of leaves, and with the next Yajus (II, 18, 46) hangs it up on a tree.
हरदत्तः
अथ तस्यैवोदनात् *पिण्डं उभाभ्यां हस्ताभ्यां संवृत्य दृढं कृत्वा पर्णैस्स्यूतैः कृते पुटेऽवधाय तं शिक्ये कृत्वोत्तरेण यजुषा “नमो निषङ्गिण इषुधिमते”, इत्यनेन वृक्ष आसजति अवसम्बयति ॥७॥
सुदर्शनः
अथ होमबलिशेषेभ्यः त्रिभ्य ओदनेभ्य उपादाय पिण्डं संवर्तयति सुदृढं करोति । शेषाणां प्रतिपत्त्यपेक्षत्वात् । केचित्—जयन्तस्योदनादिति । ततस्तं पिण्डं पर्मपुटेऽवधायोत्तरेण यजुषा “नमो निषङ्गिण इषुधिमते” इत्येतावतैव मन्त्रसमाम्नायगतेन वृक्षे कस्मिंश्चिद् आसजति शिक्ये कृत्वावलम्बयति ॥७॥
मूलम् ...{Loading}...
ओदनपिण्डं संवृत्य पर्णपुटेऽवधायोत्तरेण यजुषा वृक्ष आसजति ।
२० ०८ अत्र रुद्रान्
२० ०८ अत्र रुद्रान् ...{Loading}...
अत्र रुद्रान् जपेत् ८
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- Here he should murmur the Rudra texts (Taitt. Saṃh. IV, 5),
हरदत्तः
अत्र अस्मिन्काले रुद्रान् “नमस्ते रुद्र मन्यव” इत्यादीनेकादशानुवाकान् जपेत् । एतैरेव देवमुपतिष्ठेतेत्यर्थः । (तत्रोत्तमस्यानुवाकस्यादितो दशस्वृक्षु” तेषाँ सहस्रयोजन” इत्यनुषङ्गः । अन्ततस्त्रयो मन्त्राः “नमोरुद्रेभ्यो ये पृथिव्यां येषामन्नमिषवः” “नमो रुद्रेभ्यो येऽन्तरिक्षे येषां वातः” “नमो रुद्रेभ्यो ये दिवि येषां वर्षमिषवस्तेभ्यः” इत्यादि सर्वत्रानुषङ्गः ॥८॥ )
सुदर्शनः
अत्रास्मिन्काले । अन्ये तु— अत्र वृक्षसमीप इति । रुद्रान् “नमस्ते रुद्र मन्यवे” (तै.सं.४-५-१.) इत्येकादशानुवाकान् जपेत् चातुस्स्वर्येण तत्रोत्तमानुवाके “अस्मिन् महति” इत्यादिष्वष्टसु “तेषां सहस्रयोजने” (तै.सं.८-५-११.) इत्याद्यनुषङ्गः । तथा “नमो रुद्रेभ्यो ये पृथिव्यां येषामन्नमिषवस्तेभ्यः” “नमो रुद्रेभ्यो ये ऽन्तरिक्षे येषां वात इषवस्तेभ्यः” “नमो रुद्रेभ्यो ये दिवि येषां वर्षमिषवस्तेभ्यो दश प्राचीर्दश दक्षिणा” इत्याद्यनुषङ्गः ॥८॥
मूलम् ...{Loading}...
अत्र रुद्रान् जपेत्।
२० ०९ प्रथमोत्तमौ वा
२० ०९ प्रथमोत्तमौ वा ...{Loading}...
प्रथमोत्तमौ वा ९
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- Or the first and last (Anuvāka).
हरदत्तः
अथ वा प्रथमोत्तमाभ्यामेवानुवाकाभ्यामुपस्थानं कर्तव्यम् ॥९॥
सुदर्शनः
अथ वा रुद्राणां प्रथमोत्तमाव् एवानुवाकौ जपेत् ॥९॥
मूलम् ...{Loading}...
प्रथमोत्तमौ वा ।
२० १० अभित एतमग्निम्
२० १० अभित एतमग्निम् ...{Loading}...
अभित एतमग्निं गास् स्थापयति
यथैता धूमः प्राप्नुयात् १०
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- He places his cows around the fire so that the smoke (of the sacrifice) may reach them.
हरदत्त-प्रस्तावः
अथ प्रधानहोमकाल एव यत्कर्तव्यं तदाह—
हरदत्तः
एतं हूयमानमग्निमभितो गाः आत्मीयाः यथा स्थापयति स्थापने एना गाः धूमः प्राप्नुयात् । अनुवातं समीप इत्यर्थः । प्रधानहोमकाले च… तदर्थमेवैतमित्युक्तं एतं हूयमानमग्निमिति ॥१०॥
सुदर्शनः
एतं ** होमार्थम्अग्निमभितः** होमाग्नेस्समीप इत्यर्थः । गाः स्वकीयास् स्थापयत्य् अनुवातं, यथैना गा होमधूमः प्राप्नुयात् । केचित्— गोशान्त्यर्थमपीदं कर्मेत्यत्रैतत् ज्ञापकमिति ॥१०॥
मूलम् ...{Loading}...
अभित एतमग्निं गास्स्थापयति यथैना धूमः प्राप्नुयात् ।
२० ११ ता
२० ११ ता ...{Loading}...
ता गन्धैर् दर्भ-ग्रु+++(=गुरु)+++-मुष्टिनावोक्षति
वृषाणम्+++(=वृषभं)+++ एवाग्रे ११
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- 1 With his firmly shut fist full of Darbha grass he besprinkles (them) with scents; the bull first.
हरदत्तः
ता गन्धैस् सुरभिचन्दनादिभिर् अवोक्षति दर्भग्रुमुष्टिना, न हस्तेन । गुरुमुष्टिः ग्रुमुष्टिः छान्दस उकारलोपः । सन्नखेन दर्भमुष्टिनेत्यर्थः । तत्र होम कालवचनं प्रोक्षणं तस्मिन् काले ॥१०॥ वृषाणं वृषभं तमेवाग्रे प्रोक्षति । यद्यप्यसावुपक्रमे न तिष्ठेत् तथापि अङ्गत्वात् तस्यैवावोक्षणम् । अग्रे तदर्थ एव कालः ॥११॥
सुदर्शनः
ता गन्धैश् चन्दनादिना युक्तैः । दर्भग्रुमुष्टिना दर्भाणां गुरुमुष्टिर्दर्भग्रुमुष्टिः । उकारलोपश्छान्दसः । सन्नखो दृढमुष्टिरित्यर्थः । तेनावोक्षति । तत्र विशेषः— वृषाणं, वृषभम् एवाग्रेऽवोक्षति । **एवकारात्तस्मिन्नवोक्ष्यमाणेऽन्या काचिद्गौर्नावोक्ष्यते । ततो गोचराय गाः प्रस्थापयति ॥११॥
मूलम् ...{Loading}...
ता गन्धैर्दर्भग्रुमुष्टिनाऽवोक्षति वृषाणमेवाग्रे ।
२० १२ गवाम् मर्गेऽनग्नौ
२० १२ गवाम् मर्गेऽनग्नौ ...{Loading}...
गवां मर्गेऽनग्नौ क्षेत्रस्य पतिं जयते १२
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- He should perform a sacrifice to Kṣetrapati, without a fire, in the path used by his cows.
हरदत्तः
अथ क्षैत्रपत्यस्थालीपाकस्य विधिः– मर्गे मार्गे छान्दसो ह्रस्वः । अनग्नौ भूमावेव । गवामपगच्छन्तीनां कस्याश्चित् गोः पथि यागविधानात् अग्नौ प्राप्ते प्रतिषेधः ॥१२॥
सुदर्शनः
ततः प्रस्थितानां गवां मर्गे मार्गे । छान्दसो हस्वः । अनग्नौ भूमावेव क्षेत्रस्य पतिं यजते ॥१२॥
मूलम् ...{Loading}...
गवां मर्गेऽनग्नौ क्षेत्रस्य पतिं यजते ।
२० १३ ईशानवदावाहनम्
२० १३ ईशानवदावाहनम् ...{Loading}...
ईशानवद् आवाहनम् १३
१० आ त्वा ...{Loading}...
आ त्वा॑ वहन्तु॒ हर॑य॒स्+++(=हरितवर्णाश्वाः)+++ सचे॑तसश्
श्वे॒तैर् अश्वै॑स् स॒ह के॑तु॒मद्भिः॑ ।
वाता॑जिरै॒र्+++(=वातगतिभिः)+++ मम॑ ह॒व्याय॑ शर्व+++(←शॄ हिंसायाम्)+++ ।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- He has (the Kṣetrapati) led to his place in the same way as the Īśāna (see above, Sūtra 1).
हरदत्तः
तस्य क्षेत्रपतेर् आवाहनं ईशानवत् कर्तव्यम् । “आ त्वा वहन्त्वि"त्यनयर्चेत्यर्थः । शर्वशब्दोऽपि तस्य पर्यायनाम द्रष्टव्यम् ॥१३॥
सुदर्शनः
क्षेत्रस्य पतेर् आवाहनमीशानवत्, “आ त्वा वहन्तु” इत्येतयेत्यर्थः ॥१३॥
मूलम् ...{Loading}...
ईशानवदावाहनम् ।
२० १४ चतुर्षु सप्तसु
२० १४ चतुर्षु सप्तसु ...{Loading}...
चतुर्षु सप्तसु वा पर्णेषु +++(स)+++नामादेशं +++(“क्षेत्रस्य पतये त्वां ददामि” इति)+++ दधाति १४
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- He puts (portions of boiled rice) into four or seven leaves, naming (the god).
हरदत्तः
आवाह्यार्घ्यं दत्वा गन्धादिभिरभ्यर्च्य स्थालीपाकमासाद्याभिघार्य चत्वारि सप्त वा पर्णानि देवस्य समीपे कृत्वा तेषु नामादेशं नामादिश्यौदनपिण्डं दधाति स्थालीपाकात् । तत्र पूर्वेषु पर्णदानमन्त्रेषु स्वाहाकारान्तत्वनियमात् इहापि क्षेत्रस्य पतये स्वाहेति पर्णदानम् । एष एवास्य यागः ॥१४॥
सुदर्शनः
चत्वारि सप्त वा पर्मानि भूमौ स्थापयित्वा तेषु क्षैत्रपत्यात् स्थालीपाकादोदनमादाय नामादेशं नाम चतुर्थ्यन्तमादिश्य “क्षेत्रस्य पतये त्वां ददामि, इति दधाति । “डुधाञू धारणपोषणयोः” इति स्मरणात् । केचित्—क्षेत्रस्य पतये स्वाहेति ददाति । पूर्वत्र बलिमन्त्रेषु स्वाहाकारस्य दृष्टत्वादिति । अत्र तु न सहौदनानि पर्णानि देयानि ; पर्णेष्विति सप्तमीनिर्देशात् ॥१४॥
मूलम् ...{Loading}...
चतुर्षु सप्तसु वा पर्णेषु नामादेशं दधाति ।
२० १५ क्षिप्रं यजेत
२० १५ क्षिप्रं यजेत ...{Loading}...
क्षिप्रं यजेत पाको देवः १५
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- 3 Let him sacrifice quickly; the god has a strong digestion (?).
हरदत्तः
पाको बालस्तद्वत् गमनशीलोऽयं देवः तस्माच्छीघ्रं यजेतेत्यर्थः ॥१५॥
सुदर्शनः
अयं चौदनदानात्मको यागः क्षिप्रम् आवाहनानन्तरमुदकमेव प्रदाय कर्तव्यः । गन्धादिप्रदानं तु यागोत्तरकालमेव ; यतः पाक अल्पो देवः । एतदुक्तं भवति— अनित्यदर्शनत्वात् क्षेत्रस्य पतेः शीघ्रमेव बलिर्देय इति । केचित्—पाकः बालः बालवद्गमनशीलः । तथा गन्धादि दत्वैवात्रापि बलिरिति ॥१५॥
मूलम् ...{Loading}...
क्षिप्रं यजेत पाको देवः ।
२० १६ उत्तराभ्यामुपतिष्ठते
२० १६ उत्तराभ्यामुपतिष्ठते ...{Loading}...
उत्तराभ्याम् उपतिष्ठते १६
४७ -४८ क्षेत्रस्य पतिना ...{Loading}...
क्षेत्र॑स्य॒ पति॑ना व॒यँ हि॒तेने॑व जयामसि ।
गाम् अश्व॑म् पोषयि॒त्न्व्+++(=पोषयिताता)+++ आ स नः॑ मृ॒डा॒+++(=सुखय)+++ती॒दृशे॑ +++(कर्मणि)+++।
क्षेत्र॑स्य पते॒ मधु॑मन्तम् +++(गोयूथ-)+++ऊ॒र्मिन् - धे॒नुर् इ॑व॒ पयो॑ अ॒स्मासु॑ धुक्ष्व - म॒धु॒श्-चुत॑ङ्, घृ॒तम् इ॑व॒ सुपू॑तम्।
ऋ॒तस्य॑ न॒ᳶ पत॑यो मृडयन्तु+++(=सुखयन्तु)+++ ।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- With the next two (verses, II, 18, 47. 48) he does worship (to Kṣetrapati).
हरदत्तः
उत्तराभ्यां “क्षेत्रस्य पतिना वयम्” इति द्वाभ्याम् ॥१६॥
सुदर्शनः
“क्षेत्रस्य पतिना वयम्” इति द्वाभ्यामृग्भ्यामुपतिष्ठते ॥१६॥
मूलम् ...{Loading}...
उत्तराभ्यामुपतिष्ठते ।
२० १७ स्थालीपाकम् ब्राह्मणान्
२० १७ स्थालीपाकम् ब्राह्मणान् ...{Loading}...
स्थालीपाकं ब्राह्मणान् भोजयेत् १७
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- The Sthālīpāka (belonging to Īśāna) he gives to the Brāhmaṇas to eat;
हरदत्त-प्रस्तावः
“ओदनपिण्डं संवृत्य” इत्यादिना होमबलिशेषाणां प्रतिपत्तिरुक्ता । इदानीमीशानस्थालीपाकशेषस्य प्रतिपत्तिमाह—
हरदत्तः
“तेन सर्पिष्मता” इति पार्वणातिदेशेनैव सिद्धे बहुत्वविधानार्थं वचनम् ॥१७॥
सुदर्शनः
अयं च प्राकृतप्रतिपत्त्यनुवादो ब्राह्मणबहुत्वं विधातुम्, सर्पिष्मत्त्वं निवर्तयितुं वा ॥१७॥
मूलम् ...{Loading}...
स्थालीपाकं ब्राह्मणान् भोजयेत् ।
२० १८ क्षैत्रपत्यम् प्राश्नन्ति
२० १८ क्षैत्रपत्यम् प्राश्नन्ति ...{Loading}...
क्षैत्रपत्यं प्राश्नन्ति ये+++(←दौहित्रादीनामपि सम्बन्धिनां प्रतिग्रहार्थम् प्रयोगः)+++ सनाभयो+++(→पुत्राः भ्रातरश्च)+++ भवन्ति १८
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- That belonging to Kṣetrapati his uterine relations eat,
हरदत्त-प्रस्तावः
क्षैत्रपत्यस्य प्रतिपत्तिमाह—
हरदत्तः
सनाभयस्समानयोनयः पुत्राः भ्रातरश्च । सनाभय इत्येव सिद्धे ये भवन्ति इति वचनं दौहित्रादीनामपि सम्बन्धिनां प्रतिग्रहार्थम् ॥१८॥
सुदर्शनः
सनाभयस् सपिण्डाः ॥१८॥
मूलम् ...{Loading}...
क्षैत्रपत्यं प्राश्नन्ति ये सनाभयो भवन्ति ।
२० १९ यथा वैषाम्
२० १९ यथा वैषाम् ...{Loading}...
यथा वैषां कुल-धर्मस् स्यात् १९
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- Or as is the custom in their family.
हरदत्तः
एषां यजमानकुलजातानां यथा कुलधर्मः तथा वा प्राशनम्–यदि पुत्राणामेव, तथा प्राशनम् । अथ सर्वेषां स्वकुलजातानां, तथा प्राशनम् । अथ स्वस्रीयादीनामपि, तथा प्राशनमिति ॥१९॥
इत्यनाकुलायां हरदत्तमिश्रविरचितायां गृह्यवृत्तौ विंशः खण्डः सप्तमश्च पटलः ॥
सुदर्शनः
यद्येषाम् अनुष्ठातॄणां असपिण्डकर्तृकप्राशनमपि कुलधर्मस् तर्हि तथा वा स्यात् ॥१९॥ सप्तमे पटलेऽप्येवं कृतं भाष्यानुसारतः । श्रीमत्सुदर्शनार्येण गृह्यतात्पर्यदर्शनम् ॥१॥ अत्रानुक्तं दुरुक्तं वा यत्प्रमादादिहेतुकम् । वेदमार्गानुवर्तित्वात् तत्क्षन्तव्यं मनीषिभिः ॥३॥ इति श्रीसुदर्शनाचार्यविरचिते गृह्यतात्पर्यदर्शने विंशः खण्डः ॥ समाप्तस्सप्तमश्च पटलः ॥
मूलम् ...{Loading}...
यथा वैषां कुलधर्मस्स्यात् ।
-
The description of the śūlagava sacrifice, which here follows, agrees in most points with the statements of Hiraṇyakeśin II, 3, 8. ↩︎ ↩︎
-
20, 1-3. Comp. Hiraṇyak. II, 3, 8, 2-4. Haradatta explains the Īśāna, the mīḍhuṣī, and the jayanta as images of the three gods. ↩︎
-
I have translated here as in Hiraṇyak. II, 3, 9, 11. Haradatta and Sudarśanārya give another explanation of the words ‘pāko devaḥ;’ see p. 93 of the edition. ↩︎