१८ ०१ श्वग्रहगृहीतङ् कुमारम्
१८ ०१ श्वग्रहगृहीतङ् कुमारम् ...{Loading}...
श्वग्रह+++(=श्वेव नदति, श्ववद्वा चेष्टते)+++गृहीतं कुमारं
तपोयुक्तो+++(=यावन्मनस्तोषमनशनादियुक्तः)+++ जालेन प्रच्छाद्य कंसं किङ्किणिं+++(=लोहघण्टां)+++ वा ह्रादयन्न्+++(=पुरुषान्तरेण ध्वानयन्)+++
अद्वारेण +++(=भित्यादिकमपसार्य मार्गं कृत्वा)+++ सभां प्रपाद्य
सभाया मध्ये ऽधिदेवनम्+++(=दीवनं यत्र कुर्वन्ति कितवः)+++ उद्धत्य+अवोक्ष्य
+अक्षान्+++(=विभीतकफलानि, केचित्शारा इति)+++ न्युप्य
अक्षेषूत्तानं +++(=शयानम्)+++ निपात्य
दध्ना लवणमिश्रेणाञ्जलिनोत्तरैर् +++(“कूर्कुरस्सुकूर्कुर"इत्यादिभिः"श्वानमिच्छ्वादन्न पुरुषं छत्"इत्यन्तैः)+++ अवोक्षेत् प्रातर्मध्यन्दिने सायम् १
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- 1 When a boy is attacked by the dog-demon (i.e. epilepsy), (the father or another performer of the ceremony), having devoted himself to austerities (such as fasting), covers him with a net. Then he causes a gong to be beaten or a bell to be rung, takes (the boy) by another way than the door into the gambling-hall, raises (the earth in the middle of the hall) at the place in which they gamble, sprinkles it (with water), casts the dice, lays (the boy) on his back on the dice, and besprinkles him with his joined hands with curds and salt, with the next (eleven) (formulas, II, 16, 1-11), in the morning, at noon, and at night.
हरदत्त-प्रस्तावः
अथोत्तरेषां मन्त्राणां विनियोगमाह—
हरदत्तः
बहवो बालग्रहाः दिवसमाससमादिकाः । तत्र येन गृहीतः श्ववच्चेष्टते स श्वग्रहः । तेन गृहीतं कुमारं, पुल्लिङ्गनिर्देशात् कुमार्या न भवतीत्येके । तपोयुक्तः कर्ता पितेत्येके । यः कश्चिदित्यन्ये । तपो ब्रह्मचर्यादि । यावता तपसा सिद्धिं मन्यते तावत् कृत्वेत्यर्थः । जालं मत्स्यग्रहणं तेन प्रच्छाद्य । कंसं प्रसिद्धम् । किङ्किणिः घण्टाविशेषः । तयोरन्यतरं ह्रादयन् अन्यतरस्य ध्वनिं कारयन् केनचिदन्येन । स्वयं कुमारं गृहीत्वा समां प्रपादयति अद्वारेण छदीरपोह्य मार्गं कृत्वा तेनेत्यर्थः । किं तत् स्थानम्? सभा, तस्या मध्ये ऽधिदेवनं स्थानं यत्र कितवा दीव्यन्ति तं प्रदेशं उद्धत्याद्भिरवोक्ष्य तत्राक्षान्निवपति । अक्षाश्शाराः । विभीतका इत्यन्ये । तान् पृथु प्रथयित्वाप्वेनमुत्तानं निपातयति । शाययति । ततो दध्ना लवणमिश्रेणावोक्षेदञ्जलिना उत्तरैर् मन्त्रैः “कूर्कुरस्सुकूर्कुर” इत्यादिभिः “श्वानमिच्छ्वादन्न पुरुषं छत्” इत्यन्तैः । प्रतिमन्त्रमवोक्षणम् । तत्रादितस्तिस्र ऋचः, ततो यजुषी द्वे “तत्सत्यं, विगृह्य बाहू” इति ततः पञ्चर्चो “विभ्रन्निष्कञ्चे"त्याद्याः, ततो यजुरेकं “श्वानम्” इति, एवमेकादशैते मन्त्राः । यावत् कर्म समाप्यते तावत् संसकिङ्कण्योरन्यतरस्य ह्रादनम् । एवमेतत्कर्म जालप्रच्छादनादवोक्षणान्तं त्रिसन्ध्यं कर्तव्यम् ॥१॥
सुदर्शनः
येन गृहीतः कुमारः श्वेव नदति, श्ववद्वा चेष्टते स श्वग्रहः । तेन गृहीतः श्वग्रहगृहीतः , पिशाचिशुना वा दष्टः । तपोयुक्तः यावन्मनस्तोषमनशनादियुक्तः पित्रादिः कर्ता । जालं मत्स्यग्रहणसाधनम् । कंसं किङ्किणिम् । लोहघण्टां ह्रादयन् पुरुषान्तरेण ध्वानयन् अद्वारेण कुड्याद्यपोह्य मार्गं कृत्वा । अधिदेवनं यत्र दीव्यन्ति कितवाः । अक्षान् विभीतकफलानि । केचित्—शारा इति । उत्तरैर्मन्त्रैः “कूर्कुरस्सुकूर्कुरः” इत्यादिभिर्यजुर्दशमैः । यद्वैकादशभिः । तस्मिन् पक्षे आदितस्तिस्र ऋचः ततः “तत्सत्यं यत्त्वेन्द्रः” विगृह्य बाहू इति द्वे ततो “बिभ्रन्निष्कम्” इति पञ्चर्चः । ततः “श्वानम्” इत्येकादशं यजुरेवेति विभागः । अवोक्षणं च सर्वेषां मन्त्राणामन्ते सकृदेव । केचित्—द्वष्टोपकारकत्वात् प्रतिमन्त्रमिति । एवमेतज्जालप्रच्छादनाद्यवोक्षणान्तं प्रातरादिषु त्रिषु पुण्याहविशेषेषु कर्तव्यम् । अवोक्षणपर्यन्तं च ह्रादनम् ॥१॥
मूलम् ...{Loading}...
श्वग्रहगृहीतं कुमारं तपोयुक्तो जालेन प्रच्छाद्य कँसं किङ्किणिं वा ह्रादयन्नद्वारेण सभां प्रपाद्य सभाया मध्येऽधिदेवनमुद्धत्यावोक्ष्याक्षान्न्युप्याक्षेषूत्तानं निपात्य दध्ना लवणमिश्रेणाञ्जलिनोत्तरैरवोक्षेत्प्रातर्मध्यन्दिने सायम् ।
१८ ०२ अगदो भवति
१८ ०२ अगदो भवति ...{Loading}...
अगदो+++(=अरोगो)+++ भवति २
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- Then he will get well.
हरदत्तः
अगदः अरोगः, रोगनिवृत्तिरस्य प्रयोजनमित्यर्थः । किं सिद्धं भवति? यदि भैषज्येन कुमारोऽगदः स्यात् न तत्रेदं कर्तव्यमिति । अन्यथा कुमार स्यास्मिन् रोगे पितुर्नैमित्तिकमिदमवश्यं कर्तव्यं विज्ञायेत गृहदाहेष्ट्यादिवत् । एवं ब्रुवतां दोषः यक्ष्मगृहीतामन्यां वेत्येतत्प्रकारान्तरेण रोगशान्तावपि कर्तव्यं स्यात् । तस्मादिदमन्यत् प्रयोजनम् । एवमेतस्मिन् कर्मणि त्रिषु कालेषु कृते कुमारोऽगदो भवति । यदि न भवति पुनरपि तपोयुक्तेन कर्तव्यमिति ॥२॥
सुदर्शनः
इह च “शङ्खिनम्” इत्यत्र फलवचनं, सर्वत्र श्रुतितोऽर्थतो वावगतस्य कामिनः कर्मोपदेशः सामर्थ्यात् फलसिद्ध्यवगमपर्यन्त इति प्रदर्शयितुम् । तेन “यक्ष्मगृहीताम्” (आप.गृ.९-१०.) इत्यादौ फलवचनाभावेऽप्युपदेशः काम्यसिद्धिपर्यन्त एव । केचित्— एवमेतस्मिन् कर्मणि त्रिसन्ध्यं कृते, अगदो भवति । यदि न भवति तदा पुनरप्येतत्कर्म कर्तव्यं, यावदगदो भवति । नैतत्, स्वाभिमताभ्यासबोधकशब्दाभावात् ॥२॥
मूलम् ...{Loading}...
अगदो भवति।
१८ ०३ शङ्खिनङ् कुमारम्
१८ ०३ शङ्खिनङ् कुमारम् ...{Loading}...
शङ्खिनं+++(=शङ्खवन्नदतं)+++ कुमारं तपोयुक्त+++(=यावन्मनस्तोषमनशनादियुक्तः)+++
उत्तराभ्याम् +++(“एते ते प्रतिदृश्येते"इत्येताभ्यां)+++ अभिमन्त्र्य
+++(“ऋषिर्बोधः प्रबोधः"इत्येतया)+++ उत्तरयोदकुम्भेन शिरस्तो ऽवनयेत्
प्रातर् मध्यन्दिने सायम् ३
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- 2 Over a boy who suffers from the ‘Śaṅkha’ disease, (the father, &c.) having devoted himself to austerities, should recite the next two (verses, II, 16, 12. 13), and should pour (water) on his head with a water-pot with the next (verse, II, 16, 14), in the morning, at noon, and at night.
हरदत्तः
शङ्खो नाम ग्रहः कुमाराणां भयङ्करः, येन गृहीतः शङ्खवन्नदतीति । तेन गृहीतं शङ्खिनमुत्तराभ्यां एते ते प्रतिदृश्येते इत्येताभ्यामृग्भ्यां अभिमन्त्र्य तत उदकुंभेन शिरस्तोऽवनयेत, अभिषिञ्चेद् उत्तरयर्चा “ऋषिर्बोधः प्रबोध” इत्येतया एवमेतदभिमन्त्रणादि त्रिषु कालेषु कर्तव्यम् ॥३॥
सुदर्शनः
शङ्खोऽपि ग्रहः; येन गृहीतः शङ्खवन्नदति तद्गृहीतश् शङ्खी । उत्तराभ्यां “एते ते प्रतिदृश्येते” इत्येताभ्यां उत्तरया “ऋषिर्बोधः प्रबोधः” इत्येतया शिरस्तोऽवनयेत् शिरस्यभिषिञ्चेत्, उदकुम्भेन त्रिसन्ध्यम् ॥३॥
मूलम् ...{Loading}...
शङ्खिनं कुमारं तपोयुक्त उत्तराभ्यामभिमन्त्र्योत्तरयोदकुम्भेन शिरस्तोऽवनयेत्प्रातर्मध्यन्दिने सायम् ।
१८ ०४ अगदो भवति
१८ ०४ अगदो भवति ...{Loading}...
अगदो+++(=अरोगो)+++ भवति ४
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- Then he will get well.
हरदत्तः
पूर्ववदस्य प्रयोजनम् ॥४॥
सुदर्शनः
उक्तार्थम् ॥४॥
मूलम् ...{Loading}...
अगदो भवति।