१० ०१ उपनयनं व्याख्यास्यामः
१० ०१ उपनयनं व्याख्यास्यामः ...{Loading}...
उपनयनं व्याख्यास्यामः १
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- We shall explain the Upanayana (or initiation of the student).
हरदत्तः
येन आचार्यकुलमुपनीयते कुमारः तदुपनयनं नाम कर्म श्रौतः पुरुषसंस्कारः । “गर्भाष्टमेषु ब्राह्मणमुपनयीत” इति वक्ष्यमाणेनैवोपनयनाधिकारे सिद्धे प्रतिज्ञाकरणं प्राधान्यख्यापनार्थम् । यथा “अग्न्याधेयं व्याख्यास्याम” (आप. श्रौ. ५.१.१.) इत्यादौ । कथं पुनरुपनयनस्य प्राधान्यम्? यस्मादनुपनीतस्य श्रौतस्मार्तेषु सर्वेषु कर्मस्वनधिकारः । उपनयने तु गर्भाधानादिभिरसंस्कृतस्यानधिकारः । यत्र ब्रह्मचारिधर्माः सामयाचारिकेषु तत्रैवोपनयनेऽप्युच्यमाने सर्वचरणार्थता स्यात् । इष्यते चास्मदीयानामेवायं कल्पः । तस्मादत्रोपदेशः ॥१॥
सुदर्शनः
उपनयनमिति कर्मनामधेयम् । कुमारस्याचार्यसमीपनयनमस्मिन् कर्मणीति, पङ्कजादिवत् । विर्विस्तरार्थः । आङ् बलवदर्थः । चक्षिङोऽत्र व्यक्तवागर्थस्य ख्याञादेशात् व्याख्यास्याम इति रूपम् । तथा चायमर्थः उपनयनाख्यं कर्म वैकल्पिककल्पोक्त्या विस्तृतं बलवत्प्रमाणोपपन्नं असाधारणैश्शब्दैर्वक्ष्याम इति । इयं च प्रतिज्ञा श्रोतृजनमनोऽवधारणार्था । केचित्–दैवादेर्विघ्नात् पूर्वैर्निषेकादिभिरसंस्कृतस्याप्युपनयनं भवत्येव । न तूपनयनासंस्कृतस्य उत्तराणि श्रौतस्मार्तानीत्येवमुपनयनप्राधान्यज्ञापनार्था प्रतिज्ञा । किञ्च गृह्योपदिष्टकर्मसु गृहस्थस्यैवाधिकारो न ब्रह्मचारिण इत्येवंरूपं विशेषं ज्ञापयितुमप्रतिज्ञं विवाहमुपदिश्य उपनयनकल्पोपदेशः सप्रतिज्ञः क्रियते । अस्य च कल्पस्य धर्मशास्त्रे “उपनयनं विद्यार्थस्य” (आप.ध.१-१-९.) इत्य त्रानुपदेशः सर्वचरणार्थतां निवर्तयितुमिति ॥१॥
मूलम् ...{Loading}...
उपनयनं व्याख्यास्यामः।
१० ०२ गर्भाष्टमेषु ब्राह्मणमुपनयीत
१० ०२ गर्भाष्टमेषु ब्राह्मणमुपनयीत ...{Loading}...
गर्भाष्टमेषु+++(=गर्भवर्षाद्य्-अष्टमं येषां तेषु [वर्षेषु])+++ ब्राह्मणम् उपनयीत २
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- Let him initiate a Brāhmaṇa in the eighth year after the conception,
हरदत्तः
यस्मिन् वर्षे गर्भो भूत्वा शेते तद्वर्षं गर्भशब्देनोच्यते तदष्टमं येषां तानीमानि गर्भाष्टमानि वर्षाणि । बहुवचनं सौरादिभेदेन वर्षाणं भिन्नत्वात् ।
अपर आह– जन्मप्रभृति सप्तानां वर्षाणां गर्भमष्टमं भवति । तेन सप्तस्वपि वर्षेषूपनयनं चोद्यते । तत्र चतुर्षु वर्षेष्वयोग्यत्वात् चौलादि-संस्कारान्तर-विरोधाच् च पञ्चमादिषु त्रिषूपनयनमिति । अत्र षष्ठसप्तमयोः काम्यम् उपनयनम्, अष्टमे नित्यमित्य् अयं विशेषो न स्यात् । सर्वत्र नित्यम् एव स्यात् ।
किंच पञ्चमे षष्ठे वा वर्षे वर्तमाने कथं गर्भवर्षमष्टमं भवति । नह्य् असत्य-पूरणीयेषु पूरणत्वम् उपपद्यते । तस्मात् सप्तमे वर्तमान एव गर्भ-वर्षम् अष्टमं भवति । तस्माद् अविवक्षितं बहुवचनम् ।
पूर्वोक्तो वा निर्वाहः । काम्यं तूपनयनं विध्य्-अन्तर-लभ्यम् । उपनयीतेति पाठः श्रुत्य्-अनुसारेण शब्-विकरणस् तु धातुः । राजन्य-वैश्ययोः विशेषोपदेशाद् एव गर्भाष्टम-विधेः ब्राह्मण-विषयत्वे सिद्धे ब्राह्मण-विधिः श्रुत्य्-अनुवाद एव । पुनर् उपनयीतेत्य् अनुच्यमाने पूर्वम् उपनयन-ग्रहणम् अधिकारार्थम् एव स्यात्, तम् अर्थं न साधयेत् यस् तत्र साध्यः ॥२॥
सुदर्शनः
गर्भाष्टमेषु वर्षेष्विति शेषः । “गर्भादिस् सङ्ख्या वर्षाणाम्” (गौ.ध.२-७.) इति गौतमवचनात् । गर्भ-शब्देन यस्मिन् वर्षे गर्भो वर्धते, तल् लक्ष्यते । तद्-अष्टमं येषां जन्मादीनां सप्तानां तानि गर्भाष्टमानि वर्षाणि । तेषु ब्राह्मणम् उपनयीत ।
एवं यद्यपि जन्मादि-सप्तस्व् अप्य् उपनयनं प्राप्तं, तथापि जन्मादिषु त्रिषु चौलान्तैः गर्भ-संस्कारैर् अवरुद्धत्वान् न क्रियते । चतुर्थेऽपि नैव ; कुमारस्य व्रतासामर्थ्यात्। अतोऽत्रोपादेय-गता बहुत्व-सङ्ख्या (१)कपिञ्जल-न्यायेन गर्भाद् आरभ्य षष्ठ-सप्तमाष्टमेषु त्रिष्व् एवावतिष्ठते - सामर्थ्यात् प्रयोगभेदेन ।
ननूत्तरत्र “राजन्यं” “वैश्यम्” इति विशेषोपादानाद् एव गर्भाष्टमविधिर् ब्राह्मणस्यैवेत्य् अर्थसिद्धत्वात् ब्राह्मणम् इति न वक्तव्यम् । तथोपनयनं व्याख्यास्याम इति प्रकृतत्वाद् उपनयीतेत्यपि । मैवम् ; उपनयनं श्रौतम् इति ज्ञापयितुम् । +++(यतः)+++ “अष्टवर्षं ब्राह्मणम् उपनयीत” इत्य् एतच् छ्रुत्य्-अनुकारित्वात् ।
केचित्–गर्भाष्टम एव वर्षे, न तु षष्ठ-सप्तमयोः तयोर् गर्भाष्टमत्वाभावाद् इति । तन्न - बहुवचनानर्थक्यात् ॥२॥
मूलम् ...{Loading}...
गर्भाष्टमेषु ब्राह्मणमुपनयीत।
१० ०३ गर्भैकादशेषु राजन्यम्
१० ०३ गर्भैकादशेषु राजन्यम् ...{Loading}...
गर्भैकादशेषु राजन्यं
गर्भद्वादशेषु वैश्यम् ३
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- A Rājanya in the eleventh, a Vaiśya in the twelfth year after the conception.
हरदत्तः
+++(सम्पादकटिप्पानी - “सूत्रमेतद् अग्रिमे व्याख्यातम्” )+++
सुदर्शनः
+++(सम्पादकटिप्पानी - “सूत्रमेतद् अग्रिमे व्याख्यातम्” )+++
मूलम् ...{Loading}...
गर्भैकादशेषु राजन्यं गर्भद्वादशेषु वैश्यम्।
१० ०४ वसन्तो ग्रीष्मश्
१० ०४ वसन्तो ग्रीष्मश् ...{Loading}...
वसन्तो ग्रीष्मश् शरद् इत्य् ऋतवो वर्णानुपूर्व्येण ४
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- Spring, summer, autumn: these are the (fit) seasons (for the Upanayana), corresponding to the order of the castes.
हरदत्तः
उदगयने वसन्त-नियमः ब्राह्मणस्य । क्षत्रियस्यापवादो नियमो वा । वैश्यापवादः पूर्वपक्षादयस्तु स्थिता एव ।
वर्षाण्य् ऋतवश्च विधीयन्ते इह सामयाचारिकेषु च । तत्र सामयाचारिकेषु विधानं सर्व-चरणार्थम् । इह विधानं वर्ण-नियमार्थम् । शास्त्रान्तर-दृष्टानां कालान्तराणाम् इह प्रवृत्तिर् मा भूद् इत्य् एवं ब्रुवन्न् एतत् ज्ञापयति - चौलादिषु शास्त्रान्तर-दृष्टोऽपि कालः पक्षे भवतीति ॥४॥+++(5)+++
सुदर्शनः
उभयत्रापि कपिञ्जलन्यायेन बहुवचनस्य त्रित्वम् एवार्थः ॥३॥
ऋतवो वसन्तादयस्(१) त्रयो ब्राह्मणादि-वर्ण-क्रमेणोपनयनस्य काला भवन्ति । अयं चर्तु-विधिस् सामान्य-विधि-प्राप्तोदगयनस्य यथार्हं नियमापवादार्थः । पूर्व-पक्षादिस् तु भवत्य् एव ।
धर्म-शास्त्रे तु “वसन्ते ब्राह्मणम्” (आप.ध. १-१-१९.) इत्यादिः “शिशिरे च वा सर्वान्” इति भरद्वाज-गृह्योक्त-शिशिर-प्रतिषेधार्थः ।
“गर्भाष्टमेषु ब्राह्मणम्” इत्यादिस् तु “अथ काम्यानि” (आप.ध.१-१-२०.) इत्यादि विधातुम् अनुवादः ॥४॥
मूलम् ...{Loading}...
वसन्तो ग्रीष्मश् शरद् इत्य् ऋतवो वर्णानुपूर्व्येण।
१० ०५ ब्राह्मणान् भोजयित्वाशिषो
१० ०५ ब्राह्मणान् भोजयित्वाशिषो ...{Loading}...
ब्राह्मणान् भोजयित्वाशिषो वाचयित्वा कुमारं भोजयित्वा
+++(उपनयने - एवमन्तं पित्रादेः कर्म । अथाचार्यः उष्णाश्शीताश्चापः संसृजति।)+++
ऽनुवाकस्य प्रथमेन यजुषाऽपः +++(“उष्णेनवाय” वित्येतेन)+++
संसृज्योष्णाश् शीतास्व् आनीय +++(न शीता उष्णासु)+++
हरदत्तो ऽत्र।
०१ उष्णेन वायवुदकेनेह्यदितिः ...{Loading}...
+++(उष्णा आपः शीतास्वानयति)+++ उ॒ष्णेन॑ वायवुद॒केनेह्य्, अदि॑तिः॒ केशान्॑ वपतु ।
उत्तरया +++(आप उन्दन्त्विऽत्येतया)+++ शिर उनत्ति ५
०२ आप उन्दन्तु ...{Loading}...
+++(शिरस उन्दनम् = आर्द्रीकरणम्)+++ आप॑ उन्दन्तु जी॒वसे॑
दीर्घायु॒त्वाय॒ वर्च॑से ।
ज्योक् च॒ सूर्यं॑ दृ॒शे ।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- (The boy’s father) serves food to Brāhmaṇas and causes them to pronounce auspicious wishes, and serves food to the boy. (The teacher?) pours together, with the first Yajus (of the next Anuvāka, warm and cold) water, pouring the warm water into the cold, and moistens (the boy’s) head with the next (verse; M. II, 1, 2).
हरदत्तः
अथोपनयनविधिः–पूर्वेद्युर्नान्दीश्राद्धम् । ततः श्वोभूते ब्राह्मणान् भोजयित्वा तैराशिषो वाचयति–पुण्याहं स्वस्यृद्धं इति । ततः कुमारं भोजयेत् । एवमन्तं पित्रादेः कर्म । अथाचार्यः उष्णाश्शीताश्चापः संसृजति । अनुवाकस्योत्तरस्य प्रथमेन यजुषा “उष्णेनवाय"वित्येतेन । संसृजंश्चोष्णाश्शीतास्वानयति, न शीता उष्णासु । ततस्ताभिरद्भिः कुमारस्य शिर उनत्ति क्लेदयति**–उत्तरयर्चा** “आप उन्दन्त्वि"त्येतया । उत्तरेण यजुषेत्येव सिद्धे अनुवाकस्य प्रथमेन यजुषेत्युक्तं संज्ञाकरणार्थम् । तेन उष्णेन वायवुदकेनेत्येष इत्यत्रानुवाकस्य ग्रहणं भवति । अन्यथा संशयः स्यात्–अनुवाको मन्त्रा वेति । उष्णाश्शीतास्वानीयेत्येव सिद्धे संसृज्येतिवचनं सर्वार्थत्वप्रदर्शनार्थम् । अत्मनश्च नापितस्य च या उन्दनार्थास्ताः संसृजति तच्चान्येषां व्यक्तम्–नापितं शिष्यात्–शीतोष्णाभिरद्भिरबर्थं कुर्वाणोऽक्षण्वन् कुशलीकुर्विति ॥ (आश्व.गृ.१-१७-१६.) ॥५॥
सुदर्शनः
ब्राह्मणान् भोजयित्वेत्यनेन यच्छ्राद्धं धर्मशास्त्रे “शुचीन् मन्त्रवतस्सर्वकृत्येषु भोजयेत्” (आप.ध. २-१५.९.) इति विहितं, यदेव नान्दीश्राद्धमभ्युदयश्राद्धमिति प्रसिद्धं, तदेवोच्यते । तच्च स्मृत्यन्तरप्रसिद्धविधिना कर्तव्यम् । तस्य त्विह पुनः पाठः पाठक्रमेणानुष्ठानार्थः । अन्यथा पदार्थानां बद्धक्रमत्वाद्विवाहादिष्विवान्त एव स्यात् । आशीर्वचनेऽपि धर्मशास्त्रविहितेऽयमेव न्यायः आशीर्वचनविधिश्च भाष्योक्तः । केचित् —पूर्वेद्युर्नान्दीश्राद्धम्, आचारात् स्मृत्यन्तराच्च । श्वोभूते च ब्राह्मणानां भोजनं, भुक्तवद्भिरेवाशिषां वाचनार्थम् । सर्वकर्मणां चान्ते “शुचीन् मन्त्रवतस्सर्वकृत्येषु भोजयेत्” इति वचनादिति । अत्र च कुमारस्य स्नवभोजनात्प्राक् “यज्ञोपवीतं परमं पवित्रम्” (१)इत्यादिमन्त्रेण यज्ञोपवीतधारणम् । “भोजन आचमने स्वाध्याये च यज्ञोपवीती स्यात्” इति धर्मशास्त्रवचनात् ॥ “केचित्–समिदाधानात्प्रागेवेति” ॥ कुमारभोजनं च विना क्षारलवणादिभिः । आद्यन्तयोश्च द्विराचमनम् । केचित्–एवमन्तं मातापितरौ कुरुतः, अत ऊर्ध्वमाचार्य इति ॥ अनुवाकस्य प्रथमेन यजुषा “उष्णेन वायो” इत्यनेन अपः उष्णाश्शीताश्च संसृजति । संसृजंश्चोष्णाश्शीतास्वानयति, न त्विनियमेन । अत्र चानुवाकग्रहणं गृह्यमन्त्रास्समाम्नाता एव न कल्पसूत्रस्था इति ज्ञापनार्थम् । तत्प्रयोजनं चैते ब्रह्मयज्ञादिष्वध्येतव्या इत्युक्तम् । ततस्ताभिरद्भिः “आप उन्दन्तु” इत्येतया कुमारस्य शिर उनत्ति । प्रागारभ्य प्रदक्षिणमुनत्ति क्लेदयति ॥५॥
मूलम् ...{Loading}...
ब्राह्मणान् भोजयित्वाशिषो वाचयित्वा कुमारं भोजयित्वाऽनुवाकस्य प्रथमेन यजुषाऽपः संसृज्योष्णाश् शीतास्वानीयोत्तरया शिर उनत्ति।
१० ०६ त्रींस्त्रीन्
१० ०६ त्रींस्त्रीन् ...{Loading}...
त्रींस्त्रीन् दर्भान् अन्तर्धायोत्तराभिश् चतसृभिः +++(“येनावपत्"इत्यादिभिः)+++ प्रतिमन्त्रं प्रतिदिशं प्रवपति ६
०३ येनावपत्सविता क्षुरेण ...{Loading}...
+++(प्राच्यान्दिशि)+++ येनाव॑पत् सवि॒ता क्षु॒रेण॒
सोम॑स्य॒ राज्ञो॒ वरु॑णस्य वि॒द्वान् ।
तेन॑ ब्रह्माणो! वपते॒दम् अ॒स्या-
ऽऽयु॑ष्मा॒ञ् जर॑दष्टि॒र् यथा ऽस॑द् अ॒यम्
अ॒सौ +++(←अत्रोहः)+++।
०४ येन पूषा ...{Loading}...
+++(दक्षिणतः)+++ येन॑ पू॒षा बृह॒स्पते॑र् अ॒ग्नेर्
इन्द्र॑स्य॒ चाऽऽयु॒षे ऽव॑पत् ।
तेना॒स्याऽऽयु॑षे वप॒
सौश्लो॑क्याय स्व॒स्तये॑ ।
०५ येन भूयश्चरात्ययञ्ज्योक्च ...{Loading}...
+++(पश्चात्)+++ येन॒ भूय॒श् चरा॑त्य् अ॒यञ्,
ज्योक् च॒ पश्या॑ति॒ सूर्य॑म् ।
तेना॒स्याऽऽयु॑षे वप॒
सौश्लो॑क्याय स्व॒स्तये॑ ।
०६ येन पूषा ...{Loading}...
+++(उत्तरे)+++ येन॑ पू॒षा बृह॒स्पते॑र् अ॒ग्नेर्
इन्द्र॑स्य॒ चाऽऽयु॒षे ऽव॑पत् ।
तेन॑ ते वपाम्य् असा॒व्+++(←अत्रोहः)+++
आयु॑षा॒ वर्च॑सा॒ यथा॒ ज्योक् सु॒मना॒ असाः॑ ।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- 1 Having put three Darbha blades into his hair (towards each of the four directions) (the teacher [?]) shaves his hair with the next four (verses; M. II, 1, 3-6) with the different Mantras, towards the different (four) directions.
हरदत्तः
प्रवपति प्रथमं वपति वपनं प्रारभत इत्यर्थः । तेन पूर्वं मन्त्रवद् वपनं करोत्याचार्यः पश्चान् नापित इत्य् उक्तं भवति ।
तत्रायं प्रयोगः – कुमारस्य शिरसि प्राच्यां दिशि त्रीन् दर्भान् अन्तर्धाय “येनावपद्” इत्येतया प्रच्छिनत्ति क्षुरेण ।
असाव् इत्यस्य स्थाने तस्य नाम प्रथमया विभक्त्या गृह्णाति -
यथा - “असाव् अयं यज्ञदत्तशर्मा” ।
एवं सर्वत्रादसः प्रयोगे नाम निर्देष्टव्यम् ।
प्रच्छिद्य् आनडुहे शकृत्-पिण्डे यवमति केशान् प्रक्षिपति ।
अथाप उपस्पृश्य तथैव दक्षिणस्यां दिशि “येन पूषे"ति ।
प्रतीच्यां “येन भूयः” इति ।
उदीच्यां “येन पूषे"ति ।
अत्र संबुध्या नामग्रहणं– “तेन ते वपामि यज्ञदत्तशर्म्मन्न् आयुषे"ति ॥६॥
सुदर्शनः
ततो “येनावपत्” इत्य्-आदिभिश् चतसृभिः प्रतिमन्त्रं प्रतिदिशं त्रींस्त्रीन् दर्भान् अन्तर्धाय केशान् प्रवपति । प्रशब्दात् कुशली-करणम् अप्य् आचार्यस्यैव ।
तत्र प्रथमे मन्त्रे असाव् इत्यस्य स्थाने विष्णुशर्मेति कुमारस्य नामग्रहणम् । चतुर्थे तु सम्बुद्ध्या ॥६॥
मूलम् ...{Loading}...
त्रींस्त्रीन् दर्भानन्तर्धायोत्तराभिश् चतसृभिः प्रतिमन्त्रं प्रतिदिशं प्रवपति।
१० ०७ वपन्तमुत्तरयानुमन्त्रयते
१० ०७ वपन्तमुत्तरयानुमन्त्रयते ...{Loading}...
वपन्तम् उत्तरया +++(“यत् क्षुरेण” इत्य् एतया)+++ ऽनुमन्त्रयते दक्षिणतो माता ब्रह्मचारी वा ७
०७ यत्क्षुरेण मर्चयता ...{Loading}...
+++(नापितम् अनुमन्त्रयति-)+++ यत् क्षु॒रेण॑ म॒र्चय॑ता +++(=तीक्ष्णेन)+++
सुपे॒शसा॒ वप्त्रा॒ वप॑सि॒ केशान्॑ ।
शुन्धि॒ शिरो॒, मास्यायुः॒ प्रमो॑षीः ।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- 2 With the following (verse, M. II, 1, 7, somebody) addresses him while he is shaving.
हरदत्तः
एवमाचार्येण प्रतिदिशं प्रवपने कृते नापितस् तस्य केशान् वपति संसृष्टाभिर् एवाद्भिर् अबर्थं कुर्वाणः । तं नापितं वपन्तमुत्तरयर्चा “यत् क्षुरेणेत्येतया”ऽनुमन्त्रयत आचार्यः ॥७॥
सुदर्शनः
दक्षिणत उपविश्य कुमारस्य माता ब्रह्मचारी वा कश्चित् “यत् क्षुरेण” इत्येतया वपन्तमाचार्यम् अनुमन्त्रयते । कस्मादेवं सूत्रच्छेदः? उच्यते । अस्य कुमारस्यायुर् मा प्रमोषीरिति मध्यमपुरुषलिङ्गके ऽनुमन्त्रणे वपनव्यापृताचार्यकर्तृकत्वविरोधात् । मातृब्रह्मचारिव्यतिरिक्तस्य प्रकृतस्याभावात् ॥७॥
मूलम् ...{Loading}...
वपन्तमुत्तरयानुमन्त्रयते दक्षिणतो माता ब्रह्मचारी वा।
१० ०८ आनडुहे शकृत्पिण्डे
१० ०८ आनडुहे शकृत्पिण्डे ...{Loading}...
आनडुहे शकृत्पिण्डे यवान् निधाय तस्मिन् केशान् उपयम्योत्तरया +++(“उप्त्वाय केशा"नित्येतया)+++ उम्बर-मूले दर्भ-स्तम्बे वा निदधाति ८
०८ उप्त्वाय केशान् ...{Loading}...
उ॒प्त्वास्य॒ केशा॒न्॒ वरु॑णस्य॒ राज्ञो॒,
बृह॒स्पति॑स् सवि॒ता सोमो॑ अ॒ग्निः ।
तेभ्यो॑ +++(=केशेभ्यः)+++ नि॒धानं॑ बहु॒धा ऽन्व॑विन्दन्न्
अन्त॒रा द्यावा॑पृथि॒वी अ॒पस् सुवः॑ ॥
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- Towards the south, his mother or a Brahmacārin strews barley-grains on a lump of bull’s dung; with this (dung) she catches up the hair (that is cut off), and puts it down with the next (verse; M. II, 1, 8) at the root of an Udumbara tree or in a tuft of Darbha grass.
हरदत्तः
अथ कुमारस्य माता ब्रह्मचारी वा कश्चित् तस्य दक्षिणत उपविश्य कस्मिश्चित् पात्रे आनडुहं शकृत्पिण्डं कृत्वा यवांश्च तस्मिन् पिण्डे निधाय तस्मिन् केशानुपयच्छति उपगृह्णाति यथा भूमौ न पतन्ति तथा सर्वानुपयम्य ततस् तान् केशान् उदुम्बरस्य वृक्षस्य मूले दर्भस्तम्बे वा निदधाति । उत्तरयर्चा “उप्त्वाय केशा"नित्येतया । यदि माता तामन्तो मन्त्रं वाचयति ॥८॥
सुदर्शनः
उपनयनस्य प्रकृतत्वान् माता ब्रह्मचारी वा “उप्त्वाय केशान्” इत्येतया आनडुहे शकृत्पिण्डे इत्यादि यथोपदेशं करोति । केचित्–आचार्यः पूर्वं वपनमारभते । ततो नापितस् संसृष्टाभिरेवाद्भिर् अबर्थं कुर्वन् केशान् प्रवपति । तं च वपन्तमुत्तरया आचार्योऽनुमन्त्रयते । दक्षिणतो मातेत्युक्तार्थमेवेति । तन्नैतद् वपनं नापितस् समापयतीत्यत्र वचनाभावात्, तत् कल्पनायां चानुपत्त्य् अभावात् । प्रशब्दस्य निपातस्य प्रमाणान्तरावगतार्थद्योतकत्वात्, उक्तसूत्रभेदेन स्ववाक्योक्तस्यैव मात्रादेरनुमन्त्रणकर्तृत्वोपपत्तेश्च ॥८॥
मूलम् ...{Loading}...
आनडुहे शकृत्पिण्डे यवान्निधाय तस्मिन् केशानुपयम्योत्तरयोदुम्बरमूले दर्भस्तम्बे वा निदधाति।
१० ०९ स्नातम् अग्नेर्
१० ०९ स्नातम् अग्नेर् ...{Loading}...
स्नातम् +++(शुचि-वाससं बद्ध-शिखं यज्ञोपवीतिनम्)+++ अग्नेर् उपसमाधानाद्य् आज्य-भागान्ते +++(शम्याः परिध्यर्थे, सकृत्पात्रप्रयोगः)+++
पालाशीं समिधम् उत्तरया +++(“आयुर्दा देव"इत्येतया ऽऽचार्योक्तया)+++ ऽऽधाप्य
०१ आयुर्दा देव ...{Loading}...
आ॒यु॒र्दा दे॑व ज॒रसं॑ गृणा॒नो
घृ॒त+++(√ क्षरणदीप्त्यो)+++-प्र॑तीको+++(=अवयवो)+++ घृ॒त-पृ॑ष्ठो अग्ने ।
घृ॒तं पिब॑न्न् अ॒मृत॒ञ् चारु॒ गव्यं॑
पि॒तेव॑ पु॒त्रञ् ज॒रसे॑ नये॒मम् ।
उत्तरेण अग्निं, दक्षिणेन पदा ऽश्मानम् आस्थापयत्य् - आतिष्ठेति ९
+++(तत्रैव चावस्थापनं यावत् तिष्ठति। )+++
०२ आतिष्ठेममश्मानमश्मेव त्व२म् ...{Loading}...
०१ आतिष्ठेममश्मानमश्मेव त्व२म् ...{Loading}...
आति॑ष्ठे॒मम् अश्मा॑न॒म्
अश्मे॑व॒ त्व२ꣳ स्थि॒रा+++(रो पुंसि)+++ भ॑व ।
अ॒भिति॑ष्ठ पृतन्य॒तस्+++(=पृतनाकामान्)+++
सह॑स्व पृतनाय॒तः+++(=पृतनाकामान्)+++ ।+++(र५)+++
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- 3 After (the boy) has bathed, and (the ceremonies) from the putting (of wood) on (the fire) down to the Ājyabhāga oblations (have been performed), he causes him to put a piece of Palāśa wood on the fire with the next (verse; M. II, 2, 1), and makes him tread with his right foot on a stone to the north of the fire, with (the verse), ‘Tread’ (M. II, 2, 2).
हरदत्तः
“स्नातं कुमारं शुचिवाससं बद्धशिखं यज्ञोपवीतम् आसञ्जति– (१)यज्ञोपवीतं परमं पवित्रमिति । ततस् तं यज्ञोपवीतिनं देवयजनम् उदानयती” (बौगृ.२-५.)ति बौधायनः । तस्य सर्वस्योपलक्षणं स्नातवचनम् ।
ततोऽग्नेर् उपसमाधानादि तन्त्रं प्रतिपद्यत आचार्यः । विवाहवद् अग्न्य्-उत्पत्तिः । शम्याः परिध्यर्थे । सकृत् पात्रप्रयोगः । वासो-मेखलादीनाम् अपि सह सादनम् । तत आज्यभागान्ते कुमारं पालाशीं समिधम् आधापयति उत्तरयर्चा “आयुर्दा देव” इत्येतया । कुमारो मन्त्रेण समिधम् आदधाति । तम् आचार्यः प्रयुङ्क्ते मन्त्रं च वाचयति, समिधं चाधापयति । देवताया अभिधेयत्वान्न मन्त्रलिङ्गविरोधः । अन्ये त्वाचार्यस्यैव मन्त्रप्रयोगमिच्छन्ति ।
आधाप्य समिधम् उत्तरेणाग्निं अश्मानं प्रतिष्ठितम् अनेना ऽऽस्थापयति दक्षिणेन पदा “आतिष्ठेमम्” इति मन्त्रेण । अयं मन्त्र आचार्यस्यैव, कुमारस्याभिधेयत्वात् । तेनाचार्यो मन्त्रमुक्तत्वा धत्रिणं पादं हस्ताभ्यां गृहीत्वा ऽश्मनि निधापयति ॥९॥
सुदर्शनः
अथ अग्नेरुपसमाधानादि तन्त्रं प्रतिपद्यते । पात्रसादनकाले अश्मवासोमेखलाजिनदण्डकुशकूर्चाश्च सहैव सादयति । केचित् दर्व्यादीन्य् अपि सहैवेति । आज्यभागान्ते कृते स्नातं कुमारं “आयुर्दा देव” इत्येतया पालाशीं समिधं हस्ते गृहीत्वा ऽधापयति । मन्त्रान्ते चाधेहीति ब्रूयात् । आधापनमन्त्रश्चायम् ।
केचिद् आधानमन्त्र-वाचयीताचार्य इति । तेषां “जरसे नयेमम्” इति मन्त्रालिङ्गविरोधः । अथाधापनार्थे मन्त्रे अश्मास्थापन-मन्त्रवत् कुमाराभिधानार्थम् उच्चारणं स्यात्, न देवताभिधानार्थम्- सकृद् उच्चरितस्योभयाभिधानाशक्तिर् इति चेत्, न- “घृतपृष्टो अग्ने” इतीह देवताया एवाभिधेयत्वात् । अत एवोक्तं “मन्त्रमुक्त्वा"ऽऽधेहि जुहुधीति ब्रूयात्” इति । शेषं व्यक्तम् ॥९॥
मूलम् ...{Loading}...
स्नातम् अग्नेर् उपसमाधानाद्य्-आज्यभागान्ते पालाशीं समिधम् उत्तरया ऽऽधाप्योत्तरेणाग्निं दक्षिणेन पदाऽश्मानम् आस्थापयत्य् आतिष्ठेति।
१० १० वासः
१० १० वासः ...{Loading}...
वासः सद्यःकृत्तोतम् +++(=सद्यः कृत्तम् ऊतं च - विनूतनम्)+++ उत्तराभ्याम् +++(“रेवतीस्त्वे"त्येताभ्यां)+++ अभिमन्त्र्य
०३-०४ रेवतीस्त्वा व्यक्ष्णन्कृत्तिकाश्चाकृन्त२म् ...{Loading}...
+++(नक्षत्रेषु)+++ रे॒वती॑स् त्वा॒ व्य॑क्ष्ण॒न्+++(=व्यध्वंसयन् [मेषादिभ्यः])+++
कृत्ति॑का॒श् चाकृ॑न्त२ꣳस् त्वा ।
धियो॑ ऽवय॒न्न्, अव॒ ग्न+++(=देवता)+++ आ॑वृञ्जन्त्+++(=अच्छिन्दन्)+++
स॒हस्र॒म् अन्ताꣳ॑+++(=दशासूत्राणि)+++ अ॒भितो॑ अयच्छन्न् ।
दे॒वीर् दे॒वाय॑ +++(वस्त्र)+++परि॒धी+++(धौ)+++ स॑वि॒त्रे ।
म॒हत् तद् आ॑साम् अभवन् महित्व॒नम्+++(=महत्वम्)+++ ।+++(र४)+++
वासः-परिधापनम्
उत्तराभिस्तिसृभिः +++(“या अकृन्त"न्नित्येताभिः)+++ परिधाप्य
+++(पूर्वमन्त्रस्योल्लेखो ऽत्र)+++
०५ या अकृन्तन्नवयन् ...{Loading}...
या अकृ॑न्त॒न्न् अव॑य॒न्॒ या अत॑न्वत॒
याश् च॑ दे॒वीर् +++(वस्त्रस्य)+++ अन्ता॑न् अ॒भितो॑ ऽददन्त+++(←दद् दाने)+++ ।
तास् त्वा॑ दे॒वीर् ज॒रसे॒ संव्य॑य॒न्त्व्
आयु॑ष्मान् इ॒दं परि॑धत्स्व॒ वासः॑ ।
०६ परिधत्त धत्त ...{Loading}...
परि॑धत्त धत्त॒ वास॑सैनꣳ
श॒तायु॑षं कृणुत दी॒र्घम् आयुः॑ ।
बृह॒स्पतिः॒ प्राय॑च्छ॒द् वास॑ ए॒तत्
सोमा॑य॒ राज्ञे॒ परि॑धात॒वा उ॑ ।
०७ जराङ् गच्छासि ...{Loading}...
ज॒रां ग॑च्छासि॒, परि॑धत्स्व॒ वासो॒
भवा॑ कृष्टी॒नाम्+++(=मनुष्याणां)+++ अ॑भिशस्ति॒-पावा॑+++(ता)+++ ।
श॒तञ् च॑ जीव श॒रद॑स् सु॒वर्चा॑
रा॒यश् च॒ पोष॒म् उप॒ संव्य॑यस्व +++(वासो यथा रायस्पोषं भवति तथा)+++।
परिहितम् उत्तरयानुमन्त्रयते +++(“परीदं वास”)+++ १०
+++(परिहितवन्तं कुमारम् उत्तरयानुमन्त्रयते)+++
०८ परीदं वासो ...{Loading}...
परी॒दं वासो॒ अधि॑+++(+अ)+++धास् स्व॒स्तये
ऽभू॑र् आपी॒नाम्+++(=आप्तानां)+++ अ॑भिशस्ति॒-पावा॑+++(ता!)+++ ।
श॒तञ् च॑ जीव श॒रदः॑ पुरू॒चीर्+++(=बहुगतीः)+++
वसू॑नि चा॒र्यो वि॑भजासि॒ जीवन्न्॑ ।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- Having recited the next two (verses; M. II. 2, 3. 4) over a garment that has been spun and woven on one day, and has caused him, with the next three (verses; M. II. 2, 5-7), to put it on, he recites over him, after he has put it on, the next (verse; M. II, 2, 8).
हरदत्तः
एकस्मिन्न् एवाहनि तन्तु-क्रिया वयनक्रिया च यस्य तत् सद्यःकृत्तोतं ।
एवंभूतं वास उत्तराभ्यां ऋग्भ्यां"रेवतीस्त्वे"त्येताभ्यां अभिमन्त्रयेत । ततस्त दुत्तराभिस्तिसृभिः “या अकृन्त"न्नित्येताभिः परिधापयति । आचार्यस्यैव मन्त्राः । वचनादेकमिति तिसृणामन्ते परिधापनम् । ततः तं परिहितवन्तं कुमारं आचार्यः उत्तरया” परीदं वास” इत्येतया अनुमन्त्रयते ॥१०॥
सुदर्शनः
वासः ** यच्छाण्यादि धर्मशास्त्रे विहितं ** तत्सद्यःकृत्तोतं सद्य एव छिन्नोतं, नान्यस्मिन्नहनि प्रशस्तेऽपि ।
केचितेकस्मिन्न् एवाहनि तन्तुक्रिया वयनक्रिया च यस्य, तत् सद्यःकृत्तोतम् इति ।
एवंभूतं"रेवतीस्त्वा” इति द्वाभ्यामभिमन्त्र्य"या अकृन्तन्” इत्येताभिस् तिसृभिः परिधाप्य परिहितं कुमारं “परीदं वासः” (२)इत्यनयाऽनुमन्त्रयते ॥१०॥
मूलम् ...{Loading}...
वासः सद्यःकृत्तोतमुत्तराभ्यामभिमन्त्र्योत्तराभिस्तिसृभिः परिधाप्य परिहितमुत्तरयाऽनुमन्त्रयते।
१० ११ मौञ्जीम् मेखलाम्
१० ११ मौञ्जीम् मेखलाम् ...{Loading}...
मौञ्जी
मौञ्जीं मेखलां त्रिवृतां+++(तं)+++ त्रिःप्रदक्षिणम् उत्तराभ्यां +++(“इयं दुरुक्ता"दित्येताभ्यां कुमारोक्ताभ्यां)+++ परिवीय
०९ इयन् दुरुक्तात्परिबाधमाना ...{Loading}...
इ॒यं दुरु॑क्तात् परि॒बाध॑माना॒
शर्म॒ वरू॑थं+++(=वरणीयं)+++ पुन॒ती न॒ आगा॑त् ।
प्रा॒णा॒पा॒नाभ्यां॒ बल॑म् आ॒भर॑न्ती
प्रि॒या दे॒वानाꣳ॑ सु॒भगा॒ मेख॑ले॒यम् ।
१० ऋतस्य गोप्त्री ...{Loading}...
ऋ॒तस्य॑ गो॒प्त्री, तप॑सः पर॒स्+++(=प्र)+++पी+++(=पात्री)+++
घ्न॒ती रक्ष॒स् सह॑माना॒ अरा॑तीः ।
सा न॑स् सम॒न्तम् अनु॒ परी॑हि भ॒द्रया॑
भ॒र्तार॑स्+++(=बिभ्राणाः)+++ ते मेखले॒ मा रि॑षाम ।
अजिनमन्त्रः
+अजिनम् उत्तरमुत्तरया +++(मित्रस्य चक्षुरित्येतया कुमारोक्तया)+++ ११
+++(धर्मसूत्रेषु - “क्षत्र-वृद्धिम् इच्छन् वस्त्राण्य्, एवोभय-वृद्धिम् इच्छन्न् उभयमिति हि ब्राह्मणम् ९” इत्यादि विकल्पा उक्ताः। तस्मिन् पक्षे ऽजिनप्रतिनिधित्वेन प्रायेण ग्राह्यं वस्त्रम्। )+++
११ मित्रस्य चक्षुर्धरुणम् ...{Loading}...
मि॒त्रस्य॒ चक्षु॒र्, धरु॑णं॒ बली॑य॒स्
तेजो॑ यश॒स्वि स्थवि॑र॒ꣳ॒ समि॑द्धम् ।
अ॒ना॒ह॒न॒स्यं+++(=अधूर्तयोग्यं)+++ वस॑नञ् जरि॒ष्णु
परी॒दं वा॒ज्य्+++(=अन्नवत्)+++ अजिन॑न् दधे॒ ऽहम् ॥ (२)
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- 4 He ties thrice around him, from left to right, a threefold-twisted girdle of Muñja grass with the next two (verses; M. II. 2, 9. 10), and (gives him) a skin as his outer garment with the next (verse; II, 2, 11).
हरदत्तः
अथ मेखलाम् उत्तराभ्यामृग्भ्यां “इयं दुरुक्ताद्” इत्येताभ्यां त्रिः प्रदक्षिणं परिव्ययति कुमारम् । स्वयमेव मन्त्रमुक्त्वा तं वाचयत्याचार्यः । मन्त्रलिङ्गात् त्रिवृत् मेखला मौञ्जी मुञ्जतृणैः कल्पिता । त्रिवृत् त्रिगुणा । त्रिवृतामिति छान्दसो दीर्घपाठः ।
ततो ऽजिनमुत्तरं वासः करोति उत्तरयर्चा । मित्रस्य चक्षुरित्येतया स्वयमेव मन्त्रमुक्त्वा । सामयाचारिकेषु वर्णविशिष्टा मेखलाविशेषाश्चोदिताः । इदं तु सर्ववर्णानां मौञ्जीप्राप्त्यर्थं वचनम् । अजिनविशेषास्तु सामयाचारिका इहापि प्रत्येतव्याः"कृष्णं ब्राह्मणस्ये"त्यादयः॥११॥
सुदर्शनः
मौञ्जींमुञ्जैः कल्पिताम् । त्रिवृतां त्रिवृतम् । दीर्घश्छान्दसः । मेखलां “इयं दुरुक्तात्” इत्येताभ्यां त्रिः प्रदक्षिणं परिव्ययति । त्रिवृतामिति च “शक्तिविषये दक्षिणावृत्तानाम् । ज्या राजन्यस्य”(आप.ध.१-२-३३,३४.) इत्यादीनां प्रदर्शनार्थम् । अजिनं“कृष्णं ब्राह्मणस्य” (आप.ध.१-३-३) इत्यादि धर्मशास्त्रे विहितम् उत्तरं वासः करोति “मित्रस्य चक्षुः” इत्येतया ॥११॥
मूलम् ...{Loading}...
मौञ्जीं मेखलां त्रिवृतां त्रिः प्रदक्षिणमुत्तराभ्यां परिवीयाजिनमुत्तरमुत्तरया।
१० १२ उत्तरेणाग्निन् दर्भान्
१० १२ उत्तरेणाग्निन् दर्भान् ...{Loading}...
उदकाञ्जलिम् अस्मा अञ्जलाव् +++(प्रोक्षणार्थम्)+++ आनीयोत्तरया +++(“समुद्रादूर्मि"रित्येतया)+++ त्रिः प्रोक्ष्य +++(कुमार-कृत्यम् एतत्। आचार्यः प्रोक्षति तत इति विश्वासः। सकृत् मन्त्रेण, द्विस्तूष्णीम् ।)+++
+++(प्रोक्षणमन्त्रः)+++
०२ समुद्रादूर्मिर्मधुमां उदारदुपांशुना ...{Loading}...
स॒मु॒द्राद् ऊ॒र्मिर् मधु॑मा॒ꣳ॒ उदा॑रद् +++(=उदागमद् [एतैः प्रोक्षणबिन्दुभिः])+++
उपा॒ꣳ॒शुना॒+++(=उपांशैः →अंशुनिभैः)+++ सम् अ॑मृत॒त्वम् अ॑श्याम् ।
इ॒मे नु ते र॒श्मय॒स् सूर्य॑स्य॒
येभि॑स् सपि॒त्वं+++(=समानपानं)+++ पि॒तरो॑ न॒ आय॑न् ।
+++(यैः रश्मिभिस् सह वामदेवस्य पितरो सोमपानं कृतवन्तः , तत्कारणका बिन्दवो मयि पतिताः )+++
हस्तग्रहणम्
उत्तरैर् +++(अग्निष्टे हस्तमग्रमीदित्यादिभिः)+++ दक्षिणे हस्ते गृहीत्वा +++(- प्रतिमन्त्रं ग्रहणावृत्तिः)+++
०३-१२ अग्निष्टे हस्तमग्रभीत्सोमस्ते ...{Loading}...
अ॒ग्निष् टे॒ हस्त॑म् अग्रभी+++(ही)+++त्।
सोम॑स् ते॒ हस्त॑म् अग्रभीत्।
स॒वि॒ता ते॒ हस्त॑म् अग्रभीत्।
सर॑स्वती ते॒ हस्त॑म् अग्रभीत्।
पू॒षा ते॒ हस्त॑म् अग्रभीत्।
अ॒र्य॒मा ते॒ हस्त॑म् अग्रभीत्।
अꣳशु॑स् ते॒ हस्त॑म् अग्रभीत्।
भग॑स् ते॒ हस्त॑म् अग्रभीत्।
मि॒त्रस् ते॒ हस्त॑म् अग्रभीत्।
मि॒त्रस् त्वम् अ॑सि॒ धर्म॑णा॒,
ऽग्निर् आ॑चा॒र्यस् तव॑ ।+++(५)+++
+++(कीदृशश्च सः? मित्रं देवा अब्रुवन्त - सोमं राजानं हनामेति। सो ऽब्रवीन् - नाहं सर्वस्य वा अहं मित्रम् अस्मि ।)+++
परिदानम्
उत्तरैर् +++(“अग्नये त्वा परिददामी"त्यादिभिः)+++ देवताभ्यः परीदाय
+++(असौशब्दस्य स्थाने माणवकस्य नाम निर्देशः संबुद्ध्या ॥)+++
१३ -२३ अग्नये त्वा ...{Loading}...
+++(असौशब्दस्य स्थाने माणवकस्य नाम निर्देशः संबुद्ध्या, स्वरं विना ॥)+++
अ॒ग्नये॑ त्वा॒ परि॑ददाम्य्+++(→रक्षार्थे दानं परिदानम्)+++ असौ।
सोमा॑य त्वा॒ परि॑ददाम्य् असौ।
स॒वि॒त्रे त्वा॒ परि॑ददाम्य् असौ।
सर॑स्वत्यै त्वा॒ परि॑ददाम्य् असौ।
मृ॒त्यवे॑ त्वा॒ परि॑ददाम्य् असौ।
य॒माय॑ त्वा॒ परि॑ददाम्य् असौ।
ग॒दाय॑ त्वा॒ परि॑ददाम्य् असौ।
अन्त॑काय त्वा॒ परि॑ददाम्य् असौ।
अ॒द्भ्यस् त्वा॒ परि॑ददाम्य् असौ।
ओष॑धीभ्यस् त्वा॒ परि॑ददाम्य् असौ।
पृ॒थि॒व्यै त्वा॒ सवै॑श्वान॒रायै॒+++(←उदात्तद्वयम्??)+++ परि॑ददाम्य् असौ ।
उपनयनम्
उत्तरेण यजुषा +++(“देवस्य त्वा सवितुः” इत्येतेन स्वसमीपं)+++ +उपनीय
२४ देवस्य त्वा ...{Loading}...
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व+++(=अनुज्ञायाम्)+++ उप॑नये॒ ऽसौ +++(←नामनिर्देशः पूर्ववत् । केचित्तु - अन्तोदात्तस्य पाठात् आचार्यस्य नाम्नः प्रथमया निर्देशं मन्यन्ते ॥ )+++ ।
सुप्रजा इति +++(“सुपोषः पोषै"रित्येवमन्तम्)+++ दक्षिणे कर्णे जपति १२
+++(कर्णे जपः)+++
२५ सुप्रजाः प्रजया ...{Loading}...
सु॒प्र॒जाः प्र॒जया॑ भूयास्,
सु॒वीरो॑ वी॒रैस्,
सु॒वर्चा॒ वर्च॑सा,
सु॒पोषः॒ पोषैः॑ ।
+++(→सूपसर्ग-बहुव्रीहाव् उत्तरपदादिर् उदात्तः। )+++
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- 5 To the north of the fire (the teacher) spreads out Darbha grass; on that he causes (the boy) to station himself with the next (verse; M. II. 3, 1), pours his joined hands full of water into (the boy’s) joined hands, makes him sprinkle himself three times with the next (verse; M. II, 3, 2), takes hold of his right hand with the next (formulas; M. II, 3, 3-12), gives him with the next (formulas; M. II, 3, 13-23) in charge to the deities (mentioned in those Mantras), initiates him with the next Yajus (M. II, 3, 24), and murmurs into his right ear the (Mantra), ‘Blessed with offspring’ (II, 3, 25).
हरदत्तः
अथाचार्यः उत्तरेणाग्निं दर्भान्त् संस्तीर्य तेष्व् एनं कुमारं उत्तरया “आगन्त्रा समगन्मही"त्येतया ऽवस्थापयति । कुमारस्य मन्त्रः आचार्यो वाचयति +++(मन्त्रलिङ्गविरोधो ऽस्मिन्न् अभिप्राये??)+++।
अवस्थाप्य स्वयं पश्चात् भूमाव् अवस्थाय स्वम् अञ्जलिम् उदकेन पूरयित्वा तम् अञ्जलिम् अस्मै कुमाराय प्रतिमुखं दर्भेष्व् अवस्थिताय प्रोक्षणार्थम् आनयति तस्याञ्जलौ । अस्मा इति चतुर्थी-निर्देशात् कुमारार्थो ऽयम् उदकाञ्जलिः ।
तेन प्रोक्षणस्य कुमारः कर्ता भवति । आनीय ततः प्रोक्षणं प्रयोजयत्य् आचार्यः - उत्तरयर्चा “समुद्रादूर्मिर्” इत्येतया । कुमारस्य मन्त्रः । आचार्यो वाचयति ।
( त्रिः प्रोक्षयति । सकृत् मन्त्रेण द्विस्तूष्णीम् । सव्येन धारणमुदकस्य, दक्षिणेन प्रोक्ष्णम् । प्रोक्ष्येत्यत्र णिचो लोपो द्रष्टव्यः।)
अथ कुमारस्य हस्तं गृह्णाति उत्तरैर् दशभिर्मन्त्रैः** “अग्निष्टे हस्तमग्रभीद्” इत्यादिभिः । प्रतिमन्त्रं ग्रहणावृत्तिः ।
तत उत्तरैर् एकादशभिः"अग्नये त्वा परिददामी"त्यादिभिः तं देवताभ्यः परिददाति । सर्वेष्वसौशब्देषु नामग्रहणं संबुध्या ।
परिदाय तमुत्तरेण यजुषा “देवस्य त्वा सवितुः” इत्येतेन उपनयते विद्यानुष्ठानार्थं आचार्यः स्वकुलं प्रापयतीत्य् अर्थः । यजुर् उच्चारणम् एव तत्र व्यापारः, नान्यः कश्चित् ।+++(4)+++ नामग्रहणं च संबुध्या ।
केचित्–असाव् इत्य् अन्तोदात्तस्य पाठात् आचार्यस्य नाम प्रथमया निर्देश्यं मन्यन्ते । एतत्-सम्बन्धात् समस्तम् एव कर्मोपनयनं, यथा पशु-बन्ध इति । उपनीय सुप्रजा इति दक्षिणे कर्णे जपति । “सुपोषः पोषैर्” इत्येवमन्तो जपः ॥१२॥
सुदर्शनः
उत्तरया “आगन्त्रा समगन्महि” इत्येतया । अस्मा इति चतुर्थी षष्ठ्यर्थे ।
उत्तरया “समुद्रादूर्मिः” इत्येतया त्रिः प्रोक्षति । सकृन्मन्त्रेण, द्विस्तूष्णीम् ।
उत्तरैः “अग्निष्टे हस्तम् अग्रभीत्” इत्यादिभिर् दशभिर् मन्त्रैः । सर्वेषां चान्ते सकृद्धस्तग्रहणम् ।
उत्तरैः “अग्नयेत्वा परिददामि” इत्य् एकादशभिः प्रतिमन्त्रं देवताभ्यो मन्त्रलिङ्गप्रतीताभ्यः परिददाति रक्षणार्थम् । ततश् च यदि सकृत्-परिदानं स्यात् तदा विध्यपराधात् सर्वप्रायश्चित्तं होतव्यम् । असौशब्देषु च सर्वेषु सम्बुद्ध्या नामग्रहणम् ।
उत्तरेण यजुषा “देवस्य त्वा सवितुः” इत्यनेन उपनयते आत्मनस् समीपं नयति । नामग्रहणं च सम्बुद्ध्यैव ।
केचित्– कुमारस् स्वाञ्जलाव् आचार्येणानीतम् उदकं सव्ये हस्ते धारयन्, दक्षिणेन हस्तेनात्मानं त्रिः प्रोक्षति । आचार्यस् तु प्रोक्षयति । णिचश्च लोपो द्रष्टव्यः । हस्त-ग्रहणं च प्रति-मन्त्रमित्य् अनेक-कल्पनासापेक्षं व्याचक्षते ॥१२॥
इति श्रीसुदर्शनाचार्यविरचिते गृह्यतात्पर्यदर्शने दशमः खण्डः ॥
मूलम् ...{Loading}...
उत्तरेणाग्निं दर्भान् सँस्तीर्य तेष्व् एनम् उत्तरया ऽवस्थाप्योदकाञ्जलिम् अस्मा अञ्जलाव् आनीयोत्तरया त्रिः प्रोक्ष्योत्तरैर् दक्षिणे हस्ते गृहीत्वोत्तरैर् देवताभ्यः परीदायोत्तरेण यजुषोपनीय “सुप्रजा” इति दक्षिणे कर्णे जपति ॥
११ ०१ ब्रह्मचर्यमागामिति कुमार
११ ०१ ब्रह्मचर्यमागामिति कुमार ...{Loading}...
“ब्रह्मचर्यम् आगाम्” इति +++(सवित्रा प्रसूत इत्येवमन्तो मन्त्रः)+++ कुमार आह १
+++(कुमारस्य मन्त्रः)+++
२६ ब्रह्मचर्यमागामुप मानयस्व ...{Loading}...
ब्र॒ह्म॒चर्य॒म् आगा॒म्, उप॒ माऽऽन॑यस्व, दे॒वेन॑ सवि॒त्रा प्रसू॑तः+++(=अनुज्ञातः)+++ ।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- The boy says, ‘I am come to be a student’ (II, 3, 26).
हरदत्तः
सवित्रा प्रसूत इत्येवमन्तो मन्त्रः आहेति वचनं उच्चैः प्रयोगार्थम् ॥१॥
सुदर्शनः
व्यक्तम् ॥१॥
मूलम् ...{Loading}...
ब्रह्मचर्यमागामिति कुमार आह।
११ ०२ प्रष्टम् परस्य
११ ०२ प्रष्टम् परस्य ...{Loading}...
प्रष्टं परस्य प्रतिवचनं कुमारस्य २
२७ को नामासि ...{Loading}...
+++(आचार्यः-)+++ को नामा॑सि?
+++(ब्रह्मचारी-)+++ अ॒सौ+++(←नामनिर्देशः प्रथमया)+++ नामा॑ऽस्मि।
+++(आचार्यः-)+++ कस्य॑ ब्रह्मचा॒र्य॑सि असौ+++(←नामनिर्देशस्संबुद्ध्या)+++?
+++(ब्रह्मचारी-)+++ “प्रा॒णस्य॑ ब्रह्मचा॒र्य् अ॑स्मि अ॒सौ”+++(←स्वनामनिर्देशः प्रथमया)+++।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- The other (i.e. the teacher) has to ask; the boy has to answer (II, 3, 27-30).
हरदत्तः
“को नामासी"त्येवमादयः चत्वारो मन्त्राः पृष्टप्रतिवचनार्थाः । तत्र यत्र पृष्टं तत आरभ्य कर्माचार्स्येत्यर्थः । प्रष्टमिति संप्रसारणाभावश्छान्दसः, अपपाठो वा । यत् प्रतिवचनं तत् कुमारस्य । असौशब्देषु नाम निर्दिशति कुमारः प्रथमया । आचार्यः संबुध्या कुमारस्य नाम । तत्र को नामासीत्याचार्यः । (१)यज्ञशर्मनामास्मीति कुमारः । कस्य ब्रह्मचार्यसि (२)श्रीयज्ञशर्मन् इत्याचार्यः, प्राणस्य ब्रह्मचार्यस्मि यज्ञशर्मेति कुमारः । (२)आहेत्यनुवृत्तेरुच्चैः प्रयोगः ॥२॥
सुदर्शनः
प्रष्टं प्रश्न इत्यर्थः । रूपं तु छान्दसम् । “को नामासी"त्यादिषु प्रश्नप्रतिवचनार्थेषु चतुर्षु मन्त्रेषु प्रष्टं परस्याचार्यस्य, प्रतिवचनं तु कुमारस्य । ततश्चैवं प्रयोगः–“को नामासि?” इत्याचार्यः पृच्छति । विष्णुशर्मा नामास्मि"इति कुमारः प्रतिब्रूयात् । तथा “कस्य ब्रह्मचार्यसि विष्णुशर्मन्?” इत्याचार्यः । “प्राणस्य ब्रह्मचार्यस्मि” इति कुमारः ॥२॥
मूलम् ...{Loading}...
प्रष्टं परस्य प्रतिवचनं कुमारस्य।
११ ०३ शेषम् परो
११ ०३ शेषम् परो ...{Loading}...
शेषं +++(“एष ते देव सूर्ये”)+++ परो +++(आचार्यः)+++ जपति ३
२८ एष ते ...{Loading}...
+++(आचार्यः-)+++ ए॒ष ते॑ देव सूर्य ब्रह्मचा॒री।
तं गो॑पाय, स॒ मा मृ॑त।
ए॒ष ते॑ सूर्य पु॒त्रस्, स दी॑र्घा॒युस्, स॒ मा मृ॑त ।
याꣳ स्व॒स्तिम् अ॒ग्निर् वा॒युस् सूर्य॑श् च॒न्द्रमा॒ आपो ऽनु॑ स॒ञ्चर॑न्ति॒,
ताꣳ स्व॒स्तिम् अनु॒ सञ्च॑रासौ+++(←नामनिर्देशस्संबुद्ध्या)+++ ।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- The other murmurs the rest (of the Anuvāka),
हरदत्तः
पृष्टप्रतिवचनादूर्ध्वं अनुवाकस्य यश् शेषः तं “एष ते देव सूर्ये"त्यादिकं पर आचार्यो जपति ॥३॥
सुदर्शनः
शेषम् अनुवाकशेषैकदेशं “विष्णुशर्मैष ते देव” इत्यादि “अनुसञ्चर विष्णुशर्मन्” इत्येवमन्तमाचार्यो जपति । “अध्वनामध्वपते” इत्यस्य प्रत्यगाशिषो वाचनविधानात् ॥३॥
मूलम् ...{Loading}...
शेषं परो जपति।
११ ०४ प्रत्यगाशिषञ् चैनम्
११ ०४ प्रत्यगाशिषञ् चैनम् ...{Loading}...
प्रत्यगाशिषं +++(आत्मगाम्याशीःफलं यस्मिन्मन्त्रे,अध्वनामित्यारभ्य आ उपनयनसमाप्तेर्ये प्रत्यगाशिषो मन्त्राः"योगे"इत्यादयः )+++ चैनं वाचयति ४
२९ अद्ध्वनामद्ध्वपते श्रेष्ठस्याद्ध्वनः ...{Loading}...
+++(ब्रह्मचारी सूर्यम् प्रति-)+++ अध्व॑नाम् अध्वपते॒ +++(सूर्य)+++ श्रेष्ठ॒स्याऽध्व॑नः॒ +++(ब्रह्मचर्यामार्गस्य)+++ पा॒रम् अ॑शीय ॥ (3)
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- And causes the boy to repeat (the Mantra) which contains wishes for himself (II, 3, 32).
हरदत्तः
तत्रैव शेषे या प्रत्यगाशीः “अध्वनामध्वपत” “इत्येवमाद्या” ताम् एनं कुमारं वाचयति ॥४॥
सुदर्शनः
आत्मगाम्याशीःफलं यस्मिन् मन्त्रे स प्रत्यगाशीः । जात्यभिप्रायमेकवचनम् । अध्वनामित्यारभ्य आ उपनयनसमाप्तेर् ये प्रत्यगाशिषो मन्त्राः"योगे योगे” इत्यादयः, तान् सर्वान् कुमारं वाचयति ॥४॥
मूलम् ...{Loading}...
प्रत्यगाशिषं चैनं वाचयति।
११ ०५ उक्तमाज्यभागान्तम्
११ ०५ उक्तमाज्यभागान्तम् ...{Loading}...
उक्तम् आज्यभागान्तम् +++(“आ॒यु॒र्दा दे॑व …” इति समिदाधाने)+++ ५
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- 1 (The rites) down to the Ājyabhāgas have been prescribed.
हरदत्तः
+++(सम्पादकटिप्पनी - “सूत्रमेतद् अग्रिमे सूत्रे व्याख्यातम्” )+++
सुदर्शनः
+++(सम्पादकटिप्पनी - “सूत्रमेतद् अग्रिमे सूत्रे व्याख्यातम्” )+++
मूलम् ...{Loading}...
उक्तमाज्यभागान्तम्।
११ ०६ अत्रैनमुत्तरा आहुतीर्हावयित्वा
११ ०६ अत्रैनमुत्तरा आहुतीर्हावयित्वा ...{Loading}...
अत्रैनम् उत्तरा +++(“योगे योगे” इत्येकादर्शचः)+++ आहुतीर् हावयित्वा जयादि प्रतिपद्यते ६
+++(तत्र द्वितीयचतुर्थौ “इममग्न आयुषे” “अग्निष् ट आयुः प्रतराम्” इति लिङ्गविरोधात् “आयुर्दा देव जरसम्” इतिवत् स्वयमेव ब्रूयात्, नैनं वाचयति । प्रधान-होमेषु हावयित्वेति वचनाद् उपहोमेष्व् आचार्य एव कर्ता।)+++
+++(ते च सर्वे माणवकस्यैव । द्वितीयचतुर्थाव् आचार्यस्येत्येके ।)+++
०१ योगेयोगे तवस्तरम् ...{Loading}...
०७ योगेयोगे तवस्तरं ...{Loading}...
+++(रथादि)+++योगे॑योगे त॒वस्+++(=गति[वत्])+++त॑र॒व्ँ
वाजे॑वाजे हवामहे ।
+++(वयं स्तोतृत्वेन)+++ सखा॑य॒+++(ः)+++ इन्द्र॑म् ऊ॒तये᳚ ।+++(५)+++
०२ इममग्न आयुषे ...{Loading}...
इ॒मम् अ॑ग्न॒ आयु॑षे॒ वर्च॑से कृधि
ति॒ग्मम् ओजो॑ वरुण॒ सꣳशि॑शाधि ।
मा॒तेवा᳚स्मा अदिते॒ शर्म॑ यच्छ॒
विश्वे॑ देवा॒ जर॑दष्टि॒र् यथा ऽस॑त् +++(जनः)+++॥
(अग्नि-वरुण-सोमादिति-विश्वेभ्यः देवेभ्यः इदन्न मम ।)
०३ शतमिन्नु शरदो ...{Loading}...
०९ शतमिन्नु शरदो ...{Loading}...
श॒तम् इन् नु श॒रदो॒ अन्ति॑+++(कं)+++ देवा॒,
यत्रा॑ नश् च॒क्रा+++(क्रुः)+++ ज॒रस॑न् त॒नूना॑म् ।
पु॒त्रासो॒ यत्र॑ पि॒तरो॒ भव॑न्ति॒
+++(तादृशे काले)+++ मा नो॑ म॒ध्या री॑रिष॒ताऽऽयु॒र् +++(आ स्वतो)+++गन्तोः॑+++(=गमनात्)+++ ।+++(४)+++
(दे॒वेभ्यः॒ इद॒न्न मम॑ । )
०४ अग्निष्ट आयुः ...{Loading}...
अ॒ग्निष् ट॒ आयुः॑ प्र+++(कृष्ट)+++त॒रां द॑धात्व्
अ॒ग्निष् टे॒ पुष्टिं॑ प्रत॒रां कृ॑णोतु ।
इन्द्रो॑ म॒रुद्भि॑र् ऋतु॒-धा +++(पुष्टिं)+++ कृ॑णोत्व्
आदि॒त्यैस् ते॒ वसु॑भि॒र् आ द॑धातु ।
(अग्नीन्द्र-मरुद्-आदित्य-वसुभ्य इदन्न मम ।)
०५ मेधाम् मह्यमङ्गिरसो ...{Loading}...
मे॒धां मह्य॒म् अङ्गि॑रसो
मे॒धाꣳ स॑प्तऋ॒षयो॑ ददुः ।
मे॒धां मह्यं॑ प्र॒जाप॑तिर्
मे॒धाम् अ॒ग्निर् द॑दातु मे ।
(अङ्गिरस्-सप्तर्षि-प्रजापति+अग्निभ्यः इदन्न मम । )
०६ अप्सरासु या ...{Loading}...
अ॒प्स॒रासु॒ या मे॒धा
ग॑न्ध॒र्वेषु॑ च॒ यद् यशः॑ ।
दैवी॒ या मा॑नु॒षी मे॒धा
सा मामा वि॑शतादि॒ह ।
(मेधायशोभ्याम् इदन्न मम ।)
१९ इमं मे ...{Loading}...
इ॒मं मे॑ वरुण श्रुधी॒ +++(=श्रुणु)+++
हव॑म्+++(=आह्वानम्)+++ अ॒द्या च॑ मृळय +++(=सुखय)+++।
त्वाम् अ॑व॒स्युर् आ च॑के +++(=अवदन्)+++॥
११ तत्त्वा यामि ...{Loading}...
तत् त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्
तद् आ शा॑स्ते॒ यज॑मानो ह॒विर्भिः॑ ।
अहे॑ळमानो +++(=अक्रुध्यन्)+++ वरुणे॒ह बो॒ध्य् उरु॑शंस॒
मा न॒ आयुः॒ प्र मो॑षीः ॥
०४ त्वं नो ...{Loading}...
त्वन् नो॑ अग्ने॒ वरु॑णस्य वि॒द्वान्
दे॒वस्य॒ हेडो+++(=क्रोधो )+++ ऽव॑ यासिसीष्ठाः+++(=यक्षीष्ठाः)+++ ।
यजि॑ष्ठो॒ +++(हविर्)+++वह्नि॑तम॒श् शोशु॑चानो॒+++(=देदीप्यमानः)+++
विश्वा॒ द्वेषाँ॑सि॒ प्र मु॑मुग्ध्य् अ॒स्मत् ।
०५ स त्वं ...{Loading}...
स त्वन् नो॑ अग्ने ऽव॒मो+++(=मूलभूतो)+++ भ॑व॒+ऊ॒ती+++(त्या)+++
+++(“अग्निरवमो देवतानां विष्णुः परमः” इति ब्राह्मणम्)+++
नेदि॑ष्ठो+++(=अन्तिकतमो)+++ अ॒स्या उ॒षसो॒ व्यु॑ष्टौ+++(=व्युष्टायाम्)+++ ।
अव॑ यक्ष्व नो॒ वरु॑णँ॒, ररा॑णो
वी॒हि+++(=खाद)+++ मृ॑डी॒कँ+++(=सुखयितारं [हविः])+++ सु॒हवो॑ न एधि ।
+++(अग्नीवरुणाभ्याम् इदं न मम)+++
१६ त्वमग्ने अयाऽस्यया ...{Loading}...
त्वम् अ॑ग्ने अ॒या+++(=एतव्यः/ प्रत्येता)+++ ऽस्य्
अ॒या सन् मन॑सा हि॒तः ।
अ॒या सन् ह॒व्यम् ऊ॑हिषे॒
ऽया नो॑ धेहि भेष॒जम् ॥ (4)
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- Having then caused him to sacrifice the oblations (indicated in the) next (Mantras; M. II, 4, 1-11), he enters upon (the performance) of the Jaya and following oblations.
हरदत्तः
आज्यभागान्तं तन्त्रं प्रागेवोक्तम् । अत्रेदानीम् एनं कुमारं उत्तरा एकादश प्रधानाहुतीर् हावयति “योगे योगे” इत्येवमाद्याः ।
उत्तरैर्मन्त्रैः कुमारो जुहोति । तम् आचार्यः प्रयुङ्क्ते मन्त्रवाचनेन ।
द्वितीय-चतुर्थयोरपि मन्त्रयोः कुमार एव वक्ता, देवताभिधानार्थत्वात् ।
अपर आह– लिङ्गविरोधाद् आचार्यो वक्ता कुमारस् तु (१)होतेति । प्रधानहोमेषु हावयित्वेति वचनात्(२) उपहोमेष्वाचार्य एव कर्ता ॥६॥
सुदर्शनः
इदम् अनुवाद-मात्रं मा भूद् इति साध्याहारं व्याख्यायते । न केवलम् अध्वनाम् इत्यारभ्य प्रत्यगाशिषो मन्त्रान् वाचयति । आज्यभागान्तम् उक्त्वा ये पश्चात् प्रत्यग्-आशिषो मन्त्राः मेखला-परिव्ययणादिषूक्ताः “इयं दुरुक्ताद्”-इत्याद्यास् तानपि(३) स्वयम् उक्त्वा वाचयति । उक्तम् इति जात्यभिप्रायम् ।
इदं त्व् इह वक्तव्यं - यासु मेखला-परिव्ययणादिषु कुमार-प्रधानासु संस्कार-क्रियासु ये प्रत्यग्-आशिषो मन्त्राः, तच्-चोदकैर् आख्यातैः करणत्वेन चोदिताः क्रियाः तैर् मन्त्रैः कृत्वा पश्चाद् वाचयति - स्वतः करण-मन्त्राणां क्रिया-गुण-भूतैः कर्तृभिर् एवोच्चार्यत्वात्, कुमारस्य चात्र संस्कार्यत्वेन प्राधान्यात् ।
यत्र पुनर् होमादिषु कुमारस्य गुणभाव एव, न संस्कार्यत्वं, तत्र तान् प्रत्यगाशिषो वाचयत्य् एव । केचित्— परिव्ययणादिष्व् अपि कुमारस्यैव मन्त्रः, परस् तु वाचयत्य् एवेति ॥५॥
अत्र अस्मिन् क्रमे, न तु “यथोपदेशं प्रधानाहुतीः” इति सामान्य-वचनाद् आज्यभागानन्तरम् एव ।
एनं कुमारम् । उत्तराः “योगे योगे” इत्येकादर्शचः प्रत्यगाशिषो वाचयन् हस्ते गृहीत्वा प्रतिमन्त्रं हावयति । तत्र द्वितीयचतुर्थौ “इममग्न आयुषे” “अग्निष्ट आयुः प्रतराम्” इति लिङ्गविरोधात्” आयुर्दा देव जरसम्” इतिवत् स्वयमेव ब्रूयात्, नैनं वाचयति । केचित्—एतयोरपि देवताभिधानार्थत्वात् कुमारस्यैवोच्चारणमिति । ततो “जयाभ्यातानान् राष्ट्रभृत” इति सामान्यविधिप्रसिद्धमेवाचार्यो जयादि प्रतिपद्यते । ततश्च अग्निर्भूतानामधिपतिस्समावतु” इत्यादीनां प्रत्यगाशिषामपि वाचनं न भवति । नैव च हावनम् ॥६॥
मूलम् ...{Loading}...
अत्रैनमुत्तरा आहुतीर्हावयित्वा जयादि प्रतिपद्यते।
११ ०७ परिषेचनान्तङ्
११ ०७ परिषेचनान्तङ् ...{Loading}...
परिषेचनान्तं कृत्वा
ऽपरेणाग्निम् उदग्-अग्रं कूर्चं निधाय
तस्मिन्न् उत्तरेण +++(“राष्ट्रभृदसि"इत्यनेन)+++ यजुषोपनेता +++(आचार्यः)+++ +उपविशति ७
१२ राष्ट्रभृदस्याचार्यासन्दी मा ...{Loading}...
+++(हे कूर्च!)+++ रा॒ष्ट्र॒भृद् अ॑स्य् आचार्याऽऽस॒न्दी, मा त्वद्+++(तः)+++ यो॑षम्+++(←यौतिः पृथग्भावे)+++ ।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- Having performed (the rites) down to the sprinkling (of water) round (the fire), he puts down, to the west of the fire, a bunch of northward-pointed grass; on that (the teacher) who performs the initiation, sits down with the next Yajus (M. II, 4, 12).
हरदत्तः
उत्तरेण यजुषा राष्ट्रभृदसीत्येतेन । परिषेचनान्तवचनमानन्तर्यार्थम् । केचित् सावित्रं नाम व्रतमस्मिन् काल उपाकुर्वन्ति । केचित् त्रिरात्रान्ते सावित्रीमनुब्रुवते । तदुभयमप्यनिष्टमाचार्यस्य । निधायेति वचनादाचार्य एव निधाने कर्ता, न माणवकः । अधिकारादेव सिद्धे उपनेतेति वचनमुत्तरार्थम् । पुरस्तात् प्रत्यङ्ङासीन इत्यत्र उपनेतुः पुरस्तात् यथा स्यात् अग्नेः पुरस्तात् मा भूत् इति । तथा दक्षिणेन पाणिना दक्षिणं पादमित्यत्रोपनेतुः पादो न माणवकस्य ॥७॥
सुदर्शनः
कूर्चं दर्भमयमासनम् । उत्तरेण यजुषा “राष्ट्रभृदसि” इत्यनेन । उपनेता आचार्यः । शेषं व्यक्तम् ॥७॥
मूलम् ...{Loading}...
परिषेचनान्तं कृत्वापरेणाग्निमुदगग्रं कूर्चं निधाय तस्मिन्नुत्तरेण यजुषोपनेतोपविशति।
११ ०८ पुरस्तात्प्रत्यङ्ङासीनः कुमारो
११ ०८ पुरस्तात्प्रत्यङ्ङासीनः कुमारो ...{Loading}...
पुरस्तात् प्रत्यङ्ङ् आसीनः कुमारो दक्षिणेन पाणिना दक्षिणं पादम् अन्वारभ्य +++(=उपसंगृह्य)+++ आह “सावित्रीं भो अनुब्रूहि” इति ८
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- The boy, sitting to the east (of him), facing the west, seizes with his right hand (the teacher’s) right foot and says, ‘Recite the Sāvitrī, Sir!’
हरदत्तः
दर्भेष्वासीन इति गृह्यान्तरे । दक्षिणेनेति वचनमुभाभ्यामेवोभावित्ययं पक्षोऽत्र मा भूदिति । तेन सकुष्ठिकमुपसङ्गृह्णीयादित्ययं विशेषः प्रवर्तते ॥८॥
सुदर्शनः
उपनेतुः पुरस्तात् प्रायङ्मुखः आसीनः कुमारो दक्षिणेन पाणिना उपनेतुर् दक्षिणं पादं अन्वारभ्य उपसंगृह्य “सावित्रीं भो । अनुब्रूहि” इति प्रार्थयते ॥८॥
मूलम् ...{Loading}...
पुरस्तात्प्रत्यङ्ङासीनः कुमारो दक्षिणेन पाणिना दक्षिणं पादमन्वारभ्याह"सावित्रीं भो अनुब्रूहि” इति ॥
११ ०९ तस्मा अन्वाह
११ ०९ तस्मा अन्वाह ...{Loading}...
तस्मा अन्वाह - “तत् सवितुर्” इति ९
१३ तत्सवितुर्वरेण्यमित्येषा ...{Loading}...
१० तत्सवितुर्वरेण्यं भर्गो ...{Loading}...
तत् सवि॒तुर् वरे॑ण्य+++(णिय)+++म्
भर्गो॑+++(=भर्जनम्)+++ दे॒वस्य॑ धीमहि+++(←धा धारणे/ ध्यै ध्याने / धी आराधने)+++ ।
धियो॒ यो नः॑ प्रचो॒दया॑त् ॥
(प॒रो-र॑जसे॒ ऽसाव॒द् ओ३म् ॥)
प्रचोदयात्-स्वरः
प्र + चुद् + णिच् उदात्तः + शप् अनुदात्तः पित्त्वात् + [लेट् → आट् + तिप् अनुदात्तः पित्त्वात्]।
प्रानुदात्तत्वं तिङन्तस्योदात्तवत्त्वात्। तच्च यत्कारसद्भावात्।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- He recites (the Sāvitrī) to him, ‘That (glorious splendour) of Savitṛ’ (Taitt. Saṃh. I, 5, 6, 4; M. 4, 13);
हरदत्तः
+++(सम्पादकटिप्पनी - “सूत्रमेतद् अग्रिमे सूत्रे व्याख्यातम्” )+++
सुदर्शनः
+++(सम्पादकटिप्पनी - “सूत्रमेतद् अग्रिमे सूत्रे व्याख्यातम्” )+++
मूलम् ...{Loading}...
तस्मा अन्वाह तत्सवितुरिति।
११ १० पच्छोऽर्धर्चशस्ततस्सर्वाम्
११ १० पच्छोऽर्धर्चशस्ततस्सर्वाम् ...{Loading}...
पच्छो ऽर्धर्चशस् ततस् सर्वाम् १०
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- Pāda by Pāda, hemistich by hemistich, and the whole (verse).
हरदत्तः
तस्मा इति वचनात् कुमारस्य ग्रहणार्थमनुवचनम् । तेन त्रिष्वपि वचनेषु कुमारस्यानुग्रहणं भवति । अनुशब्दोऽनुग्रह द्योतनार्थः । अनुग्रहेणाह अन्वाहेति । तेन यद्यसमर्थः कुमारः तावत् वक्तुं ततो यथाशक्ति वाचयति । स्वयं विधिवत् पूर्वमुक्त्वा प्रथमं पच्छः पादेपादेऽवसानम् । द्वितीयमर्धर्चशः, ततस्सर्वामन्वाहेति । उत्तरमिति वक्तव्ये तत्सवितुरिति निर्देशः सावित्रीप्रदेशेषु सावित्र्या समित्सहस्रमादध्याद्(आप.ध.१-२७-१)इत्यादिषु अस्या एव ग्रहणं यथा स्यात् । यस्याः कस्याश्चित् सवितृदेवत्याया मा भूदित्येवमर्थम् । तत इति वचनादेतावदेवास्मिन्नहन्यनुवचनम् । एतैर्वचनैरग्रहणे कालान्तरेऽध्यापनम् ॥१०॥
सुदर्शनः
तस्मै कुमाराय ग्रहणार्थं “तत्सवितुर्वरेण्यम्” इत्येतामृचमाचार्योऽन्वाह । तत्र च सवितृदेवत्यामृचमनुब्रूहीत्यविशेषेण प्रार्थनायां कृतायामपि योयं “तत्सवितुरित्यन्वाह” इति नियमः स ज्ञापयति– धेनुपङ्कजादिशब्दवत् सावित्रीशब्दस्य यौगिकस्यापि “तत्सवितुर्वरेण्यम्” इत्यस्यामेव प्रयोगो नियतः, न तु “आसत्येन रजसा” इत्यादिष्वपीति । ततश्च धर्मशास्त्रे “सावित्रीं प्राणायामशः” (आप.ध.१-२६-१५.) सावित्र्या समित्सहस्रमादध्यात्”(आप.ध.१-२७-१.) इत्यादिष्वस्या एवर्चस्सम्प्रत्ययो नान्यस्या अपीति ॥९॥
कथमन्वाह? इत्यत्राह— पच्छः पादे पादे अवसाय । अर्धर्चशः अर्धचे अवसाय । ततः सर्वां समस्तां अनवसानामित्यर्थः । अत्र च सर्वानुवचनस्यादृष्टार्थत्वात्, ग्रहीतुमसमर्थस्यापि कुमारस्य सर्वा निगद्यते ॥१०॥
मूलम् ...{Loading}...
पच्छोऽर्धर्चशस्ततस्सर्वाम्।
११ ११ व्याहृतीर्विहृताः
११ ११ व्याहृतीर्विहृताः ...{Loading}...
व्याहृतीर् विहृताः - पादादिष्व् अन्तेषु वा, तथार्धर्चयोर्, उत्तमां कृत्स्नायाम् ११
(आद्युच्चारणपक्षे)
पादशः
ओं भूस् तत् सवि॒तुर् वरे॑ण्य+++(णिय)+++म्।
ओं भुव॒र् +++(पापादि)+++भर्गो॑+++(=भर्जनम्)+++ दे॒वस्य॑ धीमहि+++(←ध्यै ध्याने / धी आराधने)+++ ।
ओं सुव॒र् धियो॒ यो नः॑ प्रचो॒दया॑त् ॥
अर्धशः पूर्णश्श्च
ओं भूस् तत् सवि॒तुर् वरे॑ण्य+++(णिय)+++म् +++(पापादि)+++भर्गो॑+++(=भर्जनम्)+++ दे॒वस्य॑ धीमहि+++(←ध्यै ध्याने / धी आराधने)+++ ।
ओं भुव॒र् धियो॒ यो नः॑ प्रचो॒दया॑त् ॥
ओं सुव॒स्
१० तत्सवितुर्वरेण्यं भर्गो ...{Loading}...
तत् सवि॒तुर् वरे॑ण्य+++(णिय)+++म्
भर्गो॑+++(=भर्जनम्)+++ दे॒वस्य॑ धीमहि+++(←धा धारणे/ ध्यै ध्याने / धी आराधने)+++ ।
धियो॒ यो नः॑ प्रचो॒दया॑त् ॥
(प॒रो-र॑जसे॒ ऽसाव॒द् ओ३म् ॥)
प्रचोदयात्-स्वरः
प्र + चुद् + णिच् उदात्तः + शप् अनुदात्तः पित्त्वात् + [लेट् → आट् + तिप् अनुदात्तः पित्त्वात्]।
प्रानुदात्तत्वं तिङन्तस्योदात्तवत्त्वात्। तच्च यत्कारसद्भावात्।
पुनः पूर्णोच्यते कैश्चित्
ॐ भूर्-भुव॒स्-सुव॒स्
१० तत्सवितुर्वरेण्यं भर्गो ...{Loading}...
तत् सवि॒तुर् वरे॑ण्य+++(णिय)+++म्
भर्गो॑+++(=भर्जनम्)+++ दे॒वस्य॑ धीमहि+++(←धा धारणे/ ध्यै ध्याने / धी आराधने)+++ ।
धियो॒ यो नः॑ प्रचो॒दया॑त् ॥
(प॒रो-र॑जसे॒ ऽसाव॒द् ओ३म् ॥)
प्रचोदयात्-स्वरः
प्र + चुद् + णिच् उदात्तः + शप् अनुदात्तः पित्त्वात् + [लेट् → आट् + तिप् अनुदात्तः पित्त्वात्]।
प्रानुदात्तत्वं तिङन्तस्योदात्तवत्त्वात्। तच्च यत्कारसद्भावात्।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- (When repeating the Sāvitrī Pāda by Pāda, he pronounces) the Vyāhṛtis singly at the beginning or at the end of the Pādas;
- In the same way (the first and the second Vyāhṛti at the beginning or at the end) of the hemistichs; the last (Vyāhṛti, when he repeats) the whole verse.
हरदत्त-प्रस्तावः
अथ तस्मिन्नेवानुवचने विशेषमाह—
हरदत्तः
तत्रैवानुवचने विशेषः – प्रथमे वचने पादानां त्रयाणां आदिष्वन्तेषु वा तिस्त्रो व्याहृतयः क्रमेण वक्तव्याः ॥९॥ द्वितीय वचने अर्धचयोरादितः अन्ततो वा द्वे व्याहृती क्रमेण वक्तव्ये । तत उत्तमा शिष्यते सुवरिति । ताम् उत्तमां कृत्सनायां वचनेऽनुब्रूयादिति । तत्र प्रयोगः–प्रणवोऽग्रे वक्तव्यः । “ओंकारः स्वर्गद्वारम्, तस्मात् ब्रह्माध्येष्यमाणः”(आप.ध.१-१३-६.) इति वचनात् । ओं भूः तत्सवितुर्वरेण्यम् । ओं भुवः भर्गो देवस्य धीमहि । ओं सुवः धियो यो नः प्रचोदयात् । ओं भूः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । ओं भुवः धियो यो नः प्रचोदयात् । ओं सुवः तत्सवितुर्वेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् ॥११॥
सुदर्शनः
विहृताः व्याहृतीः त्रिष्वपि पादादिष्वेकैकामन्वाह । अथवा पादानामन्तेषु । तथार्धर्चेऽवसाय प्रयोगेऽपि प्रत्यर्धर्चमादावन्ते वैकैकामन्वाह । अविशिष्टां तूत्तमां व्याहृतिं कृत्स्नायाम् इति षष्ठ्यार्थपाठः । प्रयोगस्तु– प्रथमं प्रणवमन्वाह; ओमिति ब्राह्मणः प्रवक्ष्यन्नाह (तै.उ.१-८.) इति श्रुतेः, “ओंकारस्स्वर्गद्वारं तस्माद्ब्रह्माध्येष्यमाण एतदादि प्रतिपद्येत” (१-१३-६.) इति धर्मशास्त्रवचनाच्च । “ओं भूः तत्सवितुर्वरेण्यम् । ओं भुवः भर्गो देवस्य धीमहि । ओं सुवः धियो यो नः प्रचोदयात् ॥ ओं भूः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । ओं भुवः धियो यो नः प्रचोदयात् ॥ ओं सुवः तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि धियो यो नः प्रचोदयात्” । अन्तेषु वेति पक्षे प्रयोगः – “ओं तत्सवितुर्वरेण्यं भूः । ओं भर्गो देवस्य धीमहि भुवः । ओं धियो यो नः प्रचोदयात् सुवः ॥ ओं तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि भूः । ओं धियो यो नः प्रचोदयात् भुवः ॥ ओं तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् सुवः” इति ॥११॥
मूलम् ...{Loading}...
व्याहृतीर्विहृताः पादादिष्वन्तेषु वा तथार्धर्चयोरुत्तमां कृत्स्नायाम्।
११ १२ कुमार उत्तरेण
११ १२ कुमार उत्तरेण ...{Loading}...
कुमार उत्तरेण +++(“वृधमसौ सोभ्ये"त्यनेन, असावित्यनेन प्राणोऽभिधीयते)+++ मन्त्रेणोत्तरमोष्ठम् उपस्पृशते १२
१४ अवृधमसौ सौम्य ...{Loading}...
+++(सावित्रीग्रहणात्)+++ अवृ॑धम् अ॒सौ+++(←प्राण-सम्बोधने)+++ सौ॑म्य प्रा॒ण, स्वं मे॑ गोपाय ।+++(५)+++
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- With the next Mantra (M. II, 4, 14) the boy touches his upper lip;
हरदत्तः
अथ तत्रैवासीनः कुमारः उत्तरेण मन्त्रेणा"वृधमसौ सोम्ये"त्यनेन स्वयम्उत्तरमोष्ठमुपस्पृशते । अप उपस्पृशति । ओष्ठयो र्द्वित्वात् उत्तरमिति विशेषणम् । मन्त्रग्रहणमुत्तरशब्दस्य दिग्वाचिताशङ्का मा भूदित्येवमर्थम् । मन्त्रे असावित्यनेन प्राणोऽभिधीयते नाचार्यो नापि (१)माणवकः । तेन नामनिर्देशो न कर्त्तव्यः ॥११॥
सुदर्शनः
आचार्यवाचितेन “अवृधमसौ सोम्य” इत्यनेन मन्त्रेण कुमारः स्वमुत्तरमोष्ठम् उपस्पृशति । छान्दसमात्मनेपदम् । असावित्यत्र च नास्ति नामग्रहणम्, प्राणाभिधानत्वात् । “श्यावान्तपर्यन्तावोष्ठावुपस्पृश्याचामेत्” (आप.ध.१-१६-१०.) इति वचनात् आचमनं तु कर्तव्यम् ॥१२॥
मूलम् ...{Loading}...
कुमार उत्तरेण मन्त्रेणोत्तरमोष्टमुपस्पृशते।
११ १३ कर्णावुत्तरेण
११ १३ कर्णावुत्तरेण ...{Loading}...
कर्णावुत्तरेण +++(“ब्रह्मण आणी स्थ"इत्यनेन)+++ १३
१५ ब्रह्मण आणी ...{Loading}...
+++(सावित्री)+++ब्रह्म॑ण+++(=मन्त्रस्य)+++ आ॒णी+++(=कीले)+++ स्थः॑ ॥+++(५)+++
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- With the next (II, 4, 15) both his ears;
हरदत्तः
उत्तरेण मन्त्रेण “ब्रह्मण आणी स्थ” इत्यनेन । सकृन्मन्त्रः । कर्णाविति द्विवचनयोगात् क्रमेणोपस्पर्शनम् ॥१३॥
सुदर्शनः
स एव युगपद्धस्तद्वयेन स्वीयौ कर्णौ स्पृशति । उत्तरेण “ब्रह्मण आणी स्थः” इति द्विवचनलिङ्गेन ॥१३॥
मूलम् ...{Loading}...
कर्णावुत्तरेण ।
११ १४ दण्डमुत्तरेणाऽऽदत्ते
११ १४ दण्डमुत्तरेणाऽऽदत्ते ...{Loading}...
+++(पलाश-)+++दण्डमुत्तरेणाऽऽदत्ते +++(“सुश्रवस्सुश्रवस"मित्यनेन)+++१४
०१ सुश्रवस्सुश्रवसम् मा ...{Loading}...
सु॒श्रव॑स् +++(पलाश!)+++ सु॒श्रव॑सं मा कुरु।+++(५)+++
यथा॒ त्वꣳ सु॒श्रव॑स् सु॒श्रवा॑ अस्य्, ए॒वम् अ॒हꣳ सु॒श्रव॑स् सु॒श्रवा॑ भूयासम्॥
यथा॒ त्वꣳ सु॒श्रव॑स् सु॒श्रवो॑ दे॒वानां॑ निधिगो॒पो॑ ऽस्य्, ए॒वम॒हं ब्रा॑ह्म॒णानां॒ ब्रह्म॑णो निधि-गो॒पो भू॑यासम् ।+++(५)+++
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- With the next (II, 5, 1) he takes up the staff.
हरदत्तः
उत्तरेण मन्त्रेण “सुश्रवस्सुश्रवसम्” इत्यनेन ॥१४॥
सुदर्शनः
उत्तरेण “सुश्रवः” इत्यनेन ॥१४॥
मूलम् ...{Loading}...
दण्डमुत्तरेणाऽऽदत्ते।
११ १५ पालाशो दण्डो
११ १५ पालाशो दण्डो ...{Loading}...
पालाशो दण्डो ब्राह्मणस्य
नैय्यग्रोधस् स्कन्धजो ऽवाङ्ग्रो+++(=अवाञग्रः)+++ राजन्यस्य
बादर औदुम्बरो वा वैश्यस्य १५
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- 2 The staff of a Brāhmaṇa is made of Palāśa wood, that of a Rājanya of a branch of the Nyagrodha tree, so that the downward-turned end (of the branch) forms the tip (of the staff), that of a Vaiśya of Bādara or Udumbara wood.
हरदत्तः
राजन्यवैश्ययोः विशेषविधानादेव सिद्धे ब्राह्मणग्रहणं अयमपि विधिर्वणसंयुक्तो यथा स्यादिति । तेन “वार्क्षो दण्ड” इत्ययं विकल्पो ब्राह्मणस्यापि भवति । इतरथा राजन्यवैश्ययोरेव स्यात् तयोरेव वर्णसंयुक्त विधानमिति कृत्वा ॥१४॥ न्यग्रोधस्य विकारो नैय्यग्रोधः । स्कन्धे जातः स्कन्धजः । अवाचीनाग्रः अबाङग्रः । ङकारपाठश्छान्दसः ॥१५॥ बदर्या विकारो बादरः । वृक्षप्रकरमात् उदुम्बरो वृक्षः, न ताम्रम् ॥१६॥
सुदर्शनः
पालाशः पलाशवृक्षस्य विकारः । एवमुत्तरेष्वपि विग्रहः । स्कन्धे जातः स्कन्धजः । अवाङग्रः अवाचीनमग्रं यस्य दण्डस्य ॥१५॥
मूलम् ...{Loading}...
पालाशो दण्डो ब्राह्मणस्य नैय्यग्रोधस्स्कन्धजोऽवाङ्ग्रो राजन्यस्य बादर औदुम्बरो वा वैश्यस्य।
११ १६ वार्क्षो दण्ड
११ १६ वार्क्षो दण्ड ...{Loading}...
वार्क्षो दण्ड इत्य् अवर्ण-संयोगेनैक उपदिशन्ति १६+++(5)+++
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- Some state (only), without any reference to caste, that the staff should be made of the wood of a tree:
हरदत्तः
वृक्षस्य विकारो वार्क्षः । यज्ञियस्य वृक्षस्य इति कल्पान्तरे । पूर्वो विधिर्वणसंयुक्तः, अयं तु सर्वसाधारणो न केनचित् वर्णविशेषेण संयुज्यते । अत्र च सामयाचारिक एव दण्डविधिस्सर्वचरणार्थः सन्निहानूद्यते नैय्यग्रोधादिषु मन्त्रप्रापणार्थम् । अन्यथा पालाशस्यैव मन्त्रेणादानं स्यात् तूष्णीमन्येषाम् । “सुश्रवः” इत्यस्य पालाशाभिधानत्वात् । “देवा वै ब्रह्मन्नवदन्त तत् पर्ण उपाशृणोत् सुश्रवा वै नामेति”(तै.सं.३-५-७.) वार्क्षो दण्ड इत्वेतावतैव सिद्धे अवर्णसंयोगेनेति वचने कल्पान्तरयोरसंभेददर्शनार्थम्–यदि वर्णसंयुक्तः कल्पः प्रक्रान्तः स एवासमावर्तनात् कर्तव्य इति ॥१६॥
सुदर्शनः
वार्क्षः वृक्षस्य यज्ञियस्य विकारः, न तु वेणुवेत्रादेः । अवर्णसंयोगेन सर्ववर्णानामविशेषेण इत्येवा उपदिशन्ति । अत्र यद्यपि “तत् पर्ण उपाश्रृणोत् सुश्रवा वै नाम” (तै.सं.३-५-७) इत्यर्थवादेन मन्त्रस्थसुश्रवश्शब्दस्य पालाशाभिधानलिङ्गत्वात् अनेन मन्त्रेण नैय्यग्रोधादिदण्डानामप्युपादाने लिङ्गविरोधः तथापि “दण्डमुत्तरेणादत्ते” इति श्रुतिप्राबल्यात् लिङ्गं बाधित्वाऽनेनैव सर्वदण्डानामुपादानम् । धर्मशास्त्रे “पालाशो दण्डो ब्राह्मणस्य” (आप.ध.१.२.३८)इत्यादि पुनर्विधानं च “त्रैविद्यकं ब्रह्मचर्यं चरेत्” (आप.ध.१.१.२८) इत्युपनयनकालातिपत्तिप्रायश्चित्तानुष्ठानेऽपि तत्तद्वर्णेन तत्तद्दण्डधारणार्थम् । केचित्–तत्रैव सर्वचरणार्थं विहितानां दण्डानां गृह्येऽनुवादः सर्वेषामुपादानेऽपि श्रुत्यैतन्मन्त्रविधानार्थ इति ॥१६॥
मूलम् ...{Loading}...
वार्क्षो दण्ड इत्यवर्णसंयोगेनैक उपदिशन्ति।
११ १७ स्मृतञ् च
११ १७ स्मृतञ् च ...{Loading}...
“स्मृतं च म” इत्य् एतद्वाचयित्वा
०२-१० स्मृतञ्च मे ...{Loading}...
स्मृ॒तञ् च॒ मे, ऽस्मृ॑तञ्च मे॒ - तन् म॑ उ॒भयं॑ व्र॒तं,
नि॒न्दा च॒ मे ऽनि॑न्दा च मे॒ - तन् म॑ उ॒भयं॑ व्र॒त२ꣳ,
श्र॒द्धा च॒ मे ऽश्र॑द्धा च मे॒ - तन् म॑ उ॒भयं॑ व्र॒तं,
वि॒द्या च॒ मे ऽवि॑द्या च मे॒ - तन् म॑ उ॒भयं॑ व्र॒त२ꣳ,
श्रु॒तञ् च॒ मे ऽश्रु॑तञ्च मे॒ - तन् म॑ उ॒भयं॑ व्र॒तꣳ,
स॒त्यञ् च॒ मे ऽनृ॑तञ्च मे॒ - तन् म॑ उ॒भयं॑ व्र॒तं,
तप॑श् च॒ मे ऽत॑पश्च मे॒ - तन् म॑ उ॒भयं॑ व्र॒तं,
व्र॒तञ् च॒ मे ऽव्र॑तञ्च मे॒ - तन् म॑ उ॒भयं॑ व्र॒तं,
यद् ब्रा॑ह्म॒णानां॒ ब्रह्म॑णि+++(=वेदविषये)+++ व्र॒तम्,
यद् अ॒ग्नेस् +++(→यातृत्वं)+++ सेन्द्र॑स्य॒ +++(→प्राधान्यम्)+++ सप्र॑जापतिकस्य॒ +++(→स्रष्टृत्वं)+++ सदे॑वस्य॒ +++(→दातृत्वादि)+++ सदे॑वराजस्य॒ सम॑नुष्यस्य॒ +++(→प्रियवचनादि)+++ सम॑नुष्यराजस्य॒ +++(→प्रजारक्षणम्)+++ सपि॑तृकस्य॒ +++(→पुत्रोत्पत्ति)+++ सपि॑तृराजस्य॒ +++(यमस्य → सर्वसमत्वं)+++ सग॑न्धर्वाप्सर॒स्कस्य॑ +++(→परिचरणकौशलम्, उदात्तद्वयम्?? )+++,
यन् म॑ आ॒त्मन॑ आ॒त्मनि॑ व्र॒तन्,
तेना॒हꣳ सर्व॑व्रतो भूयासम् ।
वरदानम्
गुरवे वरं +++(अग्न्याधाने “गौर्वै वरः”(आप.श्रौ.४११४))+++ दत्त्वा
उत्थापनमन्त्रः
+उदायुषेत्य् उत्थाप्य
+++(कुमारो वदति -)+++
११ उदायुषा स्वायुषोदोषधीनाम् ...{Loading}...
उद् आयु॑षा स्वा॒युषा,
+उद् ओष॑धीना॒ꣳ॒ रसे॑न॒+,
+उत् प॒र्जन्य॑स्य॒ शुष्मे॑ण+++(=बलेन)++++
+उद् अ॑स्थाम्,
अ॒मृता॒ꣳ॒+++(=देवान्)+++ अनु॑ ।
आदित्योपस्थानम्
उत्तरैर् +++(“तच्चक्षुर्देव हितम्”)+++ आदित्यम् उपतिष्ठते १७
१२ तच्चक्षुर्देवहितम् पुरस्ताच्छुक्रमुच्चरत् ...{Loading}...
+++(सूर्यस्)+++ तच् चक्षु॑र् दे॒व+++(नि)+++हि॑तं पु॒रस्ता॑च् छु॒क्र+++(द्ध)+++म् उ॒च्चर॑त् ।
पश्ये॑म श॒रद॑श् श॒तं
जीवे॑म श॒रद॑श् श॒तं
नन्दा॑म श॒रद॑श् श॒तं
मोदा॑म श॒रद॑श् श॒तं
भवा॑म श॒रद॑श् श॒तꣳ
शृ॒णवा॑म श॒रद॑श् श॒तं
प्रब्र॑वाम श॒रद॑श् श॒तम्
अजी॑ताः स्याम श॒रद॑श् श॒तं
ज्योक्+++(=दीर्घकालं)+++ च॒ सूर्य॑न् दृ॒शे ।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- After (the teacher) has made him repeat (the formula), ‘My memory’ (M. II, 5, 2), and he has bestowed an optional gift on his teacher, and (the teacher) has made him arise with (the formula, M. II, 5, 3), ‘Up, with life!’ (the student) worships the sun with the next (Mantras; II, 5, 4).
हरदत्तः
अथ दण्डमादाय तत्रैवासीनः कुमारः स्मृतञ्च म इत्येतत् व्रतसंकीर्तनमाह । ततो गुरवे वरं ददाति । तत उदायुषेति मन्त्रेणोत्तिष्ठेत् उत्तरैर्मन्त्रैरादित्यमुपतिष्ठते “तच्छक्षुर्” इत्यादिभिः “सूर्यं दृशे” इत्यवमन्तैः । व्रतसंकीर्तनादि पदार्थचतुष्टयस्य कुमार एव कर्ता । हेत्वभिधानं तूभयत्राविवक्षितं-वाचयित्वोत्थाप्येति च । विवक्षिते तु तस्मिन् वरदाने उपस्थाने चाऽऽचार्य एव कर्ता स्यात् । तस्मादर्थप्राप्तस्य हेतुव्यापारस्यानुवादः ॥१७॥
सुदर्शनः
अथाचार्यः"स्मतं च मे” इत्येतन्मन्त्रजातं कुमारं वाचयति । तत्राष्टौ मन्त्रास्समानोदर्काश्शेषो नवमः । तेषां प्रत्यगाशिष्ट्वादेव वाचने प्राप्ते वाचयित्वेति पुनर्वचनं वाचनवरदानयोः नैरन्तर्यार्थम् । अथ गुरवे आचार्याय कुमारो वरं गां “गुरो! वरं ते ददामि” इति ददाति । अग्न्याधाने “गौर्वै वरः” (आप.श्रौ.५-११-४) इत्युक्तत्वात् । आचार्यस्तु सप्तदशकृत्वोऽपान्य होतॄणां दशमानुवाकस्य “देवस्य त्वा” इत्यादित आरभ्य “देवि दक्षिणे” इत्येवमन्तमुक्त्वा “रुद्राय गां तेनामृतत्वमश्याम्” इत्यादि सन्धाय “उत्तानस्त्वाङ्गीरसः प्रतिगृह्णातु” (तै.आ.३-१०.) इत्येवमन्तेन श्रौतवत् प्रतिगृह्णाति; “उपनयनं विद्यार्थस्य श्रुतितस्संस्कारः” (आप.ध.१-१-९.) इति धर्मशास्त्रवचनात् । ततः कुमारं “उदायुषा” इत्युत्थाप्य इदं च वाचयति । अथ कुमारः"तच्चक्षुर्देव हितम्” इत्यादिभिराचार्यवाचितैर्दशभिर्मन्त्रैरादित्यमुपतिष्ठते । अत्र वाचयित्वेत्यादेः क्त्वाप्रत्ययस्य, क्रियाविधानमात्रे तात्पर्यं, न तु समानकर्तृकत्वेऽपि । ज्ञापितं चैतत् “योक्त्रं विमुच्य तां ततः प्र वा वाहयेत्” (आप.गृ.५-१३.) इत्यत्र । अथवा व्यवधानेन सम्बन्धः; आचार्यस्स्मृतादि वाचयित्वा “उदायुषा” इत्युत्थाप्य “यं कामयेत” इत्यादि कुर्यात् । कुमारस्तु गुरवे वरं दत्वोत्तरैरादित्यमुपतिष्ठते । केचित्–स्मृतसङ्कीर्तनादि पदार्थचतुष्टयमपि कुमारकर्तृकम् । वाचयित्वोत्थाप्येति तु णिजर्थो हेतुरविवक्षितः, अन्यथा त्वसमानकर्तृकत्वात् वरदानमुपस्थानं चाचार्यकर्तृकं स्यात् तथा गुरुग्रहणं चौलादौ ब्रह्मणे वरदानार्थमिति ॥१७॥
मूलम् ...{Loading}...
स्मृतं च म इत्येतद्वाचयित्वा गुरवे वरं दत्त्वोदायुषेत्युत्थाप्योत्तरैरादित्यमुपतिष्ठते।
११ १८ यङ् कामयेत
११ १८ यङ् कामयेत ...{Loading}...
यं कामयेत +++(मत्)+++ नायमाच्छिद्येतेति, तम् उत्तरया +++(“यस्मिन् भूतमि"त्येतया)+++ दक्षिणे हस्ते गृह्णीयात् १८
१३ यस्मिन्भूतञ्च भव्यञ्च ...{Loading}...
यस्मि॑न् भू॒तञ् च॒ भव्य॑ञ् च॒
सर्वे॑ लो॒कास् स॒माहि॑ताः ।
तेन॑ गृह्णामि त्वाम् अ॒हं,
मह्यं॑ गृह्णामि त्वाम् अ॒हं
प्र॒जाप॑तिना त्वा॒ मह्यं॑ गृह्णाम्य् असौ+++(→नामनिर्देशः)+++ ॥
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- If (the teacher) wishes, ‘May this (student) not be estranged from me,’ let him take (the student) by the right hand with the next (verse; II, 5, 6).
हरदत्तः
यं कुमारं उपनेता कामयेत गुरुः, किमिति? अयं मत्तो न छिद्येत न वियुज्येत मदधीन एव स्यादासमावर्तनादिति तमेतस्मिन् काले दक्षिणे हस्ते गृह्णीयात् उत्तरया ऋचा “यस्मिन् भूतम्” इत्येतया । नामनिर्देशः सम्बुध्या । काम्योऽयं विधिः न नित्यः । एतदेव ज्ञापकमासमावर्तनात् नोपनेतुरेव समीपे वर्तितव्यमिति ॥१८॥
सुदर्शनः
यं कुमारं अयम् आसमावर्तनान्मत्तो न च्छिद्येत न वियुज्येतेति कामयेत, तमुत्तरया “यस्मिन् भूतम्” इत्यनयर्चा सम्बुद्ध्या च नाम गृहीत्वा दक्षिणे हस्ते गृह्णीयात् यद्यमाचार्यश्चतुर्वेदी सर्वशास्त्रवित् अध्यापयितुं व्याख्यातुं च शक्नोति ॥१८॥
मूलम् ...{Loading}...
यं कामयेत नायमाच्छिद्येतेति तमुत्तरया दक्षिणे हस्ते गृह्णीयात्।
११ १९ त्र्यहमेतमग्निन् धारयन्ति
११ १९ त्र्यहमेतमग्निन् धारयन्ति ...{Loading}...
+++(पित्रादयः)+++ त्र्यहम् एतम् अग्निं धारयन्ति १९
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- They keep that fire (used at the Upanayana) three days,
हरदत्तः
एतमुपनयनाग्निं त्र्यहं धारयन्ति - अविनाशिनं कुर्वन्ति पित्रादयः ॥१९॥
सुदर्शनः
स्पष्टमेतत् ॥१९॥
मूलम् ...{Loading}...
त्र्यहमेतमग्निं धारयन्ति।
११ २० क्षारलवणवर्जनञ् च
११ २० क्षारलवणवर्जनञ् च ...{Loading}...
+++(त्र्यहम्)+++ क्षार-लवण-वर्जनं च २०
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- And (during that time) salted and pungent food should be avoided.
हरदत्तः
क्षार-लवणयोर् वर्जनं भवति भोजने त्र्यहम् । अस्य ब्रह्मचारिणः सामयाचारिकः प्रतिषेधः सार्वकालिकः ।
अयं तु त्र्यहसम्बन्धः । तयोर् विकल्पः । मध्वादि-प्रतिषेधस् तु सामयाचारिको नित्यम् एव भवति ॥२०॥
सुदर्शनः
त्र्यहं क्षारलवणयोर् वर्जनं च भवति । अत्र च त्र्यहम् इति नियमाद् धर्मशास्त्रे “यथा क्षार-लवण-मधु-मांसानि” (आप.१-४-६.) " इत्यनेन क्षार-लवणयोर् द्वयोर् निषेधः । त्र्यहाद् ऊर्ध्वं पाक्षिकः । मध्वादेस् तु नित्य एव ॥२०॥
मूलम् ...{Loading}...
क्षारलवणवर्जनं च।
११ २१ ‘परित्वे’ ति
११ २१ 'परित्वे' ति ...{Loading}...
परि त्वेति परिमृज्य
०१ परि त्वाऽग्ने ...{Loading}...
परि॑ त्वाऽग्ने॒ परि॑मृजा॒म्य् आयु॑षा च॒ धने॑न च ।
सु॒प्र॒जाः प्र॒जया॑ भूयासꣳ,
सु॒वीरो॑ वी॒रैस्, सु॒वर्चा॒ वर्च॑सा, सु॒पोषः॒ पोषै॑स्, सु॒गृहो॑ गृ॒हैस्, सु॒पतिः॒ पत्या॑+++(→आचार्येण)+++, सुमे॒धा मे॒धया॑, सु॒ब्रह्मा॑ +++(स)+++ब्र॑ह्मचा॒रिभिः॑ ।
समिदाधानम्
तस्मिन्न् उत्तरैर् मन्त्रैस् +++(“अग्नये समिध"मित्यादिभिः द्वादशभिः प्रतिमन्त्रं)+++ समिध आदध्यात् २१
०२ अग्नये समिधमाहार्षम् ...{Loading}...
अ॒ग्नये॑ स॒मिध॒म् आहा॑र्षं
बृह॒ते जा॒तवे॑दसे ।
यथा॒ त्वम॑ग्ने स॒मिधा॑ समि॒द्ध्यस॑, ए॒वं माम् आयु॑षा॒ वर्च॑सा स॒न्या+++(=लाभेन)+++ मे॒धया॑ प्र॒जया॑ प॒शुभि॑र् ब्रह्मवर्च॒सेना॒न्नाद्ये॑न॒+++(=अन्नादनेन)+++ समे॑धय॒ स्वाहा॑ ।
०३ एधोऽस्येधिषीमहि स्वाहा ...{Loading}...
+++(हे समित्, अग्नेर्)+++ एधो॑+++(←इन्धी दीप्तौ)+++ ऽस्येधिषी॒महि॒ स्वाहा॑ ।
०४ समिदसि समेधिषीमहि ...{Loading}...
- स॒मिद् अ॑सि समेधिषी॒महि॒ +++(अग्निं)+++ स्वाहा॑ ।
०५ तेजोसि तेजो ...{Loading}...
- तेजो॑सि॒ तेजो॒ मयि॑ धेहि॒ स्वाहा॑ ।+++(५)+++
०६ अपो अद्यान्वचारिषम् ...{Loading}...
अपो॑+++(=कर्म)+++ अ॒द्य +अन्व॑चारिष॒ꣳ॒
+++(श्रद्धा)+++रसे॑न॒ सम॑सृक्ष्महि+++(=संसृष्टो भवेयम्। समगन्महीति शाकले)+++ ।
पय॑स्वाꣳ+++(→हविष्मान्)+++ अग्न॒ आग॑म॒न्
तं मा॒ सꣳसृ॑ज॒ वर्च॑सा॒ स्वाहा॑ ।
०७ सम् माऽग्ने ...{Loading}...
सं मा॑ऽग्ने॒ वर्च॑सा सृज
प्र॒जया॑ च॒ धने॑न च॒ स्वाहा॑ ।
०८ विद्युन्मे अस्य ...{Loading}...
वि॒द्युन्+++(र्)+++ मे॑ अस्य दे॒वा
इन्द्रो॑ वि॒द्यात् स॒हर्षि॑भिः॒ स्वाहा॑ ।+++(५)+++
०९ अग्नये बृहते ...{Loading}...
अ॒ग्नये॑ बृह॒ते नाका॑य॒ स्वाहा॑ ।
+++(दिविनाको नामाग्निः इति ब्राह्मणम् ।)+++
१० द्यावापृथिवीभ्यां स्वाहा ...{Loading}...
द्यावा॑पृथि॒वीभ्या॒ꣳ॒ स्वाहा॑ ।
११ एषा ते ...{Loading}...
ए॒षा ते॑ अग्ने स॒मित्, तया॒ वर्द्ध॑स्व॒ चाप्या॑यस्व च॒, तया॒ऽहं वर्ध॑मानो भूयासम्, आ॒प्याय॑मानश्च॒ स्वाहा॑ ।
१२ यो माऽग्ने ...{Loading}...
यो मा॑ऽग्ने भा॒गिनꣳ॑ स॒न्तम्
अथा॑भा॒गञ् चिकी॑र्षति ।
अभा॒गम् अ॑ग्ने॒ तं कु॑रु॒
माम् अ॑ग्ने भा॒गिनं॑ कुरु॒ स्वाहा॑ ।+++(५)+++
१३ समिधमाधायाग्ने सर्वव्रतो ...{Loading}...
स॒मिध॑मा॒धाया॑ग्ने॒ सर्व॑व्रतो भूयास॒२ꣳ॒ स्वाहा॑ ।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- Having wiped (with his hand wet) around (the fire) with (the formula), ‘Around thee’ (M. II, 6, 1), he should put (twelve) pieces of wood on that (fire) with the next Mantras (II, 6, 2-13).
हरदत्तः
तमुपनयनाग्निं “परि त्वे"त्यनेन मन्त्रेण परिमृज्य सर्वतो मार्जनमुदकेन कृत्वा उत्तरैर्मन्त्रैः “अग्नये समिधम्” इत्यादिभिः द्वादशभिः प्रतिमन्त्रं समिधो नित्यमादध्यात् ब्रह्मचारी । “सायं प्रातर्” (आप.ध.१४-१६) इति विशेषः सामयाचारिकः प्रत्येतव्यः । “सायमेवाग्निपूजेत्येके” (आप.ध.१-४-१७.) इति च । अयं तूपदेशोऽस्मिन् काले प्रारम्भार्थः । तेन प्रातरुपक्रमं समिदाधानं सायमपवर्गम् (१)पक्षान्तरे सायमेवोपक्रमः, नान्यस्मिन् काले । तत्र यथाकामी प्रक्रमे । अधिकारादेव सिद्धे तस्मिन्निति वचनं त्र्यहादूर्ध्वमपि तस्मिनुपनयनाग्नावेव समिदाधानं यथा स्यादिति । तेन नित्यधारणमप्यस्य विकल्पेन साधितं भवति । व्याहृतिभिरप्यन्ते चतस्रस्समिध आदधाति । तत्त्प्रायश्चित्तत्वेन द्रष्टव्यम्, (२)कल्पान्तरदर्शनाच्च । “यत्ते अग्ने तेजः” इत्यादिभिरुपस्थानं समाचाराद्भसितधारणम् ॥२१॥
सुदर्शनः
“परित्वाग्ने” इत्यग्निं परिमृज्य परिसमूह्य, तस्मिन् उपनयनाग्नौ यावद्धारणम् उत्तरैर्मन्त्रैर् द्वादशभिः “अग्नये समिधमाहार्षं” इत्यादिभिः प्रतिमन्त्रमेकैकां समिधमादध्यात् । (३)पुनश्चान्ते तूष्णीं परिसमूहनम् । (४)अनन्तरमुभयस्तूष्णीं समन्तं परिषेचनं, स्मृत्यन्तराद् आचाराच्च । एतच्च समिदाधानं पूर्वं काष्ठैरग्निमिद्ध्वा कार्यम्; धर्मशास्त्रे “अग्निमिद्ध्वा परिसमूह्य समिध आदध्यात्” (आप.ध.१-४-१६.) इति वचनात् । परिसमूहनस्य “परित्वेति परिमृज्य” इति विधिः । तथा धर्मशास्त्रे तु “समिद्धमग्निं पाणिना परिसमूहेन्न समूहन्या” (आप.ध.१-४-१८) इति गुणार्थोऽनुवादः ॥२१॥
मूलम् ...{Loading}...
‘परित्वे’ ति परिमृज्य तस्मिन्नुत्तरैर्मन्त्रैस्समिध आदध्यात् ॥
११ २२ एवमन्यस्मिन्नपि
११ २२ एवमन्यस्मिन्नपि ...{Loading}...
एवम् अन्यस्मिन्न् अपि +++(अग्नौ, तस्मिन्न् एव वा धार्यमाणे -)+++ सदा ऽरण्याद् +++(न ग्राम्यात् फलवतः)+++ एधान् आहृत्य +++(समिदाधानं कुर्यात्)+++२२ +++(नात्र पलाशनियमः!)+++
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- In the same way also on another (fire, when the Upanayana fire is kept no longer),
- Fetching fuel regularly from the forest.
हरदत्तः
यथा ऽस्योपनयनाग्नेः नित्य-धारण-पक्षे समिधादानं नित्यत्वेन चोदितं,
एवं त्र्यहं धारणपक्षे त्र्यहाद् ऊर्ध्वं अन्यस्मिन्नप्य् अग्नाव् इदं कर्म कर्तव्यमित्यर्थः ॥२३॥
अरण्य-ग्रहणात् ग्राम्याणां फलवतां वृक्षाणां प्रतिषेधः । आहृत्येति वचनात् अन्यैर् आहृतानां प्रतिषेधः ।
एधाः काष्ठानि । एध-ग्रहणम् अग्नेर् आहरण-शङ्का-निवृत्त्य्-अर्थम् । सामयाचारिकेषु विधिः - गुर्वर्थं ब्रह्मचारिणस् समिद्-आहरणं विधत्ते । इदं त्व् आत्मार्थम् ॥२२॥
सुदर्शनः
एवम् उक्तेन विधिना सदा उपनयन-प्रभृत्यासमावर्तनात् अहर् अहस् सायं प्रातः, सायमेव वा समिदाधानं कर्तव्यम् ।
एतच् च त्र्यहाद् ऊर्ध्वम् अन्यस्मिन्न् अपि लौकिकेऽग्नौ भवति ।
न तूपनयनाग्निर् नष्ट इति नित्यस्य समिदाधानस्य लोपः ।
समिधश् चारण्याद् एवाहृत्याधेयाः ।
यच् च धर्मशास्त्रे “सायं प्रातर् यथोपदेशम्” इति “सायम् एवाग्नि-पूजेत्येके” (आप.ध.१-४-१६,१७.) इति स विकल्पविध्यर्थो ऽनुवादः ।+++(5)+++
केचित्–नित्यस्य समस् समिदाधानस्य अत्रोपदेशोऽस्मिन् काले प्रारम्भार्थः । ततश् चेदं प्रातर् उपक्रमं सायम् अपवर्गम् ।
सायम् एवेति पक्षे तु सायम् एवोपक्रमो नान्यत्र । तत्र यथा-कामी प्रक्रमेत । तथा तस्मिन्न् “अन्यस्मिन्न् अपी"त्यारम्भात् उपनयनाग्नेस् त्र्यहाद् ऊर्ध्वम् अपि विकल्पेन धारणं, तत्रैव समिदाधानं चेति ॥२२॥+++(5)+++
मूलम् ...{Loading}...
एवमन्यस्मिन्नपि सदारण्यादेधानाहृत्य।
११ २३ उत्तरया सँशास्ति
११ २३ उत्तरया सँशास्ति ...{Loading}...
उत्तरया +++(“ब्रह्मचार्यसी"त्येतया)+++ सँशास्ति २३ +++(बाढमिति प्रतिवचनम् ।)+++
१४ ब्रह्मचार्यस्य्, अपोऽशान ...{Loading}...
ब्र॒ह्म॒चा॒र्य् अ॑सि।
(वटुः - बाढम्।)
अपो॑ऽशान +++(नानिवेदितम् अन्नम्)+++।
(वटुः - बाढम्।)
कर्म॑ कुरु।
(वटुः - बाढम्।)
मा सुषु॑प्थाः।
+++(अथ यः पूर्वोत्थायी जघन्यसंवेशी तमाहुर्न स्वपितीति एवंविधो वा स्वापाभावः ।)+++
(वटुः - बाढम्।)
भि॒क्षा॒च॒र्य॑ञ् चर। (वटुः - बाढम्।)
आ॒चा॒र्या॒धी॒नो भ॑व ।
(वटुः - बाढम्।)
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- With the next (formula - M. II, 6, 14 - the teacher) instructs (the student in his duties).
हरदत्तः
अथं तं उत्तरयर्चा “ब्रह्मचार्यसी"त्येतया संशास्ति गुरुः संशिक्षयतीत्यर्थः यथापाठामृचा संशासनं अर्थं च कथयति । ब्रह्मचार्यसि ब्रह्मचर्याश्रमं प्राप्तोऽसि । तस्मात् कामचारवादभक्षो मा भूः । “बाढम्” इति प्रतिवचनम् । अपोऽशान, मयाननुज्ञातः अप एवाशान, नान्यत् । पूर्ववत् प्रतिवचनं सर्वत्र। कर्म कुरु गुरुशुश्रूषणादि । मा सुषुप्थाः दिवा स्वापप्रतिषेधः । “दिवा मा स्वाप्सीर् (आश्व.गृ.१-२२-२,) इत्येवाश्वलायनः । अपर आह– अथ यः पूर्वोत्थायी जघन्यसंवेशी तमाहुर्न स्वपितीति । एवं विधोऽत्र स्वापाभाव इति । भक्षाचर्यं चरेति नियमेन भैक्षविधिः । आचार्याधीनो भव मातापित्रोरपि वशं त्यक्त्वा आचार्यवशे वर्तस्वेत्यर्थः । संशासनानन्तरं भिक्षाचरणम् । अत्र बोधायनः–“अथास्मा अरिक्तं पात्रं प्रयच्छान्नाह मातरमेवाग्रे भिक्षस्वेति” । (भौ.गृ.२-७.) आश्वलायनस्तु"अप्रत्याख्यायिनमग्रे भिक्षेताप्रत्याख्यायिनीं वा” (आश्व.गृ.१-२२-७) इति ॥२३॥
सुदर्शनः
“ब्रह्मचार्यसि” इत्यनया कुमारं संशास्ति शिक्षयति । (१)अथ संशासनार्थज्ञापनाय मन्त्रार्थ उत्यते । ब्रह्मचार्यसि (२)कामचारवादभक्षो मा भूः । अपोऽशान मयानुज्ञातोऽप (३)एव पिब, बुभुक्षां तु धारय । **कर्म कुरु,**अस्मदर्थं कर्म मयानुक्तोऽपि कुरु, मा सुषुप्थाः पूर्वोत्थायी जघन्यसंवेशी भूयाः, “तामाहुर्न स्वपिति” (आप.१-४-२८) इत्युक्तत्वात्, मा दिवा स्वाप्सीरिति वा । भिक्षाचर्यं चर, निमन्त्रणादिना भुञ्जानोऽप्यस्मदर्थं भैक्षमाचर । आचार्याधीनो भव, मयाननुज्ञातो याजनादिकर्म मा कार्षीरिति । अत्र चासीतिछान्दसो लकारः, सुषुप्था इति रूपं च । संशासनेषु च सर्वेषु कुमारो ‘बाढम्’ “एवं करोमि” इति प्रतिवचनं(४) दाप्यः । संशासनान्ते च भिक्षाचरणम् । अथास्मा अरिक्तं पात्रं प्रयच्छन्नाह — मातरमेवाग्रे भिक्षस्वेति (बौ.गृ.२-५-४०.) इति बौधायनगृह्यात् ।
मूलम् ...{Loading}...
उत्तरया सँशास्ति।
११ २४ वासश्चतुर्थीमुत्तरयादत्तेऽन्यत्परिधाप्य
११ २४ वासश्चतुर्थीमुत्तरयादत्तेऽन्यत्परिधाप्य ...{Loading}...
+++(त्र्यहं मन्त्रवत्-परिहितमेव)+++ वासश् चतुर्थीम्+++(चतुर्थाहोरात्रे अहन्येव)+++ उत्तरया +++(“यस्य ते प्रथमवास्य"मित्येतया)+++ ऽऽदत्ते +++(=स्वीकरोति)+++
१५ यस्य ते ...{Loading}...
यस्य॑ ते प्रथमवा॒स्यꣳ॑+++(=प्रथमाच्छादितं)+++ हरा॑म॒स्
तं त्वा॒ विश्वे॑ अवन्तु दे॒वाः ।
तन् त्वा॒ भ्रात॑रस् सु॒वृधो॒ वर्ध॑मान॒म्
अनु॑ जायन्तां ब॒हव॒स् सुजा॑तम् ॥
ऽन्यत् परिधाप्य २४
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- 3 On the fourth day (after the Upanayana the teacher) takes the garment (of the student) for himself with the next (verse; M. II, 6, 15), having made him put on another (garment).
हरदत्तः
अथ त्रिरात्रे(५) निवृत्ते चतुर्थी रात्रिं सप्तम्यर्थे द्वितीया । चतुर्थ्यामित्यर्थः । तत्र किम्? यद्वासः कुमारस्य धार्यं सद्यःकृत्तोतं परिधापितं तदाचार्य आदत्ते उत्तरया ऋर्चा “यस्य ते प्रथमवास्य"मित्येतया । अन्यद्वासः परिधाय । त्र्यहे तु तस्मिन्नियमेन सद्यःकृत्तोतमेव । चतुर्थीमित्यत्र न रात्रिर्विवक्षिता । किं तर्हि? अहोरात्रसमुदायः । तत्राहन्यवादानं वाससः “उदगयनपूर्वपक्षाहः” इति नियमात् । मेखलामजिनं दण्डमुपवीतं कमण्डलुम् । अप्सु प्रास्य विनष्टानि (१)धार्याण्यन्यानि मन्त्रवत् ॥२४॥
सुदर्शनः
चतुर्थीम् इति सप्तम्यर्थे द्वितीया । चतुर्थ्या रात्रौ चतुर्थाहोरात्रे अहन्येव “उदगयनपूर्वपक्षाहः” (आप.गृ.१-२.) इति नियमात् । वासः उपनयनकाले यत्परिधापितं तदाचार्यः सप्तशकृत्वोऽपान्य “यस्य ते प्रथमवास्यम्” इत्यनयैव स्वीकरोति, न तु सावित्रेण; अत्र विशेषविधेर्बलीयस्त्वात् । उपदेशमतं तु “देवा वै वरुणमयाजयन्, (तै.ब्रा.२-२-५.) इति लिङ्गादयज्ञेषु न प्रतिग्रहविधिरिति । एतच्चान्यद्वासः कुमारं परिधाप्यैव कर्तव्यम् । स तु “गुरो वासस्ते ददामि, इति दद्यात् । एतच्च त्र्यहं मन्त्रवत्परिहितमेव वासः परिधेयम् । आपस्तम्बमत्या एतदन्तमुपनयनम् ॥२४॥
अथ पालाशकर्मभाष्यं लिख्यते— केचित्– स्मृत्यन्तरोपसंहारेण पलाशवृक्षसमीपे पालाशं कर्म कुर्वते समानम् । अन्येषां च श्रद्धधानानां हितार्थं (२)पालाशकर्मणो विधिरुच्यते-त्रीण्यहानि प्रत्यहमामभैक्षमाचरेत् । चतुर्थेऽहन्यन्नसंस्कारेण संस्कृत्याचार्येण सह प्राचीमूदीचीं वा दिशमुपनिष्क्रम्य पूर्वेणोत्तरेण वा पलाशवृक्षं त्रीण्युदगपवर्गाणि स्थण्डिलानि कल्पयित्वा तेषु यथाक्रमं प्रत्यङ्मुखः प्रणवश्रद्धामेधाभ्योऽर्घ्यपाद्याचमनस्नानवस्त्रगन्धमाल्यधूपदीपबलींश्च दत्वाऽथोपतिष्ठते । “यश्छन्ददसाम्” इत्यनेन “श्रुतं मे गोपाय” (तै.उ.१-४.) इत्यन्तेन प्रणवम् । “श्रद्धयाग्निः समिध्यते” (तै.ब्रा.२-८-८.) इति सूक्तेन श्रद्धाम् । (३)“मेधा देवी” (तै.उ.४-४१.) इत्यनुवाकेन मेधाम् । ततः पलाशमूले दण्डं विसृज्य अन्यदण्डमादाय सहाचार्यो गृहमागच्छतीति ॥ चतुर्थे पटलेपीत्थं यथाभाष्यं यथामति । कृतं सुदर्शनार्येण गृह्यतात्पर्यदर्शनम् ॥ सुबद्धं दुर्लभं भाष्यं भाष्यार्थश्च सुदुर्ग्रहः । अतोऽनुकम्प्या विद्वद्भिः मन्दबुद्धिश्रुता वयम् ॥ इति श्रीसुदर्शनाचार्यकृतौ गृह्यसूत्रतात्पर्यदर्शने एकादशः खण्डः ॥ समाप्तश्चतुर्थः पटलः ॥
मूलम् ...{Loading}...
वासश्चतुर्थीमुत्तरयादत्तेऽन्यत्परिधाप्य ।
-
10, 6, 7. The difference which Haradatta makes between the teacher who begins to shave him (pravapati) and the barber who goes on with shaving (vapantam) seems too artificial. ↩︎ ↩︎
-
Haradatta: The teacher addresses the barber, &c. - Sudarśanārya: The mother of the boy or a Brahmacārin [comp. Sūtra 8] . . . addresses the teacher who shaves him. ↩︎ ↩︎
-
Comp. Āpast. Dharma-sūtra I, I, 2, 33; I, 3, 3 seq. ↩︎
-
As to the words, ‘he initiates him’ (upanayati), comp. Śāṅkhāyana II, 2, 11. 12; Āśvalāyana I, 20, 4 &c. ↩︎