०८ १३ रजसः प्रादुर्भावात्
०८ १३ रजसः प्रादुर्भावात् ...{Loading}...
रजसः प्रादुर्भावात्स्नातामृतुसमावेशने उत्तराभिरभिमन्त्रयेत +++(=ऽविष्णुर्योनिऽमित्यादिभिः त्रयोदशभिः)+++ १३
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- After the appearance of her monthly illness, he should, when going to cohabit with her after her illness, recite over her, after she has bathed, the next verses (M. I, 12, 1-13, 4).
हरदत्तः
रजसः लोहितस्य । ऋतौ यत् समावेशनं तत्र कर्तव्ये, उत्तराभिर् ऋग्भिः “विष्णुर्योनिम्” इत्यादिभिः त्रयोदशभिर् अभिमन्त्रयेत । “रजसः प्रादुर्भावाद्” इति वचनात् सर्वस्मिन् रजसः प्रादुर्भावेऽभिमन्त्रणं भवति । न संशासनवत् प्रथम एवर्तौ । “स्नाताम्” इत्येतत् ब्राह्मणप्रतिषिद्धानां सर्वेषां प्रतिप्रसवार्थम् । स्नातां कृतमङ्गलामित्यर्थः । तेनाञ्जनाभ्यञ्जनान्यपि भवति ॥१३॥
इति श्रीहरहरदत्तविरचितायां गृह्यसूत्रवृत्तावनाकुलायामष्टमः खण्डः ॥
सुदर्शनः
रजसः शोणितस्य । प्रादुर्भावात् काले निर्गमात्कारणात्, न मालिन्यादेः । स्नातां पूर्णे त्रिरात्रे स्नातां भार्याम् । ऋतुसमावेशने ऋतुकालीनसमावेशनकाले । “ऋतुश्च स्त्रीणां रजोनिर्गमनादारभ्य षोडश दिवसाः, “ऋतुस्वाभाविकस्स्त्रीणां रात्रयष्षोडश स्मृताः” (म.स्मृ.३-४६.) इति मनुवचनात् । उत्तराभिः “विष्णुर्योनिं कल्पयतु” इत्यादिभिस्त्रयोदशभिर् अभिमन्त्रयते । अत्र रजसः प्रादुर्भावात् स्नातामितिवचनाच्चतुर्थऽहनि प्रायत्यार्थमनया स्नातव्यमेव ॥१३॥
इति श्री सुदर्शनाचार्यविरचिते गृह्यतात्पर्यदर्शनेऽष्टमः खण्डः॥
मूलम् ...{Loading}...
रजसः प्रादुर्भावात् स्नातामृतुसमावेशने उत्तराभिरभिमन्त्रयते ।
०९ ०१ चतुर्थीप्रभृत्याषोडशीमुत्तरामुत्तरां
०९ ०१ चतुर्थीप्रभृत्याषोडशीमुत्तरामुत्तरां ...{Loading}...
चतुर्थीप्रभृत्याषोडशीमुत्तरामुत्तरां युग्मां प्रजानिःश्रेयसमृतुगमन इत्युपदिशन्ति १
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- Each following night with an even number, from the fourth (after the beginning of her monthly illness) till the sixteenth, brings more excellent offspring to them, if chosen for the (first) cohabiting after her illness; thus it is said.
हरदत्तः
षोडशीम् इति पञ्चम्यर्थे द्वितीया । आषोडश्या इत्यर्थः । आङ्चाभिविधौ । रजसः प्रादुर्भावादारभ्य चतुर्थीषोडश्यौ गृह्येते, प्रकरणात् । चतुर्थीप्रभृत्याषोडश्याः सर्वा रात्रय ऋतुगमनकालाः । तत्रापि उत्तरामुत्तरां युग्मां रात्रिं प्रजानिश्श्रेयसं विद्यादिति । ऋतुगमन इति वचनात् वैवाहिके प्रथमगमने सत्यपि ऋतुनिमित्तेनायमुपदेशः प्रवर्तते । चतुर्थ्या अपाररात्रे नियमेन गमनं भवति । तत्र च शेषं समावेशने जपेत् । उत्तराभिरभिमन्त्रयत इति च गमनमन्त्राणां समुच्चयो भवति । तत्र पूर्वमृतुगमनमन्त्राः । पश्चात् समावेशनमन्त्राः । विपरीतमन्ये ॥१॥
सुदर्शनः
चतुर्थीप्रभृतीति दीर्घेणार्थपाठः । चतुर्थी रात्रिमारभ्य् आषोडशीं; आङ् अभिविधौ, द्वितीया च पञ्चम्यर्थे; आषोडश्या इति यावत् । उत्तरामुत्तरां युग्मां रात्रिं प्रति ऋतुगमने ऋतौ मैथुने कृते, प्रजानिःश्रेयसं, प्रजाः पुत्राः तेषां निश्श्रेयसं आयुरादीप्सितगुणसम्पत्तिर्भवति इत्युपदिशन्ति मन्वादयः । एतदुक्तं भवति–त्रयोदशसु रात्रिषु ऋतुगमने शुक्लाधिक्ये सति पुत्रा जायन्ते । उत्तरोत्तरासु च युग्मासु यथाक्रमं तरतमभावेन ते सद्गुणाधिका भवन्ति ॥१॥
मूलम् ...{Loading}...
चतुर्थीप्रभृत्याषोडशीमुत्तरामुत्तरां युग्मां प्रजानिश्श्रेयसमृतुगमन इत्युपदिशन्ति ।