०४ ०१ सुहृदस्समवेतान् मन्त्रवतो
०४ ०१ सुहृदस्समवेतान् मन्त्रवतो ...{Loading}...
सुहृदस् समवेतान् मन्त्रवतो ऽवरान् +++(वरः)+++ प्रहिणुयात् १
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- Let him send out as his wooers friends who have assembled, who are versed in the Mantras.
हरदत्तः
अथ कन्यावरणविधिः । इन्वकाभिः प्रसृज्यन्त इत्युक्तम् । तस्मिन्नन्यस्मिन् वा पुण्यनक्षत्रे ब्राह्मणान् भोजयित्वाशिषो वाचयित्वा, सुहृदः बन्धून् समवेतान् सङ्गतान् मन्त्रवतः श्रुताध्ययनसम्पन्नान् वरान् कन्यावरयितॄन् प्रहिणुयात् प्रस्थापयेत् यूयममुष्मात् कुलात् मह्यं कन्यां वृणीध्वमिति । यद्यप्येवंविधे कार्ये सुहृदामेव सम्भावना तथापि सुहृद इत्युच्यते मन्त्रवतामसम्भवे सुहृत्वमात्रपरिग्रहार्थम् । मन्त्रवत इति ब्राह्मणानामेव ग्रहणम् । तेन क्षत्रियवैश्ययोरपि ब्राह्मणा एव वराः ॥१॥
सुदर्शनः
पूर्वत्र “इन्वकाभिः प्रसृज्यन्ते” (आप.गृ. २-१६.) इति विवाहोपयोगिनो वरप्रेषणस्य कालोऽभिहितः । इदानीं तस्य विधिमाह— सुहृदः आत्मनो मित्राणि । समवेतान् आत्मानं प्रत्येककार्यान् । मन्त्रवतः मन्त्रब्राह्मणवतः, “शुचीन् मन्त्रवतः” (आप. ध. २-१५-११.) इतिवन्मन्त्रग्रहणस्य प्रदर्शनार्थत्वात् । वरान् वरयितॄन् । वरः प्रहिणुयात् प्रेषयेत् । एते युग्मा ब्राह्मणाश्चेति केचित् ॥१॥
मूलम् ...{Loading}...
सुहृदस्समवेतान् मन्त्रवतो वरान् प्रहिणुयात् ।
०४ ०२ तानादितो द्वाभ्यामभिमन्त्रयेत
०४ ०२ तानादितो द्वाभ्यामभिमन्त्रयेत ...{Loading}...
तानादितो द्वाभ्यामभिमन्त्रयेत २ +++(कृतप्राणायामोऽवरान् प्रेषयिष्येऽइति सङ्कल्प्य, “प्रसुग्मन्ते"ति द्वाभ्यां वरानभिमन्त्र्य, “यूयममुष्मात्कुलात्मह्यं कन्यां वृणीध्वम्” इति प्रेषयेत् । ततस्ते दुहितृमतो गृहं गत्वा, कन्यां दत्तसगोत्रत्वादिदोषरहितां बन्ध्वादिगुणसम्पन्नां च यत्नतोऽवधार्य, दुहितृमन्तं पित्रीदिकं “गौतमगोत्राय विष्णुशर्मणे वराय भवदीयां कन्यां प्रजासहत्वकर्मभ्यो वृणीमहे"इति ब्रूयुः । ततस्स पित्रादिर् “दास्यामी"ति प्रतिब्रूयात् । ततस्ते प्रत्येत्य, “सिद्धार्ता वय"मिति वरायावेदयेयुः । एतच्च वरप्रेषणाद्यासुरार्षयोरेव, नान्येषु अर्थलोपात् ।)+++
+++(हे सुहृदः)+++
०१ प्रसुग्मन्ता धियसानस्य ...{Loading}...
प्र॒सु॒ग्मन्ता॑+++(=प्रकर्षेण सुष्ठु गन्तारः)+++ धि॒यसा॒नस्य॑+++(=ध्यायमानस्य)+++ स॒क्षणि॑+++(=समाने क्षणे)+++
व॒रेभि॑र्+++(=श्रेष्ठैः [पथिभिः])+++ व॒राꣳ+++(=वरयितव्यान् [कन्यायाः पित्रादीन्])+++ अ॒भि षु॒ प्रसी॑दत+++(=प्रगच्छत)+++ ।
अ॒स्माक॒म्+++(=कन्याया मम च, अस्मदो द्वयोश्च इति बहुवचनम्)+++ इन्द्र॑ उ॒भयं॑ जुजोषति॒
यत् +++(यज्ञेषु)+++ सौ॒म्यस्यान्ध॑सो॒ बुबो॑धति ।
०२ अनृक्षरा ऋजवस्सन्तु ...{Loading}...
२३ अनृक्षरा ऋजवः ...{Loading}...
अ॒नृ॒क्ष॒रा+++(=कंटकशर्करादिरहिताः)+++ ऋ॒जव॑स् सन्तु॒ पन्था॒
येभि॒स् सखा॑यो॒ यन्ति॑ नो वरे॒यम्+++(=वरणीयं [कन्यायाः पित्रादिकं प्रति])+++ ।
सम् अ॑र्य॒मा सं भगो॑ नो+++(=आवाम्, अस्मदो द्वयोश्च इति बहुवचनम्)+++ निनीया॒त्
सञ् जा॑स्प॒त्यꣳ+++(=जायापतिभावः)+++ सु॒यम॑म् अस्तु देवाः ।+++(र५)+++
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- He should recite over them the first two verses (Mantrap. I, 1, 1. 2).
हरदत्तः
गच्छतस्तान् वराननन्तरमाम्नातस्य मन्त्रसमाम्नायस्यादितो द्वाभ्यां ऋग्भ्यां प्रसुग्मन्तेत्येताभ्यां अभिमन्त्रयेत । अभिलक्ष्य मन्त्रोच्चारणमभिमन्त्रणम् । ततस्ते कन्याकुलं गत्वा–एवंगोत्रायामुष्मै सहत्वकर्मभ्यो युष्मदीयां कन्यां वृणीमह–इति ब्रूयुः । ततस्ते प्रतिब्रूयुः–शोभनं तथा दास्याम–इति । तत्र ब्राह्मे विवाहे दैवे चार्थलोपात् वरणलोपः कल्पान्तरदर्शनाच्च–नात्र वरान् प्रहिणुयादिति । तथा गान्धर्वराक्षसयोश्च ॥२॥
सुदर्शनः
तान् प्रस्थितान् । मन्त्रसमाम्नायस्य आदितः “प्रसुग्मन्ता” इति द्वाभ्यां ऋग्भ्यां अभिमन्त्रयेत । अभिमन्त्रणं अभिमुख्येन मन्त्रस्योच्चारणम् । अनुमन्त्रमप्येवम् “अनुमन्त्रयितव्यद्रव्यगतचित्तेनेति तु भेदः ॥ अथ सूत्रस्यापूर्णत्वात् क्रम उच्यते– कृतप्राणायामो “वरान् प्रेषयिष्ये” इति सङ्कल्प्य, “प्रसुग्मन्ते"ति द्वाभ्यां वरानभिमन्त्र्य, “यूयममुष्मात् कुलात् मह्यं कन्यां वृणीध्वम्” इति प्रेषयेत् । ततस्ते दुहितृमतो गृहं गत्वा, कन्यां दत्तसगोत्रत्वादिदोषरहितां बन्ध्वादिगुणसम्पन्नां च यत्नतोऽवधार्य, दुहितृमन्तं पित्रादिकं “गौतमगोत्राय विष्णुशर्मणे वराय भवदीयां कन्यां प्रजासहत्वकर्मभ्यो वृणीमहे” इति ब्रूयुः । ततस्स पित्रादिर्"दास्यामी"ति प्रतिब्रूयात् । ततस्ते प्रत्येत्य, “सिद्धार्था वयम्” इति वराय वेदयेयुः । एतच्च वरप्रेषणाद्यासुरार्षयोरेव, नान्येषु अर्थलोपात् । अथ यस्मिन्नहनि विवाहः ततः पूर्वमेव पञ्चमे तृतीये वाहनि यथाशिष्टाचारमङ्कुरारोपणं कुर्यात् । तथा श्वो विवाह इत्यद्य विवाह इति च । “तथा मङ्गलानि” “आवृतश्चास्त्रीभ्यः प्रतीयेरत्” (आप. गृ. २-१४,१५.) इत्युक्तानि कर्माणि वरो वधूश्च यथाकालं यथायोग्यं कुरुतः । केचित्—पूर्वेद्युर्नान्दीश्राद्धं कल्पान्तरादिति । ततः पित्रादिर्वधूकुलं प्राप्ताय वराय कन्यामुदकपूर्वं दद्यात्–इमां वत्सगोत्रजां लक्ष्मीदायीं गौतमगोत्राय विष्णुशर्मणे तुभ्यं प्रजासहत्वकर्मभ्यः प्रतिपादयामीति । गान्धर्वराक्षसयोस्तु न प्रतिपादनम्, दातृव्यापारानपेक्षत्वात् । ततस्तां वरः प्रतिगृह्य विवाहस्थाने “यत्र क्वचाग्निम्” (आप. ध.२-१-१३.) इत्यादिविधिनाग्निं प्रतिष्ठाप्य, तत्रैव यस्यां शालायां कन्याऽऽस्ते तां गत्वा मधुपर्कं प्रतिगृह्णाति यथार्हं यथाविधि । एवमेव वरापचितोऽपि ॥२॥
मूलम् ...{Loading}...
तानादितो द्वाभ्यामभिमन्त्रयेत ।
०४ ०३ स्वयन् दृष्ट्वा
०४ ०३ स्वयन् दृष्ट्वा ...{Loading}...
स्वयं दृष्ट्वा +++(दृष्ट्वैव चक्षुषी उपसंहरति)+++ तृतीयां +++(=अभ्रातृघ्नीमित्येताम्)+++ जपेत् ३
०३ अभ्रातृघ्नीं वरुणापतिघ्नीम् ...{Loading}...
अभ्रा॑तृघ्नीं॒ वरु॒णा-
ऽप॑तिघ्नीं बृहस्पते ।
इन्द्राऽपु॑त्रघ्नीं ल॒क्ष्म्य॑न्,
ताम् अ॒स्यै स॑वितस् सुव ।+++(र५)+++
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- When he himself has seen (the bride), let him murmur the third (verse; M. I, 1, 3).
हरदत्त-प्रस्तावः
अनन्तरं वरः किं कुर्यादित्यत्राह—
हरदत्तः
ततो विवाहे निश्चिते पूर्वेद्युर्नान्दीश्राद्धं कृत्वा परेद्युर्ब्राह्मणान् भोजयित्वाशिषो वाचयित्वा वरो वधूकुलं गच्छति । तस्मै कूर्चदानादि भोजनान्तं मधुपर्कं दत्वा कन्यां प्रतिपादयति–तुभ्यमिमां प्रजासहत्वकर्मभ्यः प्रतिपादयामीति । ततस्तां वरः स्वयं दृष्ट्वा तृतीयामृचं जपेत् अभ्रातृघ्नीमित्येताम् । स्वयमित्यनुच्यमाने वरं दृष्ट्वेत्यर्थः स्यात् प्रकृतत्वात् । स्वयं ग्रहणात्तु कन्यां दृष्ट्वेत्यर्थो भवति । तत्र ब्राह्मे विवाह उदकपूर्व प्रतिपादनम् । गान्धर्वराक्षसयोस्तु नैव प्रतिपादनम् ॥३॥
सुदर्शनः
वरः स्वयं कन्यां दृष्ट्वा “अभ्रातृघ्नीम्” इति तृतीयां ऋचं जपेत् । दृष्ट्वैवचक्षुषी उपसंहरति । जपश्च सर्वत्र चातुस्स्वर्येण ; न तु करणमन्त्रादिवदेकश्रुत्या । “एकश्रुति दूरात्सम्बुद्धौ” (पा.सू.१-२-३३.) “यज्ञकर्मण्यजपन्यूखसामसु” (पा.सू.१-२-३४.) इति वचनात् । अत्र च स्वयमिति विशेषणं वरयितॄणां प्रकृतानामयं जपो मा भूदिति । केचित्— स्वयं वधूमेव दृष्ट्वा जपेत् ; न तु वरानिति । स्वयं दृष्ट्वेत्यादि च सर्वविवाहानामविकृतम् ॥३॥
मूलम् ...{Loading}...
स्वयं दृष्ट्वा तृतीयां जपेत्।
०४ ०४ चतुर्थ्या समीक्षेत
०४ ०४ चतुर्थ्या समीक्षेत ...{Loading}...
चतुर्थ्या +++(=अघोरचक्षुरित्येषा)+++ समीक्षेत ४
०४ अघोरचक्षुरपतिघ्न्येधि शिवा ...{Loading}...
अघो॑र-चक्षु॒र् अप॑तिघ्न्य् एधि
शि॒वा प॒तिभ्य॑स् सु॒मना॑स् सु॒वर्चाः॑ ।
जी॒व॒सूर् दे॒वका॑मा स्यो॒ना+++(=प्रशस्ता)+++
शन्नो॑ भव द्वि॒पदे॒ शञ्चतु॑ष्पदे ।+++(र५)+++
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- With the fourth (M. I, 1, 4) let him behold her.
हरदत्तः
अवयवश ईक्षणं समीक्षणम् । अघोरचक्षुरित्येषा चतुर्थीम् ॥४॥
सुदर्शनः
“अघोरचक्षुः” इत्यनया समीक्षेत । वध्वा दृष्टौ स्वदृष्टिं निपातयति, अघोरचक्षुरपतिघ्न्येधीति मन्त्रलिङ्गात् । केचित्–समीक्षेत अवयवशो निरीक्षेतेति । अत्र वरो वधूश्च दर्भेष्वासीनौ दर्भान् धारयमाणौ कृतप्राणायामौ सङ्कल्पयेते –आवाभ्यां कर्माणि कर्तव्यानि, प्रजाश्चोत्पादयितव्याः–इति ॥४॥
मूलम् ...{Loading}...
चतुर्थ्या समीक्षेत ।
०४ ०५ अङ्गुष्ठेनोपमध्यमया चाङ्गुल्या
०४ ०५ अङ्गुष्ठेनोपमध्यमया चाङ्गुल्या ...{Loading}...
अङ्गुष्ठेनोपमध्यमया चाङ्गुल्या दर्भं संगृह्योत्तरेण यजुषा +++(=इदमहमित्यनेन)+++ तस्या भ्रुवोरन्तरँ संमृज्य, प्रतीचीनं +++(प्रत्यग्गतम् उपर्युपरि शिरो )+++ निरस्येत् ५
+++(अङ्गुष्ठेनोपमध्यमया चाङ्गुल्या दर्भं संगृह्योत्तरेण यजुषा भ्रुवोरन्तरं संमृज्य प्रतीचीनं निरस्येत्।)+++
०५ इदमहय्ँ या ...{Loading}...
इ॒दम् अ॒हय्ँ या त्वयि॑ पति॒घ्न्य् अ॑ल॒क्ष्मिस्, तां निर्दि॑शामि ।+++(र५)+++
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- Let him seize with his thumb and fourth finger a Darbha blade, and let him wipe (therewith) the interstice between her eye-brows with the next Yajus (M. I, 1, 5), and let him throw it away towards the west.
हरदत्तः
मध्यमासमीपे वर्तत इत्युपमध्यमा तयाङ्गुल्या अनामिकयेत्यर्थः । भ्रुवोरन्तरं मध्यम् उत्तरेण यजुषा इदमहमित्यनेन । संमार्जनमन्त्रोऽयं न निरसनमन्त्रः । प्रतीचीनं प्रत्यग्गतम् । उपर्युपरि शिरो निरस्येत् । तत उदकोपस्पर्शनं अङ्गुष्ठसाहचर्यादुपमध्यमयेति विशेषणादेव सिद्धे अङ्गुल्येति विशेष्यनिर्देशो विस्पष्टार्थम् । यजुषेति विशेषणं उत्तरेणेति दिग्वाचिताशङ्का मा भूदिति ॥५॥
सुदर्शनः
उपमध्यमा उपकनिष्ठिका, न तु प्रदेशिनी, तस्या विस्रंसिकेति व्यपदेशात् । उत्तरेण यजुषा “इदमहं या त्वयि” इत्यनेन । शेषं व्यक्तम् । दर्भं निरस्याप उपस्पृशेत् ॥५॥
मूलम् ...{Loading}...
अङ्गुष्ठेनोपमध्यमया चाङ्गुल्या दर्भ ँ संगृह्योत्तरेण यजुषा तस्या भ्रुवोरन्तरँ सम्मृज्य प्रतीचीनं निरस्येत्।
०४ ०६ प्राप्ते निमित्त
०४ ०६ प्राप्ते निमित्त ...{Loading}...
प्राप्ते निमित्त +++(=वध्वा स्वबन्धूनां च रोदनं)+++ उत्तरां जपेत् +++(“जीवारुदन्ती”)+++ ६ +++(निमित्तावृत्तौ मन्त्र आवर्तते ।)+++
+++(कन्याया एव रोदन इत्याश्वलायनः । यथाह - जीवां रुदन्तीति रुदत्याम् इति ।)+++
०६ जीवां रुदन्ति ...{Loading}...
+++(हर्षस्थाने)+++ जी॒वाꣳ रु॑दन्ति॒ वि+++(नि)+++म॑यन्ते अद्ध्व॒रे
दी॒र्घाम् अनु॒ +++(भाव)+++प्रसि॑तिं+++(=बन्धं)+++ दीधियु॒र्+++(=ध्यायन्तु)+++ नरः॑+++(बहुवचनम्)+++ ।
वा॒मं पि॒तृभ्यो॒ य इ॒दꣳ स॑मेरि॒रे+++(=प्रवर्तयन्ति)+++
मयः॒+++(=सुखदं)+++ पति॑भ्यो॒, जन॑यः+++(=जन्याः [वध्वाः])+++ परि॒ष्वजे॑ ।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- If an omen occurs (such as the bride’s or her relations’ weeping), let him murmur the next (verse; M. I, 1, 6).
हरदत्तः
वध्वा स्वबन्धूनां च रोदनं निमित्तं जीवा ँ रुदन्तीति लिङ्गात् । उत्तरामृचं “जीवा ँ रुदन्ती"त्येताम्, सर्वत्र समावेशनान्ते विवाहकर्मण्यस्मिन्निमित्तेऽयं जपो भवति । निमित्तावृत्तौ मन्त्र आवर्तते ॥६॥
सुदर्शनः
जीवाँ रुदन्ती"ति मन्त्रलिङ्गानुरूपे निमित्ते प्राप्ते मात्रादिभिः कन्यकया वा अन्योन्यवियोगचिन्तया रोदने कृते इमामृचं जपेत् ॥६॥
मूलम् ...{Loading}...
प्राप्ते निमित्त उत्तरां जपेत् ।
०४ ०७ युग्मान् समवेतान्
०४ ०७ युग्मान् समवेतान् ...{Loading}...
युग्मान् समवेतान् मन्त्रवत उत्तरया +++(=व्युक्षत्क्रूर…)+++ ऽद्भ्यः +++(स्नानार्थजलाहरणार्थं)+++ प्रहिणुयात् ॥
०७ व्युक्षत् क्रूरमुदचन्त्वाप ...{Loading}...
व्यु॑क्षत्+++(=अपगच्छेत्)+++ +++(यदपां)+++ क्रू॒रम्,
उद॑च॒न्त्व्+++(=उद्गच्छन्तु)+++ आप॒,
आऽस्यै ब्रा॑ह्म॒णास् स्नप॑नꣳ हरन्तु ।
अ-वी॑र-घ्नी॒र्+++(!)+++ उद् अ॑च॒न्त्व् आपः॑ ।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- With the next (verse; M. I, 1, 7) let him send an even number of persons who have assembled there, and who are versed in the Mantras, to fetch water.
हरदत्तः
वधूस्नापनार्थानामपामाहरणं उत्तरयर्चा “व्युक्षत्क्रूरम्” इत्येतया । मन्त्रवतः श्रुतवतः प्रहिणुयात् प्रस्थापयेत् । “तथा मङ्गलानी"त्येव सिद्धे युग्मवचनं पञ्चभिर्मन्त्रैः स्नापनं वक्ष्यति, तत्र प्रतिमन्त्रं स्नापनावृत्तिः । तत्र च स्नापनस्यायुग्मत्वात् तदर्थानामुदकुम्भानामप्ययुग्मत्वं स्यात् । एवमाहर्तॄणां ब्राह्मणानामपि । अतो युग्मानित्युच्यते । तेन प्रतिमन्त्रं कुम्भभेदः प्रतिकुम्भं ब्राह्मणभेदश्च सिद्धो भवति । तत्र यदि चत्वारः कुम्भाः चतुर्थेन कुम्भेन चतुर्थपञ्चमाभ्यां मन्त्राभ्यामभिषेकः । यदा त्वष्टौ तदा प्रतिमन्त्रं पञ्चभिस्तूष्णीमितरैः । समवेतवचनमुदकाहरणे सह प्रवृत्त्यर्थम् । मन्त्रवत इति ब्राह्मणानां ग्रहणम्, “आस्यै ब्राह्मणा” इति मन्त्रे दर्शनात् ॥७॥
सुदर्शनः
युग्मान् समसङ्ख्याकान् । समवेतान्मन्त्रवत इति पूर्ववत् । उत्तरया “व्युक्षत्क्रूरम्” इत्येतया प्रैषत्वादुच्चैः प्रयुक्तयाद्भ्यः ** प्रहिणुयात्** वधूस्नापनार्था अप आहर्तुं प्रेषयेत् । एते च ब्राह्मणा एव, “आस्यै ब्राह्मणा” इति मन्त्रलिङ्गात् । ते च ब्राह्मणा यास्वप्सु पुरुषाः स्नानादिषु पूर्वं न मृताः ताभ्यस्तृणावकाद्यपनीयाप आनन्यन्ति ; “अवीरघ्नीः” इति मन्त्रलिङ्गात् ॥७॥
मूलम् ...{Loading}...
युग्मान् समवेतान् मन्त्रवत उत्तरयाऽद्भ्यः प्रहिणुयात् ।
०४ ०८ उत्तरेण यजुषा
०४ ०८ उत्तरेण यजुषा ...{Loading}...
उत्तरेण यजुषा +++(=अर्यम्णो अग्निं)+++ तस्याश्शिरसि दर्भेण्वं +++(=दर्भैः परिकल्पितमिण्वं निगलाकृतिं परिमण्डलाकारम् रोमककिरीटम् इव)+++ निधाय,
०८ अर्यम्णो अग्निम् ...{Loading}...
अ॒र्य॒म्णो +++(प्रसादात्)+++ अ॒ग्निं परि॑यन्तु क्षि॒प्रं
प्रती॑क्षन्ता॒ꣳ॒ श्वश्र्वो॑ दे॒वरा॑श् च ।
तस्मिन्नुत्तरया +++(=खेऽनस)+++ दक्षिणं युगच्छिद्रं प्रतिष्ठाप्य,
+++(तस्मिन्निण्वे दक्षिणं युगच्छिद्रं प्रतिष्ठापयति )+++
०९ खेऽनसः खे ...{Loading}...
खे+++(=छिन्द्रावकाशे)+++ ऽनसः॒+++(=शकटस्य)+++ खे रथः॒+++(थस्य)+++ खे युग॑स्य +++(अपो निस्सार्य प्रसन्न)+++ शचीपते ।
अ॒पा॒लाम् इ॑न्द्र॒ त्रिः पू॒त्व्य्॑ अकर॒त् सूर्य॑वर्चसम् ।+++(र५)+++
(अत्रेतिहासमाचक्षते - अपाला नाम काचित् कन्या श्वित्रिणी +++(=श्वेतकुष्टवती)+++ । तां न कश्चिदुपयेमे । तस्याश्च मनसि कामः सदा बभूव, कथमहं इन्द्रं यजे इति । सा कदाचित् स्नानार्थं नद्याम् अवतीर्णा स्रोतसा ह्रियमाणा, तम् एव कामं मनसि दधाना, स्रोतसा ऽपनीतं सोमम् अपश्यत् । तं दन्तैः पिष्ट्वा तद्रसं इन्द्राय उपाहरत् । तम् इन्द्रः पीत्वा रथस्यानसो+++(=शकटस्य)+++ युगस्येति त्रयाणां छिद्रेषु अपो निस्सार्य, ताभिः तां त्रिः पूर्त्वा सूर्यवर्चसम् अकरोत् । तदेतत् “कन्या वारवायती” (ऋग्वेदे) इत्यस्मिन् वर्गे द्रष्टव्यम् । रथ इति षष्ठ्यर्थे प्रथमा । रथादीनां खेषु छिद्रेषु, अपो निस्सार्य त्रिः पूर्त्वी । छान्दसो रेफोपजनः । पूत्वा शोधयित्वा हे शचीपते हे इन्द्र । त्वं अपालां नाम कन्यां सूर्यवर्चसं अकरत् अकरोः । पुरुषव्यत्ययश्छान्दसः । तथैव एनामपि कुर्वित्यर्थः ॥ )
छिद्रे सुवर्णमुत्तरया +++(=शं ते हिरण्यम्)+++ ऽन्तर्धाय,
शन् ते हिरण्यम् ...{Loading}...
+++(युगच्छिद्रे सुवर्णनिधानम् - )+++
शन् ते॒ +++(छिद्रे निधीयमानं)+++ हिर॑ण्य॒ꣳ॒ शम् उ॑ स॒न्त्व् आप॒श्
शन् ते॑ मे॒धी+++(=खलेवाली, खले धान्यपेषणस्थाने वाल्यन्ते वृषा इति - अत्र युगः)+++ भ॑वतु॒, शय्ँ यु॒गस्य॒ तृद्म॑+++(=छिद्रम्)+++ ।
शन् त॒ आप॑श् श॒त-प॑वित्रा भव॒न्त्व्
अथा॒ पत्या॑ त॒न्वꣳ॑ सꣳसृ॑जस्व ।। (1)
स्नानम्
उत्तराभिः पञ्चभिस् +++(=हिरण्यवर्णा)+++ स्नापयित्वा,
०१ हिरण्यवर्णाश्शुचयः पावकाः ...{Loading}...
०१ हिरण्यवर्णाः शुचयः ...{Loading}...
हिर॑ण्य-वर्णा॒श् शुच॑यः पाव॒काः
प्रच॑क्रमुर् हि॒त्वा ऽव॒द्यम् आपः॑ ।
श॒तं प॒वित्रा॒ वित॑ता॒ ह्य् आ॑सु॒ +++(अप्सु)+++
ताभि॑ष् ट्वा दे॒वस् स॑वि॒ता पु॑नातु ।+++(र५)+++
०२ हिरण्यवर्णाश्शुचयः पावका ...{Loading}...
हिर॑ण्य-वर्णा॒श् शुच॑यः पाव॒का
यासु॑ जा॒तः क॒श्यपो॒ यास्व् अ॒ग्निः ।
या अ॒ग्निं गर्भं॑ दधि॒रे सु॒वर्णा॒स्
तास् त॒ आप॒श् श२ꣳ स्यो॒ना +++(=सुखा)+++ भ॑वन्तु ।+++(५)+++
०३ यासां राजा ...{Loading}...
०२ यासां राजा ...{Loading}...
यासा॒ꣳ॒ राजा॒ वरु॑णो॒ याति॒ मद्ध्ये॑
सत्यानृ॒ते अ॑व॒पश्य॒ञ् जना॑नाम् ।
या अ॒ग्निं गर्भं॑ दधि॒रे सु॒वर्णा॒स्
तास् त॒ आप॒श् श२ꣳ स्यो॒ना भ॑वन्तु ।+++(५)+++
०४ यासान् देवा ...{Loading}...
०३ यासां देवा ...{Loading}...
यासां॑ दे॒वा दि॒वि कृ॒ण्वन्ति॑ भ॒क्षं या अ॒न्तरि॑क्षे बहु॒धा भ॑वन्ति।
या अ॒ग्निं गर्भं॑ दधि॒रे सु॒वर्णा॒स्ता न॒ आपः॒ शं स्यो॒ना भ॑वन्तु ॥
०५ शिवेन त्वा ...{Loading}...
शि॒वेन॑ +++(यजमान!)+++ त्वा॒ चक्षु॑षा पश्यन्त्व् +++(हे)+++ आपश्!
शि॒वया॑ त॒न्वा+उ॒प॒स्पृ॒श॒न्तु॒ त्वच॑न् ते ।
घृ॒त॒श्-चुत॒श्+++(=दुहन्त्यः)+++ शुच॑यो॒ याः पा॑व॒कास्
तास् त॒ आप॒श् श२ꣳ स्यो॒ना भ॑वन्तु ।+++(५)+++
विश्वास-टिप्पनी
अथर्ववेदे - “शि॒वेन॑। मा॒। चक्षु॑षा। प॒श्य॒त॒। आ॒पः॒। शि॒वया॑। त॒न्वा। उप॑। स्पृ॒श॒त॒। त्वच॑म्। मे॒। " त्वत्कारप्रयोगम् अत्र घटयितुं तर्हि कठिनम् एव।
My guess is that some ancient ritualist copied over the AtharvaNa mantra and modified it without fixing the svara appropriately, leaving later commentators to either ignore the svara-error or multi-sambodhana error.
अहतस्य वाससः परिधानम्
उत्तरया +++(=परि त्वा गिर्वणो गिरः)+++ ऽहतेन वाससाच्छाद्य,
०६ परि त्वा ...{Loading}...
१२ परि त्वा ...{Loading}...
परि॑ त्वा गिर्-वणो॒+++(=सम्भक्तः)+++
गिर॑ इ॒मा भ॑वन्तु वि॒श्वतः॑ ।
वृ॒द्धायु॒म्+++(=वृद्धगम्)+++ अनु॒ वृद्ध॑यो॒,
+++(त्वया)+++ जुष्टा॑ भवन्तु॒ जुष्ट॑यः ।+++(र४)+++
योक्त्रबन्धनम्
उत्तरया +++(=आशासाना सौमनसम्)+++ योक्त्रेण सन्नह्यति ८
०७ आशासाना सौमनसम् ...{Loading}...
आ॒शासा॑ना सौमन॒सं
प्र॒जां सौभा॑ग्यं तनूम्।
अ॒ग्नेर् अनु॑व्रता भू॒त्वा +++(तिष्ठति/ तिष्ठामि)+++,
+++(तां)+++ सं न॑ह्ये सुकृ॒ताय॒ कम् +++(=सुखम् [यथा])+++।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- 1 With the next Yajus (M. I, 1, 8) he places a round piece of Darbha net-work on her head; on that, with the next (verse; M. I, 1, 9) he places a right yoke-hole; on this hole he lays with the next (verse; M. I, 1, 10), a piece of gold, and washes her with the next five verses (M. I, 2, 1-5), (so that the water runs over that gold and through the yoke-hole); with the next (verse; M. I, 2, 6) he causes her to dress in a fresh garment, and with the next (M. I, 2, 7) he girds her with a rope.
हरदत्तः
ततस्तैरप्स्वाहृतासु तस्या वध्वाश्शिरसि दर्भेण्वं दर्भैः परिकल्पितं मण्डलं उत्तरेण यजुषा “अर्यम्णो अग्निम्” इत्यनेन निधाय तस्मिन्निण्वे उत्तरया “खेऽनस” इत्यनया दक्षिणं युगच्छिद्रं दक्षिणस्या युगधुरो बाह्यच्छिद्रं प्रतिष्ठाप्य तस्मिन् छिद्रे सुवर्णमुत्तरयर्चा “शं ते हिरण्यम्” इत्येतया अन्तर्धाय ताभिरद्भिस्ताम् उत्तराभिः पञ्चभिः “हिरण्यवर्णा” इत्येताभिः प्रतिमन्त्रं स्नापयति । कथं पुनच्छिद्रस्यान्तर्धानेन स्नापनं संभवति । तथान्तर्धानं कुरुते यथोदकमवस्रवति । ततस्तामुत्तरयर्च्चा “परि त्वा गिर्वणो गिर” इत्येतयाऽहतेन वाससाऽऽच्छादयति । स्वयमेव मन्त्रमुक्त्वा परिधापयति आच्छाद्याचमय्य उत्तरयर्चा आशासानेत्येतया योक्त्रेण सन्नह्यति । ऊर्ध्वज्ञुमासीनाम् (आप.श्रौ.२-५-२.) इत्यादिदार्शपौर्णमासिको विशेष इहेष्यते ॥८॥
सुदर्शनः
दर्भेण्वं, दर्भैः परिकल्पितमिण्वं निगलाकृतिं परिमण्डलाकारमित्यर्थः । तदुत्तरेण यजुषा “अर्यम्णो अग्निं” इत्यनेन वध्वाश्शिरसि निधाय तस्मिन्न् इण्वं वर उत्तरया **खेऽनस” इत्येतया दक्षिणं युगछिद्रं, युगस्य दक्षिणं छिद्रं दक्षिणस्या धुरो बाह्यछिद्रं प्रतिष्ठाप्य, छिद्रे सुवर्णमुत्तरया “शं ते हिरण्यम्” इत्येतया अन्तर्धाय, उत्तराभिः “हिरण्यवर्णाश्शुचयः पावकाः प्रचक्रमुर्हित्वा” इत्यादिभिः पञ्चभिः ऋग्भिः स्नापयति । एतच्च पञ्चानामन्ते सकृदेव, “वचनादेकं कर्म बहुमन्त्रम्” (आप.प.१-४७.) इत्युक्तत्वात् । एवं सर्वत्र एवंविधेष्वन्नप्राशनादिषु ॥ केचित्– पञ्चभिरिति वचनात् प्रतिमन्त्रमिति । तन्न ; तिसृभ्यो ऽवशिष्टयोर्विकल्पनिवृत्त्यर्थत्वादस्य । इतरथा क्रियाभ्यावृत्तिवाचकप्रत्ययाश्रुतेः गुणार्थं प्रधानस्नानाभ्यावृत्तिकल्पनापत्तिः, प्रयुक्तिगौरवं च ॥ उत्तरया “परि त्वा गिर्वणो गिरः” इत्येतया । अहतेन अनिवसितेन वाससा परिधाप्य, द्विराचमप्य, उत्तरया “आशासाना सौमनसम्” इत्येतया योक्त्रेण सन्नह्यति । कृत्स्नविधानम् चेदम् । केचित्–ऐष्टिकसन्नहनविधिप्रदर्शनार्थमिति ॥८॥
मूलम् ...{Loading}...
उत्तरेण यजुषा तस्याश्शिरसि दर्भेण्वं निधाय तस्मिन्नुत्तरया दक्षिणं युगच्छिद्रं प्रतिष्ठाप्य छिद्रे सुवर्णमुत्तरयान्तर्धायोत्तराभिः पञ्चभिस्स्नापयित्वोत्तरयाऽहतेन वाससाऽऽच्छाद्योत्तरया योक्त्रेण सन्नह्यति ।
०४ ०९ अथैनामुत्तरया दक्षिणे
०४ ०९ अथैनामुत्तरया दक्षिणे ...{Loading}...
अथैनामुत्तरया +++(=पूषात्वेत)+++दक्षिणे हस्ते गृहीत्वाग्निमभ्यानीयापरेणाग्निमुदगग्रं कटमास्तीर्य तस्मिन्नुपविशत+++(ः)+++। उत्तरो वरः ॥
०८ पूषा त्वेतो ...{Loading}...
२६ पूषा त्वेतो ...{Loading}...
पू॒षा त्वा+इ॒तो न॑यतु॒ हस्त॒-गृह्या॒
ऽश्विनौ॑ त्वा॒ प्रव॑हता॒ꣳ॒ रथे॑न ।
+++(मदीयान्)+++ गृ॒हान् ग॑च्छ गृ॒हप॑त्नी॒
यथा ऽसो॑+++(=स्या)+++ व॒शिनी॒ त्वं वि॒दथ॒म्+++(=यज्ञं)+++ आव॑दासि+++(=आवद)+++ ।। (2)
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- Then he takes hold of her with the next (verse; M. I, 2, 8) by her right hand, leads her to the fire, spreads a mat, west of the fire, so that the points of the blades in it are directed towards the north, and on this mat they both sit down, the bridegroom to the north.
हरदत्तः
अथ सन्नहनानन्तरं “यत्र क्वचाग्निम्” इत्यादिकल्पेनाग्निं प्रसाधयति । मथित्वा श्रोत्रियागाराद्वाहृत्य ततो वधूमग्निमभ्यानयति । उत्तरयर्चा “पूषा त्वेत” इत्येतया । आनयनमन्त्रोऽयम् । हस्तग्रहणं तु तूष्णीमेव । उदगग्रवचनं दक्षिणाग्रनिवृत्त्यर्थम् ॥९॥
सुदर्शनः
अथशब्द उक्तार्थः– अर्थकृत्यप्रतिषेधार्थ इति । एनां वधूं दक्षिणे हस्ते गृहीत्वा, उत्तरया “पूषा त्वेतो नयतु” इत्येतया अग्निमभ्यानीय अग्न्यभिमुखमानयति; नयत्विति मन्त्रलिङ्गात् । व्यवहितेऽपि नयने विनियोगात् अपरेणाग्निम् अग्नेरदूरेण पश्चाद् उदगग्रं कटमास्तीर्य, तस्मिन् कटे युगपद् उपविशतः, यथोत्तरो वरो दक्षिणा वधूः ॥९॥
मूलम् ...{Loading}...
अथैनामुत्तरया दक्षिणे हस्ते गृहीत्वाऽग्निमभ्यानीयापरेणाग्निमुदगग्रं कटमास्तीर्य तस्मिन्नुपविशत उत्तरो वरः।
०४ १० अग्नेर्
०४ १० अग्नेर् ...{Loading}...
अग्नेरुपसमाधानाद्याज्यभागान्ते +++(उत्थाय)+++ ऽथैनाम् +++(तृतीयस्यानुवाकस्य)+++ आदितो द्वाभ्याम् +++(=सोमः प्रथम)+++ अभिमन्त्रयेत ॥
०१ सोमः प्रथमो ...{Loading}...
४० सोमः प्रथमो ...{Loading}...
सोमः॑ प्रथ॒मो वि॑विदे +++(लेभे)+++
गन्ध॒र्वो वि॑विद॒ उत्त॑रः ।
तृ॒तीयो॑ अ॒ग्निष् टे॒ पति॑स्
तु॒रीय॑स्ते मनुष्य॒जाः ।+++(र५)+++
०२ सोमोऽददद्गन्धर्वाय गन्धर्वोऽदददग्नये ...{Loading}...
४१ सोमो ददद्गन्धर्वाय ...{Loading}...
सोमो॑ऽददद् गन्ध॒र्वाय॑
गन्ध॒र्वो ऽद॑दद् अ॒ग्नये॑ ।
र॒यिञ् च॑ पु॒त्राꣳश् चा॑दाद्
अ॒ग्निर् मह्य॒म् अथो॑ इ॒माम् ।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- After the ceremonies have been performed from the putting of wood on the fire down to the Ājyabhāga oblations, he recites over her the first two (verses of the third Anuvāka).
हरदत्तः
अथैवम् उपविश्याग्नेर् उपसमाधानादि कर्म प्रतिपद्यते । अग्निमिध्वा प्रागग्रैर् इत्यादि आज्यभागान्ते कर्मणि कृते अथानन्तरम् उपोत्थाय एनाम् आसीनां वधूं तृतीयस्यानुवाकस्यादितो द्वाभ्यामृग्भ्यां “सोमः प्रथम” इत्येताभ्याम् अभिमन्त्रयेत । “अग्नेर् उपसमाधानादि”-वचनं तन्त्रप्राप्त्यर्थम् । आज्यभागान्त-ग्रहणम् अभिमन्त्रणादेर् उत्तरस्य कर्मणः कालोपदेशार्थम् । अथशब्दोऽवस्थान्तरप्रदर्शनार्थः ।
आज्यभागान्तम् आसीनः कृत्वा अथोत्थायाभिमन्त्रणादि प्रतिपद्यत इति । तथा च बोधायनः–अथास्या उपोत्थाय हृदयदेशम् ( बौ.गृ. १-४-१.) इति । आश्वलायनश्च–तिष्ठन् प्राङ्मुखः प्रत्यङ्मुख्या आसीनाया (आश्व. १-७-३.) इति । एनामित्युच्यते अग्नेरभिमन्त्रणं मा शङ्कीति । उत्तराभ्यामिति वक्तव्ये आदितो द्वाभ्यां इत्युच्यते मन्त्रसमाम्नाये अनुवाकव्यवस्थाप्रदर्शनार्थम् । तेन “शेषं समावेशने जपेद्” इत्यादावनुवाकशेषस्य ग्रहणम् ॥१०॥
सुदर्शनः
अयं तन्त्रोपदेशः क्रमार्थ इत्युक्तमेव । यदि तु लाजहोमास्तन्त्रशून्या आगन्तुकाः, तदा स क्रमतन्त्रविधानार्थः । अथेति पूर्ववत् । केचित्—कल्पान्तरसिद्धोपोत्थानानन्तर्यप्रदर्शनार्थमिति ॥ एनां वधूं वरःआदित अनुवाकस्य “सोमः प्रथमः” इत्यस्य “सोमः प्रथमः” इति द्वाभ्यां ऋग्भ्यामभिमन्त्रयेत ॥१०॥
मूलम् ...{Loading}...
अग्नेर् उपसमाधानाद्य्-आज्यभागान्ते ऽथैनाम् आदितो द्वाभ्याम् अभिमन्त्रयेत ।
०४ ११ अथास्यै दक्षिणेन
०४ ११ अथास्यै दक्षिणेन ...{Loading}...
अथास्यै +++(=अस्याः)+++ दक्षिणेन नीचा +++(=न्यग्भूतेन)+++ हस्तेन दक्षिणमुत्तानं हस्तं गृह्णीयात्।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- Then he should take with his right hand, palm down, her right hand which she holds palm up.
हरदत्तः
अथ तथैवावस्थितः अस्यै अस्याः तथैवासीनाया दक्षिणमुत्तानं हस्तं गृह्णीयात् । दक्षिणेन नीचा न्यक्भूतेन हस्तेन । इदं पाणीग्रहणं नाम कर्म । दक्षिणेनेति न वक्तव्यम् । एकपाणिसाध्येषु कर्मसु दक्षिणस्यैव प्रसिद्धत्वात् । अथाप्रसिद्धः, अन्यत्रानियमः प्राप्नोति । यथात्रैव पुरस्तादुपनयने च । एवं तर्हि नात्र दक्षिणहस्तो विधीयते । किं तर्हि? न्यक्ताविधानार्थमनूद्यते–योऽयं दक्षिणो हस्तः सर्वकर्मसु प्रसिद्धः तेन नीचा पाणिग्रहणमिह कर्तव्यमिति । अस्मादेव चानुवादात् सर्वत्र दक्षिणपाणिरिति सिद्धम् ॥११॥
सुदर्शनः
अनेन नित्यविधिना “सोऽभीवाङ्गुष्ठम्” इत्येतावन्मात्रस्य व्यवहितस्यापि सम्बन्धः । इतरथा स इति न ब्रूयात् । अस्मै अस्या वध्वाः ; षष्ठ्यर्थे चतुर्थी । उत्तानं दक्षिणं हस्तं वरस्स्वेन नीचा न्यग्भृतेन दक्षिणहस्तेन । अभीवाङ्गुष्ठं अभिरुपर्यर्थः । इवेत्यवधारकः । उपर्यङ्गुष्ठमेव गृह्णीयात् ॥११॥
मूलम् ...{Loading}...
अथास्यै दक्षिणेन नीचा हस्तेन दक्षिणमुत्तानँ हस्तं गृह्णीयात् ।
०४ १२ यदि कामयेत
०४ १२ यदि कामयेत ...{Loading}...
यदि कामयेत स्त्रीरेव जनयेयमित्यङ्गुलीरेव गृह्णीयात् ॥
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- If he wishes that only daughters may be born to him, he should seize only the fingers (without the thumb);
हरदत्त-प्रस्तावः
अथ काम्यं विधिद्वयमाह—
हरदत्तः
अङ्गुलीरेव नाङ्गुष्ठं, नापि पाणितलम् । पूर्वोक्तस्यैवायं कामसंयुक्तो विशेषविधिः । तेनेहापि दक्षिणेन नीचा हस्तेनेत्येवमादयो विशेषा भवन्ति ॥१२॥
सुदर्शनः
अङ्गुलीरेव नाङ्गुष्ठम् । शेषं नित्यवत् ॥१२॥
मूलम् ...{Loading}...
यदि कामयेत स्त्रीरेव जनयेयमित्यङ्गुलीरेव गृह्णीयात् ।
०४ १३ यदि कामयेत
०४ १३ यदि कामयेत ...{Loading}...
यदि कामयेत पुंस एव जनयेयमित्यङ्गुष्ठमेव सोऽभीवाङ्गुष्ठमभीव लोमानि +++(=यथा वरस्याङ्गुष्ठलोमानि सर्वाण्येवोपरि भवन्ति तथा)+++ गृह्णाति ॥
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- If he wishes that only sons may be born to him, the thumb.
हरदत्तः
गृह्णीयादित्यनुवर्तते ॥१३॥ ॥१४॥
सुदर्शनः
अभीव लोमानि, यथा वरस्याङ्गुष्ठलोमानि सर्वाण्येवोपरि भवन्ति तथा गृह्णाति । शेषं नित्यवदेव । अतो वध्वङ्गुष्ठमप्युत्तानम् ॥१३॥
मूलम् ...{Loading}...
यदि कामयेत पुंस एव जनयेयमित्यङ्गुष्ठमेव सोऽभीवाङ्गुष्ठमभीव लोमानि गृह्णाति ।
०४ १४ गृभ्णामि त
०४ १४ गृभ्णामि त ...{Loading}...
गृभ्णामि त इत्येताभिश्चतसृभिः ॥
०३ गृभ्णामि ते ...{Loading}...
३६ गृभ्णामि ते ...{Loading}...
गृ॒भ्णा+++(ह्णा)+++मि॑ ते सुप्रजा॒स्त्वाय॒ हस्तं॒
मया॒ पत्या॑ ज॒रद॑ष्टि॒र् यथा ऽसः॑ ।
भगो॑ अर्य॒मा स॑वि॒ता पुर॑न्धि॒र् +++(=बहुप्रज्ञा बहुकर्मा वा)+++
मह्य॑न् त्वा ऽदु॒र् गार्ह॑पत्याय+++(=गार्हस्थ्याय)+++ देवाः ।+++(र५)+++
०४ ते ह ...{Loading}...
ते +++(भगादयः)+++ ह॒ पूर्वे॒ जना॑सो॒
यत्र॑ +++(गार्हस्थ्ये)+++ पूर्व॒-वहो॑+++(=पूर्वविवाहकृतः)+++ हि॒ताः ।
मू॒र्द्ध॒न्वान्+++(=प्राधान्यवान् [अग्निः])+++ यत्र॑ सौभ्र॒वः +++(=सुभ्रुवा अदितेः पुत्रः)+++
पूर्वो॑ दे॒वेभ्य॒ आऽत॑पत् ।
०५ सरस्वति प्रेदमव ...{Loading}...
सर॑स्वति॒ प्रेदम् अ॑व॒
सुभ॑गे॒ वाजि॑नी+++(=अन्नक्रिया/स्तुति)+++वति ।
तां त्वा॒ विश्व॑स्य
भू॒तस्य॑ प्र॒-गाया॑मस्य् +++(“इदन्तो मसि”)+++ अग्र॒तः ।
०६ य एति ...{Loading}...
य एति॑ प्र॒दिश॒स् सर्वा॒
दिशोऽनु॒ पव॑मानः ।
हिर॑ण्यहस्त ऐर॒म्मस्+++(=अग्निः)+++
+++(इरा अन्नं तां मिमीते करोतीतीरंमः अग्निः)+++
स त्वा॒ मन्म॑नसं+++(!)+++ कृणोतु ।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
(14. He takes (her hand) so as just to touch her thumb and the little hairs (on her hand),)
15. With the four verses, ‘I take thy hand’ (Mantrap. I, 3, 3-6).
हरदत्त-प्रस्तावः
पूर्वोक्तस्य नित्यस्य काम्ययोश्च मन्त्रानाह–
हरदत्तः
यः माणिग्रहणे कामं नेच्छति स पाणिमभीवाङ्गुष्ठमभीव लोमानि गृह्णीयादित्येव । अभिशब्द उपरिभावे । इव शब्दः ईषदर्थे । यथा लोमानि हस्तजातानि इषदभिस्पृष्टानि भवन्ति । अङ्गुष्ठञ्च तथा गृह्णीयादित्यर्थः । “लोमान्ते हस्तं साङ्गुष्ठमुभयकाम” (आश्व. गृ.१-७-५) इत्याश्वलायनः ॥१५॥
सुदर्शनः
गृह्णातीति सम्बन्धः । सर्वासामन्त एव ॥१४॥
मूलम् ...{Loading}...
गृभ्णामि त इत्येताभिश्चतसृभिः ।
०४ १५ अथैनामुत्तेरणाग्निन् दक्षिणेन
०४ १५ अथैनामुत्तेरणाग्निन् दक्षिणेन ...{Loading}...
अथैनामुत्तेरणाग्निं - दक्षिणेन पदा प्राचीमुदीचीं वा दिशमभि प्रक्रमयत्य् “एकमिष” इति ॥
०७-१३ एकमिषे विष्णुस्त्वाऽन्वेतु ...{Loading}...
एक॑म् - इ॒षे+++(=अन्नाय)+++ विष्णु॒स्त्वाऽन्वे॑तु ।+++(५)+++
द्वे - ऊ॒र्जे+++(=बलाय)+++ विष्णु॒स्त्वाऽन्वे॑तु ।
त्रीणि॑ - व्र॒ताय॒ विष्णु॒स्त्वाऽन्वे॑तु ।
च॒त्वारि॒ - मायो॑+++(=सुख)+++भवाय॒ विष्णु॒स्त्वाऽन्वे॑तु ।
पञ्च॑ - प॒शुभ्यो॒ विष्णु॒स्त्वाऽन्वे॑तु ।
षड् - रा॒यस्पोषा॑य॒ विष्णु॒स्त्वाऽन्वे॑तु ।
स॒प्त - +++(यज्ञेषु)+++ स॒प्तभ्यो॒ होत्रा॑भ्यो॒ विष्णु॒स्त्वाऽन्वे॑तु ।
+++(होता प्रशास्ता ब्राह्मणाच्छंसी पोता नेष्टाच्छावाक आग्नीध्र इत्येतास्सप्त होत्राः)+++
सखा॑यस् स॒प्तप॑दा अभूम ।
स॒ख्यन्ते॑ गमेयम् ।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- He then makes her step forward with her right foot, to the north of the fire, in an easterly or northerly direction, with (the formula), ‘One step for sap’ (M. I, 3, 7).
हरदत्तः
अथेदानीमेनां वधूमुत्त्थाप्योत्तरेणाग्निं यो देशस्तस्मात् प्रक्रम्य प्राचीं वा दिशमभि उदीचीं वा दक्षिणेन पदा सप्त पदानि प्रक्रामयति एकमिष इत्येतैर्मन्त्रैः । प्राग्गतान्युदग्गतानि वा पदानि निधापयतीत्यर्थः । अत्र स्वयमेव पादं गृहीत्वा मन्त्रांश्चोक्त्वा निधापयति । संभाराक्रमणवत् । दक्षिणेन पदेति मन्त्राणां दक्षिणसम्बन्धार्थं पूर्वप्रवृत्त्यर्थं च, तस्मात्तूष्णीमितरस्य पश्चादनुप्रवृत्तिः । इह सोमाय जनिविदे स्वाहेत्येतैः प्रतिमन्त्रमित्यत्र एतैः प्रतिमन्त्रमिति न वक्तव्यम् । यथाचैतत्तथा तत्रैव वक्ष्यामः । तस्मात्तयोरिहापकर्षेण संबन्धः । एकमिष इत्येतैः प्रतिमन्त्रमिति । इतरथा प्रतिपदं मन्त्रसम्बन्धो न सिध्यति । पदानाञ्च सप्तसंख्यानियमो “यथोत्तराभिस्तिसृभिः प्रदक्षिणम्” इत्यत्र तिसृणामन्ते परिक्रमणारम्भः तद्वदिहापि स्यात् । “विष्णुस्त्वा न्वेत्वि"ति सर्वत्रानुषजन् जपति प्रथमोत्तमयोः पठितत्वात् ॥ १६ ॥
सुदर्शनः
अथाग्नेरदूरेणोत्तरत आरभ्यैनां दक्षिणेन पदा पादेन प्राचीमुदीचीं वा दिशमभि प्रागायतान्युदगायतानि वा सप्त पदानि प्रक्रमयति; “एकमिषे” इत्यादिभिस्सप्तभिः “विष्णुस्त्वान्वेतु” इत्यनुषक्तैः प्रतिमन्त्रम् ॥१५॥
मूलम् ...{Loading}...
अथैनामुत्तेरणाग्निं दक्षिणेन पदा प्राचीमुदीचीं वा दिशमभि प्रक्रमय"त्येकमिष” इति ।
०४ १६ सखेति सप्तमे
०४ १६ सखेति सप्तमे ...{Loading}...
सखेति सप्तमे पदे जपति ॥
१४ सखा सप्तपदा ...{Loading}...
सखा॑ +++(हे)+++ स॒प्तप॑दा भव॒।
सखा॑यौ स॒प्तप॑दा बभूव+++(=बभूविव)+++।
स॒ख्यन्ते॑ गमेयꣳ।
स॒ख्यात् ते॒ मा यो॑षꣳ+++(=पृथकृतो मा भूवं)+++।
स॒ख्यान् मे॒ मा यो॑ष्ठा॒स्,
सम॑याव॒, सङ्क॑ल्पावहै॒, सं प्रि॑यौ रोचि॒ष्णू+++(=दीप्यमानौ)+++ सु॑मन॒स्यमा॑नौ+++(=सुमनायमानौ)+++ ।
इष॒म् ऊर्ज॑म् अ॒भि सं॒वसा॑नौ॒
सन्नौ॒ मनाꣳ॑सि॒ सं व्र॒ता समु॑ चि॒त्तान्याक॑रम् ।
सा +++(ऋक्)+++ त्वम् अ॒स्य् अमू॒+++(=साम)+++ ऽहम्, अमू॒हम् अ॑स्मि॒। +++(५)+++
+++(सैव नाम ऋगासीदमो नाम साम इति बह्वृचब्राह्मणदर्शनात् । बह्वृचानां तु अमोहम् इति एव पाठः ।)+++
सा त्वं द्यौर् अ॒हं पृ॑थि॒वी।
त्वꣳ रेतो॒ ऽहꣳ रे॑तो॒भृत्।
त्वं मनो॒ ऽहम॑स्मि॒ वाक्।
त्वꣳ सामा॒हम॒स्म्यृ॑क्।
त्व॒ꣳ॒ सा माम् अनु॑व्रता भव।
पु॒ꣳ॒से पु॒त्राय॒ वेत्त॑वै+++(=लाभाय)+++,
श्रि॒यै पु॒त्राय॒ वेत्त॑वा॒,
एहि॑ सूनृते+++(=प्रियवाग्वति)+++ ।। (3)
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- At her seventh step he murmurs, ‘Be a friend’ (M. I, 3, 14).
हरदत्तः
उक्तं सप्तपदानि प्रतिमन्त्रं प्रक्रमयतीति । तत्र सप्तमे पदे निहिते पादमुपसंगृह्यैव “सखासप्तपदे"त्यारभ्य जपति होममन्त्रेभ्यः प्राक् ये मन्त्राः तानित्यर्थः । तत्र कल्पान्तरे दृश्यते “सप्तमं पदमुपसंगृह्येति ॥१७॥ प्राग्घोमादित्युच्यते जपपरिमाणार्थम् ॥१॥
सुदर्शनः
स वरस् सप्तमे पदे निहिते “सखा सप्तदा” इत्यादि “सूनृते” इत्यन्तं जपति, चातुस्स्वर्येणैव ॥१६॥
इति श्रीसुदर्शनाचार्यकृते गृह्यतात्पर्यदर्शने चतुर्थः खण्डः।
मूलम् ...{Loading}...
सखेति सप्तमे पदे जपति।
०५ ०१ प्राग्घोमात् प्रदक्षिणमग्निम्
०५ ०१ प्राग्घोमात् प्रदक्षिणमग्निम् ...{Loading}...
प्राग्घोमात् प्रदक्षिणमग्निं कृत्वा, यथास्थानम् उपविश्यान्वारब्धायाम् उत्तरा +++(१६)+++ आहुतीर् जुहोति - “सोमाय जनिविदे स्वाहे"त्येतैः प्रतिमन्त्रम् ॥
षोडश प्रधानाहुतिमन्त्राः
०१-०३ सोमाय जनिविदे ...{Loading}...
मन्त्रः
सोमा॑य जनि॒+++(=जाया)+++विदे॒ स्वाहा॑ ।
ग॒न्ध॒र्वाय॑ जनि॒विदे॒ स्वाहा॑ ।
अ॒ग्नये॑ जनि॒विदे॒ स्वाहा॑ ।
०४ कन्यला पितृभ्यो ...{Loading}...
क॒न्य॒ला+++(=कन्यैव, लशब्द उपजनः)+++ पि॒तृभ्यो॑ य॒ती+++(=गच्छन्ती)+++ प॑तिलो॒कम्
अव॑+++(उपसर्गः)+++ +++(कन्या)+++दी॒क्षाम् अ॑दास्थ॒+++(=अवक्षपितवती त्यक्तवती)+++ स्वाहा॑ ।
+++(दीङ् क्षये। तकारस्य थकारः छान्दसः)+++
०५ प्रेतो मुञ्चाति ...{Loading}...
प्रेतो मु॒ञ्चाति॒, नाऽमुत॑स्+++(=पतिलोकात्)+++
सुब॒द्धाम् अ॒मुत॑स् करत्+++(=कुरु)+++ ।
यथे॒यम् इ॑न्द्र मीढ्वस्+++(=वर्षक इन्द्र)+++
सुपु॒त्रा सु॒भगा ऽस॑ति+++(=स्यात्)+++ ।+++(र५)+++
०६ इमान्त्वमिन्द्र मीढ्वस्सुपुत्राम् ...{Loading}...
इ॒मान् त्वम् इ॑न्द्र मीढ्वस्+++(=वर्षक इन्द्र)+++
सुपु॒त्राꣳ सु॒भगां॑ कुरु ।
दशा॑ऽस्यां पु॒त्रान् आ धे॑हि॒
पति॑म् एकाद॒शं कृ॑धि ।+++(५)+++
०७ अग्निरैतु प्रथमो ...{Loading}...
अ॒ग्निर् ऐ॑तु प्रथ॒मो दे॒वता॑ना॒ꣳ॒
सो॑ऽस्यै प्र॒जां मु॑ञ्चतु मृत्युपा॒शात् ।
तद॒यꣳ राजा॒ वरु॒णो ऽनु॑मन्यतां॒
यथे॒य२ꣳ स्त्री पौत्र॑म् अ॒घन्+++(=पापजं व्यसनम्)+++ न रोदा॑त् ।+++(र५)+++
०८ इमामग्निस्त्रायताङ् गार्हपत्यः ...{Loading}...
इ॒माम् अ॒ग्निस् त्रा॑यतां॒ गार्ह॑पत्यः
प्र॒जाम् अ॑स्यै नयतु दी॒र्घम् आयुः॑ ।
अशू॑न्योपस्था॒+++(!)+++, जीव॑ताम् अस्तु मा॒ता
पौत्र॑मान॒न्दम् अ॒भि प्रबु॑द्ध्यताम् इ॒यम् ।+++(५)+++
०९ मा ते ...{Loading}...
मा ते॑ गृ॒हे नि॒शि +++(रोदन)+++घोष॒ उत्था॑द्
अ॒न्यत्र॒ त्वद्+++(=त्वत्तः)+++ रु॑द॒त्य॑स् सव्ँ वि॑शन्तु ।
मा त्वं वि॑के॒श्य् उर॒ आवधि॑ष्ठा+++(=आताडयेः)+++ जी॒वप॑त्नी
पतिलो॒के विरा॑ज॒ पश्य॑न्ती प्र॒जाꣳ सु॑मन॒स्यमा॑नाम् ।+++(५)+++
१० द्यौस्ते पृष्ठम् ...{Loading}...
द्यौस्ते॑ पृ॒ष्ठꣳ र॑क्षतु
वा॒युर् ऊ॒रू
अ॒श्विनौ॑ च॒ स्तन॒न्
+++(स्तनं)+++ धय॑न्तꣳ+++(=चूसन्तम्)+++ सवि॒ताऽभि र॑क्षतु ।+++(५)+++
आ वास॑सः परि॒धाना॒द् +++(परि॑ त्वा गिर्-वणो॒ इत्यादिना)+++ बृह॒स्पति॒र्,
विश्वे॑ दे॒वा अ॒भिर॑क्षन्तु प॒श्चात् ।
११ अप्रजस्ताम् पौत्र ...{Loading}...
अ॒प्र॒ज॒स्तां पौ॑त्र मृ॒त्युं
पा॒प्मान॑म् उ॒त वा॒ ऽघम् ।
शी॒र्ष्णस् स्रज॑म् इवो॒न्मुच्य॑
द्वि॒षद्भ्यः॒ प्रति॑मुञ्चामि॒ पाश॑म् । +++(५)+++
१९ इमं मे ...{Loading}...
इ॒मं मे॑ वरुण श्रुधी॒ +++(=श्रुणु)+++
हव॑म्+++(=आह्वानम्)+++ अ॒द्या च॑ मृळय +++(=सुखय)+++।
त्वाम् अ॑व॒स्युर् आ च॑के +++(=अवदन्)+++॥
११ तत्त्वा यामि ...{Loading}...
तत् त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्
तद् आ शा॑स्ते॒ यज॑मानो ह॒विर्भिः॑ ।
अहे॑ळमानो +++(=अक्रुध्यन्)+++ वरुणे॒ह बो॒ध्य् उरु॑शंस॒
मा न॒ आयुः॒ प्र मो॑षीः ॥
१४ त्वन्नो अग्ने ...{Loading}...
०४ त्वं नो ...{Loading}...
त्वन् नो॑ अग्ने॒ वरु॑णस्य वि॒द्वान्
दे॒वस्य॒ हेडो+++(=क्रोधो )+++ ऽव॑ यासिसीष्ठाः+++(=यक्षीष्ठाः)+++ ।
यजि॑ष्ठो॒ +++(हविर्)+++वह्नि॑तम॒श् शोशु॑चानो॒+++(=देदीप्यमानः)+++
विश्वा॒ द्वेषाँ॑सि॒ प्र मु॑मुग्ध्य् अ॒स्मत् ।
१५ स त्वन्नो ...{Loading}...
०५ स त्वं ...{Loading}...
स त्वन् नो॑ अग्ने ऽव॒मो+++(=मूलभूतो)+++ भ॑व॒+ऊ॒ती+++(त्या)+++
+++(“अग्निरवमो देवतानां विष्णुः परमः” इति ब्राह्मणम्)+++
नेदि॑ष्ठो+++(=अन्तिकतमो)+++ अ॒स्या उ॒षसो॒ व्यु॑ष्टौ+++(=व्युष्टायाम्)+++ ।
अव॑ यक्ष्व नो॒ वरु॑णँ॒, ररा॑णो
वी॒हि+++(=खाद)+++ मृ॑डी॒कँ+++(=सुखयितारं [हविः])+++ सु॒हवो॑ न एधि ।
+++(अग्नीवरुणाभ्याम् इदं न मम)+++
१६ त्वमग्ने अयाऽस्यया ...{Loading}...
त्वम् अ॑ग्ने अ॒या+++(=एतव्यः/ प्रत्येता)+++ ऽस्य्
अ॒या सन् मन॑सा हि॒तः ।
अ॒या सन् ह॒व्यम् ऊ॑हिषे॒
ऽया नो॑ धेहि भेष॒जम् ॥ (4)
सर्वाष् टीकाः ...{Loading}...
Oldenberg
-
Having before the sacrifice gone round the fire, so that their right sides are turned towards it,
-
1 They sit down in their former position, and while she takes hold of him, he offers the oblations (indicated by the) next (Mantras), with (the Mantras), ‘To Soma, the acquirer of a wife, Svāhā!’ (M. I, 4, I-16), one oblation with each Mantra.
हरदत्तः
समाप्य जपमथाग्निं प्रदक्षिणं करोति तया सह प्रदक्षिणं परिक्रामतीत्यर्थः । सर्वत्र दक्षिणे हस्ते गृहीत्वा परिक्रमणम् । ततो यथास्थानमुपविशतः । यस्य यत् स्थानमुपदिष्टं “उत्तरो वर” इति तस्मिन्नित्यर्थः । उपविश्य वध्वाम् अन्वारब्धायांअन्वरब्धवत्यां उत्तराष् षोडश प्रधानाहुतीर्जुहोति । सोमाय जनिविदेस्वाहेत्येतैः प्रतिमन्त्रम् । दर्वीहोमत्वादेवोपवेशने सिद्धे उपविश्येत्युच्यते नियमार्थं–उत्तरा एव षोडशोपविश्यजुहोति, अन्याः स्थित्वैवेति । तेन लाजास्तिष्ठता होतव्याः । तथा च कल्पान्तरेषु बहुषु दृश्यते– बोधायनानां बह्वृचानां छन्दोगानां वाजसनेयिनामाथर्वणिकानाञ्च । उपहोमेषु तु यथाप्राप्तमासनमेव भवति । एतच्च वक्ष्यामः । अन्ये त्वासीनयोरेव होममिच्छन्ति । “सोमाय जनिविद” इति मन्त्रनिर्देशो होममन्त्राणामादिप्रत्ययनार्थः तेन प्रागेव तस्मात् जपमन्त्राः । तदुक्तं पुरस्तात् प्राग्घोमादिति । उत्तरा आहुतीरित्येव प्रतिमन्त्रं होमस्सिद्धः यथान्येषु होमेषु । एतैः प्रतिमन्त्रमित्येतत्तु पुरस्तादपकृष्यत इत्युक्तम् । तत्रादितश्चत्वारो मन्त्राः स्वाहाकारान्ताः पठिताः । ततो द्वादशर्चः, तास्वन्ते स्वाहाकारः जुहोतिचोदनः स्वाहाकारप्रदानः इति ॥२॥
सुदर्शनः
सखेति जपित्वा, प्राग्घोमात् होमात्प्राक् अग्निप्रदक्षिणमेव वध्वा सह कुर्यान्नान्यदर्थकृत्यमावश्यकमपि ; “प्राग्घोमाद्” इत्यधिकग्रहणात् । ततो यथास्थानं “उत्तरो वरः इत्युक्तस्थानानतिक्रमेण, न त्वनियमेन, उपविश्य वध्वामन्वारब्धायामुत्तराः उत्तरमन्त्रकरणिका आहुतीर्होमान् जुहोति । के पुनस्त उत्तरे मन्त्राः? कथं च जुहोति ? इत्यत आह–“सोमाय जनिविदे” इत्यादयष्षोडश मन्त्राः । तेषामदितश्चत्वारि यजूंषि, “प्रेतो मुञ्चाति” इत्यादयो द्वादशर्चः । एतैः प्रतिमन्त्रं प्रतिस्वाहाकारं जुहोति, न पुनः “यज्ञँ स्वाहा वाचि स्वाहा वातेधास्स्वाहा” (तै. सं.१-१-१३.) इतिवत्” अवदीक्षमदास्थ स्वाहा” (एका.१-४-४.) इत्येतेनैव स्वाहाकारेण होमः । पूर्वेषामहोमार्थता च । जुहोतिशब्दार्थश्च तद्धितेन चतुर्थ्या मन्त्रलिङ्गादिना वा प्रतिपन्नाश्चोदिता देवताश्चोदितेनैव चतुर्थ्यन्तशब्देनोद्दिश्य यजमानेन त्यक्तस्य हविषश्चोदिताधारे प्रक्षेपः । इह च मन्त्रलिङ्गात् सोमादयो देवताः । ताश्च न जनिवित्त्वादिविशेषणविशिष्टाः । होमविध्यनुपपत्त्या हि मन्त्रप्रतिपन्नानां देवतात्वं कल्प्यम्, सा च देवतामात्रकल्पनयो शाम्यति । न पुनर्निर्बीजां गुर्वीं विशिष्टकल्पनां प्रयुक्तिगौरवापादिकामयुक्तामपेक्षते । न च ग्राहकमन्त्राम्नानयोरनुपपत्त्या विशिष्टानां देवतात्वकल्पना । विशेषणानां “मूर्धा दिवः ककुत्” इत्यादिवत् स्तुत्त्या देवताधिष्ठानान्वयेऽपि तयोश्चरितार्थत्वात् । हविश्चाज्यम् “जुहोतीति चोद्यमाने सर्पिराज्यं प्रतीयात्” (आप.प.१-२५.) इति परिभाषावचनात् । विवादादेरयज्ञत्वेऽपि यज्ञेष्वधिकरिष्यमाणपुरुषदेहयोग्यतापादकत्वेन तत्र यज्ञधर्मा युक्ता एव । अन्यथा आधानपवमानेष्ट्यादिष्वयज्ञेषु “यज्ञोपवीती प्रदक्षिणम्” (आप.प.२-१५.) इत्यादयो न प्राप्नुयुः । होमाधारस्तूपसमाहितोऽग्निस्स्थित एव ॥१॥
मूलम् ...{Loading}...
प्राग्घोमात् प्रदक्षिणमग्निं कृत्वा यथास्थानमुपविश्यान्वारब्धायामुत्तरा आहुतीर्जुहोति “सोमाय जनिविदे स्वाहे"त्येतैः प्रतिमन्त्रम् ।
०५ ०२ अथैनामुत्तरेणाग्निन् दक्षिणेन
०५ ०२ अथैनामुत्तरेणाग्निन् दक्षिणेन ...{Loading}...
अथैनाम् उत्तरेणाग्निं दक्षिणेन पदा ऽश्मानम् आस्थापयत्य् आतिष्ठेति ॥
०१ आतिष्ठेममश्मानमश्मेव त्व२म् ...{Loading}...
आति॑ष्ठे॒मम् अश्मा॑न॒म्
अश्मे॑व॒ त्व२ꣳ स्थि॒रा+++(रो पुंसि)+++ भ॑व ।
अ॒भिति॑ष्ठ पृतन्य॒तस्+++(=पृतनाकामान्)+++
सह॑स्व पृतनाय॒तः+++(=पृतनाकामान्)+++ ।+++(र५)+++
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- 2 He then causes her, to the north of the fire, to tread with her right foot on a stone, with (the verse), ‘Tread’ (M. I, 5, 1).
हरदत्तः
पदप्रक्रणणं पदास्थापनम् अश्मा दृषत्पुत्रः । स च प्रागेव पात्रैस्सह प्रतिष्ठापितो भवति ॥२॥
सुदर्शनः
व्यक्तार्थम् ॥२॥
मूलम् ...{Loading}...
अथैनामुत्तरेणाग्निं दक्षिणेन पदाऽश्मानमास्थापयत्यातिष्ठेति।
०५ ०३ अथास्या अञ्जलावुपस्तीर्य
०५ ०३ अथास्या अञ्जलावुपस्तीर्य ...{Loading}...
अथास्या अञ्जलावुपस्तीर्य, द्विर् लाजानोप्याभिघारयति।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- Having ‘spread under’ Ājya into her joined hands, he pours roasted grain twice (into them), and sprinkles Ājya over it.
हरदत्तः
+++(सम्पादकटिप्पनी- सूत्रमिदम् अग्रिमे व्याख्यातम्।)+++
सुदर्शनः
+++(सम्पादकटिप्पनी- सूत्रमिदम् अग्रिमे व्याख्यातम्।)+++
मूलम् ...{Loading}...
अथास्या अञ्जलावुपस्तीर्य द्विर्लाजानोप्याभिघारयति।
०५ ०४ तस्यास्सोदर्यो
०५ ०४ तस्यास्सोदर्यो ...{Loading}...
तस्यास्सोदर्यो लाजानावपतीत्येके।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- Some say that an uterine relation of hers pours the grain (into her hands).
हरदत्तः
अथशब्दः स्थानसम्बन्धार्थः । अथोत्थित एवास्याश्चोत्थिताया एवेति । तेनावदानप्रभृत्युत्थानमेव भवति । तत्र दार्शपौर्णमासिकोऽवदानकल्पः प्रदर्शितः न कल्पान्तरम् । तदिहापि प्रत्यभिघारणं पञ्चावत्तञ्च पञ्चावत्तिनां भवति । लाजानां च लौकिकः संस्कारः । पात्रैश्च सह सादनप्रोक्षणे भवतः । अञ्जलेस्तु न सादनादि भवतीत्युक्तम् ॥३॥ सोदर्यो लाजानावपतीति वचनात् उपस्तरणाभिघारणे वरस्यैव भवतः । पक्षान्तरे तु तस्यैव सर्वम् ॥४॥
सुदर्शनः
एते अपि सूत्रे व्यक्तार्थे । आचाराल्लाजानां त्रिरावापो जमदग्नीनाम् । लाजहोमाश्चापूर्वाः, “अस्या अञ्जलावुपस्तीर्य” इत्यादि कृत्स्नविधानात् पार्वणातिदेशाभावात् पाकयज्ञधर्माग्निमुखप्रत्यभिघारणस्विष्टकृल्लेपाञ्जनानामप्राप्तिरेव ॥ केचित्–कृत्स्नविधानादेव साधारणतन्त्रस्य प्राप्त्यभावात् लाजकिंशुकहोमेषु तन्त्रमध्यस्थं येन जुहोतीत्याद्यञ्जलिसंस्कारमपि नेच्छन्ति ॥४॥
मूलम् ...{Loading}...
तस्यास्सोदर्यो लाजानावपतीत्येके।
०५ ०५ जुहोतीयन् नारीति
०५ ०५ जुहोतीयन् नारीति ...{Loading}...
+++(वर एव तस्याः पाणिना)+++ जुहोति “इयं नारी"ति ॥
०२ इयन्नार्युपब्रूते कुल्पान्यावपन्तिका ...{Loading}...
इ॒यन् ना॒र्य् उप॑ब्रूते॒
कुल्पा॑न्य् +++(=लाजान्)+++ आवपन्ति॒का+++(=आवपन्ती)+++ ।
दी॒र्घा॒युर् अ॑स्तु मे॒ पति॒र्
जीवा॑तु+++(=जीव्यात्)+++ श॒रद॑श्श॒तम् ।+++(र५)+++
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- 3 He (?) sacrifices (that grain) with (the verse), ‘This wife’ (M. I, 5, 2).
हरदत्तः
वरस्यैव जुहोतिक्रिया । पात्रस्थानीयो वध्वञ्जलिः ॥५॥
सुदर्शनः
वर एव “इयं नारी” इत्यनया ऋचाऽभिन्नेन वध्वञ्जलिना देवतीर्थेन लाजान् जुहोति । न पार्श्वेन; उपदेशातिदेशयोरभावात् । केचित्–“प्रदक्षिणमग्निं कृत्वा यथास्थानमुपविश्य” इत्येष विधिरुत्तरतो वरोऽभ्यन्तरतो वधूरित्येवंरूपयथास्थाननियमार्थो न युज्यते । कुतः? यतो विवाहे वधूप्राधान्येन तस्या अभ्यन्तरीभावो न्यायसिद्धः । वधूप्राधान्यं च स्त्रीणां अपुनर्विवाहादेव वेदितव्यमिति । एतच्च “तस्मिन्नुपविशत उत्तरो वरः” (आप. गृ. ४-९.) इत्यत्र सूत्रे व्याख्यातम् । अतो यथास्थानानुवादेन परिभाषासिद्धोपवेशननियमार्थ एवायं विधिः । उत्तराष्षोडशैवाहुतीरुपविश्य जुहोति, न लाजहोमानपि । ते त्वस्मादेव नियमात् बहुतरगृह्यान्तरानुरोधाच्च अविगीतास्मदीयाचारमुल्लङ्घ्यापि तिष्ठतैव होतव्या इति । तन्न ; यत औपासनोत्पादनद्वारा देहसंस्कारोत्पादनद्वारा च जायापत्युभयसाध्ययज्ञोपकारके विवाहे तयोस्सममेव स्वामित्वलक्षणं प्राधान्यम् । अपि च चोदितसर्वकर्मसु पतिप्रयोगे यस्त्वया धर्मः कर्तव्यस्सोऽनया वध्वा सहेति पत्न्यास्सहत्ववचनात् प्रत्युत अप्राधान्यमेव स्त्रीणाम् । अपुनर्विवाहस्त्वासामप्राधान्येऽपि “तस्मान्नैका द्वौ पती विन्दते” (तै. स. ६-६-४.) इति निषेधबलादेवोपपद्यते । तस्मात् न्यायतोऽभ्यन्तरीभावस्यानियमे विपर्यये वा प्राप्ते, उपवेशनानुवादेन यथास्थानमुत्तर एव वर इत्येतन्नियमार्थ एवायं विधिः। तेन लाजहोमा अप्यासीनेनैव होतव्याः । तस्य"आसीनो दर्वीहोमान् जुहोति” (आप.प.३-१०.) इति सर्वदर्वीहोमानामविशेषेणास्माकं चोदितत्वात्, स्वसूत्रोक्तविषये बहुतराणामपि गृह्यान्तराणामनुपसंहार्यत्वाच्च ॥५॥
मूलम् ...{Loading}...
जुहोतीयं नारीति।
०५ ०६ उत्तराभिस्तिसृभिः
०५ ०६ उत्तराभिस्तिसृभिः ...{Loading}...
उत्तराभिस्तसृभिः +++(=तुभ्यमाग्रे पर्यवहन्नित्यादिभिः)+++ प्रदक्षिणमग्निं कृत्वा ऽऽश्मानमास्थापयति यथा पुरस्तात् ॥ +++(यथा पुरस्तात्)+++
०३ तुभ्यमग्रे पर्यवहन्त्सूर्याम् ...{Loading}...
३८ तुभ्यमग्रे पर्यवहन्त्सूर्यां ...{Loading}...
+++(सूर्या नाम सवितुर्दुहिता विवाहस्य अधिष्ठात्री देवता - सूर्यासूक्ते दृश्या।)+++
तुभ्य॒म् +++(अग्नये)+++ अग्रे॒ +++(गन्धर्वाः)+++ पर्य॑वहन्त्
सू॒र्यां व॑ह॒तुना॑ स॒ह ।
पुनः॒ पति॑भ्यो जा॒यां दा+++(ः)+++
अ॑ग्ने प्र॒जया॑ स॒ह ।+++(र५)+++
०४ पुनः पत्नीमग्निरदादायुषा ...{Loading}...
३९ पुनः पत्नीमग्निरदादायुषा ...{Loading}...
पुनः॒ पत्नी॑म् अ॒ग्निर् अ॑दा॒द्
आयु॑षा स॒ह वर्च॑सा ।
दी॒र्घा॒युर् अ॑स्या॒ यः पति॒स्
स ए॑तु श॒रद॑श् श॒तम् ॥+++(र५)+++
०५ विश्वा उत ...{Loading}...
०३ विश्वा उत ...{Loading}...
विश्वा॑ उ॒त त्वया॑ व॒यं
धारा॑ उद॒न्या॑+++(=उदक-सम्बन्धिनीः)+++ इव ।
अति॑गाहेमहि॒ द्विषः॑ ।+++(५)+++
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- 4 Having gone round the fire, with the right side turned towards it, with the next three (verses; M. I, 5, 3-5) he makes her tread on the stone as above (M. I, 5, 6).
हरदत्तः
उत्तराभिस्तिसृभिः तुभ्यमग्रे पर्यवहन्नित्यादिभिः अग्निं प्रदक्षिणं करोति । तां हस्ते गृहीत्वा तिसृणामन्ते परिक्रमणारम्भः “वचनादेकं कर्म बहुमन्त्रम्” इति । उत्तराभिरिति बहुवचनेनैव त्रित्वपरिग्रहसिद्धे तिसृभिरिति वचनं तिसृभिरेकमेव परिक्रमणं यथा स्यात् प्रतिमन्त्रं क्रियाभ्यावृत्तिर्मा भूदिति ॥६॥
सुदर्शनः
उत्तराभिः"तुभ्यमग्रे पर्यवहन्” इत्यादिभिस्तिसृभिः । यथा पुरस्ताता तथा आतिष्ठेममित्यनया ॥६॥
मूलम् ...{Loading}...
उत्तराभिस्तिसृभिः प्रदक्षिणमग्निं कृत्वाऽश्मानमास्थापयति यथा पुरस्तात्।
०५ ०७ होमश्चोत्तरया यथा
०५ ०७ होमश्चोत्तरया यथा ...{Loading}...
होमश्चोत्तरया +++(=अर्यमणं नु देवम्)+++ ॥
०७ अर्यमणन्नु देवम् ...{Loading}...
अ॒र्य॒मण॒न् नु+++(=क्षिप्रं)+++ दे॒वं क॒न्या॑+++(ः)+++
अ॒ग्निम् +++(च)+++ अयक्षत +++(पतिलाभाय)+++।
स इ॒मां दे॒वो अ॑द्ध्व॒रः+++(=अहिंसितः)+++ प्रेतो मु॒ञ्चाति॒ नाऽमुत॑स्+++(=पतिलोकात्)+++
सुब॒द्धाम् अ॒मुत॑स् करत्+++(=कुरु)+++ ।+++(५)+++
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- And the oblation (is performed) with the next (verse; M. I, 5, 7).
हरदत्तः
यथा पुरस्तादिति वर्तते । उत्तरया “अर्यमणं नु देवम्” इत्येतया ॥७॥
सुदर्शनः
लाजहोमश्चोत्तरया “अर्यमणं नु देवम्” इत्येतया ॥७॥
मूलम् ...{Loading}...
होमश्चोत्तरया।
०५ ०८ पुनः परिक्रमणम्
०५ ०८ पुनः परिक्रमणम् ...{Loading}...
पुनः परिक्रमणम् ॥
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- (Then follow) again the circumambulation (M. I, 5, 8-10),
हरदत्तः
+++(सम्पादकटिप्पनी- सूत्रमिदम् अग्रिमे व्याख्यातम्।)+++
सुदर्शनः
+++(सम्पादकटिप्पनी- सूत्रमिदम् अग्रिमे व्याख्यातम्।)+++
मूलम् ...{Loading}...
पुनः परिक्रमणम्।
०५ ०९ आस्थापनम् पुनरपि
०५ ०९ आस्थापनम् पुनरपि ...{Loading}...
+++(अश्मन)+++ आस्थापनम् ॥
०८-११ तुभ्यमग्रे पर्यवहन्पुनः ...{Loading}...
३८ तुभ्यमग्रे पर्यवहन्त्सूर्यां ...{Loading}...
+++(सूर्या नाम सवितुर्दुहिता विवाहस्य अधिष्ठात्री देवता - सूर्यासूक्ते दृश्या।)+++
तुभ्य॒म् +++(अग्नये)+++ अग्रे॒ +++(गन्धर्वाः)+++ पर्य॑वहन्त्
सू॒र्यां व॑ह॒तुना॑ स॒ह ।
पुनः॒ पति॑भ्यो जा॒यां दा+++(ः)+++
अ॑ग्ने प्र॒जया॑ स॒ह ।+++(र५)+++
३९ पुनः पत्नीमग्निरदादायुषा ...{Loading}...
पुनः॒ पत्नी॑म् अ॒ग्निर् अ॑दा॒द्
आयु॑षा स॒ह वर्च॑सा ।
दी॒र्घा॒युर् अ॑स्या॒ यः पति॒स्
स ए॑तु श॒रद॑श् श॒तम् ॥+++(र५)+++
०३ विश्वा उत ...{Loading}...
विश्वा॑ उ॒त त्वया॑ व॒यं
धारा॑ उद॒न्या॑+++(=उदक-सम्बन्धिनीः)+++ इव ।
अति॑गाहेमहि॒ द्विषः॑ ।+++(५)+++
सर्वाष् टीकाः ...{Loading}...
Oldenberg
(again) the injunction to tread on the stone (I, 5, 11),
हरदत्तः
पुनरपि परिक्रमणमग्नेः कर्तव्यं आस्थापनञ्चाश्मनः । पुनश्शब्दः क्रियाभ्यावृत्तिद्योतनार्थः । तेनोत्तराभिस्तिसृभिरित्यादिर्भवति ॥९॥
सुदर्शनः
अग्निप्रदक्षिणम् ॥८॥ आत्मनः ॥९॥
मूलम् ...{Loading}...
आस्थापनम्।
०५ १० होमश्चोत्तरया उत्तरया
०५ १० होमश्चोत्तरया **उत्तरया** ...{Loading}...
होमश्चोत्तरया +++(=त्वमर्यमा भवसि)+++॥
१२ त्वमर्यमा भवसि ...{Loading}...
०२ त्वमर्यमा भवसि ...{Loading}...
त्वम् अ॑र्य॒मा भ॑वसि॒ यत् क॒नी+++(न्या)+++ना॒न्
नाम॑ स्व॒धा+++(=अन्न)+++व॒त् स्व॑र्यं+++(र्ग्यं)+++ बि॒भर्षि॑ ।
अ॒ञ्जन्ति॑+++(=सिञ्चन्ति)+++ वृ॒क्षꣳ सुधि॑त॒न्+++(=सुष्ठु निहितं)+++ न गोभि॒र्+++(=गोविकारैराज्यादिभिः)+++
यद्दम्प॑ती॒ स+++(मान)+++म॑नसा+++(सौ)+++ कृ॒णोषि॑ ।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
and (again) the oblation with the next (verse; I, 5, 12);
हरदत्तः
उत्तरया “त्वमर्यमा” इत्येतया ऋचा ॥१०॥
सुदर्शनः
“त्वमर्यमा भवसि” इत्येतया ॥१०॥
मूलम् ...{Loading}...
होमश्चोत्तरया।
०५ ११ पुनः परिक्रमणम्
०५ ११ पुनः परिक्रमणम् ...{Loading}...
पुनः परिक्रमणम् ॥
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- (Then) the circumambulation again (I, 5, 13-15).
हरदत्तः
पुनश्शब्दः पूर्ववत् ॥११॥
सुदर्शनः
“होमश्चोत्तरया” इत्यादिषु पञ्चसु सूत्रेषु “यथा पुरस्तात्” इत्यनुषङ्गः । कार्यः कार्यमिति च यथालिङ्गं वाक्यशेषः ॥११॥
मूलम् ...{Loading}...
पुनः परिक्रमणम्।
०५ १२ जयादि प्रतिपद्यते
०५ १२ जयादि प्रतिपद्यते ...{Loading}...
जयादि प्रतिपद्यते ॥
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- 5 He enters upon the performance of the Jaya and following oblations.
हरदत्तः
पूर्वमग्नेरुपसमाधानादिवचनेन तन्त्रप्राप्तिर्दर्शिता । इदं तु वचनं कोलोपदेशार्थं परिक्रमणादूर्ध्वं जयादयो यथा स्युरिति । इतरथा जयादीनुपजुहोतीति वचनाल्लाजहोमानन्तरमुपहोमः स्यात् ततस्तृतीयं परिक्रमणम् ॥१२॥
सुदर्शनः
एतदुक्ताभिप्रायम्– यत्र वचनं तत्रैव जयादयो, नान्यत्र; अन्वारम्भश्चैषु नास्तीति ॥१२॥
मूलम् ...{Loading}...
जयादि प्रतिपद्यते।
०५ १३ परिषेचनान्तङ्
०५ १३ परिषेचनान्तङ् ...{Loading}...
+++(=प्र त्वा मुञ्चामीति)+++ योक्त्रं विमुच्य, तां ततः प्र वा वाहयेत् +++(=रथादिभिर्नयनं)+++, प्र वा हारयेत् +++(=मनुष्यवाह्येन शिबिकादिना नयनम्)+++ ॥
१६ प्र त्वा ...{Loading}...
प्र त्वा॑ मुञ्चामि॒ वरु॑णस्य॒ पाशा॒द् +++(योक्त्र-विमोकेन)+++
येन॒ त्वा ऽब॑द्ध्नात् सवि॒ता सु॒केतः॑+++(=सुप्रज्ञानो)+++ ।
धा॒तुश् च॒ योनौ॑ सुकृ॒तस्य॑ लो॒के
+++(सुकृतस्य लोको हि धातुर् योनिर् दम्पत्योः कृते।)+++
स्यो॒नन्+++(=सुखं)+++ ते॑ स॒ह पत्या॑ करोमि ।+++(र४)+++
१७ इमं विष्यामि ...{Loading}...
इ॒मं विष्या॑मि॒+++(=विस्रंसयामि)+++ वरु॑णस्य॒ पाशं॒
यम् अब॑द्ध्नीत सवि॒ता सु॒शेवः॑+++(=सुसुखः)+++ ।
धा॒तुश्च॒ योनौ॑ सुकृ॒तस्य॑ लो॒के
+++(सुकृतस्य लोको हि धातुर् योनिर् दम्पत्योः कृते।)+++
ऽरि॑ष्टां+++(=अविनाशिनीम्)+++ त्वा स॒ह पत्या॑ करोमि ।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- 6 Having performed (the rites) down to the sprinkling (of water) round (the fire), and having untied the rope with the next two verses (I, 5, 16. 17), he should then make her depart (from her father’s house in a vehicle), or should have her taken away.
हरदत्तः
परिषेचनान्तग्रहणं तन्त्रशेषोपलक्षणम् । तेन प्रणीताविमोकस्याप्यन्ते योक्त्रविमोकः । जयादि प्रतिपद्यत इत्येव सिद्धे परिषेचान्तग्रहणं तदनन्तरमेव योक्त्रविमोको यथा स्यात् प्रस्थानकाले मा भूदिति । उत्तराभ्यां “प्र त्वा मुञ्चामी"त्येताभ्याम्; वचनादेकं कर्म बहुमन्त्रमिति । द्विमन्त्रो विमोकः । तत इति वचनं योक्त्रविमोकस्य प्रस्थानकालनियमो मा भूत् यथोपपद्यते श्वो वा सद्यो वा तदा प्रतिष्ठेतेत्येवमर्थम् । प्रवाहणं रथादिभिर्नयनं, प्रहारणं मनुष्यवाह्येन शिबिकादिना नयनम् । उभयत्र वाशब्दः उभयोरपि पक्षयोस्तुल्यत्वज्ञापनार्थः । अन्यथा रथानयनस्येह प्रत्यक्षकल्पोपदेशादनुपदिष्टकल्पं मनुष्ययानमाग्निहोत्रिककल्पवत् सूचितं विज्ञायेत । अतः उभयत्र वाशब्दः, तेन मनुष्यनयनेऽप्यारोहतीमुत्तराभिरुत्तरया शंत उत्तराभिरित्येवमादयो मन्त्राः सिद्धा भवन्ति ॥१३॥
सुदर्शनः
परिषेचनान्तं कृत्वा, सामर्थ्यात्तन्त्रशेषं समाप्येत्यर्थः । तेन शम्यापोहनप्रणीताविमोकब्राह्मणोद्वासनान्यपि करोति । उत्तराभ्यां” “प्र त्वा मुञ्चामि” इति द्वाभ्यां ऋग्भयाम् । योक्त्रं विमुञ्चति । ततः अनन्तरं तां वधूं हस्तिनमश्वं वा प्रवाहयेत् । शिबिकामान्दोलिकां रथं मनुष्यं वा प्र वा हारयेत् । उभयत्र “व्यवाहिताश्च” (पा.सू. १-४-२८.) इति वाशब्दव्यवधानम् । वाशब्दद्वयं तु तुल्याविमौ विधी, नान्यतरोऽनुकल्प इति ज्ञापयितुम् । अत्र “विमुच्ये"ति क्त्वाप्रत्यये सत्यपि “तत” इति यदाह तज्ज्ञापयति, नावश्यं क्त्वाप्रत्यययुक्तं वचनं पूर्वकालतां समानकर्तृकतां वा विदधाति । कदाचित्केवलक्रियाविधानमेव सिद्धवदनुवदति, यथा “वेदं कृत्वाग्नीन् परिस्तीर्य” (आप. श्रौ. ११-२-१५.) इति । अत्र हि न वेदकरणस्य परिस्तरणपूर्वकालता; वेदपरिवासनविधानाग्न्यगारसमूहनायतनोपलेपनानामपि मध्ये कर्तव्यत्वात् । तथात्रापि “परिषेचनान्तं कृत्वोत्तराभ्यां योक्त्रं विमुच्य” इति प्रणीतामोक्षणादेर्मध्ये कर्तव्यत्वात् । तथा दधिघर्मे “एतस्मिन् काले श्रातं हविरिति प्रत्युक्त्वा तमादायाहवनीयं गत्वा” (आप. श्रौ. १३-३-४.) इति । तत्रापि प्रतिप्रस्थाता दधिघर्मसंस्कर्ता, होमकर्ताऽध्वर्युः ततस्समानकर्तृत्वाभावः । तथैवान्यत्राप्यश्वमेधे “दक्षिणापप्लाव्याहं च त्वं च वृत्रहन्निति ब्रह्म यजमानस्य हस्तं गृह्णाति” (आप. श्रौ.) इति । तथैवात्र “स्मृतं च म इत्येतद्वाचयित्वा गुरवे वरं दत्वोदायुषेत्युत्थाप्य” (आप. गृ.११-१७.) इति ॥१३॥
मूलम् ...{Loading}...
परिषेचनान्तं कृत्वोत्तराभ्यां योक्त्रं विमुच्य तां ततः प्र वा वाहयेत् प्र वा हारयेत्।
०५ १४ समोप्यैतमग्निमनुहरन्ति एतम्
०५ १४ समोप्यैतमग्निमनुहरन्ति एतम् ...{Loading}...
+++(उखायाम् = पात्र-विशेषे)+++ समोप्यैतम् अग्निम् अनु-हरन्ति +++(- न पुरस्तात्)+++ ॥
विश्वास-टिप्पनी
“औपासनस्य च गृह्यान्तरेण प्रयाणे विहितं समारोपणं स्यात्” इति सुदर्शनः। बौधायनो विदधाति समित्-समारोपणम्। गृहे ऽप्रयाणे ऽपि धारणाशक्तौ दृश्यते समारोपणम् आचारे।
“अनेन श्रौतवत् समारोपस्य प्रतिषेध” इति तु हरदत्तः।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- Having put that fire (with which the marriage rites have been performed, into a vessel), they carry it behind (the newly-married couple).
हरदत्तः
एतं वैवाहिकमग्निम् उखायां समोप्य
दम्पत्योर् गच्छतोर् अनु पृष्ठतः हरन्ति तदीयाः पुरषाः ।
समोप्यवचनं श्रौतेष्व् अग्निषु दृष्टस्य समारोपणस्य प्रतिषेधार्थम् ।
एवं प्रतिषेधं कुर्वन्न् एतद् दर्शयति–
अनुगतो मन्थ्य इत्य्-अत्र श्रौतवद् अवक्षाणेभ्यो मन्थनमिति ।
अनुशब्दः पुरस्तान् नयनअनुशब्द्-दःप्रतिषेधार्थः ॥१४॥
सुदर्शनः
एतं विवाहाग्निं समोप्योखायाम्
अनुहरन्ति अव्यवायेन वध्वाः पश्चान् नयन्ति परिकर्मिणः ।
एतम् इति ग्रहणं विवाहाग्नेर् औपासनाख्यस्य संस्कार-शब्दाभिव्यङ्ग्यस्य प्रयाणेऽपि नित्यं प्रत्यक्ष-नयनार्थम् ।
अगृह्यमाणे त्व् एतम् इत्य्-अस्मिन् अ-दृष्टार्थं सर्वार्थस्य लौकिकाग्नेर् अनुहरणं स्यात् ।
औपासनस्य च गृह्यान्तरेण प्रयाणे विहितं समारोपणं स्यात् ॥१४॥
मूलम् ...{Loading}...
समोप्यैतमग्निमनुहरन्ति।
०५ १५ नित्यः
०५ १५ नित्यः ...{Loading}...
नित्यः ।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- It should be kept constantly.
हरदत्तः
+++(सम्पादकटिप्पनी - इदं सूत्रम् अग्रिमे व्याख्यातम्।)+++
सुदर्शनः
+++(सम्पादकटिप्पनी - इदं सूत्रम् अग्रिमे व्याख्यातम्।)+++
मूलम् ...{Loading}...
नित्यः।
०५ १६ धार्यः एष
०५ १६ धार्यः एष ...{Loading}...
धार्यः ॥
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- If it goes out, (a new fire) should be kindled by attrition,
हरदत्तः
एष वैवाहिकोऽग्निर् नित्यः शाश्वतिको धार्यः पत्नी-सम्बन्धानां कर्मणाम् अर्थाय ॥१६॥
सुदर्शनः
पाणि-ग्रहणाद् आरभ्य सर्वाचार-लक्षण-कर्मार्थम् अयम् अग्निर् नित्यः, यावज्-जीवं नोत्सृज्यते; “पाणिग्रहणादिर् अग्निस् तम् औपासनम् इत्य् आचक्षते, तस्मिन् गार्ह्याणि कर्माणि” ( हि. गृ.२६-१,२.) इति हिरण्यकेशि-वचनात् ।
अतः साङ्गे विवाहे समाप्तेऽपि “अपवृत्ते कर्मणि लौकिकस् सम्पद्यते” (आप.प. ४-२३) इति न भवति ॥१५॥
नित्य इति सिद्धे धार्य इत्यारम्भात् प्रयाणे ऽप्य् अस्य समिध्य् आत्मन्य् अरण्योर् वा समारोपणं गृह्यान्तर-विहितं विकल्पेनापि न स्यात् ।+++(5)+++
यथा “जुह्वा स्रुवेण वा सर्वप्रायश्चित्तानि जुहोति” (श्रौ.२-११-१.) इत्यत्र “अध्वर्युं कर्तारम्” (आप. प.१-२६.) इति वचनात् अध्वर्युर् एव कर्ता, नतु “जुहोति-जुतीति प्रायश्चित्ते ब्रह्माणम्” (आश्व. श्रौ.१-१-१६.) इत्य् आश्वलायन-सूत्र-विहितो ब्रह्मा विकल्पेनापि ।
एवं च “समोप्यैतम् अग्निम् अनुहरन्ति” (आप. गृ. ५-१३.) इति सर्वस्य धर्मोऽयं , न वैवाहिक-प्रयाणस्यैव । यथा “समोप्यैताव् अग्नी अन्वारोप्य” इत्याग्निक-प्रयाणेऽस्य विहितो धर्मस् सर्वार्थः ।
एवं-विधेषु यद्य् अपि याज्ञिका विकल्पं नेच्छन्ति, तथापि विकल्पो ऽस्तीत्य् अत्र ज्ञापकं भवति ।+++(5)+++
“सवर्णापूर्व-शास्त्र-विहितायां यथर्तु गच्छतः पुत्रास्, तेषां कर्मभिस् सम्बन्धः” “दायेनाव्यतिक्रमश् चोभयोः” “पूर्ववत्याम् असंस्कृतायां वर्णान्तरे च मैथुने दोषः” (आप.ध.२-१३-१,२,३.) इत्य् असवर्ण-दार-सङ्ग्रहणं प्रतिषिध्य स्वयम् एवाह सूत्रकारः– “स त्रयाणां वर्णानाम्”(आप.प.१-२.) इति ।
त्रयाणाम् इत्य् एतस्य पदस्यार्थो भाष्यकारेण व्याख्यातः “तिस्रो हि तस्य भार्यास् स्मृत्य्-अन्तर-वचनाद् अप्रतिषिद्धाः, तस्य कथं सह ताभिर् अधिकारस् स्याद् इत्य् एवमर्था त्रिसङ्ख्या” इति । एतत् सूत्र-भाष्याभ्याम् असवर्ण-दार-सङ्ग्रहस् स्मृत्यन्तर-विहितो न सर्वथैव निषिद्ध इति गम्यते । तच् चान्येष्व् अप्य् एवं-विधेषु विकल्पस्य ज्ञापकम् एव ॥१६॥
मूलम् ...{Loading}...
धार्यः।
०५ १७ अनुगतो मन्थ्यः
०५ १७ अनुगतो मन्थ्यः ...{Loading}...
अनुगतो मन्थ्यः +++(प्राग्दग्धाङ्गारेभ्यः - साक्षाद्, भस्मनारणी-संस्पृश्य वा)+++ ॥
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- Or it should be fetched from the house of a Śrotriya.
हरदत्त-प्रस्तावः
अस्यौपासनस्योद्वातस्योत्पत्तिमाह–
हरदत्तः
अनुगतः उद्-वातः मन्थ्यः मन्थनेनोत्पाद्यः ।
अस्मिन् पक्षे विवाहे ऽप्य् अस्य योनिर् एषैव ।
धारणं चारण्योर् विवाह-प्रभृति भवति ।
तत्र विवाहे अरणीभ्यां मन्थनम्, अनुगते स्वेभ्य एवावक्षाणेभ्य+++(=प्राग्दग्धाङ्गारेभ्यः)+++ इत्युक्तम् ।+++(5)+++ तदभावे भस्मना अरणी संस्पृश्य मन्थनम् ॥१७॥
सुदर्शनः
यद्य् अयम् अग्निर् अनुगतः निर्वाणस् स्यात्, तदा मन्थ्यः तेभ्य एवावक्षणेभ्यो+++(=प्राग्दग्धाङ्गारेभ्यः)+++ ऽधिमन्थितव्यः । यदि तानि न स्युर् असमर्थानि वा, तदास्या अरणी संस्पृश्य मन्थितव्यः ॥१७॥
मूलम् ...{Loading}...
अनुगतो मन्थ्यः।
०५ १८ श्रोत्रियागाराद्वाहार्यः
०५ १८ श्रोत्रियागाराद्वाहार्यः ...{Loading}...
श्रोत्रियागाराद् वा ऽऽहार्यः +++(पचनाग्निः)+++ ॥
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- Besides, if (the fire) goes out, one of them, either the wife or the husband, should fast.
हरदत्तः
श्रुत-वृत्ताऽध्ययन-सम्पन्नो ब्राह्मणः श्रोत्रियः तस्य गृहे यः पचनाग्निः तस्माद्वाहार्यः । अस्मिन् पक्षे विवाहेऽप्य् अस्य योनिर् एषैव ॥१८॥
सुदर्शनः
अथवाऽऽधीत-वेदस्य गृहाद् आहार्यः ।
अयं च व्यवस्थितो विकल्पः ।+++(5)+++ यदि मथितेऽग्नौ विवाहस् तदा मन्थ्यः । यद्याहृतेऽग्नौ तदा ऽऽहार्यः ।
नष्टेऽपहृते वाग्नाव् इयम् एवोत्पत्तिः । अनुगत इत्य् अस्य नष्टापहृतयोः प्रदर्शनार्थत्वात् ॥१८॥
मूलम् ...{Loading}...
श्रोत्रियागाराद्वाहार्यः।
०५ १९ उपवासश्चान्यतरस्य भार्यायाः
०५ १९ उपवासश्चान्यतरस्य भार्यायाः ...{Loading}...
उपवासश् चान्यतरस्य भार्यायाः पत्युर्वा ॥
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- Or he may sacrifice with the next (verse; M. I, 5, 18), and not fast.
हरदत्त-प्रस्तावः
प्रायश्चित्तमाह–
हरदत्तः
अत्र व्यवहित-कल्पनया पदानां सम्बन्धः । अग्नाव् अनुगते भार्यायाः पत्युश् च उभयोर् उपवासो भवति तयोर् अन्यतरस्य वेति । च-शब्द उभयोरुपवाससमुच्चयार्थः । भार्यायाः पत्युश्चेति । वाशब्दोऽन्यतरस्य विकल्पार्थः । तयोरन्यतरस्य वेति । उपवासः उभयोरपि कालयोरभोजनं, प्रसिद्धेः, अनुगमनानन्तरमेव चाग्निप्रकल्पनं सर्वप्रायश्चित्तहोमश्च । नन्वनुगतो मन्थ्य इति प्रकृतं तत्किमनुगत इति निमित्तनिर्देशेन ? उच्यते– दम्पत्योः प्रस्थानमिह प्रकृतम् । तां ततः प्र वा वाहयेदिति । प्रासङ्गिकस्त्वग्निधर्मः । ततश्चोपवासविधिरपि प्रस्थानशेष एव विज्ञायेत । तथा च “त्रिरात्रमुभयोरधश्शय्या बरह्मचर्यम्” इत्यादीनां प्रासङ्गिकेन संबन्धो न भवति । किन्तु प्राकरणिकेनैव । अनुगते उभयोरुपवासोऽन्यतरस्य वेत्येव सिद्धे भार्यायाः पत्युश्चेति पृथङ्निर्देशः कथमस्याग्नेरत्यन्तं भार्यासंबन्धः प्रतिज्ञापितस्यादिति । अत एव भार्यायाः पूर्वनिर्देशः तेन यस्मिन् कर्मणि भार्यायास्सहत्वं नास्ति यथोपाकरणसमापनयोस्तस्यैतस्मिन्नग्नावप्रवृत्तिः । सपत्नीबाधनादौ च पत्त्युस्सहत्वाभावेऽपि भार्यासबन्धादेवास्मिन्नग्नौ प्रवृत्तिः ॥१९॥
सुदर्शनः
अन्यतरस्य कालस्य, अह्नो वा रात्रेर्वा सम्बन्धी उपवासः अनशनं भार्यायाः पत्युर्वा भवति । चकारोग्न्युत्पत्तिप्रायश्चित्तयोस् समुच्चयार्थः । यद्यहनि रात्रौ वा प्राग्भोजनादनुगतिस्तदा मथित्वाऽऽहृत्य वा “यत्र क्वचे"ति विधिनोपसमाधाय “यद्यविज्ञाता सर्वव्यापद्वा” इति सर्वप्रायश्चित्तं हुत्वा कालशेषमुपवसेत् । यदि भोजनादूर्ध्वं तदा तत्कालशेषमागामिकालं च । सर्वथा तु विज्ञातमात्र एवानुगमने उत्पादनादि कार्यम्, निमित्तानन्तरं नैमित्तिकस्यावश्यकर्तव्यत्वात् ॥ अन्ये तु– भार्यापत्योरुभयोरप्युपवासो न विकल्पः, स्वामित्वाविशेषात्, “पर्वसु चोभयोरुपवासः” (आप. ध.२-१-४.) इति स्मार्ते समुच्चयस्य दृष्टत्वाच्च । वाशब्दस्तु चार्थ इति । तेषामुपवासश्चान्यतरस्येत्येतावदेवालं सूत्रम् । अर्थादेव स्वामिनोरुभयोरप्युपवासो भविष्यति ॥ केचित् “उपवासश्चान्यतरस्य भार्यायाः पत्युर्वानुगते” इति सूत्रं छित्वा व्यवहितान्वयकल्पनया व्याचक्षते– अनुगतेऽग्नौ भार्यायाः पत्युश्चोपवासोऽन्यतरस्य वेति । अत्र प्रकृतेऽपि पुनरनुगत इति ग्रहणमधिकयत्नमन्तरेणैवंविधानां प्रासङ्गिकार्थता न स्यात्, किन्तु परमप्रकृतार्थतैवेति ज्ञापयितुमिति ॥१९॥
मूलम् ...{Loading}...
उपवासश्चान्यतरस्य भार्यायाः पत्युर्वा।
०५ २० अनुगतेऽपि वोत्तरया
०५ २० अनुगतेऽपि वोत्तरया ...{Loading}...
अनुगते ऽपि वोत्तरया +++(=अयाश्चाग्ने)+++ जुहुयान् नोपवसेत् +++(- प्रायश्चित्तं त्वत्राप्य् अस्त्य् एव)+++॥
१८ अयाश्चाग्नेऽस्यनभिशस्तीश्च सत्यमित्त्वमया ...{Loading}...
अ॒याश्+++(=एतुम् योग्यः, गमनशीलो वा)+++ चा॒ग्ने ऽस्य् अ॑नभिश॒स्तीश्च॑+++(=अनवद्यः)+++
स॒त्यम् इ॑त् त्वम् अ॒या अ॑सि ।
अय॑सा॒+++(=प्रतिगन्त्रा)+++ मन॑सा धृ॒तो॑
ऽयसा॑ ह॒व्यम् ऊ॑हिषे॒+++(=वहस्व)+++
ऽया नो॑ धेहि भेष॒जम् ।।+++(५)+++
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- The next (verse; M. I, 6, 1) is for putting the chariot (on which the young couple is to depart), in position;
हरदत्तः
उत्तरयर्चा “अयाश्चाग्ने” इत्येतया जुहुयात् आहुतिम् एकाम् ।
इयम् आहुतिस् +++(उपवास-)+++तन्त्र-वति न भवति ।
परिस्तरणाज्य-संस्कार-दर्वी-संमार्जनानि भवन्ति । अपि वेति वचनादेव वैकल्पिकत्वे सिद्धे उपवासप्रतिषेध इयमाहुतिरुपवासस्यैव प्रत्याम्नाया यथा स्यादिति । तेनेहापि सर्वप्रायश्चित्तहोमस्य समुच्चयो भवति । तदिदं प्रायश्चित्तमप्यपहरणादिनाग्निनाशेऽपि द्रष्टव्यम् । अस्यैवाग्नेर्बुद्धिपूर्वोत्सर्गे द्वादशाहादूर्ध्वं विच्छेदे च स्मृत्यन्तरे प्रायश्चित्तमुक्तम् । तत्राप्यग्निसंकार एतावानेव ॥२०॥
सुदर्शनः
अपि वा अग्नाव् अनुगते उत्तरया “अयाश्चाग्ने” इत्येतयाऽऽज्यं जुहुयान् नोपवसेत् । अनुगत इति पुनर्-वचनान् नष्टापहृतयोर् नायं विकल्पः, किन्तूपवास एव । अपि वेत्यनेनैव उपवासपक्षे व्यावृत्ते, नोपवसेद् इत्य् आरम्भाद् उपवास-मात्रेणैवायं विकल्पः - प्रायश्चित्तं त्वत्राप्य् अस्त्य् एव +++(5)+++॥२०॥
मूलम् ...{Loading}...
अनुगतेऽपि वोत्तरया जुहुयान्नोपवसेत्।
०५ २१ उत्तरा रथस्योत्तम्भनी
०५ २१ उत्तरा रथस्योत्तम्भनी ...{Loading}...
उत्तरा +++(=सत्येनोत्तभितेत्येषा )+++ रथस्योत्तम्भनी ॥
०१ सत्येनोत्तभिता भूमिस्सूर्येणोत्तभिता ...{Loading}...
०१ सत्येनोत्तभिता भूमिः ...{Loading}...
स॒त्येनोत्त॑भिता॒ भूमि॒स्
सूर्ये॒णोत्त॑भिता॒ द्यौः ।
ऋ॒तेना॑ऽऽदि॒त्यास् तिष्ठ॑न्ति
दि॒वि सोमो॒ अधि॑ श्रि॒तः ।+++(५)+++
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- With the next two (verses; M. I, 6, 2. 3), he puts the two animals to the chariot;
हरदत्तः
अथ दम्पत्योः प्रस्थाने विशेषधर्मा उपदिश्यन्ते । उत्तरा सत्येनोत्तभितेत्येषा । रथस्योत्तंभनी अनयर्चा रथस्योत्तम्भनं कर्तव्यमित्यर्थः । केन? वरेण, अधिकृतत्वात् ॥२१॥
सुदर्शनः
उत्तरा “सत्येनोत्तभिता” इत्येषा रथस्योत्तम्भनी उत्तम्भने करणमन्त्रः ॥२१॥
मूलम् ...{Loading}...
उत्तरा रथस्योत्तम्भनी।
०५ २२ वाहावुत्तराभ्यां युनक्ति
०५ २२ वाहावुत्तराभ्यां युनक्ति ...{Loading}...
वाहावुत्तराभ्यां +++(=युञ्जन्ति ब्रध्नं)+++ युनक्ति दक्षिणमग्रे ॥
०२ युञ्जन्ति ब्रद्ध्नम् ...{Loading}...
०१ युञ्जन्ति ब्रध्नमरुषं ...{Loading}...
यु॒ञ्जन्ति॑ ब्र॒द्ध्नम्+++(=महान्तम्)+++ अ॑रु॒षञ्+++(=गन्तारं)+++
चर॑न्त॒म् परि॑ त॒स्थुषः॑ ।
+++(यावद्)+++ रोच॑न्ते रोच॒ना दि॒वि ।+++(र५)+++
०३ योगेयोगे ...{Loading}...
०७ योगेयोगे तवस्तरं ...{Loading}...
+++(रथादि)+++योगे॑योगे त॒वस्+++(=गति[वत्])+++त॑र॒व्ँ
वाजे॑वाजे हवामहे ।
+++(वयं स्तोतृत्वेन)+++ सखा॑य॒+++(ः)+++ इन्द्र॑म् ऊ॒तये᳚ ।+++(५)+++
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- First the right one.
हरदत्तः
याभ्यामूह्यते रथः तौ वाहौ अश्वावनड्वाहौ वा । उत्तराभ्यां “युञ्जन्ति ब्रध्नं, “योगे योगे, इत्येताभ्यां युनक्ति युगधुरोेराबध्नाति । युञ्जन्तीति दक्षिणं, योगे योगे इत्युत्तरम् । केचिद् उभाभ्यामेकैकस्य योगमिच्छन्ति ॥२१॥ अर्थात् पश्चात् सव्यम् । प्रत्यङ्मुखत्वे च न सिध्यति वचनम् । अन्यत्र तथापवर्ग इत्येव सिद्धम् ॥२२॥
सुदर्शनः
उत्तराभ्यां “युञ्जन्ति ब्रध्नं” “योगे योगे” इति द्वाभ्यां अश्वावनड्वाहौ वा युगधुरोराबध्नाति । तयोश्च दक्षिणं वाहं पूर्वं युनक्ति । द्वाभ्यां द्वाभ्यामेकैकं, नैकैकया । अत्र च उत्तराभ्यामिति द्वन्द्वापवादेनैकशेषेण समभिव्याहृतयोजनक्रियापेक्षयेतरेतरयोगाभिहितयोर्द्वयोरपि मन्त्रयोस्सहितयोर्विनियोगात् “एकमन्त्राणि कर्माणि” (आप.प.१-४-१.) इत्यस्यापवादः । नन्वेवं द्वितीयस्य मन्त्रस्यादृष्टार्थता स्यात्? सत्यम्– तथापि, द्वाभ्यां द्वाभ्यामेकैकमिति परमाप्तभाष्यकारवचनादेकैकवाहयोजने सहितमन्त्रद्वयाचारः कृत्स्नदेशकालकर्तृव्याप्त इत्यनुमीयते ॥ २२ ॥
मूलम् ...{Loading}...
वाहावुत्तराभ्यां युनक्ति दक्षिणमग्रे।
०५ २३ आरोहतीमुत्तराभिरभिमन्त्रयते अथ
०५ २३ आरोहतीमुत्तराभिरभिमन्त्रयते अथ ...{Loading}...
आरोहतीमुत्तराभिरभिमन्त्रयते +++(=“सुकिंशुकमि"त्येवमादिभिः)+++ ॥
सु॒कि॒ꣳ॒शु॒क+++(पुष्प)+++ꣳ, +++(निर्माणेन)+++ श॑ल्म॒लिं, वि॒श्वरू॑प॒ꣳ॒,
हिर॑ण्य-वर्णꣳ, सु॒वृतꣳ॑, सुच॒क्रम् +++(रथम्)+++।
आरो॑ह वध्व् अ॒मृत॑स्य लो॒क२ꣳ +++(तत्सङ्केतत्वेन)+++
स्यो॒नं+++(=सुखं)+++ पत्ये॑ वह॒तुं+++(=स्त्रीधनं)+++ कृ॑णुष्व ।+++(४)+++
०५ उदुत्तरमारोहन्ती व्यस्यन्ती ...{Loading}...
उदु॑त्त॒रम् आ॒रोह॑न्ती
व्य॒स्यन्ती॑ पृतन्य॒तः+++(=योद्धुकामान्)+++ ।
मू॒र्द्धानं॒ पत्यु॒र् आ रो॑ह
प्र॒जया॑ च वि॒राड् भ॑व ।+++(५)+++
०६ सम्राज्ञी श्वशुरे ...{Loading}...
४६ सम्राज्ञी श्वशुरे ...{Loading}...
स॒म्राज्ञी॒ श्वशु॑रे भव
स॒म्राज्ञी॑ श्वश्रु॒वां भ॑व ।
नना॑न्दरि स॒म्राज्ञी॑ भव
स॒म्राज्ञी॒ अधि॑ दे॒वृषु॑ ।+++(५)+++
०७ स्नुषाणां श्वशुराणाम् ...{Loading}...
स्नु॒षाणा॒ꣳ॒ श्वशु॑राणां
प्र॒जाया॑श्च॒ धन॑स्य च ।
पती॑नाञ्च देवॄ॒णाञ्च॑
सजा॒तानां॑ वि॒राड् भ॑व ।+++(५)+++
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- When she mounts (the chariot), he recites over her the next (verses; M. I, 6, 4-7).
हरदत्तः
अथ तं रथं युक्तमारोहति वधूः । ताम् आरोहतीम् आरोहन्तीं उत्तराभिस्"सुकिंशुकम्” इत्येवमादिभिः अभिमन्त्रयते । इह बहुवचननिर्देशात् त्रिप्रभृति अनियमप्रसङ्गे मन्त्रलिङ्गाच्चतसृभिरिति नियमः । याने तूत्तंभनादि सर्वं भवति । अश्वपुरुषादिषु च अभिमन्त्रणादयः दम्पतीधर्मा भवन्तीत्त्युक्तम् । “सुचक्रम्” इति मन्त्रलिङ्गात् रथ एव मन्त्रा इत्येके । वधूप्रतिपादनपरत्वात् मन्त्रस्य रथलिङ्गत्वमर्थवाद इत्यन्ये ॥२३॥
सुदर्शनः
रथमारोहतिम् आरोहन्तीं वधूम् । नुमभावश्छान्दसः । “सुकिंशुकम्” इत्यादिभिश्चतसृभिर् अभिमन्त्रयते । रथमेवारोहन्तीं नाश्वादिम्; सुचक्रिमिति लिङ्गविरोधात् । “उदुत्तरम्” इति वा तिसृभिरश्वादिकमारोहन्तीमभि मन्त्रयते ॥२३॥
मूलम् ...{Loading}...
आरोहतीमुत्तराभिरभिमन्त्रयते।
०५ २४ सूत्रे
०५ २४ सूत्रे ...{Loading}...
+++(द्वे)+++ सूत्रे वर्त्मनोर् +++(=चक्रयोर्)+++ व्यवस्तृणात्त्य् +++(=तिर्यक्स्तृणाति)+++ उत्तरया +++(= नीललोहित इत्येतया)+++ नीलं दक्षिणस्यां लोहितमुत्तरस्याम् ॥
०८ नीललोहिते भवतः ...{Loading}...
नी॒ल॒लो॒हि॒ते +++(सूत्रे)+++ भ॑वतः
+++(एकतरेण?)+++ +++(कु)+++कृ॒त्या-स॒क्तिर् +++(दूरं)+++ व्य॑ज्यते ।
एध॑न्तेऽस्या ज्ञा॒तयः॒
+++(एकतरेण?)+++ पति॑र् ब॒न्धेषु॑ बद्ध्यते ।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- With the next (verse; M. I, 6, 8), he spreads out two threads in the wheel-tracks (in which the chariot is to go), a dark-blue one in the right (track), a red one in the left.
हरदत्तः
द्वे सूत्रे नीललोहिते रथस्य वर्त्मनोरुभयोर् भविष्यन्निर्देशोऽयं ययोर्वर्तिष्येते रथचक्रे तयोर्वत्मनोः । वर्तिन्योरिति युक्तं पठितुम् । तथा च दक्षिणस्यामुत्तरस्यामित्युत्तरत्र स्रीलिङ्गनिर्दशोऽवकल्पते । व्यवस्तृणाति विशब्दस्तिर्यगर्थे, तिर्यगवस्तृणाति । उत्तरया “नीललोहित” इत्येतया ॥२४॥ तयोस्सूत्रयोः यन्नीलं दक्षिणस्यां वर्त्मन्यां व्यवस्तृणाति ॥२५॥ उत्तरस्यामिति सव्यस्य चक्रस्य वर्त्मन्यामित्यर्थः । सूत्रे युगपत् गृहीत्वा सकृदेव मन्त्रुमक्त्वा व्यवस्तृणाति । सत्यपि देशभेदे मन्त्रलिङ्गात् ॥ अपर आह–देशभेदात् मन्त्राभ्यावृत्तिरिति । अभियानं तु सान्नाय्यकुम्भीवत् द्रष्टव्यम्–अप्रस्रेसाय यज्ञस्योऽखे उपदधाम्यहमिति । सूत्रव्यवस्तरणमश्वादिषु नास्ति रथसंबन्धात् ॥२६॥
सुदर्शनः
वर्त्मनोः वर्तन्योरित्यर्थपाठः । नीलं दक्षिणस्यामिति स्त्रीलिङ्गनिर्देशात् । रथस्य भाविन्योर्वर्तन्योः “नीललोहिते भवतः” इत्येतया द्वे सूत्रे व्यवस्तृणाति तिर्यक्स्तृणाति । एतच्च युगपत्, नीललोहिते भवत इति द्विवचनलिङ्गात् । तयोश्च सूत्रयोर् दक्षिणस्यां वर्तन्यां नीलं व्यवस्तृणाति, उत्तरस्यां च लोहितम् ॥२४॥
मूलम् ...{Loading}...
सूत्रे वर्त्मनोर्व्यवस्तृणात्युत्तरया नीलं दक्षिणस्यां लोहितमुत्तरस्याम् ।
०५ २५ ते उत्तराभिरभियाति
०५ २५ ते उत्तराभिरभियाति ...{Loading}...
ते ते उत्तराभिर् +++(= ये वध्वश्चन्द्रमित्येताभिः)+++ अभियाति +++(= उपरि गच्छति)+++ ॥
+++(ते सूत्रे उत्तराभिरभियाति)+++
०९ ये वद्ध्वश्चन्द्रम् ...{Loading}...
३१ ये वध्वश्चन्द्रं ...{Loading}...
ये व॒द्ध्वश् च॒न्द्रं+++(=आह्लादकं)+++ व॑ह॒तुं+++(=स्त्रीधनं)+++
यक्ष्मा॒ यन्ति॒ जना॒ꣳ॒ अनु॑ ।
पुन॒स् तान् य॒ज्ञिया॑ दे॒वा
नय॑न्तु॒ यत॒ आग॑ताः ।+++(र४)+++
१० मा विदन्परिपन्थिनो ...{Loading}...
३२ मा विदन्परिपन्थिनो ...{Loading}...
मा वि॑दन् परिप॒न्थिनो॒
य आ॒सीद॑न्ति॒ दम्प॑ती ।
सु॒गेभि॑र् दु॒र्गम् +++(तौ)+++ अती॑ता॒म्
अप॑ द्रा॒+++(द्रव)+++न्त्व् अरा॑तयः ।
११ सुगम् पन्थानमारुक्षमरिष्ट२म् ...{Loading}...
सु॒गं पन्था॑न॒म् आरु॑क्ष॒+++(ह)+++म्
अरि॑ष्ट२ꣳ स्वस्ति॒-वाह॑नम् ।
यस्मि॑न् वी॒रो न रिष्य॑त्य्,
अ॒न्येषां॑ वि॒न्दते॒ वसु॑ ॥ (6)
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- With the next (verses; M. I, 6, 9-11), he walks on these (threads).
हरदत्तः
ते सूत्रे अभियाति उपरियाति । उत्तराभिस्तिसृभिः ऋग्भिः ये वध्वश्चन्द्रमित्येताभिः तत्र रथेन गच्छन्नुपरियाति । मन्त्रास्त्वश्वादिगमनेऽपि वक्तव्याः गमनार्थत्वात्तेषां, नेत्यन्ये । मन्त्रलिङ्गात् त्रित्वनियमः । त्रयाणामन्ते गमनारम्भः ॥२५॥
सुदर्शनः
“ये वध्वश्चन्द्रम्” इति तिसृभिर्व्यवस्तीर्णे सूत्रे अभियाति उपरिगच्छति ॥२५॥
मूलम् ...{Loading}...
ते उत्तराभिरभियाति।
०५ २६ तीर्थस्थाणुचतुष्पथव्यतिक्रमे
०५ २६ तीर्थस्थाणुचतुष्पथव्यतिक्रमे ...{Loading}...
तीर्थ-स्थाणु+++(=गवां कण्डूयनार्थ निखातः स्तम्भः)+++-चतुष्पथव्यतिक्रमे चोत्तरां +++(=ता मन्दसाना)+++ जपेत् ॥
तीर्थादिव्यतिक्रमे जपः
०१ तामन्दसाना मनुषो ...{Loading}...
१३ ता मन्दसाना ...{Loading}...
ता+++(=तौ)+++ म॑न्दसा॒ना+++(=स्तूयमानौ)+++ मनु॑षो दुरो॒ण+++(=गृहे)+++
आ ध॒त्तꣳ र॒यिं द॒श-वी॑रं वच॒स्यवे॑+++(=वचनवते)+++ ।
कृ॒तं+++(=कुरुतं)+++ ती॒र्थꣳ सु॑-प्रपा॒णꣳ शु॑भस्-पती +++(अश्विनौ)+++,
स्था॒णुं प॑थे॒ष्ठाम् अप॑ दुर्म॒तिꣳ ह॑तम् ।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- And when they pass by bathing-places, posts, or cross-roads, let him murmur the next (verse; M. I, 6, 12).
हरदत्तः
अतीत्य गमनमतिक्रमः अतिक्रम एव व्यतिक्रमः, विशब्दोऽनर्थकः, यथोपाय एवाभ्युपाय इति । उत्तरामृचं जपेद्वरः तामन्दसानेत्येताम् । निमित्तावृत्तौ जपस्यावृत्तिः । च शब्दः प्रत्येकं जपसंबन्धार्थः । इतरथा त्रयाणामतिक्रमसन्निपाते जपः कार्यस्स्यात् मन्त्रलिङ्गात् । न च मन्त्रे तीर्थादयस्स्तूयन्ते । किंतर्ह्यश्विनौ, तेनैकातिक्रमणे इतरयोः श्रवणं व्यर्थं स्यादिति न चोदनीयं, तत्त्पदोद्धारो वा शङ्कनीयः ॥२६॥
सुदर्शनः
तीर्थं पुण्यनद्यादि । स्थाणुर्गवां कण्डूयनार्थं निखातः । चतुष्पथ; प्रसिद्धः । एतेषां व्यतिक्रमे “ता मन्दसाना” इत्येतां जपेत् । तीर्थादीनां चान्यतमव्यतिक्रमेऽपि कृत्स्नाया एव जपः, न त्वितरपदरहितायाः; यतो लिङ्गाच्छ्रुतिर्बलीयसी, “ऐन्द्र्या गार्हपत्यमुपतिष्ठते” इतिवत् । नन्वत्राचाराच्छ्रुतिरनुमेयेति न तया लिङ्गबाधो युक्तः । मैवम्, लिङ्गस्यात्र श्रुतिविहितशोषिविषयसापेक्षत्वात् । तत्र ह्यनुमेयश्रुतेर्दौर्बल्यं यत्रास्याः प्रत्यक्षश्रुत्यैव विरोधः । अतोऽनुमेयापि श्रुतिस्सापेक्षलिङ्गबाधिकैव । वृत्तिभेदस्तु तीर्थादिशब्दानां तत्तद्व्यतिक्रमे मन्त्रप्रयोगभेदादुपपद्यते । अतस्तीर्थव्यतिक्रमेऽपि स्थाणुपथशब्दौ दुर्मतिस्थानसामान्यात्तीर्थमेवाभिवदतः । एवं स्थाणुमितरौ । चतुष्पथमपीतरौ । यथेध्मसम्भरणमन्त्रे उपवेषमेक्षणधृष्टिशब्दा अग्निसंस्पर्शिकाष्ठमयत्वसामान्यात् इध्मदारूण्येवाभिवदन्ति । यथा वा जातकर्मण्युत्तराभ्यामभिमन्त्रणं, मूर्धन्यवघ्राणं, दक्षिणे कर्णे जापः, (आप. गृ. १५-१.) इत्यभिमन्त्रणावघ्राणजपानां जातसंस्कारक्रियासामान्यादभिजिघ्रामीत्यभिवदनम् । किञ्चात्राश्विनोः प्राधान्येन स्तूयमानत्वात् तत्सकाशात् तीर्थादिव्यतिक्रमोत्थदोषोपहतेः प्रार्थ्यमानत्वादविकृताया एव जपः । अपि च पदान्तरोद्धारे जगतीत्वभङ्गप्रसङ्गः । न्यायतस्तु जपमन्त्रो नार्थपरः अतो नात्र तीर्थादयोऽश्विनौ वा तात्पर्येणाभिधीयन्ते । तस्मात् सूपपादः कृत्स्नाया एव जपः । एष एव न्यायो नदीनां धन्वनां च व्यतिक्रमे ॥२६॥
मूलम् ...{Loading}...
तीर्थस्थाणुचतुष्पथव्यतिक्रमे चोत्तरां जपेत्।
०६ ०१ नावमुत्तरयाऽनुमन्त्रयते अथ
०६ ०१ नावमुत्तरयाऽनुमन्त्रयते अथ ...{Loading}...
नावम् उत्तरयानुमन्त्रयते +++(=अयं नो मह्याः पारं स्वस्ति)+++ ॥
०२ अयन्नो मह्याः ...{Loading}...
अ॒यन् नो॑ म॒ह्याः+++(=महत्याः [नद्याः])+++ पा॒र२ꣳ
स्व॒स्ति ने॑ष॒द् वन॒स्पतिः॑ ।
सीरा॑+++(=नदि!)+++ नस् सु॒तरा॑ भव
दीर्घायु॒त्वाय॒ वर्च॑से ।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- The next (verse; M. I, 6, 13), he recites over a boat (with which they are going to cross a river).
हरदत्तः
अथ यदि पथि नावा तार्या नदी वापी वा स्यात्तत्र नावम् उत्तरयर्चा “अयं नो मह्याः पारं स्वस्ति” इत्येतया अनुमन्त्रयते अनुमन्त्रयेतेत्यर्थः । पृष्ठतः स्थित्वा अनुवीक्ष्य मन्त्रोच्चारणमनुमन्त्रणम् । कृतेऽनुमन्त्रणे वरो वधूश्च तामारोहतः ॥१॥
सुदर्शनः
यदि पथि नदी नावा तरितव्या स्यात्, तदा वरः “अयं नो मह्याः पारम्” इत्येतया नावमनुमन्त्रयते । ततस्तामुभावग्निना सहारोहतः ॥१॥
मूलम् ...{Loading}...
नावमुत्तरयाऽनुमन्त्रयते।
०६ ०२ न च
०६ ०२ न च ...{Loading}...
न च नाव्यांस् +++(=तरयितॄन्)+++ तरती वधूः पश्येत् ॥
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- And let the wife, when she is crossing, not see the crew.
हरदत्तः
ये नावं नयन्ति (ते) नावि भवा नाव्याः कैवर्ताः तान् तरती तरन्ती तरणकाल इत्यर्थः । स्त्रीलिङ्गनिर्देशादेव सिद्धे वधूग्रहणं दर्शनप्रतिषेधो वध्वा एव यथा स्यादिति । तेन तीर्त्वोत्तरां जपेदिति वरस्यैव भवति । चशब्दो वध्वा वरस्य च सहतरणप्रदर्शनार्थः । सहोभौ तरतः । वध्वास्त्वयं चापरो विशेष इति । केचित् नावा तार्या आपो नाव्या इति व्याचक्षते । तेषां पुंलिङ्गनिर्देशोऽनुपपन्नः ॥२॥
सुदर्शनः
नाव्यान् नौनेतॄन् कैवर्तान् । तरतीति छान्दसं रूपम् । तरन्ती तरणकाले । “लक्षणहेत्वोः क्रियायाः” (पा.सू. ३-२-१२६.) इति शत्रादेशः । वधूर्न पश्येत् । चकारात् वध्वास्तरणदर्शनप्रतिषेधश्च, वरस्य केवलं सह तरणमिति ज्ञापयति ॥२॥
मूलम् ...{Loading}...
न च नाव्यांस्तरती वधूः पश्येत् ।
०६ ०३ तीर्त्वोत्तराञ् जपेत्
०६ ०३ तीर्त्वोत्तराञ् जपेत् ...{Loading}...
तीर्त्वोत्तरां +++(=अस्य पारः)+++ जपेत् ॥
०३ अस्य पारे ...{Loading}...
+++(तीर्त्वा जपः)+++
अ॒स्य॒ +++(नद्यादेः)+++ पा॒रे +++(तीरे)+++ नि॑र्ऋ॒तस्य॑+++(=निस्तरितस्य)+++
जी॒वा ज्योति॑र् अशीमहि ।
म॒ह्या+++(=महत्यै)+++ इ॑न्द्रस् स्व॒स्तये॑ +++(ऽस्तु)+++।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- When they have crossed, let him murmur the next (verse; M. I, 6, 14).
हरदत्तः
तीर्त्वा पारं प्राप्य उत्तराम् ऋचं “अस्य पार” इत्येतां जपेद्वरः । यदि नदी न भवति तदा या ओषधय इत्येतामपि जपेत् । नदीनां धन्वनाञ्च व्यतिक्रमे इति वक्ष्यति ॥३॥
सुदर्शनः
पारं प्राप्य “अस्य पारे” इत्येतां वर एव जपेत् ॥३॥
मूलम् ...{Loading}...
तीर्त्वोत्तरां जपेत्।
०६ ०४ श्मशानादिव्यतिक्रमे भाण्डे
०६ ०४ श्मशानादिव्यतिक्रमे भाण्डे ...{Loading}...
श्मशानाधिव्यातिक्रमे भाण्डे रथे वा रिष्टे ऽग्नेरुपसमाधानाद्याज्यभागान्ते ऽन्वारब्धायाम् उत्तरा आहुतीर् +++(= “यदृतेचिद्” इत्याद्यास्सप्त)+++ हुत्वा जयादि प्रतिपद्यते, परिषेचनान्तं करोति ॥
०४ यदृतेचिदभिश्रिषः पुरा ...{Loading}...
यद् ऋ॒ते-चि॑द् अभि॒श्रि+++(श्लि)+++षः॑
पु॒रा ज॒र्तृ+++(तु)+++भ्य॑ आ॒तृदः॑+++(=दृढीकुर्वन्ति)+++ ।
सन्धा॑ता स॒न्धिं म॒घवा॑ पुरो॒वसु॒र्+++(=बहुधनः)+++,
निष्+++(=संस्)+++क॑र्ता॒ विहृ॑+++(ह्रु)+++तं॒+++(=विनष्टं)+++ पुनः॑ । +++(स्वाहा॑!)+++
०५ इडामग्न ...{Loading}...
इडा॑म्+++(=अन्नम्)+++ अग्ने पुरु॒दꣳसꣳ॑+++(=बहुदर्शनीयं)+++
स॒निङ् गोश् श॑श्वत्त॒मꣳ हव॑म् आनाय साध+++(य)+++ ।
स्यान् न॑स् सू॒+++(सु)+++नुस् तन॑यो+++(=पौत्रः)+++
वि॒जावा+++(विजनक)+++ ऽग्ने॒ सा ते॑ सुम॒तिर् भू᳚त्व् अ॒स्मे+++(=स्मासु)+++ ।
१९ इमं मे ...{Loading}...
इ॒मं मे॑ वरुण श्रुधी॒ +++(=श्रुणु)+++
हव॑म्+++(=आह्वानम्)+++ अ॒द्या च॑ मृळय +++(=सुखय)+++।
त्वाम् अ॑व॒स्युर् आ च॑के +++(=अवदन्)+++॥
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- If they have to pass over a cemetery, or if any article (which they carry with them), or their chariot is damaged, the ceremonies from the putting of wood on the fire down to the Ājyabhāga oblations are performed, and while she takes hold of him, he offers the oblations (indicated by the) next (Mantras; M. I, 7, 1-7), then he enters upon the performance of the Jaya and following oblations, and performs (the rites) down to the sprinkling (of water) round (the fire).
हरदत्तः
श्मशानभूमेरध्युपरि व्यतिक्रमे भाण्डे भाजनादौ रथे वा रिष्टे नष्टे रथ इति प्रदर्शनमन्येषु चैवंप्रकारेषु दुर्निमित्तेषु वक्ष्यमाणहोमः कार्यः । तत्राग्नेरुपसमाधानादि तन्त्रं प्रतिपद्यते । अधिशब्दप्रयोगाच्छ्मशानभूमेरुपरि गमन एवैतत् भवति । तीर्थादीनां तु समीपेनातिक्रमेऽपि भवति ॥४॥ उत्तरा आहुतीर्जुहोति । “यदृतेचि"दित्याद्यास्सप्त उत्तरमन्त्रैरेतैराहुतीर्जुहोतीत्यर्थः । मन्त्रलिङ्गात् सप्तनियमः । हुत्वा जयादितन्त्रशेषं प्रतिपद्यते । सकृत् पात्रप्रयोगः । शम्याः परिध्यर्थे । अग्नेरुपसमाधानादि वचनं तन्त्रप्राप्त्यर्थं, आज्यभागान्तवचनमन्वारम्भकालोपदेशार्थम् । “जयादि प्रतिपद्यत” इत्येतच्चान्वारम्भनिवृत्त्यर्थम् । तथा जयादि यथासिद्धं प्रतिपद्यत इति ॥५॥ यदिदमग्नेरुपसमाधानादि परिषेचनान्तं कर्म तदनन्तरं नैमित्तिकमुक्तं तत्करोति । सकृदेव, न पुनः पुनरित्यर्थः । अनन्तरोक्तानां निमित्तानां देशकालभेदेनावृत्तावपि सकृदोवान्तेऽयं होमो भवतीत्यर्थः ॥६॥
सुदर्शनः
श्मशानाधिव्यतिक्रमे श्मशानभूमेरुपरि व्यतिक्रमे, भाण्डे वधूभूषणादौ रथे वा रिष्टे नष्टे, अग्नेरुपसमाधानादि परिषेचनान्तं करोति । केवलाज्यहविष्षु न वचनाभावे तन्त्रमित्युक्तमेव । आज्यभागान्त इति त्वन्वारम्भकालविध्यर्थम् । उत्तराः “यदृते चिदभिश्रिषः” इति सप्तकरणिका आहुतीः । शेषं व्यक्तम् ॥४॥
मूलम् ...{Loading}...
श्मशानादिव्यतिक्रमे भाण्डे रथे वा रिष्टेऽग्नेरुपसमाधानाद्याज्यभागान्ते ऽन्वारब्धायामुत्तरा आहुतीर्हुत्वा जयादि प्रतिपद्यते परिषेचनान्तं करोति ।
०६ ०५ क्षीरिणामन्येषां वा
०६ ०५ क्षीरिणामन्येषां वा ...{Loading}...
+++(“सकृदेव, न पुनः पुनरित्यर्थः” इति हरदत्तः।)+++ क्षीरिणाम् अन्येषां वा लक्ष्मण्यानां +++(= प्रसिद्धानां सीमावृक्षणामित्यर्थः)+++ वृक्षाणां नदीनां धन्वनां +++(=दीर्घाण्यरण्यानि येषु ग्राम्याः पशवो न निवसन्ति)+++ च व्यतिक्रम उत्तरे +++(=“ये गन्धर्वाः” इति वृक्षाणां व्यतिक्रमे,“या ओषधयः” इति नदीनां धन्वनाम् ।)+++ यथालिङ्गं जपेत्॥
११ ये गन्धर्वा ...{Loading}...
ये ग॑न्ध॒र्वा अ॑प्स॒रस॑श् च दे॒वीर्
ए॒षु वृ॒क्षेषु॑ वानस्प॒त्येष् आस॑ते ।
शि॒वास् ते अ॒स्यै व॒द्ध्वै॑ भवन्तु॒
मा हिꣳ॑सिषुर् वह॒तुम्+++(=स्त्रीधनम्)+++ ऊ॒ह्यमा॑नाम् ।
नद्याद्यतिक्रमे जपः
१२ या ओषधयो ...{Loading}...
या ओष॑धयो॒ या न॒द्यो॑
यानि॒ धन्वा॑नि॒+++(=निर्जलस्थानानि)+++ ये वना॑ ।
ते त्वा॑ वधु प्र॒जाव॑तीं॒
प्र त्वे+++(=त्वां)+++ मु॑ञ्च॒न्त्व् अꣳह॑सः ।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- If they pass by trees with milky sap or by other trees that serve as marks, by rivers or by deserts, he should murmur the next two (verses; M. I, 7, 8. 9), according to the characteristics in them (which refer to these different cases).
हरदत्तः
क्षीरिणां न्यग्रोधादीनामलक्ष्मण्यानाम्, अन्येषामपि लक्षण्यानां लक्षणयुक्तानां प्रसिद्धानां सीमावृक्षणामित्यर्थः । लक्ष्मण्यानामित्यपि पाठे अयमेवार्थः । नदीनां सोदकानां अनुदकानाञ्च । धन्वनां निर्जलानामरण्यानाञ्च व्यतिक्रमे उत्तरे ऋचौ यथालिङ्गं यस्य लिङ्गं यस्यां दृश्यते तद्व्यतिक्रमे तां जपेत् । तत्र वृक्षातिक्रमे ये गन्धर्वा इति, नद्यतिक्रमे या ओषधय इति, धन्वातिक्रमे यानि धन्वानीति । यथालिङ्गवचनं उभयत्रोभे मा भूदिति । नद्यतिक्रमेऽपि कृत्स्ना भवति । तथा धन्वातिक्रमेऽपि ॥५॥
सुदर्शनः
क्षीरिणः क्षीरवन्तः प्लक्षन्यग्रोधादयः लक्ष्म चिह्नं तत्र भवाः लक्ष्मण्याः दुर्गा तिन्त्रिणिका सीमाकदम्बा इत्येवमादयः । नद्यः प्रसिद्धाः धन्वानो दीर्घाण्यरण्यानि येषु ग्राम्याः पशवो न निवसन्ति । एतेषां व्यतिक्रमे उत्तरे यथालिङ्गं जपेत् । “ये गन्धर्वाः” इति वृक्षाणां व्यतिक्रमे, “या ओषधयः” इति नदीनां धन्वनाम् । यथालिङ्गमिति वचनं जातकर्मवन्मा भूदिति । क्षीरिणामित्यादि बहुत्वमविवक्षितम्, निमित्तगतत्वात्, हविरुभयत्ववत् ॥५॥
मूलम् ...{Loading}...
क्षीरिणामन्येषां वा लक्ष्मण्यानां वृक्षाणां नदीनां धन्वनां च व्यतिक्रम उत्तरे यथालिङ्गं जपेत् ।
०६ ०६ गृहानुत्तरया सङ्काशयति
०६ ०६ गृहानुत्तरया सङ्काशयति ...{Loading}...
+++(ज्ञातिधनसंयुक्तान् )+++ गृहान् उत्तरया +++(=“सङ्काशयामि” इत्यनया)+++ सङ्काशयति +++(=दर्शयति)+++॥
+++(गृहानुत्तरया संकाशयति, तत्र वहतुः पूर्वं प्रापयितव्यः।)+++
१३ सङ्काशयामि वहतुम् ...{Loading}...
संका॑शयामि+++(=प्रदर्शयामि)+++ वह॒तुं+++(=स्त्रीधनं)+++ ब्रह्म॑णा
गृ॒हैर् +++(सह)+++ अघो॑रेण॒ चक्षु॑षा॒ मैत्रे॑ण ।
+++(आभरणादिकम्)+++ प॒र्या-ण॑द्धं वि॒श्वरू॑पं॒ यद् अ॒स्याꣳ
स्यो॒नं पति॑भ्यस्+++(=पत्यादिभ्यः)+++ सवि॒ता कृ॑णोतु॒ तत् ।+++(र४)+++
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- With the next (verse) he shows her the house(M. I, 7, 10).
हरदत्तः
अथ स्वं गृहं प्राप्य रथादवरोप्य यद्धनं तस्या वहतुत्वेनागतं तच्च गृहान् प्रपाद्य ततस्तया तान् सङ्काशयति सम्यगीक्षयति उत्तरयर्चा सङ्काशयामीत्येतया । मन्त्रश्चास्मिन्नर्थे यथाकथञ्चित् योजनीयः । सङ्काशयामि दर्शयामि वहतुं वध्वाः पितृकुलादानीतं धनं ब्रह्मणा मैत्रेण अघोरेण चक्षुषा न केवलमघोरेण, किं तर्हि मैत्रेण गृहैर्मदीयैस्सार्धं गृहं च मदीयमित्यर्थः । अस्यां पर्याणद्धं विश्वरूपाख्यं यदाभरणं तत् परिभ्यः एकस्मिन् बहुवचनम् । पत्यै मह्यं स्योनं मुखम् । सविता करोत्विति ॥६॥
सुदर्शनः
वरः स्वगृहान् ज्ञातिधनसंयुक्तान् वधूं"सङ्काशयामि” इति ऋचा सङ्काशयति दर्शयति । ननु–यद्यपि समित्युपसर्गः “समवदाय दोहाभ्यां” (आप.श्रौ.२-२०-३.) इत्यादौ सहार्थे दृष्टः, तथापि गृहाणां ज्ञातिधनसहितत्वमेवात्राभिप्रेतमिति कुतो निश्चीयते? उच्यते– “सङ्काशयामि वहतुम्” इति मन्त्रलिङ्गानुसारात् । मन्त्रार्थश्च भाष्योक्तः ॥६॥
मूलम् ...{Loading}...
गृहानुत्तरया सङ्काशयति ।
०६ ०७ वाहावुत्तराभ्यां विमुञ्चति
०६ ०७ वाहावुत्तराभ्यां विमुञ्चति ...{Loading}...
वाहावुत्तराभ्यां +++(“आवामगन्” इति द्वाभ्याम्)+++ विमुञ्चति दक्षिणमग्रे।
+++(वाहौ विमुञ्चति)+++
१४ आ वामगन्त्सुमतिर्वाजिनी ...{Loading}...
१२ आ वामगन्त्सुमतिर्वाजिनीवसू ...{Loading}...
आ वा॑म् अगन्त् सुम॒तिर्, वा॑जिनी+++(=अश्वी)+++वसू॒
न्य् +++(हे)+++ अश्वि॑ना, हृ॒त्सु +++(गृहप्राप्ति)+++कामाꣳ॑ अयꣳसत+++(=नियती कृताः)+++ ।
अभू॑तङ् गो॒पा मि॑थु॒ना शु॑भस्पती
प्रि॒या अ॑र्य॒म्णो दुर्याꣳ॑+++(=गृहान्)+++ अशीमहि+++(=प्रविशेम)+++ ।
१५ अयन्नो देवस्सविता ...{Loading}...
+++(वाह!)+++ अ॒यन् नो॑ दे॒वस् स॑वि॒ता बृह॒स्पति॑र्
इन्द्रा॒ग्नी मि॒त्रावरु॑णा स्व॒स्तये॑ ।
त्वष्टा॒ विष्णुः॑ प्र॒जया॑ सꣳररा॒णः+++(=सन्ददानः)+++
काम॒+++(य्)+++ आया॑तं॒ कामा॑य त्वा॒ विमु॑ञ्चतु ॥ (7)
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- With the next two (verses; M. I, 7, 11. 12) he unyokes the two animals; the right one first.
हरदत्तः
उत्तराभ्यां आवामगन् “अयं नो देवस्सविता” इत्येताभ्याम् । योगवदेकैकेन मन्त्रेण विमोकः ॥९॥ अर्थात् सव्यं पश्चात् ॥१०॥
सुदर्शनः
“आवामगन्” इति द्वाभ्यामेकैकं वाहं विमुञ्चति ॥७॥
मूलम् ...{Loading}...
वाहावुत्तराभ्यां विमुञ्चति दक्षिणमग्रे।
०६ ०८ लोहितञ् चर्मानडुहम्
०६ ०८ लोहितञ् चर्मानडुहम् ...{Loading}...
लोहितं चर्माऽऽनडुहं प्राचीनग्रीवम् उत्तर+++(=ऊर्ध्व)+++लोमम् मध्येऽगारस्योत्तरया +++(=“शर्मा वर्मे"त्येतया)+++ ऽऽस्तीर्य, गृहान् प्रपादयन्न् उत्तरां +++(=“गृहान् भद्रान्”)+++ वाचयति, दक्षिणेन पदा +++(गृहान् प्रपादयन्)+++।
+++(चर्मास्तरणम्)+++
०१ शर्म वर्मेदमाहरास्यै ...{Loading}...
शर्म॒ वर्मे॒दम् आह॑रा॒+
ऽस्यै नार्या॑ उप॒स्तिरे॑+++(=उपस्तरणे)+++ ।
सिनी॑वालि॒+++(=शुक्लप्रथमाकला)+++ प्रजा॑यताम्
इ॒यं भग॑स्य सुम॒ताव् अ॑सत् ।
+++(गृहान् प्रपादयन् वधूं वाचयति)+++
०२ गृहान्भद्रान्त्सुमनसः प्रपद्येऽवीरघ्नी ...{Loading}...
गृ॒हान् भ॒द्रान्त् सु॒मन॑सः॒ प्रप॒द्ये
ऽवी॑रघ्नी वी॒रव॑तस् सु॒वीरान्॑ ।
इरां॒+++(=अन्नं)+++ वह॑तो घृ॒तम् +++(प्र+)+++उ॒क्षमा॑णा॒स्
तेष्व् अ॒हꣳ सु॒मना॒स् सं वि॑शामि ।+++(र५)+++
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- Having, with the next (verse; M. I, 8, 1), spread out, in the centre of the house, a red bull’s skin with the neck to the east, with the hair up, he causes her to recite the next (verse; M. I, 8, 2), while he makes her enter the house, (which she does) with her right foot.
हरदत्तः
विमुच्य वाहौ वरः पूर्वं गृहं स्वयं प्रविश्य यत्र दम्पत्योर्वासः तत्रागारस्य मध्ये चर्मास्तृणाति उत्तरयर्चा “शर्म वर्मे"त्येतया तच्चानडुहं भवति लोहितञ्च वर्णेन । प्राचीनमुत्तरलोमेत्यास्तरणे प्रकारः । आस्तीर्य ततो दक्षिणेन पदा गृहान् प्रपादयति । वधूं प्रवेशयति । प्रपादयंस्तामुत्तरामृचं वाचयति “गृहान्” इत्येताम् । “गृहानि"ति प्रकृते पुनर्गृहानित्युच्यते– हतरथा अगारस्यापि प्रकृतत्वात् प्रवेशने मन्त्रः शंक्येत । इदमेव ज्ञापकमन्तरगारमध्ये चर्मास्तरणमिति । प्रपादयन् वाचयतीति वचनान्मन्त्रकर्मणोरादिसंयोगः । न मन्त्रान्ते प्रदानम् ॥०८॥
सुदर्शनः
ततो वरः पूर्वं स्वगृहान् प्रविश्य “शर्म वर्म” इत्येतया यथासूत्रं चर्मास्तीर्य ततो वधूं दक्षिणेन पदा गृहान् प्रपादयन् प्रवेशयन् “गृहान् भद्रान्” इत्येतां वाचयति ॥०८॥
मूलम् ...{Loading}...
लोहितं चर्मानडुहं प्राचीनग्रीवमुत्तरलोम मध्येऽगारस्योत्तरयाऽऽस्तीर्य गृहान् प्रपादयन्नुत्तरां वाचयति दक्षिणेन पदा।
०६ ०९ न च
०६ ०९ न च ...{Loading}...
न च देहलीमभि+++(धि)+++तिष्ठति।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- And she does not stand on the threshold.
हरदत्तः
देहलीनामद्वाराधस्ताद्दारु । पर्यन्तवेदिकेत्यपरे । तां प्रपादनकाले स्वयं सा च नातिक्रामेदित्यर्थः । तयोः प्रपन्नयोरग्निमनुप्रपादयति ॥१२॥ प्रपद्य गृहान् अथ तत्कालमशनमश्नीयात्; ततो यस्मिन्नगारे चर्मास्तरणं तस्योत्तरपूर्वदेशे विवाहाग्निं प्रतिष्ठाप्याग्नेरुपसमाधानादि तन्त्रं प्रतिपद्यते । सकृत् पात्राणि शम्याः परिध्यर्थे ॥९॥
सुदर्शनः
सा च प्रविशन्ती देहलीं नाभितिष्ठति । केचित् चकाराद्वरोऽपि–इति ॥९॥
मूलम् ...{Loading}...
न च देहलीमभि तिष्ठति।
०६ १० उत्तरपूर्वे
०६ १० उत्तरपूर्वे ...{Loading}...
उत्तरपूर्वे देशे ऽगारस्याग्नेर् उपसमाधानाद्याज्यभागान्ते ऽन्वारब्धायाम् उत्तरा +++(=“आगन्गोष्ठ"मित्याद्याः, लिङ्गविरोधे सत्यपि वर एव जुहोति, विधेर्बलीयस्त्वात् )+++ आहुतीर् हुत्वा जयादि प्रतिपद्यते
०३ आगन्गोष्ठम् महिषी ...{Loading}...
आग॑न् गो॒ष्ठं महि॑षी॒ गोभि॒र् अश्वै॒र्
आयु॑ष्मत्पत्नी, प्र॒जया॑ स्व॒र्वित् +++(यतो “नापुत्रस्य लोकोस्ति”)+++।
ब॒ह्वीं प्र॒जाञ् ज॒नय॑न्ती सुरत्ने॒-
-मम् अ॒ग्निꣳ श॒त-हि॑मास् +++(शतवर्षाणि)+++ सपर्यात्+++(=परिचरतु)+++ ।
+++(पुरा हिमवदृतुभिर् वर्षाणि गण्यन्ते स्मेति विस्मयः।)+++
०४ अयमग्निर्गृहपतिस्सुसंसत्पुष्टिवर्द्धनः ...{Loading}...
अ॒यम् अ॒ग्निर् गृ॒ह-प॑तिस्+++(!)+++
सुस॒ꣳ॒सत्+++(=शोभनसदनः)+++ पु॑ष्टि॒वर्द्ध॑नः ।
यथा॒ भग॑स्या॒+++(=भगाय)+++ऽऽभ्यां दद॑द्
र॒यिं पुष्टि॒म् अथो॑ प्र॒जाम् ।
०५ प्रजाया आभ्याम् ...{Loading}...
प्र॒जाया॑ आभ्यां प्रजापत॒
इन्द्रा॑ग्नी॒ शर्म॑ यच्छतम् ।
यथैन॑यो॒र् न प्र॑मी॒याता॑+++(य्)+++
उ॒भयो॒र् जीव॑तोः प्र॒जा ।
०६ तेन भूतेन ...{Loading}...
मन्त्रः
०१ तेन भूतेन ...{Loading}...
तेन॑ भू॒तेन॑ ह॒विषा॒यमा प्या॑यतां॒ पुनः॑।
जा॒यां याम॑स्मा॒ आवा॑क्षु॒स्तां रसे॑ना॒भि व॑र्धताम् ॥
०७ अभिवर्द्धताम् पयसाऽभि ...{Loading}...
अ॒भिव॑र्द्धतां॒ पय॑सा॒
ऽभि रा॒ष्ट्रेण॑ वर्द्धताम् ।
र॒य्या स॒हस्र॑पोषसे॒-
मौ स्ता॒म् अन॑पेक्षितौ ।+++(र४)+++
०८ इहैव स्तम् ...{Loading}...
इ॒हैव स्तं॒ मा वियो॑ष्टं॒
विश्व॒म् आयु॒र् व्य॑श्नुतम् ।
म॒ह्या+++(य्)+++ इ॑न्द्रस् स्व॒स्तये॑ +++(ऽस्तु)+++ ।+++(र४)+++
०९ ध्रुवैधि पोष्या ...{Loading}...
ध्रु॒वैधि पो॑ष्या॒ मयि॒
मह्य॑न् त्वा ऽदा॒द् बृह॒स्पतिः॑ ।
मया॒ पत्या॑ प्र॒जाव॑ती॒
सं जी॑व श॒रद॑श्श॒तम् ।+++(र४)+++
१० त्वष्टा जायामजनयत् ...{Loading}...
त्वष्टा॑ जा॒याम् अ॑जनय॒त्
+++(“त्वष्टा रुपाणि पिंशतु” इति गर्भाधाने)+++
त्वष्टा॑ ऽस्यै॒+++(स्याः)+++ त्वां पति॑म् ।
त्वष्टा॑ स॒हस्र॒म् आयूꣳ॑षि
दी॒र्घम् आयुः॑ कृणोतु वाम् ।
१९ इमं मे ...{Loading}...
इ॒मं मे॑ वरुण श्रुधी॒ +++(=श्रुणु)+++
हव॑म्+++(=आह्वानम्)+++ अ॒द्या च॑ मृळय +++(=सुखय)+++।
त्वाम् अ॑व॒स्युर् आ च॑के +++(=अवदन्)+++॥
इति श्रीहरदत्तविरचिते एकाग्निकाण्डमन्त्रव्याख्याने अष्टमः खण्डः ॥
उपवेषनम्
परिषेचनान्तं कृत्वोत्तरया +++(=इह गावः प्रजायध्वम्)+++ चर्मण्युपविशत उत्तरो वरः +++(प्राङ्मुखौ)+++ ।
+++(उत्तरया चर्मण्युपविशतः। आमन्त्रितनिघातः छान्दसत्वान्नभवति ।)+++
०१ इह गावः ...{Loading}...
इ॒ह गावः॒ प्रजा॑यद्ध्वम्
इ॒हाश्वा॑ इ॒ह पूरु॑षाः ।
इ॒हो+++(ह+उ)+++ स॒हस्र॑-दक्षिणो
रा॒यस्पोषो॒ निषी॑दतु ।+++(र५)+++
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- In the north-east part of the house the ceremonies from the putting of wood on the fire down to the Ājyabhāga oblations are performed, and while she takes hold of him, he offers the oblations (indicated by the) next (Mantras; M. I, 8, 3-15); then he enters upon the performance of the Gaya and following oblations, and performs (the rites) down to the sprinkling (of water) round (the fire). Then they sit down with the next (verse; M. I, 9, 1) on the skin, the bridegroom to the north.
हरदत्तः
उत्तरास्त्रयोदशप्रधानाहुतीः “आगन्गोष्ठम्” इत्याद्याः लिङ्गविरोधे सत्यपि वर एव जुहोति, विधेर्बलीयस्त्वात् । भवति लिङ्गञ्चाविवक्षितम् । देवतास्मरणार्थत्वात् मन्त्राणाम् । उत्तरो वर इत्ययं विशेषः सर्वेषु होमेषु भवतीत्युक्तम् । उत्तरपूर्वदेशेगारस्येति विधिरग्नेस्सर्वत्र वेदितव्यः ॥१४॥ उत्तरयर्चा “इह गावः प्रजायध्वम्” इत्येतया । तदुपविशतः परिषेचनान्तवचनमानन्तर्यार्थं परिषेचनानन्तरमेवोपवेशनं कर्तव्यं नान्यदिति । तेन भोजनं प्रागेवेति सिद्धम् । तत्रोपवेशने मन्त्र उभयोरपि भवति । इहाग्निसम्बन्धाभावात् उत्तरो वर इत्युक्तम् । प्राङ्मुखौ चोपविशतः ॥१५॥
सुदर्शनः
उत्तराः “आगन् गोष्ठम्” इत्यादित्रयोदशाहुतीः । उत्तरया “इह गावः प्रजायध्वम्” इत्येतया । पूर्वमास्तीर्णे चर्मण्युपविशतः । पूर्ववदुत्तर एव वरः ॥१०॥
मूलम् ...{Loading}...
उत्तरपूर्वे देशेऽगारस्याग्नेरुपसमाधानाद्याज्यभागान्तेऽन्वारब्धायामुत्तरा आहुतीर्हुत्वा जयादि प्रतिपद्यते परिषेचनान्तं कृत्वोत्तरया चर्मण्युपविशत उत्तरो वरः ।
०६ ११ अथास्याः पुँस्वोर्जीवपुत्रायाः
०६ ११ अथास्याः पुँस्वोर्जीवपुत्रायाः ...{Loading}...
अथास्याः पुंस्वो +++(=या पुमांसमेव सूते न स्त्रियं सा )+++ जीवपुत्रायाः पुत्रमङ्क उत्तरयोपवेश्य +++(=“सोमेनादित्या”)+++ तस्मै फलान्युत्तरेण +++(=प्रस्वस्थः प्रेयः)+++ यजुषा प्रदायोत्तरे +++(=“इह प्रियं प्रजयाः”)+++ जपित्वा वाचं यच्छत +++(=मौनमाचरतः)+++ आ नक्षत्रेभ्यः ॥
+++(अथ या पुमांसमेव सूतवती जीवपुत्रा च, तस्याः पुत्रं वध्वा अङ्के उपवेशयति।)+++
०२ सोमेनादित्या बलिनस्सोमेन ...{Loading}...
सोमे॑नादि॒त्या ब॒लिन॒स्
सोमे॑न पृथि॒वी दृ॒ढा ।
अथो॒ नक्ष॑त्राणाम् ए॒षाम्
उ॒पस्थे॒ सोम॒ आधि॑+++(हि)+++तः।
+++(तस्मै फलानि प्रयच्छति)+++
०३ प्र स्वस्स्थः ...{Loading}...
मन्त्रः
+++(हे फलानि!)+++ प्र स्वस्+++(=सूताः)+++ स्थः॒,
प्रेयं प्र॒जया॒ भुव॑ने शोचेष्ट+++(=सोषीष्ट, √ सू)+++ ।
+++(उत्तरे जपति)+++
०४ इह प्रियम् ...{Loading}...
२७ इह प्रियं ...{Loading}...
इ॒ह प्रि॒यं प्र॒जया॑ ते॒ समृ॑ध्यताम॒स्मिन्गृ॒हे गार्ह॑पत्याय जागृहि ।
ए॒ना पत्या॑ त॒न्वं१॒॑ सं सृ॑ज॒स्वाधा॒ जिव्री॑ वि॒दथ॒मा व॑दाथः ॥
इ॒ह प्रि॒यं प्र॒जया॑ ते॒ समृ॑द्ध्यताम्,
अ॒स्मिन् गृ॒हे गार्ह॑पत्याय +++(भावाय)+++ जागृहि +++(अतिथीनामग्नीनां च सेवया)+++।
ए॒ना पत्या॑ त॒न्वꣳ॑ सꣳ सृ॑ज॒स्वा-
ऽथा॒ जीव्री॑+++(=जीर्णा)+++ वि॒दथ॒म्+++(=यज्ञं)+++ आ व॑दासि +++(पौत्रादिभ्यः)+++।
०५ सुमङ्गलीरियं वधूरिमाम् ...{Loading}...
३३ सुमङ्गलीरियं वधूरिमां ...{Loading}...
सु॒म॒ङ्ग॒लीर् इ॒यं व॒धूर्
इ॒माꣳ स॑मेत॒ पश्य॑त ।
सौभा॑ग्यम् अ॒स्यै द॒त्वाया+++(=दत्वा)+++-
ऽथाऽऽस्तं॒ +++(स्वस्वगृहाणि)+++ वि परे॑तन+++(=गच्छत)+++ ।+++(र४)+++
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- He then places with the next (verse; M. I, 9, 2), the son of a wife who has only sons and whose children are alive, in her lap, gives fruits to the (child) with the next Yajus (M. I, 9, 3), and murmurs the next ṭwo (verses; M. I, 9, 4-5). Then he (and his wife) observe silence until the stars appear.
हरदत्तः
या पुमांसमेव सूते न स्त्रियं सा पुंसूः” तस्याः पुंस्वः पुंस्वो जीवपुत्राया इति पाठः । न रेफः पाठ्यः, पठ्यमानो वा छान्दसो द्रष्टव्यः । जीवा एव पुत्रा यस्या न मृताः जीवपुत्रायाः जीवपत्या इति च द्रष्टव्यम् । तथा मङ्गलानीति । एवं भूतायास्त्रैवर्णिकस्त्रियाः पुत्रमपत्तरयर्चा “सोमेनादित्या” इत्येतया अस्या वध्वा अङ्क उपवेश्य तस्मै कुमाराय फलान्युत्तरेण यजुषा “प्रस्वस्थः प्रेयम्” इत्यनेन प्रदाय तत उत्तरे ऋचौ “इह प्रियं” “सुमङ्गलीः” इत्येते जपित्वा तत उभौ तस्मिन्नेव चर्मण्यासीनौ वाचं यच्छतः । आनक्षत्रेभ्यः नक्षत्राणामुदयादित्यर्थः । कुमारश्च फलानि गृहीत्वा यथार्थं गच्छति ॥११॥
सुदर्शनः
पुंस्वोः पुंस्वाः इत्यर्थपाठः । या पुंस एव सूते न स्त्रीरपि, या च सूत एव, न तु वन्ध्या सती क्रयादिना पुत्रवती, सा पुंसूः । जीवन्त एव पुत्राः पुमांसो यस्यास्सा जीवपुत्रा, न पुनः “भ्रातृपुत्रौ स्वसृदुहितृभ्याम्” (पा. १-२-६८.) इत्येकशेषवचनाद्यस्या दुहितरोऽपि जीवन्ति, पुत्रश्चैको जीवति, सापीह जीवपुत्रा विवक्षिता; पुंस्वोरिति विशेषणानुपपत्तेः । एवं भूतायाः पुत्रं “सोमेनादित्याः” इत्येतया वध्वा अङ्क उपवेश्य “प्र स्वस्थः” इति यजुषा पुत्राय फलानि कदल्यादीनि प्रदाय “इह प्रियं प्रजया” इति ऋचौ जपित्वा, उभौ वाचं यच्छतः । आनक्षत्रेभ्यः नक्षत्राणामोदयात् ॥११॥
मूलम् ...{Loading}...
अथास्याः पुँस्वोर्जीवपुत्रायाः पुत्रमङ्क उत्तरयोपवेश्य तस्मै फलान्युत्तरेण यजुषा प्रदायोत्तरे जपित्वा वाचं यच्छत आ नक्षत्रेभ्यः ।
०६ १२ उदितेषु नक्षत्रेषु
०६ १२ उदितेषु नक्षत्रेषु ...{Loading}...
उदितेषु नक्षत्रेषु प्राचीमुदीचीं वा दिशम् उपनिष्क्रम्योत्तराभ्यां +++(=ध्रुवक्षितिर् ध्रुवयोनिः)+++ यथालिङ्गं +++(=तेनोत्तरस्याम् ऋचि सर्वेषां सप्तर्षीणां कृत्तिकादिनाम् अरून्धत्याश्च सहदर्शनम्)+++ ध्रुवम् अरुन्धतीं च दर्शयति॥
+++(ध्रुवं दर्शयति)+++
०६ ध्रुवक्षितिर्द्ध्रुवयोनिर्द्ध्रुवमसि द्ध्रुवतस्स्थितम् ...{Loading}...
ध्रु॒व-क्षि॑तिर् ध्रु॒व-यो॑निर्
ध्रु॒वम् अ॑सि ध्रु॒वत॑स् स्थि॒तम् ।
त्वन् नक्ष॑त्राणां मे॒थ्य्+++(=खलेवाली, खले धान्य-पेषण-स्थाने वाल्यन्ते वृषा इति)+++ असि॒
+++(अन्यत्र ध्रुवसम्बन्धे मेढीकृत इति शब्दः प्रयुज्यते पुराणेषु।)+++
स मा॑ पाहि पृतन्य॒तः+++(=योद्धुकामात्)+++ ।
+++(अरुन्धतीं दर्शयति। ६ कृत्तिकाः + अरुन्धती = ७ कृत्तिकाः सप्तऋषिपन्त्यः। अरुन्धती स्थिरा, शिष्टास् त्यक्ताः शङ्कया।)+++
०७ सप्तऋषयः प्रथमाम् ...{Loading}...
स॒प्त॒ऋ॒षयः॑ प्रथ॒मां कृत्ति॑कानाम् अरुन्ध॒तीम् यद् ध्रु॒वता॒ꣳ॒ ह नि॒न्युः। षट्कृत्ति॑कामुख्ययो॒गं वह॑न्ति +++(तस्याम्)+++।
+++(वधूर्)+++ इयम् अ॒स्माक॑म् एधत्व् अष्ट॒मी ।+++(र५)+++
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- When the stars have appeared, he goes out (of the house with her) in an easterly or northerly direction, and shows her the polar star and (the star) Arundhatī with the next two verses (M. I, 9, 6-7), according to the characteristics (contained in those verses).
हरदत्तः
उदितेषु नक्षत्रेष्विति वचनात्ततः प्राक् तस्मिन्नेव चर्मणि वाग्यतयोरासनं पश्चादुपनिष्क्रमणम् । उदितेष्वित्येव सिद्धे नक्षत्रग्रहणं विस्पष्टार्थम् । उत्तराभ्यां “ध्रुवक्षिति” “सप्तर्षयः” इत्येताभ्याम् । उभयत्र मन्त्रेण दर्शनं वध्वाः कर्म, वरस्तु पश्यन् ध्रुवमिति निर्दिर्श्य पूर्वां वाचयति पश्चादरुन्धतीमित्त्युत्तराम् । ततो वाग्विसर्गः । मन्त्रलिङ्गादेव यथालिङ्गदर्शने सिद्धे यथालिङ्गवचनं विकल्पार्थम् । उत्तराभ्यां ध्रुवमरुन्धतीञ्च दर्शयति यथालिङ्गं वेति । तेनोत्तरस्यामृचि सर्वेषां सप्तर्षीणां कृत्तिकादीनामरुन्धत्याश्च सहदर्शनं वध्वाः कर्म पक्षे भवति, केवलमरुन्धत्या एव वा ॥१२॥
सुदर्शनः
उत्तराभ्यां “ध्रुवक्षितिर्ध्रुवयोनिः” इत्येताभ्यां यथालिङ्गं पूर्वया ध्रुवमुत्तरयाऽरुन्धतीं च दर्शयति वधूम् । यथालिङ्गमिति च जातकर्मवद् द्वाभ्यां द्वाभ्यामेकैकं मा भूदिति ॥ केचित्– यथालिङ्गमित्यत्र नास्ति, प्रयोक्तॄणां प्रमादात् प्रदेशान्तरदृष्टमिह सञ्चरितपठितमिति ॥ अपरे– उत्तराभ्यां यथाक्रमं ध्रुवमरुन्धतीं च दर्शयति; यथालिङ्गं वा इति भित्वा सूत्रं साध्याहारं व्याचक्षते । “सप्तऋषयः प्रथमाम्” इत्येतया सप्तऋषीन् कृत्तिका अरुन्धतीं च सह दर्शयति । अरुन्धतीमेव वेति विकल्पार्थं यथालिङ्गवचनमिति ॥१२॥
द्वितीये पटले सिद्धं यथाभाष्यं यथामति । कृतं सुदर्शनार्येण गृह्यतात्पर्यदर्शनम् ॥ इति श्रीसुदर्शनाचार्यकृते गृह्यतात्पर्यदर्शने षष्ठः खण्डः ॥ ॥ द्वितीयः पटलश्च समाप्तः ॥
मूलम् ...{Loading}...
उदितेषु नक्षत्रेषु प्राचीमुदीचीं वा दिशमुपनिष्क्रम्य उत्तराभ्यां यथालिङ्गं ध्रुवमरुन्धतीं च दर्शयति ।
०७ ०१ अथैनाम् आग्नेयेन
०७ ०१ अथैनाम् आग्नेयेन ...{Loading}...
अथैनाम् आग्नेयेन स्थालीपाकेन +++(वर ऋत्विग् इव)+++ याजयति +++(अथेति वचनादेतस्यामव रात्र्यां स्थालीपाको भवति ।)+++॥
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- 1 He then makes her offer the sacrifice of a Sthālīpāka sacred to Agni.
हरदत्तः
अथेति वचनाद् एतस्याम् एव रात्र्यां स्थालीपाको भवति ।
स्थाल्यां पच्यत इति स्थालीपाकः । तस्य देवताविधानं–आग्नेयेनेति ।
ननु–विधास्यते “अग्निर्देवता स्वाहाकारप्रदान” इति? सत्यम्, अपरम् अपि तत्र भवति – अग्नि-स्विष्टकृत् द्वितीय इति । ततश् च स एव यदि देवताविधिः स्यात् द्विदेवत्यम् इदं हविः स्यात् । ततश् च निर्वपण-काले ताभ्याम् उभाभ्यां सङ्कल्पः क्रियेत । यद्य् अपि वस्तुतो गुणभूतः स्विष्टकृद्-यागः, तथापि प्रधानवत् तत्र चोद्यते– “अग्नि-स्विष्टकृद्-द्वितीय” इति । ततश् च तस्मा अपि सङ्कल्पः क्रियेत । तस्मात् केवलोऽयमाग्नेयस्थालीपाक इति ।
(वक्तव्यम् । एवम् आग्नेयस्यैव प्रदानस्य) यद्य् अप्रत्तदैवतम् इत्येतत् प्रायश्चित्तं भवति । स्विष्टकृतस्तु प्रत्त-दैवमित्य् एतदेव ।
“एनां याजयती"ति वचनात् सहत्वम् उभयोर् अस्मिन् कर्मणि नास्ति । वध्वा एवेदं कर्म, वरस्य त्व् आर्त्विज्यम् एव । तेन यद् इदं स्थालीपाकरिवेषणं+++(??)+++ व्रीह्यादि-दक्षिणा च तत् वधूधनस्यैव भवति । यत्रैदम् उच्यते “पत्नी हि पारीणह्यस्येशे” इति (तै.सं.६-१-६.) ॥१॥
सुदर्शनः
ननु–“अथ पत्न्यवहन्ति” “श्रपयित्वा” इत्येतावद् एव वक्तव्यम् ; यत उत्तरत्र “अग्निर् देवता” (आप.गृ. ७-५.) इति विधानाद् आग्नेयत्वं सिद्धम्”, स्थालीपाकेनेति तु श्रपयित्वेति विधानात्, एनां याजयतीति चान्वारब्धायाम् इति विधानात् ; अतः किमर्थम् इदम् अधिकम् आरभ्यते “अथैनाम् आग्नेयेन स्थालीपाकेन याजयति” इति ?
उच्येते– सूत्रं तावद् ऋषि-प्रणीतं नानर्थकं भवितुम् अर्हति । तेन लोके व्युत्पत्ति-सिद्धाध्याहारादिभिर् अपि यस् सूत्रस्यार्थस् सम्पाद्यते सोऽपि वेदार्थो ऽनुष्ठेय उच्यते– ध्रुवम् अरुन्धतीं च दर्शयित्वा, अनन्तरं यत्राग्नेयेन स्थालीपाकेन यागं करोति तत्रैवैनां पत्नीं याजयति, पत्न्याम् अन्वारब्धायां जुहोति, न पर्वसु पार्वणविकारेषु च । एवम् अतिदेश-विशेषार्थतया सूत्रम् अर्थवदेव ॥
अन्ये– याजयतीति वचनात् वरादन्योऽप्य् अस्य स्थालीपाकयागस्य कर्तेति ।
तन् न ; प्रकरणेनास्य विवाहाङ्गत्वात् “सहाङ्गं प्रधानम्” (आप. प. २-३९.) इति साङ्गस्य प्रधानस्यैक-कर्तृकत्वात् ॥
केचित्– उत्तरत्र न केवलम् अग्निर् देवतेति विधिः, “अग्निस् -स्विष्टकृत् द्वितीयः” इत्यपि । तेन द्विदैवत्योऽयं स्थालीपाको मा भूत्, किन्त्व् एक-दैवत्य एवेत्य् एवमर्थम् आग्नेयेनेति विधानम् । तेनाग्नेय एव सङ्कल्पितस्य व्रीह्यादेरर्थाक्षिप्तो लौकिको निर्वापः कार्यः ।
“एनां याजयति” इति तु नास्मिन् कर्मण्य् उभयोरधिकारः, किन्तु वध्वा एव । वरस्तु ऋत्विक्-स्थानीयः । तेन होमादौ द्रव्यत्यागस् स्त्रीधनाद् एवेति । तन् न ; वध्व् एकाधिकारे हि प्रकरणावगत-विवाहाङ्गत्व-बाधः, अधिकारसाध्यभेदेन शास्त्रतदर्थयोर्भेदात् । आचारसिद्ध-वर-कर्तृकत्व-बाधापत्तिश् च - अन्यार्त्विज्येऽप्य् अविरोधात् ॥१॥
मूलम् ...{Loading}...
अथैनाम् आग्नेयेन स्थालीपाकेन याजयति।
०७ ०२ पत्न्यवहन्ति
०७ ०२ पत्न्यवहन्ति ...{Loading}...
पत्न्य् अवहन्ति +++(व्रीहीन् यवान् वा नवान्। न तु श्रपणादिकमपि। पर्वसु पतिर् एवावहन्यात्।)+++ ॥
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- The wife husks (the rice grains out of which this Sthālīpāka is prepared).
हरदत्तः
अरुन्धतीदर्शनानन्तरमगारं प्रविश्य व्रीहीन् यवान् वा नवानग्नये संकल्पितान् निर्वपति यावद्धोमाय ब्रह्मणभोजनाय च पर्याप्तं मन्यते । प्रोक्षणञ्च तूष्णीं संस्कृताभिरद्भिः । ततस्तान् पत्न्यवहन्ति । “एना पत्या” इत्यादिवत् सावहन्तीति सर्वनाम्ना निर्देशे कर्तव्ये पत्नीग्रहणं पत्नीकर्मेदं यथा विज्ञायेत । इतरथा याजमानं विज्ञायेत । वधूरिह यजमानेति कृत्वा पार्वणादिषु पत्युरवहननं प्राप्नोति ॥२॥
सुदर्शनः
स्थालीपाकार्थं व्रीह्यादिकम् । “साऽवहन्ति” इति वक्तव्ये “पत्न्यवहन्ति” इत्यधिकाक्षरात् पत्न्यवघातमेव कुर्यात्, न तु श्रपणादिकमपि । तदादिकं वर एव । केचित्– पत्नीत्यारम्भादवहननं पत्नीकर्मैव, न तु यजमानकर्म । यजमानकर्मत्वे हि सहाधिकारे पार्वणादौ पत्युरवहननं स्यात्, तस्य तत्र यजमानत्वात् । अत एव पार्वणादौ नान्वारम्भः ; पत्न्यवहन्तीतिवत् पत्न्यामन्वारब्धायामित्यवचनादिति । मैवम् ; वध्वेकाधिकारस्यैव निरस्तत्वात् ॥२॥
मूलम् ...{Loading}...
पत्न्यवहन्ति।
०७ ०३ श्रपयित्वाभिघार्य
०७ ०३ श्रपयित्वाभिघार्य ...{Loading}...
श्रपयित्वा ऽभिघार्य प्रचीनम् उदीचीनं वोद्वास्य प्रतिष्ठितम् अभिघार्याऽग्नेरुपसमाधानाद्याज्यभागान्ते ऽन्वारब्धायां स्थालीपाकाज् जहोति ॥
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- After he has cooked (the Sthālīpāka), and has sprinkled (Ājya) over it, and has taken it from the fire towards the east or the north, and has sprinkled (Ājya) over it while it stands (there near the fire), (the ceremonies) from the putting of wood on the fire down to the Ājyabhāga oblations (are performed), and while she takes hold of him, he sacrifices of that Sthālīpāka.
हरदत्तः
ततस्तानवहतांस्त्रिष्फलीकृतान् प्रक्षाल्य श्रपयति वरः । अग्नेरुपसमाधानादिवचनं तन्त्रविधानार्थं कालविधानार्थं च प्रतिष्ठिताभिघारणान्ते कथं तन्त्रं प्रतिपद्येत, न प्रागिति । तेनाभिघारणमसंस्कृतेनाज्येन भवति । अत्रापि सकृदेव पात्रप्रयोगः । तथा शम्याः विवाहशेषत्वादस्य । नेत्यन्ये ॥३॥ आज्यभागान्तवचनं अन्वारम्भकालोपदेशार्थम् । स्थालीपाकादित्यनर्थकम्, तस्य होमार्थत्वात् । न च वाच्यं ब्राह्मणभोजनार्थं स्थालीपाको, होमस्त्वाज्यादेव प्राप्नोतीति । यागविधानात् देवताविधानाच्च । एवं तर्हि शैलीयमाचार्यस्य-यत्रोभयं हविर्भवत्याज्यञ्चौषधयश्च तत्र प्रधानाहुतिविशेषणं करोति स्थालीपाकादन्नादपूपादाज्याहुतिरिति । तेन यत्र विशेषणं नास्ति तत्रैकमेव हविरिति सिद्धं भवति । तेनाग्रयणे आज्यस्याभावः । ततश्च सकृदुपघातपक्ष एव तत्र भवति, आज्याभावेनोपस्तरणाभिघारणयोरसम्भवात् । विवाहे च “यथा स्थानमुपविश्ये"त्यत्र आज्याहुतिरिति विशेषणाभावादाज्यमेव तत्र धर्मवद्धविः, लाजास्त्वधर्मका इति सिद्धम् ॥३॥
सुदर्शनः
उद्वास्य सौकर्यादपरेणाग्निं प्रतिष्ठाप्य । प्रतिष्ठितमभिघारयति । ओषधिहविष्केऽप्यत्र तन्त्रविधानं क्रमार्थमित्युक्तमेव । “आज्यभागान्तेऽन्वारब्धायाम्” । उपस्तरणप्रभृत्यन्वारम्भः प्रधानहोमान्तम् ॥३॥
मूलम् ...{Loading}...
श्रपयित्वाभिघार्य प्राचीनमुदीचीनं वोद्वास्य प्रतिष्ठितमभिघार्याग्नेरुपसमाधानाद्याज्यभागान्तेऽन्वारब्धायां स्थालीपाकाज्जुहोति।
०७ ०४ सकृदुपस्तरणाभिघारणे
०७ ०४ सकृदुपस्तरणाभिघारणे ...{Loading}...
सकृदुपस्तरणाभिघारणे द्विरवदानम् ॥
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- The ‘spreading under’ and the sprinkling over (of Ājya are done) once; two Avadānas (or cut-off portions are taken).
हरदत्तः
अनेन पौरोडाशिकोऽवदानकल्प इह प्रदर्शितो विज्ञेयः । “तस्मादङ्गुष्ठपर्वमात्रम्” ( आप. श्रौ. २-१८-९.) इत्याद्यपि भवति । पञ्चावत्तञ्च पञ्चावत्तिनाम् । प्रत्यभिघारणं च हविषः लाजावदानवत् । उपस्तीर्य द्विरवदाय द्विरभिघारयतीति वक्तव्ये सकृद्वचनमुपस्तरणाभिघारणयोश्चतुरवत्तसंपादनार्थतां ज्ञापयितुम् । तेन चतुरवत्ताभावे उपस्तरणाभिघारणयोरप्यभावः । यथा “सकृदुपहत्य जुहुयात्” (आप.गृ. ७-७.) “दध्न एवाञ्जलिने” (आप. गृ. २२-१०.)त्यादौ ॥४॥
सुदर्शनः
होमदर्व्यां स्रुवेण दर्व्यन्तरेण वा सकृदुपस्तरणं कार्यम् । ततश्चरोर्द्विरवदानम् । त्रिर्जमदग्नीनाम्, सकृच्चाभिघारणम् । ततः स्विष्टकृदर्थं चरोः प्रत्यभिघारणम् । अस्यैष्टिकावदानविधिप्रदर्शनार्थत्वादाचाराच्च ॥४॥
मूलम् ...{Loading}...
सकृदुपस्तरणाभिघारणे द्विरवदानम्।
०७ ०५ अग्निर्देवता स्वाहाकारप्रदानः
०७ ०५ अग्निर्देवता स्वाहाकारप्रदानः ...{Loading}...
+++(त्रिर्जमदग्नीनाम्।)+++ अग्निर्देवता स्वाहाकारप्रदानः॥
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- Agni is the deity (of the first oblation); the offering is made with the word Svāhā.
हरदत्त-प्रस्तावः
देवतामाह–
हरदत्तः
प्रधानद्वित्वादुत्तरविवक्षया सिद्धानुवादोऽयम् । अग्निरेव देवता पूर्वस्य होमस्य येयमाग्नेयेनेति विहिता । उत्तरस्यान्या विधीयत इति ॥६॥ स्वाहाकारेण प्रदानं प्रक्षेपो यस्मिन् सस्वाहाकारप्रदानः । स्थालीपाकस्य होमः । अविशेषात् पूर्वश्चोत्तरश्च । तत्र स्वाहाकारसंयोगाद्देवताशब्दश्चतुर्थ्यन्तो भवति– अग्नये स्वाहा, अग्नये स्विष्टकृते स्वाहेति । “जुहोतिचोदनः स्वाहाकारप्रदानः” (आप. प. ३-४.) इत्येव सिद्धे वचनमिदं कल्पान्तरेषु केषुचित् मन्त्रेण प्रदानञ्चोदितम्” अमुष्मै स्वाहेति जुहुयात्, ऋचा वा तद्देवतया” इति “पुरोनुवाक्यामनूच्य याज्यया जुहुयाद्” इति च तत्प्रतिषेधार्थम् । एवमपि “स्थालीपाकाज्जुहोत्यग्नये स्वाहेत्येव वक्तव्यं” स्विष्टकृति च स्विष्टकृते स्वाहेति । इदं तु वचनं पार्वणातिदिष्टेषु यथोपदेशं देवता इत्यत्र मन्त्रप्रतिषेधार्थम् । तेन “पौर्णमास्यां पौर्णमासी” (आप. गृ. ७-२८.) इत्येवमादिषु यत्र स्थालीपाकस्य देवतैव चोद्यते तत्र देवताशब्देनैव होमः, न तद्दैवत्येन मन्त्रेणेति सिद्धम् ॥५॥
सुदर्शनः
अग्निर्देवतेति विहिताग्निविशेषणार्थमयं परिभाषोक्तानुवादः । कथं विशेष्यते? इति चेत्, सोऽग्निस्स्वाहाकारप्रदानश्चेद्देवता, स्वाहाकारयोग्यया चतुर्थ्या विभक्त्या युक्तश्चेदित्यर्थः । ननु “अन्वारब्धायामग्नये जुहोति” इति वक्तव्ये किमर्थमधिकाक्षरं “अग्निर्देवता स्वाहाकारप्रदानः” इत्युपदिश्यते? उच्यते–शब्दो देवता, नार्थः ; अर्थोऽपि यागे चोदितचतुर्थ्यन्तस्ववाचकशब्देनैवोपकरोति, अर्थस्योद्देष्टुमशक्यत्वात् ; उपकारान्तरस्य च दुर्निरूपत्वादिति मीमांसकमतमिह नाभिमतम् ; अर्थ एव देवतेति स्वमतज्ञापनार्थम् । कथमिति चेत्? कर्मणि प्रयोगानर्हस्य प्रथमान्तस्याग्निशब्दस्य प्रयोगात् । नन्वर्थस्य देवतात्वे सत्यप्युकारश्शब्देनैवेति नानुष्ठाने विशेषः । मैवम् ; न केवलं चतुर्थ्यन्तशब्दोच्चारणमेवानुष्ठेयम्, किन्त्वर्थस्य ध्यानमपीति । अत्र तु ज्ञापकं “आग्नेया इति तु स्थितिः” ( निरु. ८-३-७.) इत्यादि निरुक्तकारवचनम् ॥ केचित्– कल्पान्तरेषु “अमुष्मै स्वाहेति जुहुयात् ऋचा वा तद्दैवत्यया” इति विकल्पः चोदितः । स माभूदस्माकम् । पार्वणेषु तद्विकारेषु च “अमुष्मै स्वाहा” इत्येव जुहुयादित्येवमर्थमिति ॥५॥
मूलम् ...{Loading}...
अग्निर्देवता स्वाहाकारप्रदानः ।
०७ ०६ अपि वा
०७ ०६ अपि वा ...{Loading}...
अपि वा सकृदुपहत्य जुहुयात् ॥
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- 2 Or he may sacrifice after having picked out, once, a portion (of the sacrificial food with the Darvi spoon).
हरदत्तः
यया दर्व्या होमस्तयैव सकृदुपहत्य जुहुयात् । अत्र पक्षे उपस्तरणाभिघारणयोरप्यभाव इति सिद्धम् । केचित् कुर्वन्ति । जुहुयादिति वचनं स्विष्टकृत्यपि प्राप्यत्यर्थम् ॥६॥
सुदर्शनः
अथवा दर्व्या सकृत् स्थालीपाकाद्गृहीत्वा जुहुयात्, न तु पूर्ववच्चतुरवत्तं पञ्चावत्तं वा अपूर्वत्वाद्दर्विहोमानाम् ॥६॥
मूलम् ...{Loading}...
अपि वा सकृदुपहत्य जुहुयात् ।
०७ ०७ अग्निस्स्विष्टकृद् द्वितीयः
०७ ०७ अग्निस्स्विष्टकृद् द्वितीयः ...{Loading}...
अग्निस्स्विष्टकृद् द्वितीयः।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- Agni Sviṣṭakṛt is the second (deity).
हरदत्तः
अग्निः स्विष्टकृद् द्वितीयो भवति देवतात्वेन । द्वितीयवचनं पूर्वेण तुल्यधर्मत्वज्ञापनार्थम् । तेन “यथोपदेशं प्रधानाहुतीर्” इत्यादौ स्विष्टकृतोऽपि ग्रहणं भवति । तथा “सकृदुपहत्य जुहुयात्” “स्वाहाकारप्रदान” इत्येतयोश्च प्रवृत्तिः ॥७॥
सुदर्शनः
देवतेति शेषः । स्थालीपाकशेषात् द्वितीयो होमः कर्तव्यः । तस्मिन् अग्निस्स्विष्टकृद्देवतेत्यर्थः । अर्थसिद्धेऽपि द्वितीये “द्वितीय” इति ग्रहणे प्रयोजनं “सदसस्पतिर्द्वितीयः” (आप. गृ. ८-२.) इत्यत्र वक्ष्यते । केचित्– पूर्वहोमेन तुल्यधर्मत्वज्ञापनम् । तथा च सति “यथोपदेशं प्रधानाहुतीः” इत्यत्र स्विष्टकृतमपि हुत्वा जयादीत्येवमादि भवेदिति ॥७॥
मूलम् ...{Loading}...
अग्निस्स्विष्टकृद् द्वितीयः।
०७ ०८ सकृदुपस्तरणावदाने
०७ ०८ सकृदुपस्तरणावदाने ...{Loading}...
सकृदुपस्तरणावदाने द्विरभिघारणम् +++(जमदग्नीनां तु द्विरवदानम् ।)+++ ॥
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- (At the Sviṣṭakṛt oblation) the ‘spreading under’ and taking an Avadāna are done once, the sprinkling over (of Ājya) twice.
हरदत्त-प्रस्तावः
अस्य त्ववदानविधिमाह–
हरदत्तः
अत्रापि पौरोडाशिकस्विष्टकृतोऽवदानकल्पः प्रदर्शितो विज्ञेयः । “तेन द्विः पञ्चावत्तिनः उत्तरमुत्तरं ज्यायांसम्, न हविः प्रत्यभिघारयति” (आप. श्रौ.२-२१-३,४,५.) इति विशेषाः इहापि द्रष्टव्याः ॥८॥
सुदर्शनः
सकृदुपस्तरणमवदानं च द्विरभिघारणं च कार्यम् । जमदग्नीनां तु द्विरवदानम् । अवदानं दैवताज्ज्यायः । नापि हविःप्रत्यभिघारणम् ; ऐष्टिकसौविष्टकृतावदानविधिप्रदर्शनार्थत्वात्, आचाराच्च ॥८॥
मूलम् ...{Loading}...
सकृदुपस्तरणावदाने द्विरभिघारणम्।
०७ ०९ मध्यात् पूर्वस्यावदानम्
०७ ०९ मध्यात् पूर्वस्यावदानम् ...{Loading}...
मध्यात् पूर्वस्यावदानम् ॥
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- The Avadāna for the first deity (is taken) out of the middle (of the Sthālīpāka);
हरदत्तः
पूर्वस्य प्रधानहोमस्येत्यर्थः । उपघातपक्षार्थं वचनम् । चतुरवत्तपक्षे तु पौरोडाशिकत्वात् सिद्धम्, ननु तत्रापि “पूर्वार्धाद्वितीयं पश्चार्धात् तृतीयम्” इत्येतयोर्देशविशेषयोः प्रतिषेधार्थं स्यात् । यद्येवं उत्तरार्धादुत्तरस्येति स्विष्टकृति नारब्धव्यं, विशेषाभावात् । तस्मात् चतुरवत्तपक्षे पौरोडाशिक एव विधिः । इदं तु वचनमुपघातपक्षार्थम् ॥९॥
सुदर्शनः
हविषो मध्यात् पूर्वस्य दैवतस्यावदानं कार्यम् । उपघातपक्षार्थ एवायमारम्भः । चतुरवत्तपक्षे त्वैष्टिकविधिप्रदर्शनबलान् मध्यादङ्गुष्ठपर्वमात्रावदानम् । “तिरश्चीनमवद्यति पूर्वार्धाद् द्वितीयमनूचीनं चतुरवत्तिनः, पश्चार्धात्तृतीयं पञ्चावत्तिनः” (आप. श्रौ. २-१८-९.) इत्यवदानस्थानसिद्धेः । एतेनोपघातपक्षे चतुरवत्तधर्म उपस्तरणादिर्न प्रवर्तते इति दर्शयति ॥९॥
मूलम् ...{Loading}...
मध्यात् पूर्वस्यावदानम्।
०७ १० मध्ये होमः
०७ १० मध्ये होमः ...{Loading}...
मध्ये होमः ॥
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- It is offered over the centre (of the fire).
हरदत्तः
आघारसम्भेदो मध्यम् । अत्रापि पौरोडाशिक एव होमदेशो दर्शितो विज्ञेयः । तेनाहुतीनामनेकत्वे “पूर्वां पूर्वां संहिताम्” (आप. श्रौ.२-१९-९.) इत्येवमादयो विशेषा इहापि भवन्ति ॥१०॥
सुदर्शनः
होमः प्रक्षेपः । दैवतस्य अग्नेर् मध्ये आघारसम्भेदे । प्रधानाहुतिबहुत्वे “पूर्वां पूर्वां संहिताम्” (आप. श्रौ.२-१९-९.) इति च भवति । अयं तूभयपक्षार्थः ॥१०॥
मूलम् ...{Loading}...
मध्ये होमः।
०७ ११ उत्तरार्धादुत्तरस्य
०७ ११ उत्तरार्धादुत्तरस्य ...{Loading}...
उत्तरार्धादुत्तरस्य ॥
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- (The Avadāna) for the second (deity is taken) from the northern part (of the Sthālīpāka);
हरदत्तः
अयमप्युपघातपक्षार्थ आरम्भः ॥११॥
सुदर्शनः
उत्तरार्धाद्धविष उत्तरस्य स्विष्टकृत अवदानं कार्यम् । अयमपि पूर्ववदुपघातपक्षार्थ एव ॥११॥
मूलम् ...{Loading}...
उत्तरार्धादुत्तरस्य।
०७ १२ उत्तरार्धपूर्वार्धे होमः
०७ १२ उत्तरार्धपूर्वार्धे होमः ...{Loading}...
उत्तरार्धपूर्वार्धे होमः ॥
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- It is offered over the easterly part of the northerly part (of the fire).
हरदत्तः
अत्रापि पौरोडाशिकस्य स्विष्टकृतो धर्मो विज्ञेयः । तेना"संसक्तामितराभिर्” (आप. श्रौ. २-२१-६.) इति विशेष इहापि भवति । होमग्रहणे आश्रिमाणे उत्तरार्धपूर्वार्ध इत्यस्य लेपयोः प्रस्तरवदित्त्युत्तरेणापि सम्बन्धस्सम्भाव्येत ॥१२॥
सुदर्शनः
तस्य स्विष्टकृतो होमोऽग्नेर् उत्तरार्धपूर्वार्धे । अस्यापि प्रदर्शनार्थत्वात् “असंसक्तामितराभिराहुतिभिः” (आप. श्रौ. २-२१-६.) इत्यपि भवति ॥१२॥
मूलम् ...{Loading}...
उत्तरार्धपूर्वार्धे होमः।
०७ १३ लेपयोः प्रस्तरवत्
०७ १३ लेपयोः प्रस्तरवत् ...{Loading}...
लेपयोः प्रस्तरवत्तूष्णीं बर्हिरङ्क्त्वा ऽऽग्नौ प्रहरति ॥
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- 3 Having silently anointed (a part of) the Barhis (by dipping it) into the remains both (of the Sthālīpāka and the Ājya) in the way prescribed (in the Śrauta ritual) for the (part of the Barhis called) Prastara, he throws (that part of the Barhis) into the fire.
हरदत्त-प्रस्तावः
होमोपस्तरणाद्यर्थदर्वीद्वयलेपयोः पात्रप्रयोगार्थं संस्तीर्णस्य च वर्हिषः प्रतिपत्तिमाह—
हरदत्तः
यस्मिन् बर्हिषि प्रतिष्ठितं हविराज्यं च तस्मात् किञ्चिदुपादाय तद्बर्हिरन्नस्य चाज्यस्य च यौ लेपौ तयोः प्रस्तरवत् तूष्णीमङ्क्त्वा प्रस्तरवदेव तूष्णीमग्नौ प्रहरति । अत एव प्रतिपत्तिविधानादपरेणाग्निं बर्हिषः स्तरणं भवति । हविषश्च तत्रासादनम् । कल्पान्तरे च स्पष्टमेतत् । शृतानि हवींष्यभिघार्य उदगुद्वास्य बर्हिष्यासाद्येति । केचिदग्निपरिस्तरणादञ्जनं मन्यन्ते । प्रस्तरवदिति वचनात् त्रिषु स्थानेष्वञ्जनं भवति । तत्र चतुरवत्तपक्षे यया होमः तस्यामग्रस्य, ययोपस्तरणाभिघारणे तस्यां मध्यस्य, आज्यस्थाल्यां मूलस्य चाञ्जनं भवति । उपघातपक्षे तूपस्तरणाभिघारणार्थाया दर्व्या अभावादाज्यस्थाल्यां मध्यस्य मूलस्य चरुस्थाल्याम् । अक्तस्य तृणमपादायेत्येतदपि भवति । तथा यया होमस्तस्यां प्रतिष्ठापनं च आग्नीध्रकर्म च स्वयमेव करोति ॥१३॥
सुदर्शनः
लेपयोः दर्वीद्वयलग्नयोः पात्रासादनार्थं संस्तीर्णं बर्हिः प्रस्तरवत्तूष्णीमङ्क्त्वा तद्वदेवाग्नौ प्रहरति । इदमपि प्रदर्शनार्थम् । तेनाञ्जनादिसंस्रावान्तं श्रौतवत्तूष्णीं करोति । ननु–प्रस्तरवदितीहानुपपन्नम् । बर्हिषोऽग्रमध्यमूलानां द्वयोर्दर्व्योः प्रस्तरवदञ्जनासम्भवात् । उच्यते–होमदर्व्यामग्रमनक्ति, इतरस्यां मध्यमूले; “अन्ताल्लोपौ विवृद्धिवा” (आप. प. ४-१३.) इति वचनाम् । एव त्रिर्द्विर्वा । “अथापरम्” इति पक्षे सकृदेवोपस्तरणाद्यर्थायां मूलं, होमार्थायां मध्याग्रे । अन्ये तु आज्यस्थालीं ध्रुवास्थाने पक्षत्रयेऽपि कुर्वन्ति, अञ्जनस्योपयुक्तपात्रलेपप्रतिपत्त्यर्थत्वात् “इडान्तं वाऽऽहवनीये शंय्वन्तं गार्हपत्ये” (आप. श्रौ. ३-१४-६.) इति पक्षे “आज्यस्थाल्यां मूलम्” (आप.श्रौ. ३-१४-७.) इति दर्शनाच्च । इह तु पक्षे लेपयोरिति द्विवचनमाज्यौषधलेपाभिप्रायम्, न तु पूर्ववदाघारद्वित्वाभिप्रायम् ॥ केचित्— कल्पान्तरादपरेणाग्निं यस्मिन् बर्हिषि हविराज्यं च प्रतिष्ठितं तस्माद्वा, परिस्तरणाद्वा किञ्चिदुपादायाञ्जनमिति । तन्न; कल्पान्तरोक्तबर्हिःप्रतिष्ठापनोपसंहारस्य पाक्षिकत्वेन नित्यत्ववदञ्जनानुपपत्तेः॥१३॥
मूलम् ...{Loading}...
लेपयोः प्रस्तरवत् तूष्णीं बर्हिरङ्क्त्वाग्नौ प्रहरति ।
०७ १४ सिद्धमुत्तरम् परिषेचनम्
०७ १४ सिद्धमुत्तरम् परिषेचनम् ...{Loading}...
सिद्धमुत्तरं परिषेचनम् +++(= अनेनोपहोमा भवन्तीति केचिन्, नेत्यन्ये)+++॥
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- 4 (The rule regarding) the second sprinkling (of water round the fire) is valid (here).
हरदत्त-प्रस्तावः
अत्र वचनाभावात् जयादिनिवृत्तौ सत्यां तद्बद्धक्रममपि परिषेचनं न निवर्तते, अग्नयङ्गत्वादित्याह—
हरदत्तः
उत्तरं तन्त्रं जयादि यथासिद्धमत्रापि कर्तव्यमित्यर्थः । कथं च सिद्धम्? उपजुहोतीतिवचनात् । प्रधानहोमानन्तरं तेनोपहोमानामुपरिष्टाद्वर्हिषोऽनुप्रहरणं भवति । अन्यथा प्रधानहोमानन्तरमुपदेशादुपहोमानां पुरस्तादनुप्रहरणं स्यात् ॥१६॥ अत्र कृत्वेत्यध्याहर्तव्यम् । परिषेचनं कृत्वा परिषेचनान्तं कृत्वेत्यर्थः । किमर्थमिदम् ? परिषेचनान्ते ब्राह्मणभोजनाद्येव कर्म प्रतिपाद्येत नान्यदित्येवमर्थम् । अन्ये तु सिद्धमुत्तरं परिषेचनमित्येकमेव योगं पठन्तो व्याचक्षते । तेनेह स्थालीपाके प्रधानहोमानन्तरं तन्त्रशेषस्य प्राप्तस्य परिषेचनमेव सिद्धमन्यदसिद्धमिति । तेनोपहोमानामिह लोपश्चोद्यत इति । तेषाम् “उत्तरम्” इति व्यर्थम् ॥१४॥
सुदर्शनः
स्पष्टेमेतत् । ततः प्रणीताविमोकोऽपि । केचित्– सिद्धमुत्तरमिति पदद्वयमेकं वाक्यम् । सिद्धमविकृतम् । उत्तरं तन्त्रशेषं जयादि । एताच्चेहोत्कृष्य पठितमपि “यथोपदेशं प्रधानाहुतीर्हुत्वा जयाभ्यातानान्” (आप.गृ. २-७.) इति श्रौतक्रमस्य बलीयस्त्वात् प्रधानतुल्यधर्मकस्विष्टकृतोऽनन्तरमेव । तथा “परिषेचनम्” इत्यप्यानन्तर्यविध्यर्थम् । परिषेचनान्तं कृत्वा ब्राह्मणभोजनमेवेति । तन्न ; सिद्धमुत्तरं परिषेचनमिति प्रतीताभ्यर्हितसामानाधिकरण्यान्वयबाधने महादोषवाक्यभेदकल्पनापेक्षत्वात् । तथा वचनाभावादिह जयाद्येव नास्ति, दूरे क्रमबलाबलकथा । तथा “परिषेचनम्” इत्यस्यापि सिद्धमुत्तरमित्येतदन्वयनिराकाङ्क्षत्वात् कृत्वेत्यध्याहारो निर्बीजः । आनन्तर्यं तु पाठप्राप्तं न विधेयमेव । तस्माद्वरं यथोक्तशङ्कानिवृत्यर्थमेवेदं सूत्रमिति ॥१४॥
मूलम् ...{Loading}...
सिद्धमुत्तरं परिषेचनम् ।
०७ १५ तेन सर्पिष्मता
०७ १५ तेन सर्पिष्मता ...{Loading}...
तेन सर्पिष्मता ब्राह्मणं भोजयेत् ॥
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- He gives (the remains of) that (sacrificial food) with butter to a Brāhmaṇa to eat -
हरदत्तः
सर्पिष्मतेति वचनमतिशयार्थमभिघारणेन प्रागपि सर्पिष्मत्वात् । लौकिकेन सर्पिषा प्रभूतेनोपसिच्येत्यर्थः । यो दक्षिणत आस्ते स इह ब्राह्मणः तं भोजयेत् वधूर्वरो वा ॥१५॥
सुदर्शनः
तेन हविश्शेषेण । सर्पिष्मता प्रभूतलौकिकाज्योपसिक्तेन । ब्राह्मणं दक्षिणतो दर्भेषु निषादितं भोजयेत् तस्येह प्रकृतत्वात् । इह तु सर्पिष्मतेति मतुबतिशयार्थः । भोजयेदिति बलाच्च होमब्राह्मणभोजनायालं चरुः कार्यः ॥१५॥
मूलम् ...{Loading}...
तेन सर्पिष्मता ब्राह्मणं भोजयेत्।
०७ १६ योऽस्यापचितस्तस्मा ऋषभम्
०७ १६ योऽस्यापचितस्तस्मा ऋषभम् ...{Loading}...
योऽस्यापचितस् तस्मा ऋषभं ददाति +++(वराय याजकेन न दक्षिणा वध्वा देयेति भावेन, तत्प्रतिनिधिः)+++॥
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- 5 Whom he reveres. To that (Brāhmaṇa) he makes the present of a bull.
हरदत्तः
अस्य वरस्य योऽपचितः पूज्यः आचार्यः, तस्मै ऋषभं स्थालीपाकस्य दक्षिणां ददति वधूः । स्वकुलादानीयर्त्विजे वराय दातव्या सती दक्षिणा जायापत्योः अन्योन्यदानप्रतिग्रहाभावात् तदाचार्याय चोद्यते । तेनासौ परिक्रीतो भवति । दृश्यते चायं न्यायो धर्मशास्त्रे– “न पिता याजयेत् पुत्रं न पुत्रः पितृयाजनम्” इत्याद्युक्त्वा ऽऽचार्याय दक्षिणां दद्युरिति ॥१६॥
सुदर्शनः
अत्रोच्यते– एवं तर्ह्यध्याहारेण वा विपरिणामेन वा व्याख्यायते । योऽस्यात्मनोऽपचितः पूज्यः तस्मा ऋषभं ददाति । यद्वा योऽस्य स्थालीपाकयागस्य कर्तुरपचितस्तस्मा एतद्यागकर्ता ऋषभं ददाति, न तु स्थालीपाकयागान्तराणां कर्ता; तेषामपूर्वत्वात् । अथवा– अस्येति षष्ठ्या अयमिति विपरिणामः । योऽयं लोके विद्याभिजनादिसम्पत्त्या अपचितः तस्मा अयमेतत्स्थालीपाककर्ता ऋषभं ददाति । सर्वथा त्वेतद्विकृतिष्वपि स्थालीपाकान्तरेषु ऋषभदानं नास्त्येव ॥१६॥
मूलम् ...{Loading}...
योऽस्यापचितस्तस्मा ऋषभं ददाति।
०७ १७ एवमत ऊर्ध्वम्
०७ १७ एवमत ऊर्ध्वम् ...{Loading}...
एवम् अत ऊर्ध्वं दक्षिणावर्जम् उपोषिताभ्यां पर्वसु कार्यः ॥
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- In the same way, with the exception of the sacrificial gift, they should sacrifice a Sthālīpāka from then onwards, on the days of the new and full moon, after having fasted.
हरदत्तः
अतः स्थालीपाकाद् ऊर्ध्वं दक्षिणां वर्जयित्वा उपोषिताभ्यां “पर्वसु चोभयोरुपवास, (आप.ध.२-१-४.) इत्यनेन प्रकारेण कृतोपवासाभ्यां गृहमेधिभ्यां पर्वसु पौर्णमासीषु चामावास्यासु च एवमेवाग्नेयस्थालीपाककल्पेन स्थालीपाकः कार्यः । कल्पातिदेशोऽयम्–पर्वसु स्थालीपाकः कार्यः, तस्य च “आग्नेयेन स्थालीपाकेन याजयति” इत्येवमादिः तस्मा ऋषभं ददाति “इत्येवमन्तः कल्प इत्यर्थः । ‘अत्रोपोषिताभ्याम्’ इति द्विवचननिर्देशादुभावप्यधिकारिणौ तत्र तु पत्न्येव । दक्षिणा चेह नास्तीत्येतावान् विशेषः । तत्र पार्वणे विवाहनिमित्ता विशेषाः सकृत्पात्राणि शम्या इत्यादयो न कर्तव्याः । अन्वारम्भोऽपि न कर्तव्यः, यजमानकर्मत्वात् । अत्र चोभयोर्यजमानत्वात् । अस्तु तर्ह्यन्यो याजयिता, अन्वारम्भश्चोभयोः । तदपि न, ज्ञापकात् । यदयं हृदयसंसर्गान्वारम्भं विदधाति तत् ज्ञापयति न पार्वणादिष्वन्वारम्भो भवतीति । अन्यथा पार्वणातिदेशादेवान्वारम्भः सिद्धस्स्यात् । “पाणिग्रहणादधि गृहमेधिनोर्व्रतम्” इत्यादौ साङ्गं विवाहकर्म विवक्षितम् । तेन संवेशनान्ते विवाहकर्मणि निष्ठिते पञ्चमहायज्ञादीनां गृहस्थधर्माणां प्रवृत्तिः । पार्वणस्थत्वस्य प्रागपि संवेशनात् स्यात् । पाकादूर्ध्वं पर्वप्राप्तौ प्रवृत्तिर्भवति । तदर्थमाह– अत ऊर्ध्वमिति । तस्य च पौर्णमास्यामुपक्रमो नामावास्यायाम् । श्रौतयोस्तथा दर्शनात् । तत्स्थानापन्नत्वाच्चानयोः । छन्दोगाश्चामनन्ति–अमावास्या चेत् पूर्वमापद्यते पौर्णमासेनेष्ट्वाथ तत् कुर्यात् । अकृत्वा पौर्णमासीमाकाङ्क्षेदित्येके’ (खा.गृ. २-१-२.) इति । “पर्वसु चोभयोरुपवास” इत्येव सिद्धे उपोषिताभ्यामिति वचनमस्मिन् कर्मणि उभयोरप्यधिकारप्रदर्शनार्थम् । एवमप्युभाभ्यामित्येव वक्तव्यं नोपोषिताभ्यामिति । तस्मात् पर्वसु चोभयोरुपवास इति प्राप्तमुपवासं प्रकृत्यंशेनानूद्य द्विवचनेन द्वयोरधिकारः प्रदर्श्यते– उपोषिताभ्यामिति । तेन यजनीयेऽहन्येव स्थालीपाकस्सिद्धो भवति । पञ्चदश्यां पूर्वेद्युः कर्म । तथा चाश्वलायनः– “अथ पार्वणस्थालीपाकः । तस्य दर्शपूर्णमासाभ्यामुपवासः । इध्माबर्हिषोश्च सन्नहनम्” (आश्व. गृ. १-१०-१,२,३.) इति । उभाभ्यां पर्वसु कार्य इत्युच्यमाने पर्वस्वेव स्थालीपाकस्स्यात्, उपवासश्च, निर्देशतुल्यत्वात् ॥१७॥
सुदर्शनः
अतः स्थालीपाकाद्** ऊर्ध्वं उपोषिताभ्यां** “पर्वसु चोभयोरुपवासः” (आप. ध. २-१-४.) इत्यादिविधिना कृतोपवासाभ्यां जायापतिभ्यां पर्वसु पौर्णमासीष्वमावास्यासु च द्वितीयासु दक्षिणावर्जं ऋषभदानवर्जं एवम् एवंप्रकार एतत्स्थालीपाकसदृशो होमः कर्तव्य इति विधिः । धर्मशास्त्रे तु “श्वोभूते स्थालीपाकः” (आप. ध.२-१-१०.) इत्युपवासादिधर्मसम्बन्धार्थोऽनुवादः । सादृश्यं चात्र द्रव्यदेवतादिसमस्तधर्मनिबन्धनम् । यथा “एतस्यैव रेवतीषु” (ताण्ड्य. ब्रा. १७-८-१.) इति, यथा वा “मासमग्निहोत्रं जुहोति” इति । तत्र तु “एतस्य” “अग्निहोत्रम्” इति पदाभ्यां, इह तु एवंपदेनेति भेदः । ननु–दर्वीहोमेष्वतिदेशो नास्ति, अपूर्वत्वात्तेषाम् । सत्यम्, नास्ति चोदनालिङ्गात्, वचनात्त्वतिदेशः केन वार्यते ? केचित्– नायं धर्मातिदेशः, सौर्यादिष्विव हविर्दैवतस्यानुपदेशात् । अतः कल्पातिदेश एव; “श्वोभूतेऽन्वष्टका, तस्या मासिश्राद्धेन कल्पो व्याख्यातः” इतिवदिति । नैतत् । हविर्दैवतस्यानुपदेशेऽपि “मासमग्निहोत्रं जुहोति” इत्यादिषु धर्मातिदेशस्य दृष्टत्वात् ॥ अपरे तु– एकस्य तूभयत्वे संयोगपृथक्त्वम् (जै. सू. ४-३-५.) इति न्यायेन प्रकृतस्यैव स्थालीपाकस्य “एवं पर्वसु कार्यः” इत्याधिकारान्तरसम्बन्धविधिरिति । एतदपि न; एवं सति “एष कार्य” इति सूत्रं स्यात्, “नत्वेवं कार्य” इति । किञ्च पर्वस्वन्वारम्भोऽपि स्यात् ; यतस्समस्तधर्मकस्यैव प्रकृतकर्मणोऽधिकारान्तरविध्युपगमः । धर्मातिदेशे तु यथा नान्वारम्भस्तथोक्तमेव “अथैनामाग्नेयेन” इति सूत्रमतिदेशविशेषार्थमिति वदता भाष्यकारेण । अत्र च “अत ऊर्ध्वम्” इति वचनं विवाहमध्येऽपि पर्वारम्भार्थम् । यद्यप्यत ऊर्ध्वमित्यविशेषवचनं, तथापि पौर्णमास्यामेवारम्भः । कालैक्येन प्रयोजनैक्यात्, स्थानापत्त्या चास्यामेवारम्भदर्शनात् । व्यक्तं चैतच्छन्दोगानाम् । “अमावास्या चेत् पूर्वमापद्येत पौर्णमासेनेष्ट्वाथ तत्कुर्यात्, अकुर्वन् पौर्णमासीमाकाङ्क्षेदित्येक” इति । तस्मात् स्थालीपाकानन्तरं पौर्णमासी चेत् पूर्वमागच्छेत्, तदा विवाहमध्येऽपि पर्वारम्भः । मासिश्राद्धस्य त्वारम्भश्चतुर्थीहोमान्ते अपरपक्षे; शिष्टाचारात्, बोधायनवचनात्, कर्ममध्ये कर्मान्तरारम्भस्यायुक्तत्वाच्च । तथा वैश्वदेवस्यापि, “तेषां मन्त्राणामुपयोगे द्वादशाहमधश्शय्या” (आप. ध.२-३-१३.) इत्यादिव्रतं सपत्नीकश्चरित्वा प्रशस्तेऽहन्यारम्भः ॥१७॥
मूलम् ...{Loading}...
एवमत ऊर्ध्वं दक्षिणावर्जमुपोषिताभ्यां पर्वसु कार्यः ।
०७ १८ पूर्णपात्रस्तु दक्षिणेत्येके
०७ १८ पूर्णपात्रस्तु दक्षिणेत्येके ...{Loading}...
पूर्णपात्रस् तु +++(=१००/ १२८ मुष्टिमात्रम् अन्नम् पात्रे)+++ दक्षिणेत्येके ॥
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- Some say that a vessel full (of grain) is the sacrificial gift.
हरदत्तः
पात्रशब्द उभयलिङ्गः । धान्यमुष्टिशतस्य पूर्णं पात्रं पूर्णपात्रम् इत्याहुः । दक्षिणा चेयं ब्रह्मणे देया ॥१८॥
सुदर्शनः
धान्यादेः पूर्ण यत्किंचित् पात्रं पूर्णपात्रम् । यद्वा– “अष्टमुष्टि भवेत् किञ्चित् किञ्चिच्चत्वारि पुष्कलम् । पुष्कलानि च चत्वारि पूर्णमात्रं प्रचक्षते ॥” इति वचनात् धान्यमुष्टीनां अष्टाविंशत्यधिकं शतं पूर्णपात्रम् । पात्रशब्दश्चोभयलिङ्गः । तुशब्दात् पर्वस्वयं विकल्पो, न वृषभदाने ॥१८॥
मूलम् ...{Loading}...
पूर्णपात्रस्तु दक्षिणेत्येके।
०७ १९ सायम् प्रातरत
०७ १९ सायम् प्रातरत ...{Loading}...
सायं प्रातरत ऊर्ध्वं हस्तेनैते आहुती तण्डुलैर्यवैर्वा जुहुयात् ॥
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- 6 From then onwards he should offer morning and evening with his hand these two oblations (to Agni and to Agni Sviṣṭakṛt) of (rice) grains or of barley.
हरदत्तः
अस्मात् स्थालीपाकादूर्ध्वं सायञ्च प्रातश्च एते आहुती व्रीहितण्डुलैर्यवैर्वा जुहुयात् । अत ऊर्ध्वमित्यस्य पार्वणवदेव प्रयोजनम् । तेन तस्यामेव रात्रावारम्भः । तस्मादूर्ध्वं दम्पत्योस्सायमशनम् । एते आहुती इत्युच्यते– ये अग्निहोत्राहुती आहिताग्नेस्ते एते इति प्रतिज्ञापनार्थम् । तेन तद्धर्माणामत्रप्रवृत्तिः । यथा “पालाशी समित् द्व्यङ्गुले मूलात् समिधं” (आप.श्रौ.६-१०-४.) इत्येवमादीनां प्रादुष्करणहोमकालयोश्च । तच्चोक्तमाश्वलायनके– तस्याग्निहोत्रेण प्रादुष्करणहोमकालौ व्याख्यातौ (आश्व. गृ. १-९-५.) इत्यादि । हस्तेनेति दर्व्या अपवादः । तन्त्रस्य चानुपदेशादपूर्वत्वम् । परिस्तरणं तु भवत्येव । परिषेचनं त्विहैव विधीयते ॥१९॥
सुदर्शनः
सायं प्रातरित्यग्निहोत्रकालानां चतुर्णामुपलक्षणम् ; अग्निहोत्रानुकारित्वादौपासनहोमस्य । अत ऊर्ध्वं स्थालीपाकान्ताद्विवाहादूर्ध्वम्; विवाहस्यैवात्र परमप्रकृतत्वात्, न त्वनन्तरप्रकृतत्वात्पर्वण ऊर्ध्वम्, यतो न प्रासङ्गिकप्रकृतपरामर्शस्स्वरसस्सर्वनाम्नाम् । स्थालीपाकान्तादिति च स्थालीपाकं विधाय, “अत ऊर्ध्वम्” इति वचनात् । अस्य चारम्भोऽनन्तरं रात्रावेव यदि नव नाड्यो नातीताः । अतीताश्चेदपरेद्युस्सायमेवाग्निहोत्रारम्भवेलायाम् । अत्र हस्तेनेत्यादिना कृत्स्नविधानम् । हस्तेनेति विधानाद्दर्व्यादिनिवृत्तिः । तण्डुलैर्यवैर्वेति विधानात् पाकस्य । उभयतः परिषेचनमिति परिसङ्ख्यानात् पार्वणधर्माणाम् । वेश्वदेवेऽपीत्थमेव व्याख्यानम् । “एते” इति विशेषणादत्रापि द्वितीयाहुतिः स्विष्टकृत्स्थानीत्या अङ्गमित्यर्थः । तेनैतां विस्मृत्य कर्मसमाप्तौ नैषा पुनर्होतव्या । किन्तु सर्वप्रायाश्चित्तमेव ॥१९॥
मूलम् ...{Loading}...
सायं प्रातरत ऊर्ध्वं हस्तेनैते आहुती तण्डुलैर्यवैर्वा जुहुयात्।
०७ २० स्थालीपाकवद्दैवतम् देवतैव
०७ २० स्थालीपाकवद्दैवतम् देवतैव ...{Loading}...
स्थालीपाकवद्दैवतम् ॥
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- The deities are the same as at the Sthālīpāka (just described).
हरदत्तः
देवतैव दैवतम् । अग्नये स्वाहेति पूर्वाहुतिः । अग्नये स्विष्टकृते स्वाहेत्युत्तरा ॥२०॥
सुदर्शनः
अयं “एते आहुती” इति प्राप्तस्यानुवादः पूर्वाहुतेर्विकल्पं विधातुम् ; यथा–पात्नीवते “नानुवषट्करोति । अपि वोपांश्वनुवषट्कुर्यात्” ( आप. श्रौ. १३-१४-९,१०.) इति ॥२०॥
मूलम् ...{Loading}...
स्थालीपाकवद्दैवतम्।
०७ २१ सौरी पूर्वाहुतिः
०७ २१ सौरी पूर्वाहुतिः ...{Loading}...
सौरी पूर्वाहुतिः प्रातरित्येके ॥
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- Some say that the first oblation in the morning is sacred to Sūrya.
हरदत्तः
सौरी सूर्यदेवत्या । सूर्याय स्वाहेति वा पूर्वाहुतिर्भवति । अन्यत् समानम् । तत्र यथाकामी प्रक्रमेत । प्रक्रमात्तु नियम्यते ॥२१॥
सुदर्शनः
सौरी सूर्यदेवत्या “सूर्याय स्वाहा” इति पूर्वाहुतिः प्रातर्होमे इत्येके ॥२१॥
मूलम् ...{Loading}...
सौरी पूर्वाहुतिः प्रातरित्येके।
०७ २२ उभयतः परिषेचनम्
०७ २२ उभयतः परिषेचनम् ...{Loading}...
उभयतः परिषेचनं यथा पुरस्तात् ॥
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- 7 Before and after (those oblations) the sprinkling (of water) round (the fire is performed) as stated above.
हरदत्तः
अस्य होमस्य परिषेचनं उभयतः पुरस्तादुपरिष्टाच्च कर्तव्यम्, यथा पुरस्ताच्चोदितम्— अग्निं परिषिञ्चति पूर्ववत् परिषेचमिति ॥२२॥
सुदर्शनः
उभयतः एतयोराहुत्योः पुरस्तादुपरिष्टाच्च परिषेचनं यथा पुरस्ताद् विहितं “अग्निं परिषिञ्चति” (आप.गृ. २-३.) “पूर्ववत्परिषेचनमन्वमंस्थाः” (आप.गृ. २-८.) इति । पाकयज्ञेषु सप्तसु न विद्युद्वृष्टी । “सैषा मीमाँसाग्निहोत्र एव सम्पन्ना । अथो आहुः । “सर्वेषु यज्ञक्रतुष्विति” (तै. ब्रा. ३-१०-९.) इत्यत्र “तदिदं सर्वयज्ञेषूपस्पर्शनं भवति” (आप. श्रौ. ४-१-७.) इत्यत्र च सर्वशब्देन प्रकृतपरामर्शिना प्रकृतश्रौतसर्वयज्ञानामेव परामर्शात् । अस्मादेव हेतोः “द्विर्जुहोति” (आप. गृ. २-११.) इत्यादिना परिसङ्ख्याय कृत्स्नविधानाच्चाग्निहोत्रिकविधावपि नैव विद्युद्वृष्टी ॥२२॥
मूलम् ...{Loading}...
उभयतः परिषेचनं यथा पुरस्तात्।
०७ २३ पार्वणेनातो ऽन्यानि
०७ २३ पार्वणेनातो ऽन्यानि ...{Loading}...
पार्वणेनातो ऽन्यानि +++(पक्व-हविर्-युक्तानि स्थालीपाक-पश्वादीनि)+++ कर्माणि व्याख्यातान्य् - आचाराद् +++(→शास्त्रान्तराद् अपि)+++ यानि गृह्यन्ते २३
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- 8 By the sacrifice of the new and full moon the other ceremonies have been explained (the knowledge of) which is derived from practice.
हरदत्तः
पर्वसु भवः पार्वणः । तेन पार्वणेन स्थालीपाकेनातो ऽस्मात् पार्वणाद् अन्यानि कर्माणि व्याख्यातानि यान्य् आचाराद् गृह्यन्ते = ज्ञायन्ते तानि सर्वाणि । अयमपि कल्पातिदेशः ।
योऽयं पार्वणस्य कल्पः “एवम् अत ऊर्ध्वम्” इत्यादिः “पूर्णपात्रस् तु दक्षिणेत्य् एक” इत्येवम् अन्तः - स एव सर्वेषां पाकयज्ञानां कल्प इत्यर्थः । तत्रोपवासः पार्वणाद् अन्यत्र न भवति । पर्वसंयोगेन प्रकरणान्तरे विधानात् उपोषिताभ्याम् इत्य् अस्य चाविधायकत्वात् ।
नन्व् अस्मिन् वैवाहिके धर्मा आम्नाताः पार्वणस्यापि तत एवातिदिष्टाः । ततश् चान्येषाम् अपि तत एवातिदेशः कर्तव्यः । “दक्षिणावर्जं” “पूर्णपात्रस्तु दक्षिणेत्येके” इत्यस्य विशेषस्य परिग्रहार्थस्तु पार्वणेनातिदेशः ।
“अतोऽन्यानि” इति वचनं समान-जातीय-परिग्रहार्थम् । तेन पक्वगुणेष्व् एव स्थालीपाकेषु पशुषु चायम् अतिदेशो नाज्य-गुणकेषु । केचित् तत्रापीच्छन्ति ।
“कर्माणी"ति वचनात् कर्मणामेव पार्वण-व्याख्यातत्वम् । न काल-कर्तृ-धर्माणाम् । तेन “निऋतिं पाकयज्ञेन” (आप.ध.१-२६.) इत्य् अत्र पत्नीवत्त्वं पर्व-नियमश् च न भवति । हृदय-संसर्गादिषूपवासश् च ।
“व्याख्यातानी"ति वचनात् व्याख्यानम् एव पार्वणेनान्येषां कर्मणां, न प्रकृति-विकृति-भावः । तेनानारब्ध-पार्वणस्यापि कालागमे सर्पबल्यादौ प्रवृत्तिर् भवति ।
“आचाराद् यानि गृह्यन्त” इति वचनात् अस्मिन् शास्त्रे ऽनुपदिष्टानाम् अपि शास्त्रान्तर-दृष्टानां पक्व-गुणकानाम् अयम् उपदेशो भवति । यथा– काम्यानां स्थाने काम्याश् चरवः “षडाहुतिश् चरुर्” इत्य् एवमादीनाम् ॥२३॥
सुदर्शनः
पार्वणेन वैवाहिकेन स्थाली-पाकेन । अतोऽन्यानि अस्माद् अन्यानि सर्प-बल्यादीनि यान्य् आचाराद् गृह्यन्ते तानि कर्माणि व्याख्यातानि तेष्व् एतद्-धर्मातिदेश इत्यर्थः ॥
ननु–कथं पार्वण-शब्दवाच्यत्वं वैवाहिक-स्थालीपाकस्य? इति चेत् नित्यस् तावत् “उपोषिताभ्यां पर्वसु कार्य” (आप.गृ. ७-१७.) इति पर्वसु भवत्वात् पार्वणः । तस्य च पार्वणस्यायं प्रकृतित्वे सम्बन्धीति “तस्येदम्” (पा. सू. ४-३-१२०.) इति पार्वण-शब्दाद् अण्-प्रत्यये कृते पार्वण इत्य् एवं रूपं भवति । यद्य् अपि कर्मान्तराणाम् अप्य् अयं प्रकृतिः, तथाप्य् अस्य पार्वण-सम्बधितया व्यपदेश्यत्वम् एव युक्तम् ; यतोऽत्र कर्मणि द्रव्यदेवतयोर् अप्य् अतिदेशः । कर्मान्तरेषु त्व् इतर-धर्माणाम् एवेति ।
नन्व् एवम् अपि शीघ्रावगतस्य नित्यस्य पार्वणस्य प्रकृतित्वे सम्भवति किम् इति विलम्बितावगम्यस्य वैवाहिकस्य प्रकृतित्वम् उच्यते ? इति चेत्– न ; वैवाहिक एव धर्मोपदेशपौष्कल्यात्, इतरत्र तदभावाच् च । प्रसिद्धश्चैष न्यायः– यस्य पुष्कलो धर्मोपदेशस् सोऽन्येषां प्रकृतिः; न हि भिक्षुको भिक्षुकान् याचितुम् अर्हतीति ।+++(5)+++ तस्माद् युक्तं वैवाहिकस्यैव प्रकृतित्वम् ।
अस्य च वैवाहिकस्य पार्वणशब्द-वाच्यत्वं धर्मशास्त्रे व्यक्तम् एव । “पर्वसु चोभयोरुपवासः । औपवस्तमेव कालान्तरे भोजनम् । तृप्तिश्चान्नस्य । यच् चैनयोः प्रियं स्यात्तदेतस्मिन्न् अहनि भुञ्जीयाताम् । अधश्च शयीयाताम् । मैथुनवर्जनं च ।श्वोभूते स्थालीपाकः । तस्योपचारः पार्वणेन व्याख्यातः” (आप. ध. २-१-४….११.) इति नित्यस्य पार्वणेन व्याख्यानाभिधानात्, पर्वसम्बन्धिनः कर्मान्तरस्यात्रासम्भवात्, नित्यस्य च नित्येनैव व्याख्याने आत्माश्रयदोषात् ।
नन्व् अत्र केचित्– “यच्चैनयोः प्रियं स्यात् तद् एतस्मिन्न् अहनि” इत्य् एतच्छब्देनैकवचनान्तेन “पर्वसु च” इति बहुवचनान्त-निर्दिष्ट-पर्वाहः परामर्शानुपपत्तेः, “पाणिग्रहणादधि गृहमेधिनोर्व्रतम्” (आप. ध. २-१-१.) इति परमप्रकृतं पाणिग्रहण-नक्षत्रं परामृश्यते । तेन प्रतिसंवत्सरं पाणिग्रहण-नक्षत्रे प्रिय-भोजनादि कार्यम् । श्वोभूते च स्थालीपाकः कर्तव्यः । तस्य च कर्मान्तरस्योपचारः पार्वणेन नित्येन व्याख्यात इत्याहुः । तत् कथं धर्मशास्त्रे व्यक्तं वैवाहिकस्य पार्वणशब्दवाच्यत्वम् इति । तन् न ; यतोऽत्र व्रतम् एव परम-प्रकृतम्, पाणिग्रहणस्य तु तदवधितया कीर्तन-मात्रम् । नक्षत्रं तु गम्यमानमेव । गम्यमानं चैतच्-छब्देन पराम्रष्टुं प्रियभोजनादिना विशेषयितुं च नार्हम् ।
तदाहुराचार्याः –
“गम्यमानस्य चार्थस्य नैव दृष्टं विशेषणम् ।
शब्दान्तरैर्विभक्त्या वा धूमोऽयं ज्वलतीतिवत् ॥” (तन्त्र.वा.१-१-७.) इति ।
अतश् चात्र “पर्वसु च” इत्युद्देश्य-गतबहुत्वस्याविवक्षितत्वात् श्रुताव्यवहितस्य प्रकृतस्यपर्वाहस्यैव परामर्शो विशेषणं च युक्तम् ।
अत उपवासादेर् इव प्रियभोजनादेर् अपि पर्वसम्बन्धात् “श्वोभूते स्थालीपाकः” इत्य् उपवासादि-धर्म-विधानार्थम् एव ।
“उपोषिताभ्यां पर्वसु कार्यः” इति गृह्यविहितस्य स्थालीपाकस्यानुवाद एव, न कर्मान्तरस्य विधिः । अनुवादे च तस्योपचार इति दूरस्थस्य परामर्शो घटते । विधौ त्वस्योपचार इति स्यात् ।
एवं च यद्यपि “श्वोभूते स्थालीपाकः” इत्य् आपाततोऽनुवादस्वरूपः ; तथापि यस्येमे विधीयमाना उपवासप्रियभोजनादयो धर्मास् सम्बन्धिनस् तस्योपचारः पार्वणेन व्याख्यात इति साध्याहारम् एवेदं सूत्रं व्याख्येयम् ।
तस्माद् धर्मशास्त्रेऽपि वैवाहिकस्य पार्वणशब्द-व्यपदेश्यस्यैव प्रकृतित्वम्, न नित्यस्येति सिद्धम् । नन्व् एवमपि शीघ्रबोधकत्वात् वैवाहिकेनेति वक्तव्ये, किमर्थम् अस्य विवाहाङ्गस्यापि सतो विवाह-सम्बन्धं तिरस्कृत्य “पार्वणेन” इत्याह ? उच्यते– इतराङ्गवद् अस्य न शम्याः ; किन्तु शिष्टाचारसिद्धाः परिधय एवेत्य् एवम् अर्थम् ।
अत्र च अतोऽन्यानीत्याह– एतत् सदृशान्य् एवौषधप्रधान-हवींषि सर्पबल्यादीनि कर्माण्य् अनेन व्याख्यातानि, न त्व् अनेन तत्-सदृशानि पशु-प्रभव-प्रधान-हवींषि वपाहोमादीनीति वक्तुम् ।
कुत एतत्? “तत्र सामान्याद्विकारो गम्येत” (आप.प.३-४०.) इति परिभाषावचनात् । किञ्च अतोऽन्यानीत्यस्य नञ्समासप्रभेद-विग्रह-वाक्यत्वात् “नञिवयुक्तमन्यसदृशाधिकरणे तथाह्यर्थावगतिः” (वै. प. ७४.) इति नञ्समासभेदार्थनिर्णयात्, वाक्य-समासयोर् भिन्नार्थत्वे चासमर्थ-समासापत्तेः ।
औषधानि हवींषि पशुप्रभवानि च कानि कतिधा च ? इति चेत् - पुरोडाशः, ओदनो, यवागूस्, तण्डुलाः, पृथुकाः, लाजाः, सक्तवः, पिष्टानि, फलीकरणानि, धानाः, करम्भाः, सुरेत्य् औषधानि द्वादशाविधानि । पयो, दध्याऽज्यम्, आमिक्षा, वाजिनम् अवदानानि, पशुरसश्, शोणितं, त्वक्, वपेति - पशुप्रभवानि दशविधानि ।
“अथ कर्माण्याचाराद्यानि गृह्यन्ते” (आप. गृ. १-१.) इति प्रकृतेऽप्यत्र पुनर्वचनं गृह्यप्रश्नेऽनुक्तानां महाराजस्थालीपाकगणहोमादीनामेतद्विकृतित्वं वक्तुम् । ननु– यद्यनेनैव सूत्रेण औषधहविष्केषु कर्मसु पार्वणतन्त्रातिदेशः, किमर्थं “अस्तामिते स्थालीपाकः” “पार्वणवदाज्यभागान्ते” (आप. गृ. १८-५,६.) इति सर्पबलौ पुनर्वचनम् ? उच्यते– यद्यपि श्रौत आग्रयणे वैश्वदेवादीनां भूयस्त्वेन पौर्णमासतन्त्राशङ्कायां ऐन्द्राग्नस्य मुख्यत्वात् “मुख्यं वा पूर्वचोदनाल्लोकवत्” (जै. सू. १२-२-२३.) इति सिद्धान्तन्यायेन “आमावास्यं तन्त्रम्” (आप. श्रौ. ६-२९-५.) इति दर्शितम्, तथाप्यत्रान्येषां हविषां बहुत्वेऽप्यौषधस्य मुख्यत्वात् पार्वणतन्त्रतैवेति मुख्यन्यायं मन्दबुद्धिहितार्थं दर्शयितुमेव पुनश्चोक्तं “पार्वणवदाज्यभागान्ते” इति ।
तेन मासिश्राद्धे अष्टकाकर्मणि च पार्वणम् एव तन्त्रम् । यद्य् अप्य् अष्टकायां वपाहोमस्य मुख्यस्यापूर्वत्वं, तथाप्य् अन्येषां कृत्स्नविधानाभावाद् औषधत्वात् “स्विष्टकृत्प्रभृति समानमापिण्डनिधानात्” (आप. गृ. २२-८.) इति दर्शनाच्च पार्वणमेव तन्त्रम् । अपूपहोमे तु “पार्वणवत्” (आप. गृ. २२-१.) इति पुनर्-वचनम् अपूप-मांसौदन-पिष्टान्न-होमानां स्थाने विकल्पेन विहितस्यौषध-हविष्कस्यापि दधि-होमस्य पार्वण-तन्त्रप्राप्तिं ज्ञापयितुम्, न त्व् अपूप-होमार्थम्; तस्यौषध-हविष्ट्वाद् एव पार्वणतन्त्र-प्राप्तेः ।
तत्-स्थानापन्नेषु च तद्धर्म-प्राप्तिर् दृष्टा । यथा “यस्य हविषे वत्सा अपाकृता धयेयुस्तत्स्थाने वायव्यां यवागूं निर्वपेत्” (आप. श्रौ. ९-१-२३.) इति सान्नाय्यस्थाने विहिताया यवाग्वास्सान्नाय्यधर्माः ॥
केचिद्—नित्यस्य पार्वणस्य यः कल्पस् स एव सर्वेषां यज्ञानां कल्पः । यद्यपि वैवाहिके धर्माम्नानं, तथापि नित्यस्यैव कल्पातिदेशो “दक्षिणावर्जं” इत्यस्य परिग्रहार्थः । अतोऽन्यानीति वचनादेतत्सदृशानां पक्वगुणानामेव स्थालीपाकानां पशूनां चायं विकल्पो, न त्वाज्यगुणकानाम् । कर्माणीति वचनात् कर्ममात्रस्यैव व्याख्यानं, न तु कर्तृतद्धर्मकालादीनाम् । तेन “गर्दभेनावकीर्णी निऋतिं पाकयज्ञेन यजेत, (आप. ध. १-२६-८.) इत्यत्र पशौ न पत्नीवत्त्वं नापि हृदयसंसर्गादिषु पर्वणो नियमः, विशेषतश्चोपवासस्य धर्मशास्त्रे पर्वसम्बन्धेन विधानात् । व्याख्यातानीति वचनादन्येषां नैतद्विकृतित्वम् । तेनानारब्धपार्वणोऽपि तेष्वधिकारी । हृदयसंसर्गादिषु पुनस्तन्त्रविधानं आज्यहोमवन्नियमार्थम् । एतद्गृह्योपदिष्टेषु यत्र वचनं तत्रैव तन्त्रं, नान्यत्र । तेनाग्रयणे तन्त्रलोप इति । तन्न; यत उपदिष्टधर्मकस्य वैवाहिकस्य धर्मातिदेशेऽपि नैव दोषः । प्रत्युत नित्यस्य कल्पातिदेशे पर्वादीनामप्यतिदेशाद्दोषः । कर्माणीति वचनान्नेति चेत्–न; तस्योद्देश्यसमर्पणोपक्षीणत्वात् । अखण्डग्राहिणश्चोदकस्योच्छृङ्खलत्वात् । दक्षिणाऽभावस्तु प्रयोजनं तस्य “योऽस्यापचितस्तस्मा ऋषभं ददाति” (आप. गृ. ७-१६.) इति सिद्धम् । तथा सदृशेष्वयमतिदेश इत्युक्तिमात्रम्, असदृशेष्वपि पशुष्वभ्युपगमात् । पक्वत्वात् सादृश्ये द्रव्यत्वादाज्येऽपि स्यात् । न चैवं व्याख्यातशब्दः प्रकृतिविकृत्वाभावार्थः । “एतेन वैश्वसृजो व्याख्यातः (आप. श्रौ. १९-१५-१.) इत्यादौ प्रकृतिविकृतित्वस्य दृष्टत्वात् । तथा नैकस्मिन्नाग्रयणे तन्त्रलोपफलार्थं नियमार्थानि बहूनि सूत्राण्यारब्धव्यानि । अविकृतमातिथ्यमाग्रयणं चेत्येतावन्मात्रसूत्रादेव स्वाभिमतसिद्धेः । अतस्तानि तन्त्रसूत्राणि यथोक्तप्रयोजनार्थानि । आग्रयणमपि तन्त्रवदेव ॥२३॥
मूलम् ...{Loading}...
पार्वणेनातो ऽन्यानि कर्माणि व्याख्यातान्य् - आचाराद् यानि गृह्यन्ते।
०७ २४ यथोपदेशन् देवताः
०७ २४ यथोपदेशन् देवताः ...{Loading}...
यथोपदेशं देवताः २४
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- The deities (of those rites) are as stated (with regard to each particular case),
हरदत्तः
+++(सम्पादकटिप्पानी - इदं सूत्रम् अग्रिमे व्याख्यातम्।)+++
सुदर्शनः
+++(सम्पादकटिप्पानी - इदं सूत्रम् अग्रिमे व्याख्यातम्।)+++
मूलम् ...{Loading}...
यथोपदेशं देवताः।
०७ २५ अग्निं स्विष्टकृतम्
०७ २५ अग्निं स्विष्टकृतम् ...{Loading}...
अग्निं स्विष्टकृतं चान्तरेण २५
सर्वाष् टीकाः ...{Loading}...
Oldenberg
having their place between Agni (Sūtra 5) and Sviṣṭakṛt (Sūtra 7).
हरदत्तः
पार्वणेनातोन्यानीत्ययं कल्पातिदेशः इत्युक्तम् । तेन पार्वणे ये देवते यश्च स्थालीपाकः तेषां सर्वेषु कर्मसु प्रवृत्तिः । तत्र तत्रोपदिष्टाभिस्तु देवताभिः पार्वणदेवतयोः बाधे प्राप्ते तन्निवृत्त्यर्थं वचनं तत्र चोदितानां देवतानां देशविधानार्थञ्च योऽयमग्निः पार्वणो यश्च स्विष्टकृत्, तावन्तरेण तयोर्मध्ये ता देवता यष्टव्या इति । तत्र पार्वणस्याग्नेः पार्वणमेव हविः तत्र तत्र विहितानां तत्र तत्र विहितम् । स्विष्टकृतस्तु सर्वो हविश्शेषः, अन्यत्र तथा दर्शनात् । अन्ये तु तत्र विहितादेव हविषः पार्वणदेवतयोरपीज्यामिच्छन्ति । अपर आह– नात्र पार्वणदेवते अनूद्येते अग्निश्च स्विष्टकृच्च । किं तर्हि ? आगन्तुके एते अनेनैव वचनेन विधीयेते । तत्र हविषोऽनुपदिष्टत्वात् अग्नेराज्यं हविः । स्विष्टकृतस्तु सर्वो हविश्शेष इति । सर्वथा सर्वेष्वेव पार्वणातिदिष्टेष्वग्निः पूर्वं यष्टव्यः । तथा च श्रौतेषु दृश्यते “येन यज्ञेनेर्त्सेत् कुर्यादेव तत्राग्नेयमिति । यथा भाष्यं व्याख्यायते । पार्वणव्याख्यातेषु सर्वेष्वेव कर्मसु यथोपदेशं देवता यजति अग्निं स्विष्टकृतं च यजति योयमग्निस्विष्टकृत् पार्वणे द्वितीयो देवताविशेषः तं च यजति तस्मादेव हविषः । यत्तत्र तत्रोपदिष्टानां हविरिति । तत्र यथोपदेशं देवता इत्यनुवादः स्विष्टकृतस्समुच्चयविधानार्थः । असति समुच्चये तेषु तस्य प्रवृत्तिर्न स्यात् । तत्र तत्रोपदिष्टभिर्देवताभिर्निवर्तितत्वात् । अग्नेरिव स्विष्टकृतोऽपि प्रधानदेवतावच्चोदितत्वात्—“अग्निस्विष्टकृद्द्वितीय इति । अन्तरेण इत्यनेन तु तस्यैव स्विष्टकृतो देशो नियम्यते –प्रधानाहुतीश्चोपहोमांश्चान्तरेणाग्निं स्विष्टकृतं यजतीति । तेन यत्राप्युत्तरा आहुतीर्हुत्वा जयादि प्रतिपद्यते, “आज्याहुतीरुत्तराः जयादि प्रतिपद्यत” इति च क्रमपरं वचनं तत्रापि नित्यमग्निस्विष्टकृदस्मिन्नन्तराले यष्टव्यो भवतीति । प्रकरणाच्च प्रधानाहुतीरुपहोमाश्चान्तरेणेत्यर्थोऽपि लभ्यते ॥२५॥
सुदर्शनः
अत्रास्वपदो विग्रहः, अव्ययीभावसमासत्वात् । अध्याहारश्च, साकाङ्क्षत्वात् । यथोपदेशं सर्पबल्यादिषु याश्च यावत्यश्च येन येन प्रकारेण मन्त्रविधानादिनोपद्ष्टाः देवतास्ता एव भवन्ति, न पार्वणदेवताः । न तेषु पार्वणं प्रधानं समुच्चेतव्यमित्यर्थः । ननु– विकृतावुपकारमुखेन तज्जनकानां धर्माणामतिदेशः, प्रधानं चोपकार्यं, नोपकारजनकम् । पार्वणे च स्थालीपाकहोमयोः प्रथमो होमः प्रधानम् । अतस्तस्यातिदेश एव नास्ति । दूरे तत्समुच्चयाशङ्का, यन्निरासायेदं सूत्रं स्यात् । “षड्भिर्दीक्षयति” (तै. सं.५-१-९.) इत्यत्र तु प्राकृतीनां दीक्षाहुतीनां अङ्गत्वादतिदेशः, अदृष्टार्थत्वाच्च समुच्चयः, यथोपदिष्टानां प्रकृतिकॢप्तक्रमबाधभयादन्ते निवेशश्च युक्त एव । सत्यमेवम् ; किन्तु गार्ह्यकर्मानुष्ठातॄणां मध्ये ये मन्दबुद्धयोऽङ्गप्रधानयोरतिदेश्यानतिदेश्ययोश्च अनभिज्ञास्ते पार्वणेनेत्यविशेषेणातिदेशप्रतिभासात् “षड्भिर्दीक्षयति”, इत्यादौ दर्शनमात्राच्च प्रधानातिदेशतत्समुच्चयावुपदिष्टप्रधानानामन्ते निवेशं च मन्यन्ते । तन्निरासायेदं सूत्रम् ॥२४॥
अथ वैकृतप्रधानहोमानां स्थानमर्थादग्निमुखसौविष्टकृतयोश्च विदधाति– “यथोपदेशं देवताः” (आप.गृ.७-२४.) इत्यनुवर्तते । यथोपदेशं देवताः ये विकृतावुपदिष्टाः ते अग्निं स्विष्टकृतं चान्तरेण आग्नेयसौविष्टकृतयोर्होमयोर्मध्ये भवेयुः । अत्र च स्विष्टकृतमितिवदग्निमित्यपि सिद्धानुवादात्, अन्यतश्च प्राप्त्यभावात्, योगविभागेनाग्निमुद्दिश्य जुहुयादित्यन्योऽप्यर्थो विधीयते । विभक्तस्य सूत्रस्य चायं विवक्षितोऽर्थः–सर्वेषु तन्त्रवत्स्वौषधहोमेषु दधिहोमेषु चोपाकरणसमापनयोश्च शिष्टाचाराद् “अग्नये स्वाहा” इत्याज्येन अग्निमुखाख्यमङ्गहोमं सर्वेभ्योऽपि प्रधानहोमेभ्यः पूर्वं जुहुयादिति । नन्वत्र “स्विष्टकृतम्” इति व्यर्थम् ; सर्वत्र स्विष्टकृतश्शेषप्रतिपत्त्यर्थत्वात् स्वत एवासावन्ते एव भवतीति । नैवम्–विकृतिषु द्विविधाः प्रधानहोमाः–पार्वणविकारा अपूर्वाश्च; तेषामुभयेषामप्यन्त एव स्विष्टकृद्यथा स्यादित्येवमर्थत्वात् । अन्यथा यद्धोमाङ्गं स्विष्टकृत्तदन्त एव स्यात् । तथाग्निमिति चोभयेभ्यः प्रधानाहुतिभ्यः पूर्वमेवाग्निमुखमित्येवमर्थं स्विष्टकृद्वन्नियम इति ॥ केचित् “यथोपदेशं देवता अग्निं स्विष्टकृतं च” इत्येवमन्तमेकं सूत्रम् । तस्यार्थः—“अग्निस्स्विष्टकृत् द्वितीयः” (आप.गृ. ७-७०. ) इत्यत्र स्विष्टकृतः प्रधानहोमतुल्यधर्मत्वज्ञापनात् विकृतिषु च पार्वणप्रधानलोपे सति तस्यापि लोपस्स्यात्, स मा भूदित्यनेन सूत्रेण “यथापदेशं देवताः” इत्यनूद्य, अग्निं स्विष्टकृतं च कुर्यात् इति तासु तस्य समुच्चयो विधीयते । तथा “अन्तरेण” इति पदमेकं सूत्रं “अन्तरा त्वाष्ट्रेण” इत्यादिवत् । प्रकरणाद्वैकृतप्रधानहोमानां जयादीनां च मध्ये सर्वास्वपि विकृतिषु स्विष्टकृन्नित्य एवेत्यर्थः । इतरथा क्वचित्तस्य लेपः स्यात्, “स्थालीपाकादुत्तरा आहुतीर्हुत्वा जयादि प्रतिपद्यते” (आप.गृ. ९-४.) इत्यादि परिसङ्ख्येति कृत्वेति । तन्न, –विभागे साकाङ्क्षयोर्द्वितीयान्तयोः “अग्निं” स्विष्टकृतं, इत्येतयोः अन्तरेणेत्यनेन सम्बन्धाकाङ्क्षेण एकवाक्यत्वे सम्भवति वाक्यभेदस्यायुक्तत्वात्, “अग्निस्स्विष्टकृद्द्वितीयः” इत्यस्य प्रयोजनान्तरपरत्वाच्च । तथापि यदि स्विष्टकृतः प्रधानतुल्यधर्मकत्वं, तदा तल्लोपेऽपि प्रधानलोपप्रायश्चित्तमेवापद्यते । तथा “अन्तरेण” इत्यस्य यथोक्तश्रुतसम्बन्ध्यन्वयसम्भवे अप्रकृतगम्यमानान्वयो न युक्तः । व्यर्थं चैतत्; स्वमते स्विष्टकृतस्समुच्चयविधानादेव त्रिदोषायाः परिसङ्ख्याया अपि निरस्तत्वात्, तस्य सर्वत्र नित्यत्वेनालोपसिद्धेः ॥२५॥
मूलम् ...{Loading}...
अग्निं स्विष्टकृतं चान्तरेण ।
०७ २६ अविकृतमातिथ्यम्
०७ २६ अविकृतमातिथ्यम् ...{Loading}...
अविकृतम् आतिथ्यम् +++(= गवालम्भे न स्थालीपाकतन्त्रम्)+++२६
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- 9 The sacrifice (of a cow) on the arrival of a guest (should be performed as stated below) without alterations.
हरदत्तः
या गौरतिथय आलभ्यते “गौरिति गां प्राहेति” तदातिथ्यं नाम कर्म तदविकृतम् अपूर्वं पार्वणधर्मास्तद्वपाहोमे न कर्तव्या इत्यर्थः । इदमेव ज्ञापकं न स्थालीपाकेष्वेव सोऽतिदेशः । किं तर्हि ? सर्वेषु पक्वगुणेषु पशुष्वपीति । तेनाष्टकायां काम्यपशुषु च शास्त्रान्तरदृष्टेषु पार्वणधर्मसिद्धिः ॥२८॥
सुदर्शनः
अतिथिर्यस्य कर्मणो निमित्तं तदातिथ्यम्, गवालम्भ इत्यर्थः । तदविकृतं यथोपदिष्टमेव स्यात् । नात्र “अग्निमिद्ध्वा” (आप. गृ. १-१२.) इत्यादि सामान्यमपि तन्त्रम्, पार्वणं तु दूरे; “कृत्स्नविधानात् यजतेरपूर्वत्वम्” (जै. सू. ८-१-५.) इति न्यायात् । “कृत्स्नविधानं च तस्यै वपां श्रपयित्वोपस्तीर्णाभिघारितां मध्यमेन्तमेन वा पलाशपर्णेनोत्तरया जुहोति” (आप. गृ. २२-४.) इति । एतच्च प्रदर्शनार्थम् । तेन वपाहोमानन्तरं किंशुकहोमसर्षपहोमफलीकरणहोमादयोऽप्यपूर्वा एव; कृत्स्नविधानस्य तुल्यत्वात् ।
मूलम् ...{Loading}...
अविकृतमातिथ्यम् ।
०७ २७ वैश्वदेवे विश्वे
०७ २७ वैश्वदेवे विश्वे ...{Loading}...
वैश्वदेवे विश्वे देवाः २७
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- 10 (The deities) of the Vaiśvadeva ceremony are the Viśve devās,
हरदत्त-प्रस्तावः
ननु– “नानग्नौ प्रधानम्” इति याज्ञिकवचनात् वैश्वदेवबलिहरणानि तावदङ्गानि । अग्नौ होमेषु च आग्नेयसौविष्टकृतावन्तरेण ये होमास्त एव प्रधानाः । तौ तु सर्पबल्यादिसामान्यादङ्गमित्याशङ्क्याह—
हरदत्तः
“आर्याः प्रयता वैश्वदेव” इति चोदिते वैश्वदेवाख्ये कर्मणि देवतोपदेशोऽयं निर्वापकाले सङ्कल्पार्थम् । यास्तु तत्र देवताः षड्भिराद्यैः प्रतिमन्त्रं ( आप. ध.२-३-१६.) इत्येवमाद्याः ताः प्रदानकाले देवताः, तेन विश्वेभ्यो देवेभ्यः इति सङ्कल्प्य गृहस्थेन स्वगृहे पाकः कार्यः । तथा पक्वादेवान्नात् होमा बलयश्च तस्यै तस्यै देवतायै । “अहरहर्भूतबलिर्” इत्येवमाद्याः पञ्चमहायज्ञानामुत्पत्तिविधयः । “आर्याः प्रयता” इत्यादिकस्तु तेषामेव प्रयोगविधिः । तस्मात् न पृथक् पञ्चमहायज्ञाः कर्तव्याः तत्रैव वैश्वदेवं यदग्नौ क्रियते स देवयज्ञः । यत् बलिहरणं स भूतयज्ञः । यद्दक्षिणतः पितृलिङ्गेनेति स पितृयज्ञः । यदग्नं च देयमित्यादि स मनुष्ययज्ञः । तत्र वैश्वदेवे सोमाय स्वाहेति द्वितीयाहुतिरिति मन्त्रव्याख्याकारेणोक्तम् । न च षड्भिराद्यैरिति विरोधः । तस्य प्रधानदेवताविषयत्वात्, स्विष्टकृतश्च तान्त्रिकत्वात् । अथ कस्मादिहैव वैश्वदेवस्य कृत्स्नकल्पो नोपदिश्यते? उच्यते– इहोपदेशे तस्य कल्पस्य सर्वचरणार्थता न स्यात्, इष्यते च । तस्मात् सर्वचरणसाधारणेषु सामयाचारिकेषूपदेशः । अथ तर्हि देवतोपदेशः तत्रैव कस्मान्न कृतः ? इहोपदेशप्रयोजनमस्मिन् गृह्ये तदपि वैश्वदेवं कर्मोपदिष्टं यथा स्यादिति । तेनास्मदीयानां स एव वैश्वदेवकल्पो नान्येषु धर्मशास्त्रेषु चोदितः । यज्ञोपवीतिना प्रदक्षिणमित्यादि परिभाषाप्रवृत्तिश्च भवति ॥२७॥
सुदर्शनः
वैश्वदेवम् इति कर्मनामधेयम् ।
प्रवृत्ति-निमित्तं च, विश्वे सर्वे देवा अत्रेज्यन्त इति ।
इह च मन्त्रवर्णसिद्धानां देवतात्वस्याविधेयत्वात्,
आग्नेयादयष् षड् अपि होमाः बलिहरणानि चानग्निदेश्यान्य् अपि सर्वाण्येव प्रधानानि ;
न तु किञ्चिदपि शेषापरनामाङ्गम्, इत्येवं सूत्रार्थः ।
अयं भावः– यादि नानग्नौ प्रधानम्,
किन्तु शेष एवेति
तर्ह्येतच्छेषलक्षणे तृतीयाध्याये दृश्येत ।
न तु दृष्टम्, नापि सूत्रकारोक्तं दृश्यते ।
किन्तु पिण्डपितृयज्ञे तावदापस्तम्बेन होमः पिण्डदानं चोभयं प्रधानमुक्तम्, पिण्डदानं प्रकृत्य यदि जीवपिता, न दद्यात्, आहोमात्कृत्वा विरमेत्” (आप.श्रौ.१-९-८.) इति ।
यदि हि पिण्डदानस्याङ्गता, तदा प्रधानभूतहोमानुष्ठाने सति, तस्याप्यनुष्ठानं स्यात्, न विरामः ।
तस्मादत्र प्रधानस्यैव पिण्डदानस्य “नासोमयाजी सन्नयेत्” (तै. सं.२-५-५.) इत्यादिवदनारम्भलक्षण एव विरामः ।
कात्यायनस्तु—प्रत्युत पक्षे पिण्डदानमेव प्रधानं, होमस्तदङ्गमित्याह “जीवपितृकस्य होमान्तम्, अनारम्भो वा” (का. श्रौ. ४-१-२४,२५.) इति ॥
तथा सर्पेशानबल्योरपि होमा बलयश्च प्रधानम् ।
अवभृथे त्वनग्नावेव प्रधानम् ।
सोमाङ्गत्वेऽप्यस्य प्राधान्यं स्वाङ्गापेक्षया ।
तथैव राक्षसे गर्दभपशौ अनग्नावेव प्रधानम् ; “अप्स्ववदानैश्चरेयुः” (आप. श्रौ. ९-१५-५.) इति वचनात् ।
वपायास्तूपदेशमतादग्नौ होमः ।
“यदि वपा हविरवदानं वा स्कन्देत्” (आप. श्रौ. ९-१८-१५.) इति वपायाः पृथग्ग्रहणात् ।
एवमनग्नावप्यन्यानि बहूनि प्रधानानि सन्ति, यथा श्राद्धे ब्राह्मणभोजनम् । एवमाग्नेयसौविष्टकृतहोमावपीह प्रधानम् ; “औपासने पचने वा षड्भिराद्यैः प्रतिमन्त्रं हस्तेन जुहुयात्” (आप. ध. २-३-१६.) इति कृत्स्नविधानेन, “उभयतः परिषेचनम्”(आप. ध. २-३-१७.) इति परिसङ्ख्यया चास्य वैश्वदेवस्यापार्वणविकारत्वात् ।
सर्पबल्यादिषु तु पार्वणविकारत्वात्तावदङ्गम् ।
किञ्च वैश्वदेवमन्त्रेष्वपि “अग्नये स्वाहा, अग्नये स्विष्टकृते स्वाहा” इत्येतयोरप्याम्नानात् प्राधान्यम् ।
ननु–वैश्वदेवमन्त्राणामपि न प्रत्यक्षस्समाम्नायः, स कथमवगम्यते? उच्यते–“षड्भिराद्यैः प्रतिमन्त्रम्” “अपरेणाग्निं सप्तमाष्टमाभ्याम्” (आप. ध. २-३-१६,२०.) इत्यादिसूत्रैः क्रमेण विनियोगात् क्वचिदाम्नानमस्तीत्यवगम्यते । तच्चाम्नानं प्राग्विवाहमन्त्रेभ्यः, भाष्यकारवचनात् । ततश्च ब्रह्मयज्ञपारायणयोरप्येतेषामेवंक्रमेणाध्ययनं वेदितव्यम् । सर्वप्राधान्ये च प्रयोजनम्-एषामेकतरमप्यकृत्वा प्रयोगे समापितेऽपि तत् प्राग्भोजनात् सप्रायश्चित्तं साङ्गमनुष्ठेयम् ; कृते तु भोजने पाकयज्ञलोपप्रायश्चित्तमेवेति । केचित्— वैश्वदेवे विश्वे देवा देवता विधीयन्ते निर्वापकाले सङ्कल्पार्थम्, ईशानयज्ञवत् । यास्तु धर्मशास्त्रे मन्त्रविनियोगात् कल्पितास्ताः प्रदानकाले देवताः । इह च देवतोपदेशो वैश्वदेवस्य गार्ह्यपरिभाषाप्राप्त्यर्थः । तत्र तस्योपदेशस्तु सर्वचरणार्थः । इदं च वैश्वदेवं न पञ्चमहायज्ञेभ्यः पृथग्भूतम् । “अहरहर्भूतबलिः” (आप. ध.१-१२-१५.) इत्यादयश्च पञ्चमहायज्ञानामुत्पत्तिविधयः । “आर्याः प्रयता वैश्वदेवे” (आप. ध.२-३-१.) इत्यादिस्तु प्रयोगविधिः । तत्र यदग्नौ क्रियते स देवयज्ञः, यत् बलिहरणं स भूतयज्ञः, यद्दक्षिणतः पितृलिङ्गेनेति स पितृयज्ञः, यच्चाग्रदानं स मनुष्ययज्ञः, इति ।
तन्न, स्वमते श्रुत्या चोदितान् विश्वान् देवान् वचनं विनाऽपनीय, तेभ्यस्सङ्कल्पितस्य हविषो देवतान्तरेभ्यो मन्त्रवर्णात् कल्पितेभ्यो दातुमयुक्तत्वात् । ईशानबलौ तु भवशर्वादिशब्दानामीशानाभिधानत्वात्, अर्थस्य देवतात्वमिति सूत्रकारमताच्च, युक्तं भवायेत्यादिभिर्मन्त्रैर्दानम् । यत्तु मीढुष्यै जयन्ताय चास्मात् स्थालीपाकाद्दानं तदप्यभ्युदयेष्ट्यादिवत् सवनीयपुरोडाशवच्च” त्रीनोदनान् कल्पयित्वोत्तरैरुपस्पर्शयित्वोत्तरैर्यथास्वमोदनेभ्यो हुत्वा” (आप. गृ.२०-४.) इति वचनैः स्थालीपाकांशद्वये पूर्वदेवतापनयेन देवतान्तरविधानाद्युक्तम् ।
पञ्चमहायज्ञेभ्यो न पृथग् वैश्वदेवम् इत्यपि न;
प्रकरणान्तरात् संज्ञा-भेदाच् च कर्म-भेदावगतेः ।
न च कर्मभेदे तेषां प्रयोगो दुरुपपाद
इति प्रमित-भेदापह्नवो युक्तः,
यतो +++(कपर्दि??-)+++भाष्ये वैश्वदेवस्य, तेषां च प्रयोगः पृथग् एवोपपादितः ॥
विस्तारः (द्रष्टुं नोद्यम्)
अत्रानुवादः -
प्रकरणान्तरात् संज्ञा-भेदाच् च कर्म-भेदावगतेः = due to understanding in difference in the karma-s based on chapter/context -difference, name-difference.
न च कर्मभेदे तेषां प्रयोगो दुरुपपाद
इति प्रमित-भेदापह्नवो युक्तः = not proper to hide the evidenced difference (in the karmas) by saying that the procedures are unclarifiable.
भाष्ये वैश्वदेवस्य, तेषां च प्रयोगः पृथग् एवोपपादितः = the procedures are described separately in the bhAShya (अधुना नोपलभ्यते कपर्दिभाष्यम्। कारिकास् तु काश्चन लभ्यन्ते। )
५ महा-यज्ञाः ...{Loading}...
अथ प्रयोगभाष्यम् ईषद्-भेदं लिख्यते–
“वैश्वदेवस्य कर्मोच्यते” प्रसङ्गात् पञ्च-महा-यज्ञानां च ।
वैश्वदेवम्
समावेशनजपान्ते विवाहे समाप्ते
वैश्व-देव–मन्त्राणाम् उपयोगे यद् व्रतं
“द्वादशाहमधश्शय्या” (आप.ध.२-३-१३.) इत्यादि
तत्स्वामित्वाविशेषात् सपत्नीकश् चरित्वा
प्रशस्तेऽहन्यारभ्य “आर्याः प्रयता वैश्वदेवेऽन्नसंस्कर्तारस्स्युः” इत्यादिविधिना सिद्धेऽन्ने तिष्ठन्नन्नसंस्कर्ता भार्यादिः “भूतम्” इति स्वामिने प्रब्रूयात् ।
तत् “सुभूतं सा विराडन्नं तन्माक्षायि” इति स्वामी प्रतिब्रूयात् ।
ततो यदि प्रयाणे गृहे वा वैश्वदेवस्य होमस्य स्थाने ऽग्निर् उपसमाधातव्यः, तत्र धर्मशास्त्रोक्तविधिना उपसमादधाति। एवम् अन्यत्राप्य् औपासनहोमादिषु।
अथ गृहमेधिनो यद् अशनीयमन्नं ततो होमार्थ हविष्यमन्नं पात्रे कल्पयति।
अहविष्यं श्रारलवणावरान्नसंसृष्टं द्वितीये।
हविष्यमन्नं देवयज्ञार्थं तृतीये।
सर्वतस्समवदाय अग्रार्थं चतुर्थे।
सर्वत एव समवदाय मनुष्ययज्ञार्थं पञ्चमे यदि ब्राह्मणतर्पणं नावकल्पते। “मनुष्येभ्यो यथाशक्ति दानम्” (आप. ध.१-१२-१५.) इति वचनात् ।
ततः परिषेचनं कृत्वा प्रथमकल्पितादन्नाद्यथाहुतिमात्रं अङ्गुष्ठपर्वमात्रं “अग्नये स्वाहे"त्यादिभिः षडैहुतीर्हुत्वा उत्तरं परिषेचनम् ।
अथ उदचीनमुष्णं भस्मापोह्य तस्मिन् अहविष्यं स्वाहाकारेण जुहोति; “यस्याग्नौ न क्रियते यस्यचाग्रं न दीयते न तद्भोक्तव्यम्” (आप. ध.२१५१३) इति वचनात् ।
अथ षडाहुति-होम-शेषम् अहविष्य-होम-शेषेण संसृज्यान्नेन सूपसंसृष्टेन धर्मशास्त्रोक्तेन विधिना रौद्रान्तं बलिं हृत्वा,
ऽग्रं ब्राह्मणाय दत्वा,
ब्राह्मणोक्तत्वाद् अपार्वण+++(ं??)+++ व्याख्यातं सन्निपातीतिकर्तव्यताकं देवयज्ञं कुर्वीत ।
देवयज्ञः
देवयज्ञेन यक्ष्य इत्यागूर्य,
“विद्युदसि ।”
औपासने पचने वा कल्पिताद् अन्नात्,
तद्-अभावे हविष्यम् अन्नं व्रीहियवादि, आकाष्ठात्,
“देवेभ्यस् स्वाहे"ति हस्तेन जुहुयात् ;
“सन्निपाती"ति कर्तव्यतयोर् औपासन-होम–वैश्वदेवयोर् हस्तेन होमस्य दृष्टत्वात् ।
मन्त्रवच् चोभयतः परिषेचनम्, तयोर् दृष्टत्वाद् एव ।
“वृष्टिरसि ।”
“वषट्कार-होमेषु विद्युद्-वृष्टी” इत्युपदेशः ।
पितृयज्ञः
अथ प्राचीनावीती पितृयज्ञेन यक्ष्ये इत्युक्त्वा - विद्युद् असि ।
शुचौ भूमौ
कल्पिताद् ओदनात्
हस्तेन अङ्गुष्ठ-प्रदेशिन्याव् अन्तरेण “पितृभ्यः स्वधास्तु”, इति दद्याद् आहुति-मात्रम् ।
वृष्टिरसि ।
पित्र्यं बलिहरणविधिनेत्युपदेशः ।
भूत-यज्ञः
अथ बलिहरणस्य होमतुल्यत्वात् यज्ञोपवीती “भूतयज्ञेन यक्ष्य” इत्युक्त्वा,
विद्युत् ।
शुचौ भूमाव् एव हस्तेन “इदं भूतेभ्योऽस्तु” इति दद्यात् ।
वृष्टिः
- बलिहरण-विधिनेत्य् उपदेशः ।
मनुष्य-यज्ञः
अथ दानस्य होमतुल्यत्वात् यज्ञोपवीती “मनुष्ययज्ञेन यक्ष्य” इत्युक्त्वा,
विद्युत ।
ब्राह्मणतर्पणं, सङ्कल्पितस्य वा दानम् ।
वृष्टिः -
दानमात्रम् इत्युपदेशः ।
ब्रह्मयज्ञः
ब्रह्मयज्ञं तु पूर्वमेव कुर्वीत अग्निहोत्रमौपासनं वा हुत्वा; “उदित आदित्ये” (तै. आ.२-११.) इति वचनात् । तस्य कर्मोच्यते– “ब्रह्मयज्ञेन यक्ष्यमाणः” (तै.आ.२-११.) इत्यादि ब्राह्मणोक्तदेशे यथाविध्याचमेत् । अस्मिंस्त्वाचमने विशेषः “दक्षिणत उपवीय” इत्यारभ्य “सकृदुपस्पृश्य” (तै.आ. २-११.) इत्येवमन्ते विगुणे कृते “यदि यजुष्ट” इति “भुवस्वाहा” इति होमः प्रायश्चित्तम् । “दक्षिणेन पाणिना सव्यं प्रोक्ष्य” इत्यारभ्य शेषे विगुणे कृते “यद्यविज्ञाता” इति प्रायश्चित्तम् ।
अथ क्रम उच्यते—
ब्रह्मयज्ञेन यक्ष्ये इत्युक्त्वा, विद्युत् ।
आचमनम् ।
आसनकल्पनादि सावित्रीजपान्तं कृत्वा वेदस्यादित आरभ्य यथाध्यायमध्ययनमध्यायः कृत्स्नस्य वेदस्यासमाप्तेः ; “श्रावण्यां पौर्णमास्यामध्यायमुपाकृत्य” (आप.ध.१-९-१.) इति वचनात् येन प्रकारेणाध्यायो येन च क्रमेणाधीयतेऽविना चाम्नानैः आदिप्रदिष्टानुषङ्गप्रख्यादिभिः, उत्सृजन् उत्सृज्योत्सृज्य, वाचा मनसा च यावत्तरसं यावच्छक्यमधीयीत ।
परिधानीयां कृत्वा, वृष्टिरसि ।
एवम् अहरहः कृतान्तादारभ्य यावत् समाप्तो वेदः सहैकाग्निविधिकाण्डेन ।
समस्तमधीत्य वैश्वदेव मन्त्रानधीत्य ततः प्रसुग्मन्तेति प्रश्नद्वयमधीयीत ।
एवं विनियोगदर्शनात्,
“ऐकाग्निको विधिः काण्डं वैश्वदेवमिति स्थितिः, ॥
इति वचनाच्च ।
यद्यनेकशाखाध्यायी ततोऽनेनैव विधिना द्वितीयं पुनरधीयीत ऋग्यजुस्साम्नां क्रमेण अध्ययने यद्यनध्यायस्स्यात्, तदैकां वर्चमेकं वा यजुरेकं वा साम कृतांतादेवारभ्याभिव्याहरेत् । यदा ब्राह्मणस्य क्रमेण तदा “भूर्भुवस्सुवस्सत्यं तपश्श्रद्धायां जुहोमी"त्यभिव्याहरेत् ।
एवं यावज्जीवं ब्रह्मयज्ञं कुर्वीत ।
रौद्रम्
मनुष्ययज्ञान्ते “सर्वान् वैश्वदेवभागिनः कुर्वीत, (आप.ध.२-९-५.) इत्यादिविधानेन सर्वेषु पत्न्यन्तेषु भुक्त्वत्सु, पाकपरिवेषणपात्रेभ्यो लेपान् सङ्कृष्योत्तरतः शुचौ देशे रुद्राय सम्प्रदानभूताय निनयेत्, “रुद्राय स्वाहा” इति । नित्यवच्च निनयनम्; प्रतिपत्तिकर्मत्वात् ।
“एवं वास्तु शिवं भवति” (आप.ध.२-४-२३.) इत्यर्थवादः । “द्रव्यसंस्कारकर्मसु परार्थत्वात्” (पू. मी.४-३-१.) इति न्यायात् । फलं वा, सूत्रकारेणोपदिष्टत्वात् “य एतानव्यग्रो यथोपदेशं कुरुते नित्यः स्वर्गः पुष्टिश्च” (आप. ध.२-४-९.)इति ।
एवम् ऋते महायज्ञेभ्यः
सायं रौद्रान्तं कृत्वा
वैहायसम् आकाशे भूतबलिं कुर्वीत ॥
अन्य आहुः–
“नक्तमेवोत्तमेन” (आप.२-४-८.) इत्य्-एव-कारस्य व्यवहितान्वयाद्
वैहायसमेव सायम् इति ॥
मूलम् ...{Loading}...
वैश्वदेवे विश्वे देवाः।
०७ २८ पौर्णमास्याम् पौर्णमासी
०७ २८ पौर्णमास्याम् पौर्णमासी ...{Loading}...
पौर्णमास्यां पौर्णमासी यस्यां क्रियते २८
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- 11 Of ceremonies performed on full-moon days, the full-moon day on which they are performed.
हरदत्त-प्रस्तावः
इदानीं प्रसङ्गात् सर्पबलेस्तदुत्सर्गस्य च देवतामुपदिशति–
हरदत्तः
“श्रावण्यां ‘पौर्णमास्यामस्तमिते स्थालीपाक” इत्यादि पौर्णमास्यां यत् कर्म चोदितं तत्र पौर्णमासीदेवता । का सा ? यस्यां तत् कर्म क्रियते श्रावण्यै पौर्णमास्यै स्वाहेति । एवं स्थालीपाकाद्धोमः । ततो यथोपदेशं किंशुकानि समिध आज्याहुतयश्च, ततः स्थालीपाकात् स्विष्टकृत् । ततो जयादि । “यस्यां क्रियत” इत्यनुच्यमाने पौर्णमास्यै स्वाहेत्येव होमः स्यात् ॥२८॥
सुदर्शनः
यस्यां पौर्णमास्यां श्रावण्यां मार्गशीर्ष्यां च निमित्तभूतायां स्थालीपाकः क्रियते, तस्य सैव पौर्णमासी देवता । अयमर्थः सर्पबलौ “श्रावण्यै पौर्मास्यै स्वाहा” इति स्थालीपाकस्य होमः । उत्ससर्जने तु “मार्गशीर्ष्यै पौर्णमास्यै स्वाहा” इति ॥२८॥
इति श्रीसुदर्शनाचार्यकृते गृह्यतात्पर्यदर्शने सप्तमः खण्डः ॥
मूलम् ...{Loading}...
पौर्णमास्यां पौर्णमासी यस्यां क्रियते।
०८ ०१ उपाकरणे समापने
०८ ०१ उपाकरणे समापने ...{Loading}...
+++(स्थालीपाकतन्त्रेण होमे - )+++ उपाकरणे समापने च ऋषिर् यः प्रज्ञायते १
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- 1 At the opening and concluding ceremonies of the Vedic study, the Ṛṣi who is indicated (as the
Ṛṣi of the Kāṇḍa which they study, is the deity to whom the ceremony belongs),
हरदत्तः
+++(सम्पादकटिप्पानी - इदं सूत्रम् अग्रिमे व्याख्यातम् ।)+++
सुदर्शनः
+++(सम्पादकटिप्पानी - इदं सूत्रम् अग्रिमे व्याख्यातम् ।)+++
मूलम् ...{Loading}...
उपाकरणे समापने च ऋषिर्यः प्रज्ञायते।
०८ ०२ सदसस्पतिर्द्वितीयः
०८ ०२ सदसस्पतिर्द्वितीयः ...{Loading}...
+++(सदसस्पतिमद्भुतमिति मन्त्रेण)+++ सदसस्पतिर् द्वितीयः +++(स्विष्टकृतस् स्थान इति सुदर्शनसूरिः)+++ २
०८ सदसस्पतिमद्भुतम् प्रियमिन्द्रस्य ...{Loading}...
०६ सदसस्पतिमद्भुतं प्रियमिन्द्रस्य ...{Loading}...
सद॑स॒स्पति॒म् अद्भु॑तं
प्रि॒यम् इन्द्र॑स्य॒ काम्य॑म् ।
स॒निं +++(=दानरूपम्)+++ मे॒धाम् अ॑यासिषम् ६
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- And in the second place Sadasaspati (cf. Mantrap. I, 9, 8).
हरदत्तः
उपाकर्मोत्सर्जनयोर् द्वैविध्यम्
द्विविधम् उपाकरणम् – काण्डोपकरणम् अध्यायोपाकरणञ् चेति ।
तथा समापनम् ।
तथा चान्यपरे वाक्ये दर्शनं “काण्डोपाकरणे चामातृकस्य काण्डसमापने चापितृकस्ये"ति (आप.ध. १-११-१-२.)।
अध्यायोपाकरणं तु प्रसिद्धं- “श्रावण्यां पौर्णमास्यामध्यायमुपाकृत्येति” ।(आप. ध. १-९-१०.) । तथा समापनं - “तैष्यां पौर्णमास्यां रोहिण्यां वा विरमेत्”, इति (आप. ध. १-९-२०.)।
तत्र द्विविधेऽपि उपाकरणे समापने चर्षिर्यः प्रज्ञायते काण्डानुक्रमण्यां काण्डऋषित्वेन स तत्र देवता ।
तत्र सदसस्पतिर्द्वितीयः ।
काण्डऋषये हुत्वा सदसस्पतये होतव्यमित्यर्थः ।
काण्डानि
तत्र प्राजापत्यं सौम्यं आग्नेयं वैश्वदेवमिति काण्डानि ।
प्रजापतिः सोमो ऽग्निर् विश्वेदेवा इति काण्डर्षयः ।
सारस्वतं नाम सङ्कीर्णानि काण्डानि ।
यथाह बौधायनः – पौरोडाशिकं याजमानं होतारो हौत्रं पितृमेध इति सब्राह्मणानि सानुब्राह्मणानि प्राजापत्यानि ।
आध्वर्यवं ग्रहाः दाक्षिणानि समिष्टयजूंष्यवभृथयजूंषि वाजपेयश्शुक्रियाणि सवा इति सब्राह्मणानि सानुब्राह्मणानि सौम्यानि ।
अग्न्याधेयं पुनराधेयं अग्निहोत्रमग्न्युपस्थानमग्निचयनं सावित्रनाचिकेतचातुर्होत्रियवैश्वसृजारुणा इति सब्राह्मणानि सानुब्राह्मणान्य् आग्नेयानि ।
राजसूयः पशुबन्धः इष्टयो नक्षत्रेष्टयो दिवश्येनयोऽपाघाः सत्रायणमुपहोमाः सूक्तान्युपानुवाक्यं याज्या अश्वमेधः पुरुषमेधस्सौत्रामण्यच्छिद्राणि पशुहौत्रमुपनिषद इति सब्राह्मणानि सानुब्राह्मणानि वैश्वदेवानीति (बौ. गृ. ३-१-२१-२४.)।
अस्माकञ्च गृह्य-मन्त्र-प्रश्न-द्वयम् अप्य् एकाग्निकाण्डं नाम वैश्वदेवकाण्डे द्रष्टव्यम् ।
उपाकरणसमापने
तत्र काण्डोपाकरणे तस्य काण्डस्य ऋषिर्यः तस्मै होमः– प्रजापतये काण्डऋषये स्वाहेति ।
ततस् “सदसस्पतिम् अद्भुतम्” इति मन्त्रेण क्रम-प्राप्तेन सहित-मन्त्र-स्वाध्यायार्थं +++(एकाग्निकाण्डे)+++ विवाहप्रकरणे पठितः ।
तस्यैव विनियोग-प्रदर्शनार्थम् इदं सूत्रम् अस्मिन् प्रदेशे पठितम् ।
अन्यथोपनयनानन्तरम् एव वक्तव्यं स्यात् ।
एवं तस्य तस्य समापने तस्मै तस्मै काण्डर्षये होमः ।
सदसस्पतये द्वितीयः ।
न जयादयः, प्रापकाभावात् ।+++(4)+++
सूत्रान्तराश्रयणेन केचिज् जुह्वति ।
तानीमानि चत्वारि वेदव्रतानि यानि प्रतिकाण्डम् उपाकरणानि ।
यानि समापनानि तानि व्रतविसर्जनानि ।
अध्यायोपाकरणसमापने
अध्यायोपाकरणे तु सर्वेषां काण्डर्षीणां होमः, ततस्सदसस्पतेः ।
जयादयश्च भवन्ति वा, न वा ।
आर्षेय-पाठ-पक्षः
तत्र काण्डोपाकरण-समापनयोर् उदगयनादि-प्राप्तेर् उपनयनानन्तरं तदानीम् एव +++(→उपनयनात् समनन्तरम् एव)+++ प्राजापत्यं काण्डम् उपाकृत्य
श्रावण्यां पौर्णमास्याम् उपाकृत्य प्राजापत्यस्य काण्डस्याध्ययनम् ।
तैष्यामुत्सर्गः ।
तत्रैतावता कालेन प्राजापत्यकाण्डस्य समाप्तौ तेनोत्सर्गः ।
अथ सौम्यस्योपाकरणम् +++(प्राजापत्ये समाप्ते - नाध्यायोपाकरणं यावत् प्रतीक्षा)+++ ।
अथ यावद् अध्यायोपाकरणं तावत् प्राजापत्यस्य काण्डस्य धारणाध्ययनं शुक्ल-पक्षेषु ।+++(5)+++ कृष्णपक्षेष्व् अङ्गाध्ययनम् ।+++(5)+++
श्रावण्याम् उपाकर्म ।
अथ सौम्यकाण्डस्याध्ययनम् ।
तैष्यामुत्सर्गः ।
काण्डसमापनम् ।
एवमितरयोः ।
सर्वत्र उत्सर्जनाद् ऊर्ध्वं पूर्व-गृहीतस्यांशस्य धारणाध्ययनम् अङ्गाध्ययनञ् च होमः प्रथमःकल्पः ।
सारस्वत-पाठ-पक्षः
अथ ये सारस्वतं पाठम् अधीयते तेषाम् उपनयनानन्तरं तदानीम् एव चत्वारि वेदव्रतानि क्रमेण कृत्वा कालेऽध्यायमुपाकृत्य यथापाठम् अध्ययनं तैष्याम् उत्सर्गः ।+++(5)+++
पूर्ववद्धारणाध्ययनम् अङ्गाध्ययनं च, पुनर् उपाकरणम् इत्यादि ।
आर्षेय-पाठिष्व् आचारभेदाः
आद्यकल्पे तु केचिद् उत्सर्जनं न कुर्वते ।
ओपाकरणाद् अधीत्य पुनर् उपाकुर्वते ।
अन्ये तूत्सृज्य पुनरधीयते ।
वेदव्रतानि च यदा कदाचित् कुर्वते ।
तेषां मूलं मृग्यम् ।
शुक्रियाणाम्
सर्वेष्व् अपि पक्षेषु शुक्रियाणां पृथग् उपाकरणम् उत्सर्जनञ् च ।
तत्र प्रयोगः—
पर्वण्य् उदयगयन इत्यारभ्याज्यभागान्ते सोमाय काण्डर्षये स्वाहेति, सदसस्पतिम् इति च हुत्वा
जयादि-परिषेचनान्ते मदन्तीर् उपस्पृश्येत्य् एवमादि प्रतिपद्यते ।
एवम् एव पूर्ववत् विसृज्येत्य् अत्रापि प्रयोगः ॥२॥
सुदर्शनः
अत्र विषयशुध्यर्थम् अध्यायस्य च, प्राजापत्य-सौम्याग्नेय-वैश्वदेवाख्यानां काण्डानां च, तत्-तत्-काण्डाख्य-व्रतानां चोपाकरण-समापनयोश् च स्वरूपम् उच्यते।
अध्यायानाम्
तत्राध्यायस्योपाकरणं, श्रावण्यां पौर्णमास्यां विहित-होम-पूर्वकम् अध्यायानाम् आरम्भः ।
समापनं च, तस्य तैष्यां पौर्णमास्याम् इत्यादिषु होम-पूर्वकम् एवाध्ययनोत्सर्गः ।
काण्डानाम्
काण्डानाम् उपाकरणं तु, क्रम-प्राप्ते काले होम-पूर्वकम् एव तत्-तत्-काण्डानाम् अध्ययनोपक्रमः ।
समापनं चैषां तत्-तत्-काण्डाध्ययने समाप्ते होम-पूर्वकम् एवोत्सर्गः ।
य एते काण्डानाम् उपाकरण-समापने, ते एव व्रतानाम् इति, न भेदेन, अध्ययनाङ्गत्वात् सर्वेषां ब्रह्मचारि-व्रतानाम् ।+++(4)+++
सारस्वतपाठाध्ययने तु काण्डानां सङ्कीर्णत्वेन यथाकाण्डम् अध्ययनासम्भवात्, व्रतान्य् एवोदगयने काण्डवद् एकैकशः उपाकृत्य संवत्सरं चरित्वा विधिवद् उत्सृजेत् ।
वेदव्रतानि
चत्वार्येव च वेदव्रतानि, न तु गृह्यान्तरोक्ते सावित्र-सम्मिताख्ये वेद-व्रते, सावित्र-सम्मिताख्य-काण्डयोर् अभावात् ।
“चौलोपनयनं, चत्वारि वेदव्रतानि”, (गौ. ध. ८-१५.) इति गौतमवचनाच् च ॥
प्रयोगः
अध्ययन-व्रतानि ...{Loading}...
तथा विषयशुध्यर्थम् एव प्रयोग-भाष्यम् अल्प-भेदम् एव लिख्यते ।
आपस्तम्ब-दर्शनानुगतोपदेशेनाध्यायोपाकरणादीनां कर्मोच्यते ।
अध्यायोपाकरणस्य
तत्र तावद् अध्यायोपाकरणस्य -
श्रावण्यां पौर्णमास्यां आचार्यश् शिष्यैस् सह कृत-प्राणायामो “ऽध्यायमुपाकरिष्य” इति सङ्कल्प्य महा-नद्यां विधिवत् स्नात्वा पवित्रपाणिः नव ऋषीन् तर्पयेत्–
प्रजापतिं काण्डऋषिं तर्पयामि।
सोमं काण्डऋषिं तर्पयामि।
अग्निं काण्डऋषिं तर्पयामि।
विश्वान्देवान् काण्डऋषिं तर्पयामि।
सांहितीर् देवता उपनिषदस् तर्पयामि।
याज्ञिकीर् देवता उपनिषदस् तर्पयामि।
वारुणीर् देवता उपनिषदस् तर्पयामि।
ब्रह्माणं स्वयंभुवं तर्पयामि।
सदसस्पतिं तर्पयामि
इति।
ततो ऽग्नेरुपसमादानाद्यग्निमुखान्ते अन्वारब्धेष्वन्तेवासिषु नवाज्याहुतीर्जुहोति।
प्रजापतये काण्डऋषये स्वाहा।
सोमाय काण्डऋषये स्वाहा।
अग्नये काण्डऋषये स्वाहा।
विश्वेभ्यो देवेभ्यः काण्डऋषिभ्यः स्वाहा।
+++(उपहोमाः)+++
साँहितीभ्यो देवताभ्य उपनिषद्भ्यः स्वाहा ।
याज्ञिकीभ्यो देवताभ्य उपनिषद्भ्यः स्वाहा ।
वारुणीभ्यो देवताभ्य उपनिषद्भ्यस्स्वाहा ।
ब्रह्मणे स्वयंभुवे स्वाहा ।
सदसस्पतिमित्येतयर्चा नवमीम् आहुतिं जुहोति ।
तत आचार्यप्रमुखाः दर्भेष्वासीना दर्भान् धारयमाणा वेदस्यादितश् चतुरो ऽवरार्ध्यान् अनुवाकान् अधीयीरन् ।
अथ जयादि, परिषेचनान्ते ब्राह्मण-तर्पणम् ।
उत्सर्गः
एवम् एवोत्सर्गो, न ततोऽधिकं स्मृत्यन्तरोप-संहारेणापि, किन्तु यथापस्तम्बीयं सूत्रम् ।
तथा नादितो वेदस्यानुवाकानामध्ययनम् ।
जयादयस्तु भवन्ति ।
सौम्ये विशेषः
सौम्याद् ऋते काण्डोपाकरण-समापनयोश् च न सूक्तोपहोम-देवतोपस्थान-जयादयः ।
सौम्यस्यैव सूक्तजयादयः ।
एवमापस्तम्बमत एवावस्थिताः केचित् कुर्वते यथोक्तम् ॥
प्राजापत्य-व्रतम्
आरम्भः
अथ प्राजापत्ये व्रते पूर्ववत् स्नात्वा सोमाग्नि-विश्वेदेव-वर्ज्यानां तर्पणम् ।
अग्नि-मुखान्ते चान्वारब्धे व्रतिनि जुहोति- प्रजापतये काण्डऋषये स्वाहा ।
“प्रजापते न त्वदेतान्यन्यः” ( तै. ब्रा. २-८-१-२.) इति सूक्तेन प्रत्यृचं षडाहुतीः,
चतस्र उपहोमाहुतीः - साँहितीभ्य इत्यादिभिर् एव, सदसस्पतिमित्येतयैव सदसस्पतिं च ।
अथ व्रती उपस्थेय-देवता अभिसन्धायाग्निपुरोगाश् चतस्रो देवता उपतिष्ठते ।
“अग्ने व्रतपते काण्डऋषिभ्यः {प्राजापत्यं} व्रतं चरिष्यामि, तच् छकेयं, तन् मे राध्यताम् ।
{वायो व्रतपते, आदित्य व्रतपते, व्रतानां व्रतपते} - काण्डऋषिभ्यः {प्राजापत्यं} व्रतं चरिष्यामि, तच् छकेयं, तन् मे राध्यताम्,” (तै.आ. ४-४१-३.) इत्येतैश् चतुर्भिर् यथादैवतम् ।
ततो जयादि, ब्राह्मणतर्पणं च ।
समाप्तिः
एवम् एव समापने प्रयोगः - संवत्सरे संवत्सरे पर्यवेते+++(=समाप्ते)+++ ।
तत्रोपस्थान-मन्त्रेषु “अचारिषम् अशकम् अराधीति” विशेषः ।
केचित्— सौम्ये केश-श्मश्रु-वापनस्य दृष्टत्वात् प्राजापत्यादिष्व् अपीच्छन्ति ॥
एवम् एवाग्नेये वाश्वदेवे च ।
आग्नेयम्
अग्नये काण्डऋषये स्वाहा; “अग्ने नय” (तै.ब्रा.२-८-३.) इति षडृचं सूक्तम्, ;
“अग्ने व्रतपते काण्डऋषिभ्यः {आग्नेयं} व्रतं चरिष्यामि” इत्याग्नेये विशेषः ।
वैश्वदेवम्
विश्वेभ्यो देवेभ्यः काण्डऋषिभ्यः स्वाहा ; “आ नो विश्वे अस्क्रागमन्तु” (तै. ब्रा.२-८-६-३.) इति षडृचं सूक्तम् ; “वैशवदेवं व्रतं चरिष्यामी"ति वैश्वदेवव्रते विशेषः ॥
सौम्यम् - शुक्रियम्
उपाकर्म
सोमस्य काण्डोपाकरण-समापने शुक्रिय-कल्पोक्ते ।
अत्राप्युक्तं यत्तदुच्यते– पूर्ववद् उपाकृत्याग्नेर् उपसमाधानाद्य्-अग्निमुखान्ते, “सोमाय काण्डऋषये स्वाहा” ।
“सोमो धेनुम्” (तै.ब्रा.३-९-३-१.) इति षडृचं सूक्तम् ।
उपहोमान्, सदसस्पतिं च हुत्वा,
एवं पुर्ववद् उपाकृत्य,
मदन्तीम् उपस्पृश्य
प्रथमेनानुवाकेन शान्तिं कृत्वा
चतस्र औदुम्बरीस् समिधो घृतान्वक्ता अभ्यादधाति - “पृथिवी समित्” (तै. आ. ४-४१-१०.) इत्यादिभिः ।
अथ देवतोपस्थानम् - “अग्ने व्रतपते काण्डऋषिभ्यः सौम्यं व्रतं चरिष्यामि” इत्यादिभिः ।
ततः प्रभृति शुक्रिय-मन्त्र-ब्राह्मणानुवाकानां प्रथम-पदानि “युञ्जते” (तै. आ. ४-२.) “सविता” (तै. आ. ५-१२.) इति वाभिव्याहार्य वाचयित्वा जयादि प्रतिपद्यते । परिषेचनान्तं कृत्वा मदन्तीम् उपस्पृश्य, उत्तमेनानुवाकेन शान्तिं कृत्वा ततस् सम्मीलनादि यथासूत्रम् ।
श्वोभूते “वयः सुपर्णाः” (तै.आ. ४-४२-३.) इत्यादित्योपस्थानान्ते ब्राह्मण-भोजनम् ।
अथास्य स्वाध्यायविधिः शुक्रियकल्प एवोक्तः ।
समाप्तिः
एवं समापने ।
विशेषस्तु “द्यौस् समिद् आदित्य व्रतपते” (TA.4.41.2,4) इत्याद्य्-आवृत्ताः समिदाधानोपस्थान-मन्त्राः ।
उत्तमेनानुवाकेन शान्तिं कृत्वा गुरवे वरं दत्वा केशश्मश्रु वापयित्वा ब्राह्मणभोजनम् ।
सूत्रपरीक्षा
सूत्राव्यर्थता
अथ सूत्रम् आक्षिप्यते— ननु- “उपाकरणे समापने च ऋषिर् यः प्रज्ञायते” इति यः प्रजापत्यादीनाम् अन्यतमः काण्डानुक्रमण्यां काण्ड-ऋषित्वेन समाम्नायते स ऋषिः देवतेति व्यर्थम् एवेदं सूत्रम् ।
काण्डोपकरणेष्वेतान् पुरस्तात् सदसस्पतेः ।
जुहुयात् काण्डसमाप्तौ च श्रुतिरेषा सनातनी ॥
(काण्डा.२-११.)
इति काण्डानुक्रमण्यां काण्डर्षिदेवतात्वस्य सिद्धत्वात् ।
सत्यम्, अत एव प्रजापत्य्-आदयश् चत्वारः प्रधान-होम-देवताः ; साँहित्य्-आदयस् स्वयम्-भु-पर्यन्ताश् चत्वार उपहोम-देवताः ।
तेनैते चत्वारस् सर्वकाण्डानाम् उपाकरण-समापनयोर् अनुवर्तन्ते प्रधानानुवर्तित्वाद् अङ्गानाम् इत्य्-एवं-परं सूत्रम्, न देवतात्व-विधि-परम् ॥१॥
सदसस्पतेर् द्वितीयता
ननु– सदसस्पतिर् अध्यायोपाकरण-समापनयोर् नवमः । काण्डोपाकरण-समापनयोष् षष्ठः ।
एवमयमद्वितीयोऽपि किमर्थं द्वितीय इत्युच्यते? ।
द्वतीयस्य स्विष्टकृतः स्थानेऽयं सदसस्पतिर् भवेद् इत्येवमर्थम् ।
इदमर्थमेव च पूर्वत्र “अग्निस्विष्टकृद्द्वितीयः” (आप. गृ. ७-७.) इत्युक्तम् ।
होम-स्थान-निर्देशः
उपाकरण-समापनयोर् आज्यहविष्कयोः स्विष्ट-कृद् एव नास्ति, कथं तत्स्थाने सदसस्पतिविधिः? इति चेत्—
अनेनैव वचनेनास्य प्रसङ्गो विधीयते, यथा अग्निहोत्रे द्वितीयस्या आहुतेश् शातपथेन ब्राह्मणेन ।
तेनाग्नेर् उत्तरार्ध-पूर्वार्धे ऽस्मै होमः ।
एतद्-विस्मरणे स्विष्टकृल्-लोप-प्रायश्चित्तं च ।
अयं च होमो लिङ्गक्रमाभ्यां “सदसस्पतिम् अद्भुतम्” इत्येतया होतव्य इति स्पष्टत्वात् सूत्रकारस्यानादरः +++(प्रतीकग्रहणे)+++॥
आक्षेपान्तरम्
केचित्—
“उपाकरणे समापने च यः काण्डऋषिः प्रज्ञायते तस्य द्वितीयस् सदसस्पतिः । काण्डऋषेर् उपरिष्टाद् अयं मन्त्रस् सदसस्पतिर् विनियुज्यते, न तु विवाहे, ‘उद्दीप्यस्वे’ति ऋग्-द्वयम् इव । विवाह-मध्ये पाठस् त्व् अध्ययन-विध्यर्थः”
इत्य् एवं सदसस्पति-मन्त्रस्य विषय-ज्ञापन-व्याजेन एतयोः कर्मणोः प्रयोग-कल्पस्यान्यत्र प्रसिद्धस्यात्राप्रसिद्धत्वात् अवश्याश्रयणीयस्य इह शास्त्रेऽभ्यन्तरीभावोऽस्य सूत्रस्य प्रयोजनम्, ततश् च क्रिया-प्रवृत्तिर् इति ।
तन् न; सूत्रस्थस्य सदसस्पति-शब्दस्य मुख्यार्थ-देवतापरत्व-सम्भवेऽपि
मन्त्र-प्रतीकं लक्षयित्वा तेन लक्षितेन मन्त्र-लक्षणाया अयुक्तत्वात्,
उक्तविधयानयोर् इहैव प्रयोगस्य प्रसिद्धत्वात्,
अन्यत्र प्रसिद्धस्याभ्यन्तरीभाव-वैयर्थ्याच् च ॥२॥
मूलम् ...{Loading}...
सदसस्पतिर्द्वितीयः।
०८ ०३ स्त्रियाऽनुपेतेन
०८ ०३ स्त्रियाऽनुपेतेन ...{Loading}...
स्त्रिया ऽनुपेतेन क्षार-लवणावरान्न-संसृष्टस्य च होमं परिचक्षते ३
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- They reject a sacrifice performed by a wife or by one who has not received the Upanayana initiation, and a sacrifice of salt or pungent food, or of such food as has an admixture of a despised sort of food.
हरदत्त-प्रस्तावः
“यस्याग्नौ न क्रियते न तद् भोक्तव्यम्” (आप.ध.२-१५-११.) इति धर्मशास्त्रवचनात्
शरीर-स्थित्य्-अर्थम् अपि भोजनं
द्विजस्य वैश्वदेवशेषेणैव भवितव्यम् ।
“चतू-रात्रम् अहूयमानो ऽग्निर् लौकिकस् सम्पद्यते” इति वचनाद्
अहुते ऽग्निहोत्रे सर्वक्रत्व्-अर्थो ऽग्निर् लौकिकस् स्यात् ।
ततश् च ज्वरादिभिर् उपद्रवे सत्य् अपि
वैश्वदेवाग्निहोत्रादेः तत्-प्रायश्चित्तानां वा होमानाम् अवश्य-कार्यत्वाद्
ऋत्विग्-अन्तर+अलाभे सत्य् अपि
द्वयोर् अपि स्त्र्य्-अनुपेतयोः येन केनचित् प्रकारेण मन्त्र-लिङ्ग-लोपेनापि तत्र प्रसक्तिः ।
तथा वैश्वदेवस्य श्राद्धादिषु
“अथ गृह-मेधिनो यद् अशनीयस्य होमा बलयश्च” (आप.ध. २-३-१२.) इति वचनात्,
सुवर्चकायव-क्षाराभ्यां लवणेन चावरान्नेन च कोशधान्यापरनाम्ना माषादिना तिल-व्यतिरिक्तेन
संसृष्टस्यापि भवति हविषो होमे प्रसक्तिः ।
तद् उभयनिषेधार्थम् आह—
हरदत्तः
पाक-यज्ञाधिकारे सर्वत्रायं प्रतिषेधः श्रद्धादिष्व् अप्य्
अवरान्नानि कोशी-धान्यानि माषादीनि कृष्ण-धान्यानि चणक-कोद्रवादीनि
परिचक्षते वर्जयन्ति शिष्टाः ।
“न स्त्री जुहुयात् । नानुपेतः । न क्षारलवणहोमो विद्यते” इति प्रतिषेधेनैव सिद्धे
उत्तरार्थोऽयं प्रतिषेधः ।
किञ्च “पाणिग्रहणादि गृह्यं परिचरेत् - स्वयं, पन्त्य् अपि वा पुत्रः कुमार्यन्तेवासीव”(आश्व.गृ.१-९-१.) इति आश्वलायन-वचनेन पन्त्य्-आदीनाम् औपासन-होम-प्राप्त्य्-आशङ्कायां प्रतिषेधः ॥३॥
सुदर्शनः
स्त्रिया +अनुपेतेन अनुपनीतेन च
होमं होम-मात्रं - श्रौतं स्मार्तं च
शिष्टाः परिचक्षते वर्जयन्ति “यस्मात्, तस्माद् एव ताभ्यां न होतव्यम्” इति वाक्यशेषः ।
होमम् इति च सामान्याभिधानेन श्रौतहोमेऽपि स्त्र्यनुपनीतौ शिष्टाः वर्जयन्तीति ज्ञापनात् गार्ह्याधिकारापवादः ।
क्षारेत्यादि व्याख्यात-प्रायम् एव ।
यत् तु धर्मशास्त्रे “न क्षारलवणहोमो विद्यते । तथावरान्न-संसृष्टस्य च” (आप.ध.२-१५-१२,१३.) इति
तत् “उदीचीनम् उष्णं भस्मापोह्य तस्मिन् जुहुयात्” (आप.ध.२-१५-१४.) इति विधानार्थोऽनुवादः ।
यद् अपि तत्रैव “न स्त्री जुहुयात् नानुपेतः” (आप.ध.२-१५-१५,१६) इति
तत् क्षारादि यथोष्ण-भस्मनि हूयते, तथा तस्मिन्न् अपि स्त्र्य्-अनुपनीताभ्यां न होतव्यम् इति निषेद्धुम् ॥३॥
मूलम् ...{Loading}...
स्त्रियाऽनुपेतेन क्षारलवणावरान्नसंसृष्टस्य च होमं परिचक्षते।
०८ ०४ यथोपदेशङ् काम्यानि
०८ ०४ यथोपदेशङ् काम्यानि ...{Loading}...
यथोपदेशं काम्यानि बलयश् च ४
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- Sacrifices connected with special wishes and Bali sacrifices (should be performed) as stated (even against the clauses of the last Sūtra).
हरदत्त-प्रस्तावः
अस्य प्रतिषेधस्य प्रतिप्रसवमाह–
हरदत्तः
योऽयं स्त्र्यादीनां प्रतिषेधः स काम्येषु कर्मसु नादरणीयः।
यथोपदेशमेव तानि कर्तव्यानि ।
तथा बलयश् च यथोपदेशम् एव कर्तव्याः ।
सिध्य्-अर्थे - यदस्य गृहे पण्यं स्याद् इति काम्योदाहरणम् ।
एवम् अत ऊर्ध्वं - यद्-अशनीयस्येत्यादि बलीनां होमे चोदितस्य स्त्र्यादिप्रतिषेधस्य बलिषु प्रसङ्गाभावात् ज्ञापकम् इदं होमधर्मो बलिषु प्रवर्तत इति ।
तेन अपरेणाग्निं दक्षिणं जान्वाच्येत्य्-एवम्-आदि बलिष्वपि भवति ।
“न काम्येषु बलिषु च” इत्येव सिद्धे यथोपदेशम् इति वचनम्
उपदेशाद् एवैषां प्रवृत्तिः -
स्वशास्त्रेण शास्त्रान्तरेण वा न प्रतिनिधित्वेन ॥४॥
सुदर्शनः
यानि काम्यानि येन प्रकारेणोपदिष्टानि तानि तथैव भवन्ति - नैव तत्र क्षारादिवर्जनम्।
“यदस्य गृहे पण्यं स्यात्” (आप.गृ. २-३-५.) इत्य् उपदेशस्य गृह-शब्देन विशेषितत्वात् । यदि तत्र क्षारादि-वर्जनम् इष्टं स्यात्, तदा “यदस्य पण्यं स्याद्” इत्य् एतावद् एव ब्रूयात् ।+++(???)+++
तथा बलयश् च यथोपदेशम् एव ।
न तु क्षारादि-निषेधः, “सति सूप-संसृष्टेन कार्याः” (आप.ध.२-३-१९.) इत्यारम्भ-सामर्थ्यात् ।
अन्यथा “गृह-मेधिनो यद्-अशनीयस्य होमा बलयश् च” इति वचनाद् एव क्षारादि-व्यतिरिक्त-शाक-मांसादि-सूप-संसृष्टेनान्नेन कार्यास् स्युः ।
अत्र च “यदशनीयस्य होमा बलयश्च” इति होम-साहचर्यात् बलिष्व् अपि या क्षारादि-निषेध-शङ्का सा वार्यते ।
केचित्— यथोपदेशं काम्यानि बलयश् चेत्य् अस्माद् एव ज्ञापनाद्+धोम-धर्माणां बलिष्व् अपि प्रसक्तिर् इति ।
तेषां सर्पबलौ सक्तु-निर्वापे स्वाहा-कारो दुर्वारः ॥४॥
मूलम् ...{Loading}...
यथोपदेशं काम्यानि बलयश्च।
०८ ०५ सर्वत्र स्वयम्
०८ ०५ सर्वत्र स्वयम् ...{Loading}...
सर्वत्र स्वयं +++(धमनादि पुरुषप्रयत्नमन्तरेण)+++ प्रज्वलितेऽग्नावुत्तराभ्यां +++(=उद्दीप्यस्व जातवेदः, मा नो हिंसीः)+++ समिधावादध्यात् ५
०९ उद्दीप्यस्व जातवेदोऽपघ्नन्निर्ऋतिम् ...{Loading}...
उद्दी॑प्यस्व जातवेदो
ऽप॒घ्नन् निर्ऋ॑तिं॒ मम॑ ।
प॒शूꣳश् च॒ मह्य॒म् आ व॑ह॒
जीव॑नञ् च॒ दिशो॑ दश ।+++(र५)+++
१० मा नो ...{Loading}...
मा नो॑ हिꣳसीज् जातवेदो॒
गाम् अश्वं॒ पुरु॑ष॒ञ् जग॑त् ।
+++(परहवींष्य्)+++ अबि॑भ्र॒द्+++(न्)+++ अग्न॒ आग॑हि+++(=आगच्छ)+++,
श्रि॒या मा॒ परि॑पातय ॥ (9)
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- Whenever the fire flames up of itself, he should put two pieces of wood on it with the next two (verses: M. I, 9, 9-10),
हरदत्तः
सर्वत्र सर्वेषु पाकयज्ञेषु अग्नौ स्वयं प्रज्वलिते धमनादि पुरुषप्रयत्नमन्तरेणेत्यर्थः । एतस्मिन् निमित्ते संप्राप्ते उत्तराभ्यामृग्भ्यां द्वे समिधावग्नावादध्यात् “उद्दीप्यस्व” “मा नो हिंसीः” इति । आदधातिचोदितत्वात् स्वाहाकारो नास्ति । सर्वत्र ग्रहणात् सर्वपाकयज्ञेष्वयं विधिर्भवति । अन्यथा प्रकरणाद्विवाह एव स्यात् । सर्वत्र लौकिके वैदिके गार्ह्ये वाग्नाविति । एककर्मकालेष्वित्यन्ये ॥५॥
सुदर्शनः
सर्वत्र सर्वाचारलक्षणेषु कर्मसु । अन्ये— सर्वदा अकर्मकालेष्वपीति । स्वयंप्रज्वलितेऽग्नौ प्रयत्नमन्तरेणौपासने प्रज्वलिते । उत्तराभ्यां ऋग्भ्यां “उद्दीप्यस्व जातवेदः” इत्येताभ्यां समिधावादध्यात् । प्रत्यृचमेकैकां समिधमादध्यात्, स्वतस्साधनभेदे क्रियाभेदात् । आदधातिप्रहरतीत्याद्यजुहोतिचोदितेषु न स्वाहाकारो विहितः । प्रस्तरप्रहरणेऽपि “न स्वाहाकरोति” (आप.श्रौ.३-६-७.) इत्येतत्, आदधातीत्यादिष्वपि प्रतिषेधदर्शनार्थम् । अन्ये तु– “न स्वाहाकरोति” इत्येष प्रतिषेधः अजुहोतिचोदितेष्वप्यादधातीत्यादिषु स्वाहाकार् ज्ञापयतीति ॥५॥
मूलम् ...{Loading}...
सर्वत्र स्वयं प्रज्वलितेऽग्नावुत्तराभ्यां समिधावादध्यात् ।
०८ ०६ आपन्माश्रीः श्रीर्मागादिति
०८ ०६ आपन्माश्रीः श्रीर्मागादिति ...{Loading}...
“आपन् मा श्रीः, श्रीर् मा गाद्” इति वा ६
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- Or with (the two formulas), ‘May fortune reach me! May fortune come to me!’
हरदत्तः
एताभ्यां यजुर्भ्यां एते समिधावादध्यादिति मन्त्रविकल्पः ॥६॥
सुदर्शनः
“उद्दीप्यस्वे"ति ऋग्द्वयेन आपन्मेत्येतद्यजुर्द्वयं विकल्प्यते ॥६॥
मूलम् ...{Loading}...
आपन्माश्रीः श्रीर्मागादिति वा।
०८ ०७ एतदहर्विजानीयाद्यदहर्भार्यामावहते
०८ ०७ एतदहर्विजानीयाद्यदहर्भार्यामावहते ...{Loading}...
एतदहर् विजानीयाद् यदहर् भार्याम् आवहते +++(विवाहाब्दिकम् अत्रोक्तम् इति हरदत्तः)+++ ७
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- Let him notice the day on which he brings his wife home.
हरदत्तः
एतदहः एतन्नक्षत्रम् । विजानीयात् न विस्मरेत् । यदहः यस्मिन्नक्षत्रे भार्यां आवहते तत्कुलादानयति । यस्मिन्नक्षत्रे पाणिग्रहणं कृतं तत् न विस्मर्तव्यमित्यर्थः । आवहत इत्यनेनादिपाणिग्रहणं विवक्षितम् । अविस्मरणोपदेशे प्रयोजनं संवत्सरे संवत्सरे तस्मिन्नक्षत्रे कर्मविशेषः । कः पुनरसौ ? “यच्चैनयोः प्रियं स्याद्”(आप.ध.२१७) इत्यादि सामयाचारिकेषूपदिष्टः । न चासौ विधिः । पार्वणविशेषो यदि स्यात् तस्योपचारः पार्वणेन व्याख्यात इत्येतदसमञ्जसं स्यात् । अथ स विधिरेवेह कस्मान्नोपदिश्यते? उच्यते– इहोपदेशे प्रकरणाद्विवाहाङ्गत्वं विज्ञायेत । ततश्च शम्यादयोऽपि विवाहधर्माः स्युः किञ्च सर्वचरणार्थः तत्रोपदेशः ॥७॥
सुदर्शनः
यस्मिन्नहनि गृहप्रवेशनादि स्थालीपाकान्तं कर्म करोति तद् एतदहर् अवधित्वेन विजानीयात् तत आरभ्य त्रिरात्रमुभयोरधश्शय्येत्यादि कर्तुम् । केचित्—यस्मिन्नक्षत्रे विवाहोऽभूत् तस्य न विस्मरेत् । धर्मशास्त्रे “श्वोभूते स्थालीपाकः” (आप. ध.२-१-१०.) इत्युपदिष्टकर्म प्रतिसंवत्सरं कर्तुम् । तस्य चेहोपदिष्टस्य तत्रोपदेशः– कथं विवाहाङ्गत्वं शम्याश्च मा भूवन्, सर्वचरणार्थता च कथं स्यादिति । प्रकृतत्वादेव च स्थालीपाकादारभ्य त्रिरात्रमुभयोरधश्शय्येत्यादि भविष्यतीति । तन्न; यथोक्तकर्मान्तरे विधेरेव निरस्तत्वात् “पार्वणेन” (आप. गृ. ७-२-३.) इत्यत्र ॥७॥
मूलम् ...{Loading}...
एतदहर्विजानीयाद्यदहर्भार्यामावहते ।
०८ ०८ त्रिरात्रमुभयोरधश्शय्या
०८ ०८ त्रिरात्रमुभयोरधश्शय्या ...{Loading}...
त्रिरात्रमुभयोरधश् शय्या ब्रह्मचर्यं क्षारलवणवर्जनं च ८
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- (From that day) through three nights they should both sleep on the ground, they should be chaste, and should avoid salt and pungent food.
हरदत्तः
स्थालीपाकादारभ्य त्रिरात्रमुभयोः दम्पत्योः अधश्शय्या नोपरि खट्वादौ । ब्रह्मचर्यं मैथुनवर्जनं, क्षारलवणयोश्च वर्जनं भोजने । तत्र क्षारलवणवर्जनं स्थालीपाकात् प्रागध्वनि न भवति । ब्रह्मचर्यं तु तत्रापि भवति । चतुर्थ्यां समावेशनविधानात् इदं तु ब्रह्मचर्यवचनं दार्ढ्यार्थम् । यद्यपि सहशयनमुभयोः, तथापि मैथुनवर्जने यत्नः कार्य इति ॥८॥
सुदर्शनः
उभयोर् दम्पत्योः स्थालीपाकादारभ्य त्रिरात्रम् अधश्शय्या स्यात्, न तु खट्वादौ । नापि पृथक्शय्या, उभयोरिति ग्रहणात् । तथाष्टाङ्गमैथुनवर्जनलक्षणं ब्रह्मचर्यं स्यात् । मैथुनस्याष्टाङ्गत्वमपि बृहस्पतिनोक्तम्— “स्मरणं कीर्तनं केळिः प्रेक्षणं गुह्यभाषणम् । सङ्कल्पोऽध्यवसायश्च क्रियानिर्वृतिरेव च ॥ एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः ॥” इति । एतच्च स्थालीपाकात् प्रागप्यध्वनि, “शेषं समावेशने जपेत्” (आप. गृ. ८-१०.) इत्युत्तरत्र क्रमविधानात् । अत एवात्र सूत्रे शय्यैक्यात् दुर्वारमपि मैथुनमतिप्रयत्नेन वर्जनीयमित्येवमर्थस्तन्निषेधः । तथैव क्षारलवणवर्जनं च स्यात् । चकारान् मधुमांसदन्तधावनाञ्जनाभ्यञ्जनानुलेपनस्रग्धारणानां वर्जनमपि । यद्वा ब्रह्मचर्यपदेनैव मध्वादिसप्तकमपि निषिद्धम् । चकारस्तूक्तसमुच्चयार्थ एव । सर्वत्र त्रिरात्रमित्येव ॥८॥
मूलम् ...{Loading}...
त्रिरात्रमुभयोरधश्शय्या ब्रह्मचर्यं क्षारलवणवर्जनं च ।
०८ ०९ तयोश्शय्यामन्तरेण दण्डो
०८ ०९ तयोश्शय्यामन्तरेण दण्डो ...{Loading}...
तयोश् शय्यामन्तेरण दण्डो गन्धलिप्तो वाससा सूत्रेण वा परिवीतस्तिष्ठति ॥
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- Between their sleeping-places a staff is interposed, which is anointed with perfumes and wrapped round with a garment or a thread.
हरदत्तः
तयोः दम्पत्योः शय्यामन्तरेण शयनस्य मध्ये दण्डः क्षीरिवृक्षोद्भवः गन्धेन सुरभिणा लिप्तः पुष्पैश्चालङ्कृतः वाससा सूत्रेण वा परिवीतः तिष्ठति स्थापयितव्यः । अन्योन्यसंस्पर्शो मा भूदिति ॥९॥
सुदर्शनः
तयोः व्रतस्थयोर्दम्पत्योर्यावत्त्रिरात्रमभिन्ना शय्या ताम् एवान्तरेण तस्या एव मध्ये, न तु त्रिरात्रादूर्ध्वं नानाशय्यामेकशय्यां चान्तरेणापीति ; तयोरिति प्रकृतपरामशात् । दण्डो गन्धलिप्तः चन्दनानुलिप्तः । गन्धस्य प्रदर्शनार्थत्वात् पुष्पैरप्यलङ्कृतः । वाससा सूत्रेण वा परिवीतस्तिष्ठति स्थापयितव्यः । अस्मिंश्च दण्डे गन्धर्वो विश्वावसुर्भावयितव्यः, “उदीर्ष्वातो विश्वावसो” इति मन्त्रलिङ्गात् । अत एवायं दण्डो नैयग्रोध औदुम्बर आश्वत्थः प्लाक्षो वा, “एते वै गन्धर्वाप्सरसां गृहाः” (तै.सं.३-४-८.) इत्यर्थवादात् ॥९॥
मूलम् ...{Loading}...
तयोश्शय्यामन्तरेण दण्डो गन्धलिप्तो वाससा सूत्रेण वा परिवीतस्तिष्ठति ।
०८ १० तञ् चतुर्थ्याऽपररात्र
०८ १० तञ् चतुर्थ्याऽपररात्र ...{Loading}...
तं +++(दण्डं)+++ चतुर्थ्या ऽपररात्र +++(=रात्रेस्तृतीयो भागः)+++ उत्तराभ्याम् +++(=“उदीर्ष्वात” इत्येताभ्यां)+++ उत्थाप्य, प्रक्षाल्य, निधाय,
०१ उदीर्ष्वातो विश्वावसो ...{Loading}...
२२ उदीर्ष्वातो विश्वावसो ...{Loading}...
उ॒दी॒र्ष्वाऽतो॑ विश्वावसो॒ +++(गन्धर्व)+++
नम॑सेडामहे त्वा ।
अ॒न्याम् इ॑च्छ प्रफ॒र्व्यꣳ॑+++(=प्रथमवयसं)+++
सञ्जा॒यां पत्या॑ सृज ।
०२ उदीर्ष्वातः पतिवती ...{Loading}...
२१ उदीर्ष्वातः पतिवती ...{Loading}...
उदी॒र्ष्व+++(=उद्गच्छ)+++ +अतः॒ पति॑वती॒ ह्ये॒३॒॑षा
वि॒श्वाव॑सुं॒ नम॑सा गी॒र्भिर् ई॑ळे ।
अ॒न्याम् इ॑च्छ पितृ॒षदं॒ व्य॑क्तां॒
स ते॑ भा॒गो ज॒नुषा॒ तस्य॑ विद्धि ॥२१
उ॒दी॒र्ष्वातः॒ पति॑वती॒ ह्य् ए॑षा
वि॒श्वाव॑सुं॒ नम॑सा गी॒र्भिर् ई॑ट्टे+++(=याचे)+++ ।
अ॒न्याम् इ॑च्छ पितृ॒षदं॒ व्य॑क्ता॒ꣳ॒
स ते॑ भा॒गो ज॒नुषा॒ तस्य॑ विद्धि ।
शेष-होम-मन्त्राः
अग्नेरुपसमाधानाद्याज्यभागान्ते ऽन्वारब्धायाम् उत्तरा आहुतीर् +++(=सप्त प्रधानाहुतीर्जुहोति “अग्ने प्रायश्चित्ते"इत्येवमाद्याः)+++ हुत्वा जयादि प्रतिपद्यते।
०३-०६ अग्ने प्रायश्चित्ते ...{Loading}...
अग्ने॑ प्रायश्+++(=विनाश)+++-चित्ते॒+++(=सन्धातः)+++! त्वन् दे॒वानां॒ प्राय॑श्चित्तिर् असि।
ब्राह्म॒णस् त्वा॑ ना॒थ-का॑मः॒ प्रप॑द्ये॒।
याऽस्यां प॑ति॒घ्नी त॒नूः प्र॑जा॒घ्नी प॑शु॒घ्नी ल॑क्ष्मि॒घ्नी, जा॑र॒घ्नीम् अ॑स्यै॒ ताङ् कृ॑णोमि॒ स्वाहा॑ ।+++(र५)+++
वायो॑ प्रायश्चित्ते॒! त्वन् दे॒वानां॒ प्राय॑श्चित्तिर् असि।
ब्राह्म॒णस् त्वा॑ ना॒थ-का॑मः॒ प्रप॑द्ये॒।
याऽस्यां प॑ति॒घ्नी त॒नूः प्र॑जा॒घ्नी प॑शु॒घ्नी ल॑क्ष्मि॒घ्नी, जा॑र॒घ्नीम् अ॑स्यै॒ ताङ् कृ॑णोमि॒ स्वाहा॑ ।+++(र५)+++
आदि॑त्य प्रायश्चित्ते॒! त्वन् दे॒वानां॒ प्राय॑श्चित्तिर् असि।
ब्राह्म॒णस् त्वा॑ ना॒थ-का॑मः॒ प्रप॑द्ये॒।
याऽस्यां प॑ति॒घ्नी त॒नूः प्र॑जा॒घ्नी प॑शु॒घ्नी ल॑क्ष्मि॒घ्नी, जा॑र॒घ्नीम् अ॑स्यै॒ ताङ् कृ॑णोमि॒ स्वाहा॑ ।+++(र५)+++
प्रजा॑पते प्रायश्चित्ते॒! त्वन् दे॒वानां॒ प्राय॑श्चित्तिर् असि।
ब्राह्म॒णस् त्वा॑ ना॒थ-का॑मः॒ प्रप॑द्ये॒।
याऽस्यां प॑ति॒घ्नी त॒नूः प्र॑जा॒घ्नी प॑शु॒घ्नी ल॑क्ष्मि॒घ्नी, जा॑र॒घ्नीम् अ॑स्यै॒ ताङ् कृ॑णोमि॒ स्वाहा॑ ।+++(र५)+++
०७ प्रसवश्चोपयामश्च काटश्चार्णवश्च ...{Loading}...
प्र॒स॒वश्+++(=अनुज्ञा)+++ चो॑पया॒मश्+++(=पृथिवी)+++ च॒
+++(इयं वा उपयामः इति श्रुतेः)+++
काट॑श्+++(=लिङ्गरूपरुद्रः)+++ चार्ण॒वश् च॑
धर्ण॒सिश्+++(=गृहं)+++ च॒ द्रवि॑णञ् च॒
भग॑श् चा॒न्तरि॑क्षञ् च॒
सिन्धु॑श् च समु॒द्रश् च॒
सर॑स्वाꣳश् च वि॒श्वव्य॑चाश् च॒
ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒, तमे॑षा॒ञ् जम्भे॑+++(=दन्ते)+++ दद्ध्म॒स् स्वाहा॑ ।
+++(वसन्तादीनां षण्णामृतूनां द्वौद्वौ मासौ-)+++
०८ मधुश्च माधवश्च ...{Loading}...
मधु॑श्च॒ माध॑वश्च
शु॒क्रश्च॒ शुचि॑श्च॒
नभ॑श्च नभ॒स्य॑श् च॒
+इ॒षश् चो॒र्जश्च॒
सह॑श् च सह॒स्य॑श् च॒
तप॑श् च तप॒स्य॑श् च॒
ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षा॒ञ् जम्भे॑+++(=दन्ते)+++ दद्ध्म॒स् स्वाहा॑ ।
०९ चित्तञ्च चित्तिश्चाकूतञ्चाकूतिश्चाधीतञ्चाधीतिश्च ...{Loading}...
चि॒त्तञ् च॒ चित्ति॒श् चा+
ऽकू॑त॒ञ्+++(=अभिप्रेतम्)+++ चाकू॑ति॒श्+++(=अभिप्रायः)+++ च
+अधी॑त॒ञ् चाधी॑तिश्च॒
विज्ञा॑तञ्च वि॒ज्ञान॑ञ्च॒
नाम॑ च॒ क्रतु॑श्+++(=आकृतिः)+++ च॒
दर्श॑श्च पू॒र्णमा॑सश्च॒
ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षा॒ञ् जम्भे॑+++(=दन्ते)+++ दद्ध्म॒स् स्वाहा॑ ।
वध्वाश् शिरस्य् आज्यशेषानयनम्
१० भूस्स्वाहा भुवस्स्वाहा ...{Loading}...
भूस् स्वाहा॒, भुव॒स् स्वाहा॒, सुव॒स् स्वाहोꣳ स्वाहा॑ ॥ (10)
+++(भूरादयः त्रयो लोकाः । ओमिति ब्रह्म ॥)+++
इति श्रीहरदत्तविरचिते एकाग्निकाण्डमन्त्र व्याख्याने दशमः खण्डः
परस्परवीक्षणम्
परिषेचनान्तं कृत्वा, अपरेणाग्निं प्राचीम् उपवेश्य तस्याश् शिरस्याज्यशेषाद् व्याहृतिभिर् ओङ्कारचतुर्थाभिरानीयोत्तराभ्यां +++(=“अपश्यं त्वे"त्येताभ्यां)+++ यथालिङ्गं +++(=पूर्वया वधूः उत्तरया वरः)+++ मिथस्समीक्ष्य,
+++(वधूर् वरं समीक्षते)+++
०१ अपश्यन्त्वा मनसा ...{Loading}...
अप॑श्यन् त्वा॒ मन॑सा॒ चेकि॑तानं॒+++(=जानन्तं)+++
तप॑सो जा॒तं तप॑सो॒ विभू॑तम् ।
इ॒ह प्र॒जाम् इ॒ह र॒यिꣳ ररा॑णः॒
प्रजा॑यस्व प्र॒जया॑ पुत्रकाम ।
+++(वरो वधूम् ईक्षते)+++
०२ अपश्यन्त्वा मनसा ...{Loading}...
अप॑श्यन् त्वा॒ मन॑सा॒ दीध्या॑ना॒ꣳ॒+++(=ध्यायन्तीं)+++
स्वायां॑ त॒नूꣳ+++(न्वां)+++ ऋ॒त्विये॒ +++(काले)+++ नाथ॑मानाम् ।
उप॒ माम् +++(सम्भोगकाले)+++ उ॒च्चा यु॑व॒तिर् बुभू॑याः॒+++(=अनुभूयाः)+++
प्रजा॑यस्व प्र॒जया॑ पुत्रकामे ।+++(४)+++
उत्तरया +++(=“समञ्जन्त्वि"त्येतया)+++ ऽज्यशेषेण हृदयदेशौ संमृज्य,
+++(उत्तरयाऽऽज्यशेषेण हृदयदेशौ समनक्ति)+++
०३ समञ्जन्तु विश्वे ...{Loading}...
४७ समञ्जन्तु विश्वे ...{Loading}...
सम॑ञ्जन्तु॒ विश्वे॑ दे॒वाः
समापो॒ हृद॑यानि नौ ।
सं मा॑त॒रिश्वा॒ सं धा॒ता
समु॒ देष्ट्री॑+++(=दात्री [फलानाम्])+++ दधातु नौ ॥
सम॑ञ्जन्तु॒ विश्वे॑ दे॒वास्
समापो॒ हृद॑यानि नौ ।
सं मा॑त॒रिश्वा॒ सं धा॒ता
समु॒ देष्ट्री॑+++(=सरस्वती)+++ दिदेष्टु नौ ।+++(र५)+++
अथ जपः
उत्तरास् तिस्रो +++(=“प्रजापते तन्व"मित्याद्याः)+++ जपित्वा,
०४ प्रजापते तन्वम् ...{Loading}...
प्रजा॑पते त॒न्वं॑ मे जुषस्व॒
त्वष्ट॑र् दे॒वेभि॑स् स॒हसा॒म+++(न= सममान)+++ इ॑न्द्र ।
विश्वै॑र् दे॒वै रा॒तिभि॑स् सꣳ ररा॒णः
पु॒ꣳ॒सां ब॑हू॒नां मा॒तर॑स् स्याम ।+++(र४)+++
०५ आ नः ...{Loading}...
४३ आ नः ...{Loading}...
+++(गृहप्रवेशे - )+++
आ नः॑ प्र॒जाञ् ज॑नयतु प्र॒जाप॑तिर्
आजर॒साय॒ +++(स्नेहाय)+++ सम॑नक्त्व् अर्य॒मा ।
अ-दु॑र्-मङ्गलीः पतिलो॒कम् आ वि॑श॒
शन् नो॑ भव द्वि॒पदे॒ शञ् चतु॑ष्पदे ।
०६ ताम् पूषञ्छिवतमा ...{Loading}...
३७ तां पूषञ्छिवतमामेरयस्व ...{Loading}...
तां पू॑षञ् छि॒वत॑मा॒म् एर॑यस्व॒
यस्यां॒ बीजं॑ मनु॒ष्या॑ वप॑न्ति ।
या न॑ ऊ॒रू उ॑श॒ती+++(=कामयमाना)+++ वि॒स्र+++(श्र)+++या॑तै॒+++(=विश्लिष्टौ कुर्यात्)+++
यस्या॑म् उ॒शन्तः॒+++(=कामयमानाः)+++ प्रह॑रेम॒ शेफ॑म् ॥+++(५)+++ (11)
शेषं +++(=“आरोहोरु"मित्यादि)+++ समावेशने जपेत् ॥
०१ आरोहोरुमुपबर्हस्व बाहुम् ...{Loading}...
+++(अन्तरात्मन्!)+++ आरो॑हो॒रुम् उप॑बर्हस्व बा॒हुं
परि॑ष्वजस्व जा॒याꣳ सु॑मन॒स्यमा॑नः +++(=प्रीयमाणः)+++ ।
तस्यां॑ पुष्यतं मिथु॒नौ सयो॑नी (=सङ्गतोपस्थौ)
ब॒ह्वीं प्र॒जां ज॒नय॑न्तौ॒ सरे॑तसा ।
०२ आर्द्रयाऽरण्या यत्रामन्थत्पुरुषम् ...{Loading}...
आ॒र्द्रया+++(आज्याक्तया)+++ऽर॑ण्या॒ +++(अग्निम्)+++ यत्रा+++(था)+++ऽम॑न्थ॒त्,
+++(तथा)+++ पुरु॑षं॒ +++(गर्भम्)+++ पुरु॑षेण +++(शेफेन)+++ श॒क्रः ।
तद् ए॒तौ मि॑थु॒नौ सयो॑नी+++(=सङ्गतोपस्थौ)+++
प्र॒जया॒ऽमृते॑ने॒ह ग॑च्छतम् ।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- In the last part of the fourth night he takes up the (staff) with the next two (verses; M. I, 10, 1-2), washes it and put it away; then (the ceremonies) from the putting of wood on the fire down to the Ājyabhāga oblations (are performed), and while she takes hold of him, he sacrifices the oblations (indicated by the) next (Mantras; M. I, 10, 3-9); then he enters upon the performance of the Jaya and following oblations, and performs (the rites) down to the sprinkling (of water) round (the fire). Then he makes her sit down to the west of the fire, facing the east, and pours some Ājya of the remains (of those oblations) on her head with the (three) Vyāhṛtis and the word Om as the fourth (M. I, 10, 10-13). Then they look at each other with the next two verses (M. I, 11, 1-2), according to the characteristics (contained in those verses); with the next verse (M. I, 11, 3) he besmears the region of their hearts with remains of Ājya; then he should murmur the next three verses (I, 11, 4-6), and should murmur the rest (of the Anuvāka; I, 11, 7-11) when cohabiting with her.
हरदत्तः
अपररात्रो रात्रेस्तृतीयो भागः उत्तराभ्याम् उदीर्ष्वात इत्येताभ्याम् । अत्र प्राप्तस्य निधानस्य विधानं पुनस्तस्मिन् शयने दण्डस्य निधानं मा भूदिति ॥९॥ उत्तराः सप्त प्रधानाहुतीर्जुहोति– “अग्ने प्रायश्चित्ते” इत्येवमाद्याः । तत्रादितश्चतुर्षु मन्त्रेषु “त्वं देवानां प्रायश्चित्तिर्” इत्ययमनुषङ्गः । उत्तरे मन्त्रास्त्रयः । आज्यभाग इत्यन्वारम्भकालोपदेशः । जयादि प्रतिपद्यत इति च तन्निवृत्तिः ॥१०॥ तन्त्रशेषं समाप्य ततः ताम् अपरेणाग्निं अग्नेः पश्चात् प्राचीं प्राङ्मुखीं उपवेश्य यो हुतस्याज्यस्य शेषः तस्मादवदाय दर्व्या तस्या वध्वाश् शिरसि व्याहृतिभिरोङ्कारचतुर्थाभिः स्वाहाकारान्ताभिः प्रतिमन्त्रम् आनयति । ततः उत्तराभ्याम् ऋग्भ्यां “अपश्यं त्वा” इत्येताभ्यां यथालिङ्गं मिथः अन्योऽन्यं युगपत् समीक्षेते, पूर्वया वधूः उत्तरया वरः । ततो वर उत्तरयर्चा “समञ्जन्तु” इत्येतया वधूवरयोरुभयोर्हृदयदेशौ समनक्ति तेनैवाज्यशेषेण सकृत् गृहीतेनाज्येन सकृदेव मन्त्रं चोक्त्वा । ततः उत्तरास्तिस्त्रो जपति “प्रजापते तन्वम्” इत्याद्याः । ततः शेषम् अनुवाकशेषं “आरोहोरुम्” इत्यादि समावेशने समागमनकाले जपेत् । समावेशनं च तस्मिन्नेवापररात्रे नियमेन भवति । इदमेव समावेशनं मन्त्रवत् नान्यानि । परिषेचनान्तवचनमानन्तर्यार्थम् । परिषेचनान्ते एतदेव कर्म यथा स्यात् । तेन भोजनं प्रागेव भवति ॥१०॥
सुदर्शनः
चतुर्थ्या अपररात्रे इति विवृत्यार्थपाठः । चतुर्थ्या रात्रेः चतुर्थस्याहोरात्रस्यापररात्रे रात्रेरपरत्र तृतीयभागे तं दण्डं उत्तराभ्यां “उदीर्ष्वात” इत्येताभ्यां उत्थाप्याद्भिः प्रक्षाल्य शयनादन्यत्र निधायाग्नेरुपसमाधानादि तन्त्रं प्रतिपद्यते । आज्यभागान्ते कृते वध्वामन्वारब्धायां उत्तराः “अग्ने प्रायश्चित्ते” इत्याद्यास्सप्ताहुतीर्जुहोति । तत्र द्वितीयतृतीययोरपि “त्वं देवानां” इत्याद्यनुषङ्गः । ततोऽन्वारम्भवर्जं जयादौ प्रणीता मोचनान्ते कृते अपरेणाग्निं वधूं प्राचीं प्राङ्मुखीमुपवेश्य हुतशेषादाज्यमादाय तस्याश्शिरसि व्याहृतिभिर् ओङ्कारचतुर्थाभिस्वाहाकारान्ताभिस्सर्वेषामन्ते सकृदानयति । केचित्— प्रतिमन्त्रमिति । अथ उत्तराभ्यां “अपश्यं त्वा मनसा” इत्येताभ्यां यथालिङ्गं, पूर्वया वधूरुत्तरया वरः, मिथः अन्योन्यं युगपत् समीक्ष्य उत्तरया “समञ्जन्तु” इत्येतया आज्यशेषेण हृदयदेशौ युगपदङ्गुष्ठविस्रंसिनीभ्यां समनक्ति, “समापो हृदयानि नौ” इति द्विवचनलिङ्गात् । अथ उत्तरास्तिस्रः “प्रजापते तन्वं मे” इत्याद्या जपित्वा शेषम् अनुवाकशेषं “आरोहोरुम्” इत्यादिकं समावेशने समावेशनकाले जपेत् । समावेशनं च वध्वा सह मैथुनार्थं शयनम्, “ऋतुसमावेशने” (आप.गृ.८-१३.) इत्यृतुलिङ्गात् । एतच्च रागप्राप्तसमावेशनाश्रितं विवाहकर्मार्थं क्रमजपयोर्विधानम्, यथा भोजनपर्यायव्रताश्रितं पयआदिविधानम् । केचित्– असत्यपि रागे कर्मार्थमस्मिन् क्रमे समविशनं नियतमेवेति । समावेशनान्तरेषु तु अकर्मार्थत्वादेव नायं जपः । बौधायनेन तु विकल्पोऽभिहितः (बौ.गृ.२-७-१२.) इति । अस्मिन्नेव क्रमे यदि दैवादृतुगमनमपि कर्तव्यं स्यात् तदा पूर्वं “आरोहोरुम्” इत्यादिजपः । ततो “विष्णुर्योनिम्” इत्यादिभिरभिमन्त्रणम् ॥१०॥
मूलम् ...{Loading}...
तं चतुर्थ्याऽपररात्र उत्तराभ्यामुत्थाप्य प्रक्षाल्य निधायाग्नेरुपसमाधानाद्याज्यभागान्तेऽन्वारब्धायामुत्तरा आहुतीर्हुत्वा जयादि प्रतिपद्यते परिषेचनान्तं कृत्वाऽपरेणाग्निं प्राचीमुपवेश्य तस्याश्शिरस्याज्यशेषाद्व्याहृतिभिरोङ्कारचतुर्थाभिरानीयोत्तराभ्यां यथालिङ्गं मिथस्समीक्ष्योत्तरया ऽऽज्यशेषेण हृदयदेशौ सम्मृज्योत्तरास्तिस्रो जपित्वा शेषँ समावेशने जपेत् ।
०८ ११ अन्यो वैनामभिमन्त्रयेत
०८ ११ अन्यो वैनामभिमन्त्रयेत ...{Loading}...
अन्यो वैनाम् अभिमन्त्रयेत +++(अत्र सुदर्शनाचार्यः - इदं च “अहं गर्भमदधाम्” इत्यादि लिङ्गविरोधेऽपि श्रुतेर्बलीयस्त्वा)+++११
०३ अहङ् गर्भमदधामोषधीष्वहम् ...{Loading}...
अ॒हं गर्भ॒म् अद॑धा॒म् ओष॑धीष्व्
अ॒हं विश्वे॑षु॒ भुव॑नेष्व् अ॒न्तः ।
अ॒हं प्र॒जा अ॑जनयं पितॄृ॒णाम्
अ॒हं जनि॑भ्यो +++(=जन्याः = वध्वाः)+++ अप॒रीषु॑ +++(=पश्चात्कालस्नुषासु)+++ पु॒त्रान् ।+++(५)+++
०४ पुत्रिणेमा कुमारिणा ...{Loading}...
पु॒त्रिणे॒मा कु॑मा॒रिणा॒ विश्व॒म् आयु॒र् व्य॑श्नुतम् ।
उ॒भा हिर॑ण्य-पेशसा+++(=रूपौ)+++ वी॒ति+++(=हविर्)+++हो॑त्रा कृ॒तद्व॑सू (=कृतवसू)।
०५ दशस्यन्त्वाऽमृताय कंशमूधो ...{Loading}...
द॒श॒स्यन्त्वा॒ +++(=दशस्यन्तौ =दातारौ)+++ ऽमृता॑य॒ कꣳ (पादपूरणे) श+++(स)+++म् ऊधो॑
रोम॒शꣳ ह॑थो+++(=श्लिष्टं कुरुतम्)+++ दे॒वेषु॑ कृ॒णुतो॒ दुवः॑ (=परिचरणम्)।+++(४)+++
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- Or another person should recite (the rest of the Anuvāka) over her, (before they cohabit).
हरदत्तः
अन्यो वा ब्राह्मणः कश्चित् एनौ जायापती समागमिष्यन्तौ अनुवाकशेषेणाभिमन्त्रयेत । न स्वयं वरो जपेत् । तत्र यत् वधूवासः प्रागनेन परिधापितं तत् व्रतान्ते विमुच्यान्यत् वासः परिधाय संस्पृशति वधूः । तेन हस्तस्पर्शने दोषदर्शनात् परादेहि शाबल्यमित्येतासु । व्रतचर्यायां तु दण्डेनान्तर्हितत्वादसंस्पर्शः । तद्वासः श्वोभूते परादेहि शावल्यमित्येताभिश्चतसृभिः ऋग्भिस्सूर्याविदे ब्राह्मणाय वरो दद्यात् । यथा वक्ष्यति– “वधूवास उत्तराभिरेतद्विदे दद्यात्” (आप. गृ. ९-११.) इति आश्वलायनेनाप्युक्तं– “सूर्याविदे वधूवस्त्रं दद्यात् । अन्नं ब्राह्मणेभ्यः” (आश्व. गृ. १-८-१३,१४) इति ॥११॥
सुदर्शनः
व्यक्तार्थम् । इदं च “अहं गर्भमदधाम्” इत्यादि लिङ्गविरोधेऽपि श्रुतेर्बलीयस्त्वात् ॥११॥
मूलम् ...{Loading}...
अन्यो वैनामभिमन्त्रयेत।
०८ १२ यदा मलवद्वासाः
०८ १२ यदा मलवद्वासाः ...{Loading}...
यदा मलवद्वासाः स्यादथैनां ब्राह्मण-प्रतिषिद्धानि कर्माणि संशास्ति “यां मलवद्वासस”+++(तै.सं. २.५.१)+++ मित्येतानि ॥
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- 2 During her (first) monthly illness he instructs her about the things forbidden (to menstruous women), contained in the Brāhmaṇa, in the section, ‘A menstruous woman with whom,’ &c.
हरदत्तः
मलवद्वासा इति रजस्वलाया अभिधानम् । यदेतिवचनं विवाहादूर्ध्वमपि प्राप्त्यर्थम् । अन्यथा विवाहमध्य एव स्यात् ; प्रकरणात् । संशासनं च प्रथमर्तौ सकृत् भवति । तदेव सर्वार्थं भवति । यथा ब्रह्मचारिण उपनयने । एनामित्यनुच्यमाने अन्य एनौ संशास्तीत्येवं विज्ञायेत । “अन्यो वैना"विति प्रकृतत्वात् । ब्राह्मणप्रतिषिद्धानीत्युच्यते लोकप्रतिषिद्धान्युपरिशय्यासनादीनि लोकत एव प्रत्येतव्यानीति ज्ञापनार्थम् । कर्माणीति वचनात् कर्मणामेव शब्दान्तरैरवबोधनम्, न ब्राह्मणवाक्येन संप्रैषः । “एतानी"तिवचनं “यां मलवद्वाससम्” इत्यादीनां प्रतिषिद्धानां विहितानां च संशासनं यथा स्यात् । तेन “तिस्त्रो रात्रीर्व्रतं चरेदञ्जलिना वा पिबेत्” (तै. सं.२-५-१.) इति विहितयोरपि संशासनं भवति । एवञ्च “ब्राह्मणप्रतिषिद्धानी"ति प्रतिषिद्धग्रहणमुपलक्षणम् । तत्र “यां मलवद्वाससम्” इति वाक्ये स्नानात् प्राक् समागमप्रतिषेधः । “यामरण्य” इति देशप्रतिषेधः । स्नातायामपि “यां पराचीम्” इति पराङ्मुख्या गमनप्रतिषेधः । “या स्नाती"ति त्रिरात्रमध्ये स्नानस्य प्रतिषेधः । “याऽभ्यङ्ते” इत्यभ्यञ्जनस्य । “या प्रलिखत” इति शिरसि प्रलेखनस्य कङ्कतादिना । “याऽऽङ्ते” इति चक्षुषोरञ्जनस्य । “या दतः” इति दन्तधावनस्य । “या नखानी"ति नखनिकृन्तनस्य । “या कृणत्ती"ति कार्पासादेस्तन्तुकर्मणः । “या रज्जुम्” इति रज्जुक्रियायाः । “या पर्णेने"ति पर्णेनाशनस्य । “या खर्वेणे"ति खर्वेण पात्रेण । एकदेशविलुप्तं खर्वम् । “तिस्रो रात्रीर्” इत्येतेषां प्रतिषेधानां कालनियमः । “अञ्जलिना वा पिबेद्” इत्यादिर्भोजने पात्राविधिः॥१२॥
सुदर्शनः
मलवद्वासाः कालनिर्गतेन शोणितेन मलिनं वासो वसनं यस्यास्सा; रजस्वलेत्यर्थः । रूढशब्दत्वाद्यदृच्छया निर्मलवासा अपि यदेयं रजस्वला स्यात्, तदा पतिरेवैनां ब्राह्मणप्रतिषिद्धानि कर्माणि संशास्ति लौकिकभाषया शिक्षयति । कानि तानि ब्राह्मणप्रतिषिद्धानीत्यत आह– यां मलवद्वाससम्” इत्येतानि । “यां मलवद्वाससँ संभवन्ति” (तै. सं.२-५-१-४.) इत्येतद्ब्राह्मणचोदितानि, तान्येतान्यपि सर्वाणीत्यर्थः । अथ तानि सुग्रहार्थं क्रमेणोच्यन्ते– न स्नानात्पूर्वं मैथुनम् । तदेव न स्नानादूर्ध्वमप्यरण्ये । तदेव न स्नातयापि पराङ्मुख्या अनिच्छन्त्या वा । अपूर्णे त्रिरात्रे न स्नानम् । न तैलाभ्यञ्जनम् । न कङ्कतादिना शिरसि लेखनम् । न चक्षुषोरञ्जनम् । न दन्तधावनम् । न नखनिकृन्तनम् । न कार्पासादिना तन्तुकरणम् । न रज्जुक्रिया । इत्येतान्येकादश । अथाशनपात्रमञ्जलिरखर्वो वा । खर्वः अल्पः, खण्डो वा दग्धोऽपि वा । ततोऽन्योऽखर्वः । अत्र चामी मैथुनादिनिषेधा अमैथुनादिसङ्कल्प विधयो वेति भाष्ये न विविक्तम् । न्यायतस्तु “तिस्त्रो रात्रीर्व्रतं चरेत्” (तै. सं.२-५-१.) इति वचनात् “नेक्षेतोद्यन्तमस्तंयन्तमादित्यम्” इत्यादि प्राजापत्यविधिवत् सङ्कल्पविधय एव ॥१२॥
मूलम् ...{Loading}...
यदा मलवद्वासाः स्यादथैनां ब्राह्मणप्रतिषिद्धानि कर्माणि सँशास्ति “या मलवद्वासस"मित्येतानि ।
-
4, 8. As to the last sentence of this Sūtra, comp. the statements collected by Hillebrandt, Neu- and Vollmondsopfer, p. 59. ↩︎ ↩︎ ↩︎ ↩︎
-
‘The action of sacrificing belongs to the bridegroom; the hands of the wife represent the sacrificial vessel.’ Haradatta. - ‘It is the bridegroom who sacrifices the grain with the verse, “This wife.”’ Sudarśanārya. ↩︎ ↩︎
-
11, 12. See Section 2, Sūtras 7. 8; Section 4, Sūtra 8. ↩︎ ↩︎
-
See I, 2, 3. 8. ↩︎
-
See I, 1, 1. ↩︎
-
See below, V, 13, 16. ↩︎
-
See Āpastamba Dharma-sūtra II, 2, 3, 1 (S.B.E., vol. ii, p. 103). ↩︎
-
For instance, the Srāvaṇī paurṇamāsī is the deity of the ceremony described below, VII, 18, 5 seq. ↩︎