०१ १२ अग्निमिध्वा
०१ १२ अग्निमिध्वा ...{Loading}...
परिस्तरणम् - +++(क्रमो ऽन्यत्रोक्तः।)+++ अग्निमिध्वा प्रागग्रैर्दर्भैरग्निं परिस्तृणाति १२
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- 1 Having set the fire in a blaze, he strews eastward-pointed Darbha grass around it,
हरदत्तः
+++(सम्पादकटिप्पनी - इदं सूत्रम् अग्रिमे व्याख्यातम् ।)+++
सुदर्शनः
एवं प्रयोगानुबन्धं कालादिकम् उक्त्त्वा, इदानीं सर्व-गार्ह्य-प्रधान-होमानां साधारण-तन्त्र-नामानं प्राच्योदीच्याङ्ग-समुदायं प्रयोज्य-भेदम् आह– “अग्निमिध्वा"इत्यादि” मन्त्र सन्नामः" (आप.गृ.२–८. ) इत्यन्तेन ।
+++(सम्पादकटिप्पनी - इदं सूत्रम् अग्रिमे व्याख्यातम् ।)+++
मूलम् ...{Loading}...
अग्निमिध्वा प्रागग्रैर्दर्भैरग्निं परिस्तृणाति।
०१ १३ प्रागुदगग्रैर्वा उक्ताः
०१ १३ प्रागुदगग्रैर्वा उक्ताः ...{Loading}...
प्रागुदगग्रैर्वा।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- Or eastward-pointed and northward-pointed (grass);
हरदत्तः
उक्ताः पाकयज्ञपरिभाषाः अथ तेषां साधारणतन्त्रं वक्ष्यते– अग्निमिध्वेति । तदग्नेरुपसमाधानमित्युच्यते । एतच्च कर्माङ्गम् । किं पुनरत्राग्निः? पत्नीसम्बन्धेष्वौपासनम् । अत्र लौकिके केचिज्जातकर्मप्रभृति परिग्रहमग्नेरिच्छन्ति । अन्ये पुनः उपनयनप्रभृति । अपरे समावर्तनादि। “यत्रान्त्यां समिधमादध्यात् तं व्यपरिगृह्णीयाद्” इति । यत्र तु प्रसिद्धोऽग्निर्नास्ति तत्र श्रौत्रियागारादाहरणं मथनं वा । “यत्र क्वचाग्नि"मित्ययं तु देशसंस्कारः सर्वत्र भवति यदि स्यादसंस्कृतो देशः । अग्निमिध्वेति प्रकृते पुनरग्निग्रहणं येषु तन्त्रं न प्रवर्तते तत्रापि परिस्तरणं यथा स्यादिति-अग्निंपरिस्तृणाति सर्वत्रेति । उपसमाधानं तु तत्रार्थसिद्धम् । प्रागुदगग्रैर्वा । अथ वा न सर्वतः प्रागग्रैरेव परिस्तरणं किं तर्हि प्रागग्ररुदगग्रैश्च । तत्रोदगग्राः पश्चात्पुरस्ताच्च ॥९॥
सुदर्शनः
अत्र च अग्निपदार्थविशेषप्रतिपत्त्यर्थं स्मार्तेष्वग्निर्निरूप्यते । तत्र याज्ञवल्क्यवचनम् । कर्म स्मार्तं विवहाग्नौ कुर्वीत प्रत्यहं गृही । (या.स्मृ.१-९७.) इति । अस्यार्थः– गृही गृहस्थः सपत्नीकः स्मार्तं कर्म विवाहाग्नौ औपासनाग्नौ कुर्वीत । यस्य कर्मणः प्रयोगे संकल्पावघातान्वारम्भद्रव्यत्यागानुमत्यादिपदार्थद्वारा पत्न्यास्सहत्वं तत् कर्म स्वौपासने कुर्वीत इत्येतत् । अथ वा यस्य अग्निसाध्यस्य कर्मणः फलं साक्षात् कर्मान्तरप्रणाल्या वा जायापतिगाम्यन्यतरगामि वा भवति तत्कर्म गृही स्वौपासने कुर्यात्, “कुर्वीत” इत्यात्मनेपदश्रवणादिति । एवं च स्मार्तानि पाकयज्ञसीमन्तादीनि औपासनाग्नौ कर्तव्यानि । गृहप्रवेशोऽपि तत्कर्मजन्यवास्तुशान्तेः जायापत्यायुराद्यर्थत्वादौपासन एव । तथा पित्रादेर्मातामहादेश्च सपिण्डीकरणमप्यौपासने । सपिण्डीकरणफलस्य प्रेतत्वनिवृत्त्या पितृत्वप्राप्तिरूपस्याभ्युदयिकमासिश्राद्धादौ सम्प्रदानार्थत्वात्, तत्फलस्य च जायापतिगामित्वादिति । अत एव सपिण्डीकरणं सर्वैरपि पुत्रैर्न कर्तव्यम्, एकेनापि कृते पितृतया सम्प्रदानत्वसिद्धेः । अतो यत्र पत्न्यास्सहत्वं क्रियाफलं वा जायापतिगामि तत्कर्म (१)औपासन एव । यदि तु पुत्रोऽनग्निरनुपनीतादिः संवत्सरे पूर्णेऽवश्यं कर्तव्यत्वात् सपिण्डीकरणं करोति, तदा श्रोत्रियागारादाहृतेऽग्नौ ; बोधायनेन “अथ वा श्रोत्रियागारादेव तमौपासनम्” (बौ.गृ.६-२.) इत्यौपासनसंस्तवात्, आचाराच्च । अनुपनीतोऽपि पुत्रश्श्राद्धाधिकार्येव, अर्हत्यनुपनीतोऽपि विनाप्यग्निं विनाऽऽपदम् ॥ ( मनु. २-१७२. ) इति वचनात्, “न ब्रह्माभिव्याहारयेदन्यत्र स्वधातिनयनात्” ( गौ.ध.२-५. ) इति गौतमवचनस्थस्वधाशब्दस्य सकलोर्ध्वदैहिकप्रदर्शनार्थत्वाच्च । भ्राता वा भ्रातृपुत्रो वा सपिण्डश्शिष्य एव वा । सपिण्डीकरणं कृत्वा कुर्यादभ्युदयं ततः ॥ इति वचनात् यदा भ्रातृपुत्रादिः करोति तदा यथोक्तसहत्वफलभागित्वयोरभावात् श्रोत्रियागारादाहृताग्नावेव ॥ अन्ये तु–भ्रात्रादिगतपितृत्वप्राप्तिरपि पुत्रगतपूतत्वादिफलवत् पतिगामि फलमित्यौपासने; तच्चिन्त्यम् ॥ तथा जातकर्मचौलोपाकरणसमापनगोदानसमावर्तनान्यपि । तथोपनयनमपि । आचार्यकरणसिद्ध्यर्थमुपनयनमिति मतेऽपि नाचार्यस्यौपासने । तस्य नित्यधार्यत्वात् “त्र्यहमेतमग्निं धारयन्ति” (आप.गृ. ११-२०.) इति सूत्रविरोधात् । विवाहोप्यस्मिन्, निर्मन्थ्ये वा, असम्भवाद्विवाहजन्यौपासनस्य । सम्भवेऽपि प्रथमौपासनस्य, न तस्मिन् द्वितीयादिविवाहः ; “यां कामयेत राष्ट्रमस्यै प्रजा स्यादिति तस्या औपासने” इति प्रतिभार्यमौपासनभेदावगमात्, बौधायनीये अग्निद्वयसंसर्गविधानात्, आचाराच्च । कर्मार्थस्यौपासनस्य संस्कृते देशे, अनुपसमाहितस्यान्यस्य वाऽग्नेः, “यत्र क्व चाग्निम्” (आप. ध. २-१-१३.) इति धर्मशास्त्रोक्तविधिना अग्निप्रतिष्ठापनं कर्तव्यम् ॥ केचित्–इदं नाग्न्यङ्गं, कर्माङ्गमेवेति प्रतिकर्म कार्यम्, उखायां चाग्नेर्धारणमिति ॥
अथ सूत्रं व्याख्यायते । अग्निमिद्ध्वा इन्धीतेत्यर्थः । यद्यप्यर्थप्राप्तमग्नेरिन्धनं तथाप्येतद्वचनात् इद्धमपि पुनरिन्धीत । अत्र विध्यर्थे लिङ्गादौ ग्राह्ये क्त्वाग्रहणमिन्धनस्य परिस्तरणपूर्वकालतानियमार्थम् । तेन इन्धनानन्तरं परिस्तरणमेव कार्यं, न तु तयोर्मध्येऽवश्यकार्यमपि मूत्रनिरसनादि कर्मार्थसम्भारोपकल्पनं च ॥ नन्वेकस्मिन् सूत्रे इन्धनपरिस्तरणयोर्विधाने वाक्यभेदस्स्यात् ; सत्यम्, न तु सूत्रे वाक्यभेदो दोषः ; सूचनात् सूत्रमिति निर्वचनात् । इत्थमेव व्याख्यानं प्रयोजनं च सर्वत्र क्त्वाग्रहणेषु । प्रागग्रैर्दर्भैरग्निं परिस्तृणाति । सर्वासु दिक्षु प्रागग्रैः कुशैरग्निं परिस्तृणाति ॥१२॥ अथ वा प्रागग्रैरुदगग्रैश्च दर्भैरग्निं परिस्तृणाति । दक्षिणत उत्तरश्च प्रागग्रैः, पश्चात् पुरस्ताच्चोदगग्रैः, “उदगग्राः पश्चात्पुरस्ताच्च” (आप.श्रौ.२-१४-१५.) इति श्रौते दर्शनात् । एतान् कुशान् दक्षिणानुत्तरान् करोति , उत्तरांश्चाधरान्; बौधायनभरद्वाजगृह्याभ्यामुक्तत्वात् । दक्षिणतः पक्ष उपरिष्टाद्भवत्यधस्यादुत्तरः” इति । अत्र “अग्निमिद्ध्वा” इति प्रकृतेऽप्यग्नौ, “अग्निम्” इति पुनर्वचनं नियमार्थम्–अग्निमेव परिस्तृणाति नान्यदङ्गमपीति । तेन उत्तरेण पूर्वेण वा निहितमुदकं बहिरेव भवति ॥
केचित्–अतन्त्रकेष्वपि कर्मस्वग्निः परिस्तीर्य एवेति नियमार्थमिति ॥१३॥
मूलम् ...{Loading}...
प्रागुदगग्रैर्वा।
०१ १४ दक्षिणाग्रैः पित्र्येषु
०१ १४ दक्षिणाग्रैः पित्र्येषु ...{Loading}...
दक्षिणाग्रैः पित्र्येषु।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- Southward-pointed at sacrifices to the Fathers,
हरदत्तः
+++(सम्पादकटिप्पनी - इदं सूत्रम् अग्रिमे व्याख्यातम् ।)+++
सुदर्शनः
+++(सम्पादकटिप्पनी - इदं सूत्रम् अग्रिमे व्याख्यातम् ।)+++
मूलम् ...{Loading}...
दक्षिणाग्रैः पित्र्येषु।
०१ १५ दक्षिणाप्रागग्रैर्वा तत्र
०१ १५ दक्षिणाप्रागग्रैर्वा तत्र ...{Loading}...
दक्षिणाप्रागग्रैर्वा।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- Or southward-pointed and eastward-pointed.
हरदत्तः
तत्र दक्षिणाग्राः पश्चात् पुरस्ताच्च ॥१५॥
सुदर्शनः
पित्र्येषु मासिश्राद्धादिषु कर्मसु सर्वासु दिक्षु दक्षिणाग्रैः परिस्तृणाति ॥ १४ ॥ यद्वा दक्षिणाग्रैः प्रागग्रैश्च दर्भैः । पश्चात्पुरस्ताच्च दक्षिणाग्रैः, उत्तरतो दक्षिणतश्च प्रागग्रैः । उत्तरानुत्तरान् दक्षिणांश्चाधरान् कुर्यात् । तथा प्रागुपक्रम्य प्रसव्यं परिस्तृणाति ॥१५॥
मूलम् ...{Loading}...
दक्षिणाप्रागग्रैर्वा।
०१ १६ उत्तरेणाग्निन्
०१ १६ उत्तरेणाग्निन् ...{Loading}...
उत्तरेणाग्निं दर्भान् संस्तीर्य तेष्व् एनम् उत्तरया +++(“आगन्त्रा समगन्मही"त्येतया)+++ ऽवस्थाप्य
+++(उत्तरेणाग्निं दर्भेषु अवस्थापनमन्त्रः)+++
०१ आगन्त्रा समगन्महि ...{Loading}...
आ॒ग॒न्त्रा +++(छात्रेण)+++ सम॑गन्महि॒
प्र सु॑ मृ॒त्युं यु॑योतन+++(←यौतिः पृथग्भावे)+++ ।
अरि॑ष्टा॒स् सञ्च॑रेमहि स्व॒स्ति,
+++(ब्रह्मचर्यं)+++ च॑रताद् इ॒ह स्व॒स्त्य् आ गृ॒हेभ्यः॑+++(→आगृहस्थाश्रमम्)+++ ।+++(५)+++
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- To the north of the fire he strews Darbha grass and (on that) he places the vessels (required for sacrifice) upside-down, two by two, if referring to ceremonies directed to the gods,
हरदत्तः
परिस्तरणानन्तरं अग्नेरुत्तरतः पात्रप्रयोगार्थं दर्भान् प्रागग्रान् संस्तृणाति । प्रथितं स्तरणम् । प्रयुनक्ति सादयति । न्यञ्चि न्यग्भूतानि । सर्वाणि च द्रव्याणि प्रयोजनवन्ति पात्रग्रहणेन गृह्यन्ते । तेनोपनयनादौ मेखलादीनामपि सादनं भवति । तत्र यानि देवसंयुक्तानि तानि द्वन्द्वं प्रयुनक्ति । द्वे द्वे इत्यर्थः । पार्वणादीनि देवकर्माणि । अग्निग्रहणमनर्थकमविकृतत्वात् अग्निमिध्वेति । ज्ञापकार्थं चैतत् ज्ञापयति अग्निपरिस्तरणे विहितोऽयं पात्रप्रयोगे नानुवर्तते इति । कदा पुनरसौ ? दर्भाग्रविशेषस्तन्त्राभावे प्रवृत्तिश्च । तेन पित्र्येष्वपि प्रागग्राणामेव संस्तरणं अग्नेश्चोत्तरतः तन्त्राभावे च पात्रप्रयोगाभावात् । अधिकारात्त्वग्निप्रतिपत्तावेव । तदप्युभयं प्रतिपत्तव्यं स्यात् अधिकारादेव ॥१६॥
सुदर्शनः
अग्नेरुत्तरतोऽदूरेण दर्भान् संस्तृणाति । एते च प्रागग्राः, बौधायनगृह्यात् । प्रथितं च स्तरणं, समुपसर्गात् । उदक् च स्तरणापवर्गः । पित्र्येष्वप्यग्नेरुत्तरत एव प्रागग्रैः, “उत्तरत उपचारो विहारः, (आप.प.२-१०.) इति सिद्धेऽपीहाप्युत्तरेणेति वचनात्, प्रकृतेऽप्यग्नौ “अग्निम्” इत्यधिकशब्दस्य अधिकार्थपरत्वस्य युक्तत्वात्, परिस्तरणवद्विशेषस्यानुक्तेश्च । अपवर्गस्तु दक्षिणत एव । देवसंयुक्तानि देवकर्मसंयुक्तानि । पात्राणि दर्व्यादीनि । द्वन्द्वं, द्वे द्वे । न्यञ्चि अधोबिलानि । प्रयुनक्ति सादयति । ननु–उत्तरत्र “मनुष्यसंयुक्तानि” “पितृसंयुक्तानि” इति विशेषणेनैव सिद्धत्वात् “देवसंयुक्तानि” इति व्यर्थम् । न; दैवानि हि कर्माणि द्विविधानि-पुरुषार्थरूपाणि मनुष्यसंस्कारकाणि च । तत्रोभयत्रापि देवपात्राणां दध्यादीनां द्वन्द्वतासिद्ध्यर्थत्वात् ॥१६॥
मूलम् ...{Loading}...
उत्तरेणाग्निं दर्भान्त्संस्तीर्य द्वन्द्वं न्यञ्चि पात्राणि प्रयुनक्ति देवसंयुक्तानि।
०१ १७ सकृदेव मनुष्यसंयुक्तानि
०१ १७ सकृदेव मनुष्यसंयुक्तानि ...{Loading}...
सकृदेव मनुष्यसंयुक्तानि।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- All at once, if to men,
हरदत्त-प्रस्तावः
तत्र मनुष्यसंस्कारकर्मार्थेषु केषुचित् पात्रेष्वपवादमाह–
हरदत्तः
यानि मनुष्यसंयुक्तानि पात्राणि तानि सकृदेव प्रयुनक्ति, न द्वन्द्वम् । मनुष्यकर्माणि विवाहादीनि । एवकारः क्रियाभ्यावृत्तिप्रतिषेधार्थः । पात्रबाहुल्यात् द्वाभ्यां बाहुभ्यां सादनाशक्तावप्युपायेन सकृदेव सादनमिति । केचित् मेखलादीनामेव मनुष्यसंयुक्तानां सकृत् प्रयोगमिच्छन्ति, न होमार्थानाम् । वयं तु मनुष्यसंयुक्तानि मनुष्यकर्मसंयुक्तानीत्यवोचाम ॥१७॥
सुदर्शनः
मनुष्यसंयुक्तानि मनुष्यद्वारा संयुक्तानि अश्मवासोमेखलादीनि सकृदेव क्रियाभ्यावृत्तिपरिहारेण प्रयुनक्ति, पात्रबहुत्वेऽप्युपायेन । केचित्–मनुष्यसंस्कारकर्मसु दर्व्यादीन्यपि सकृदेवेति ॥१७॥
मूलम् ...{Loading}...
सकृदेव मनुष्यसंयुक्तानि।
०१ १८ एकैकशः पितृसंयुक्तानि
०१ १८ एकैकशः पितृसंयुक्तानि ...{Loading}...
एकैकशः पितृसंयुक्तानि।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- One by one, if to the Fathers.
हरदत्तः
यानिपितृकर्मसंयुक्तानि तान्येकैकशः प्रयुनक्ति एकमेकमित्यर्थः ॥१८॥
सुदर्शनः
पितृकर्मार्थानि दर्व्यादीनि स्वधापात्रादीनि च एकमेकं प्रयुनक्ति ॥१८॥
मूलम् ...{Loading}...
एकैकशः पितृसंयुक्तानि।
०१ १९ पवित्रयोस्सँस्कार आयामतः
०१ १९ पवित्रयोस्सँस्कार आयामतः ...{Loading}...
(पवित्रसृष्टिः -)
पवित्रयोस् संस्कारः, आयामतः +++(=दीर्घ्यतः [प्रादेशमात्रं])+++ परीमाणम्,
… इति दर्शपूर्णमासवत्तूष्णीम्।
विश्वास-टिप्पनी
तयोर् आयामतो यत्परिमाणं दीर्घप्रमाणं प्रादेशमात्रौ।[आप.श्रौ.१११९.] समावप्रच्छिन्नाग्रौ दर्भौ प्रादेशमात्रौ पवित्रे कुरुते, तृणं काष्ठं वान्तर्धाय छिनत्ति, न नखेन।
ततोऽप उपस्पृशेत् - “रौद्रराक्षस” इति परिशिष्टवचनात्। ततस्तयोर्मूलाद् आरभ्याऽग्राद् अद्भिर्मार्जनम् ।
आज्यसंस्काराय प्रोक्षणीसंस्काराय प्रणीताप्रणयनाय च प्रयुज्यते।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- 2 The preparation of the (blades used as) ‘purifiers,’ the measure of their length, the preparation of the Prokṣaṇī water, and the sprinkling of the vessels are the same here as at the sacrifices of the new and full moon, (but are performed) in silence.
हरदत्तः
पवित्रयोस्संस्कारः तृणं काष्ठं वेत्येवमादिः । तयोरायामतो यत् परिमाणं दीर्घप्रमाणं प्रादेशमात्रा (आप.श्रौ.१-११-९.) वित्येतत् । प्रोक्षणीसंस्कारः “पवित्रान्तर्हितायामाग्निहोत्रहवण्याम्” (आप.श्रौ.१-११-९.) इत्यादि । तत्राग्निहोत्रहवण्या इहाभावात् पात्रान्तरं प्रापयते । उत्तानानि पात्राणि इत्यादि पात्रप्रोक्षणम् । तदेतत् पदार्थचतुष्टयं दर्शयति । दर्शपूर्ममासयोरिवात्रापि कर्तव्यम् । तूष्णीमिति मन्त्रप्रतिषेधः । यथा प्रोक्षणे पात्राणामुक्ता क्रिया विस्रंसनञ्चेध्मस्य तदन्तर्भावादेव सिद्धम् । इदं तु वचनं नियमार्थम्–पवित्रयोरेवायामतः परिमाणं यथा स्यात् इध्मस्य दर्भाग्रयोश्चाज्ये प्रत्यस्यमानयोर् मा भूदिति । कथं पुनस्तत्र प्रसङ्गः ? एतदेव ज्ञापयति–भवत्यत्रापि दर्शपूर्णमासवत्तूष्णीं संस्कार इति । आयामग्रहणमायामपरिमाणस्य च पवित्रयोर्नियमोऽयं वा स्मार्तेन संख्यापरीमाणं दार्शपूर्णमासिकमेवेध्मस्य भवति । तेनात्राविद्यमानेष्वनूयाजेषु न एकविंशतिदारुरिध्मो भवति । उपहोमास्त्वनूयाजार्थे भवन्ति ॥१९॥
सुदर्शनः
पवित्रयोस्संस्कारो दर्शपूर्ममासाभ्यां तुल्यं मन्त्रवर्ज कार्यः । समावप्रच्छिन्नाग्रौ दर्भौ प्रादेशमात्रौ पवित्रे कुरुते, तृणं काष्ठं वान्तर्धाय छिनत्ति, न नखेन । ततो.प उपस्पृशेत् । “रौद्रराक्षस” (आप.प. २-९.) इति वचनात् । ततस्तयोर्मूलादारभ्याऽऽग्रादद्भिर्मार्जनम् । तयोश्चायामतः परीमाणं दर्शपूर्णमासवदेव । यद्यपि “पवित्रयोस्संस्कारो दर्शपूर्णमासवत्” इति वचनादेव तद्वदायामतः परिमाणं प्राप्तम्, तथापि यदायामतः परीमाणं प्रादेशमात्राविति तदेव तद्वत्, न त्विह पृथुत्वेनापि साम्यमित्येवमर्थं “आयामतः परिमाणम्” इति पुनर्वचनम् ॥ केचित्–पवित्रयोरेवायामतः परीमाणं दर्शपूर्णमासवत्, न त्विध्मस्य दर्भाग्रयोश्चाज्ये प्रत्यस्यमानयोरिति नियमार्थं पुनर्वचनम् । एवं ब्रुवतैव सूत्रकारेण दर्शपूर्णमासवत्तूष्णीमिध्मस्य दर्भाग्रयोश्च संस्कार प्रसिद्धवदभ्यनुज्ञातः । तथैव चाचारः । तेन खादिरः पालाशो वा शुल्वसन्नद्ध इध्मो विस्रस्य त्रिः प्रोक्षितव्यः । पार्वणे च पूर्वद्युस्सन्नद्धव्यः । दर्भाग्रे च “तृणं काष्ठं वा” (आप.श्रौ.१-११-७.) इत्यादिविधिना संस्कृत्याज्ये प्रत्यसितव्ये । अत्र च यद्यप्ययमर्थः “आयामतः” इति वा “परिमाणं” इति वान्यतरेण सिद्धः ; तथापि नियमान्तरार्थमेवमुक्तम् । आयामत एव यत्परिमाणं तदेव पवित्रयोः दर्शपूर्णमासवत्, न संख्यातः परिमाणम् । तेनेध्मस्य संख्यापरिमाणं दार्शपूर्णमासिकमेव “एकविंशतिदारुमिध्मम्” (आप.१-५-६.) इति; आयामस्यैव पवित्रयोर्नियमितत्वात् । यद्यप्यनूयाजाभावादेकविंशत्या न कार्यम्; तथाप्येतद्बलात्तत्स्थाने जयादयः कल्प्याः इत्ययुक्तं भूयिष्ठं च पूर्वव्याख्यानेनान्यथासिद्धेऽपि सूत्रे कल्पयन्ति ॥ प्रोक्षणीसंस्कारोऽपि दर्शपूर्णमासवत्तूष्णीम् । उदगग्राभ्यां पवित्राभ्यां अन्तर्हितायां वेकङ्कत्यां स्रुच्यप आनीय ताभ्यां त्रिरुत्पूय प्रोक्षेत् । पात्रपेरोक्षणमपि तद्वत्तूष्णीम् । उत्तानानि पात्राणि कृत्वेध्मं च विस्रस्य ताभिस्सपवित्रेण पाणिना त्रिः प्रोक्षेत् ॥१९॥
मूलम् ...{Loading}...
पवित्रयोस्सँस्कार आयामतः परीमाणं प्रोक्षणीसँस्कारः पात्रप्रोक्ष इति दर्शपूर्णमासवत्तूष्णीम्।
०१ २० अपरेणाग्निम् पवित्रान्तर्हिते
०१ २० अपरेणाग्निम् पवित्रान्तर्हिते ...{Loading}...
अपरेणाग्निं पवित्रान्तर्हिते पात्रेऽप आनीयोदगग्राभ्यां पवित्राभ्यां त्रिर् उत्पूय,
समं प्राणैर् हृत्वोत्तरेणाग्निं दर्भेषु सादयित्वा, दर्भैः प्रच्छाद्य २०
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- 3 To the west of the fire he pours water into a vessel over which he has laid (two grass blades called) purifiers, purifies (the water) three times with two northward-pointed purifiers, holds it on a level with his nose and mouth, places it to the north of the fire on Darbha grass, and covers it with Darbha grass.
हरदत्तः
पात्रप्रोक्षणानन्तरमपरेणाग्निं प्रणीतायां पवित्रं निधाय तस्मिन्नुदगग्रे पवित्रे अन्तर्धायाप आनीय्य पवित्राभ्यां उदगग्राभ्यां त्रिरुत्पुनाति प्रागपवर्गम् । अग्निग्रहणं पात्राधिकारात् । अङ्गुष्ठोपकनीष्ठोभ्यामुत्तानाभ्यां पाणिभ्यामिति कल्पान्तरे दृष्टो विशेषः । उत्पूय ता अपस्समं प्राणैर्हरति । मुखेन तुल्यमित्यर्थः । हृत्वोत्तरेणाग्निं दर्भेषु संस्तीर्णेषु सादयति । अग्निग्रहणं पात्रैर्व्यवधानं मा भूदिति । सादयित्वा दर्भैः प्रच्छादयति । सर्वञ्चैतत् पवित्रहस्तः करोति ॥२०॥
सुदर्शनः
अग्नेरदूरेण पश्चात् पवित्रान्तर्हिते कस्मिंश्चित् पात्रेऽप आनीयोदगग्राभ्यां पवित्राभ्यां त्रिरुत्पुनाति । अत्र प्रकृतयोरपि पवित्रयोः पुनर्ग्रहणात् पाण्योः प्रागग्रत्वमाचारसिद्धं “आङ्गुष्ठोपकनिष्ठिकाभ्यामुत्तानाभ्यां पाणिभ्याम्” (आश्व.गृ.१-३-३.) इत्याश्वलायनोक्तं च ज्ञापितम् । ततस्ता अपस्समं प्राणैर्हृत्वा प्राणस्थानाभ्यां मुखनासिकाभ्यां सममुदूधृत्य उत्तरेणाग्निं पुनस्तीर्णेषु दर्भेषु सादयति, “दर्भेषु” इति वचनात् । अन्ये पूर्वस्तीर्णेषु । ततो दर्भैः प्रच्छादयेत् । अत्र “अपरेणाग्निम्” इत्यग्निग्रहणं पात्राणामपरेण मा भूदिति । “उत्तरेणाग्निम्” इति तु पात्रव्यवधाननिवृत्त्यर्तम् ॥२०॥
मूलम् ...{Loading}...
अपरेणाग्निं पवित्रान्तर्हिते पात्रेऽप आनीयोदगग्राभ्यां पवित्राभ्यां त्रिरुत्पूय समं प्राणैर्हृत्वोत्तरेणाग्निं दर्भेषु सादयित्वा दर्भैः प्रच्छाद्य।
०१ २१ ब्राह्मणन् दक्षिणतो
०१ २१ ब्राह्मणन् दक्षिणतो ...{Loading}...
ब्रह्म-वरणम् - ब्राह्मणं दक्षिणतो दर्भेषु निषाद्य २१
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- 4 On the south side he causes a Brāhmaṇa to sit down on Darbha grass.
हरदत्तः
प्रकृतत्वादग्नेः दक्षिणतः । तत्रापरेणाग्निं दक्षिणातिक्रम्य तूष्णीं तृणं निरस्योपवेशनमिच्छन्ति । अग्रेणाग्निं परीत्यान्ये । “हौत्रब्रह्मत्वे स्वं कुर्वन् ब्रह्मासनमुपविश्य चि(छ)त्रमुत्तरासङ्गं कमण्डलुं वा तत्र कृत्वाथान्यत् कुर्याद्(खा० सू०१-१-२६.) इति कल्पान्तरम् । कृताकृतमाज्यहोमेषु परिस्तरणम् । तथाज्यभागौ वा ब्रह्मा चेदा(त्या)श्वलायनः ॥२१॥
सुदर्शनः
अग्निमिध्वेति प्रकृतत्वातग्नेर्दक्षिणतो दर्भेषु कंचिद्ब्राह्मणमुपवेशयेत् । न तु दर्शपूर्ममासवद्ब्रह्माणं, समानविधानवचनानाम् चोदनालिङ्गानि विनात्र तदीयस्य ब्रह्मणः प्राप्त्यभावात्, “ब्राह्मणं दक्षिणतो दर्भेषु निषाद्य” इति कृत्स्नविधानाच्च । तेनात्र ब्रह्मधर्माः वरणतृणनिरसनादयो न कर्तव्याः । पितृभूतर्त्विक्पक्षेऽपि यः पितुर्ब्रह्मा स एवात्र निषाद्यत इति नियमो नास्ति ॥
अन्ये तु– श्रौते ब्रह्मा दक्षिणेनाग्निं दर्भेषु निविष्टो दृष्टः । तथैव बह्वृचानां छन्दोगानां च गृह्ये ब्रह्मेत्येव चोदितः । अतोऽत्रापि “ब्राह्मणं दक्षिणत” इति लक्षणया ब्रह्मैव चोद्यते । तेन सम्भवन्तो ब्रह्मधर्मा इहापीति । तन्न, स्वगृह्यस्थस्य ब्राह्मणशब्दस्य श्रुत्यर्थत्यागेन परगृह्याल्लक्षणाश्रयणस्यायुक्तत्वात् । न च दक्षिणतो निषादितस्य ब्राह्मणमात्रस्य ब्रह्मत्वं सूत्रकारस्येष्टम् । यदि हि तथा स्यात्, “यं ब्राह्मणं विद्यां विद्वाँसं यशो नर्च्छेत्” (आप.श्रौ.१४-१३-७.) इत्यत्राल्पैरेवाक्षरैः “ब्रह्मणे वरं ददाति” इति ब्रूयात्, न पुनस्त्रिगुणैः “यो दक्षिणत आस्ते तस्मै वरं ददाति”(आप.श्रौ.१४-१३-९.) इति । सम्भवतां धर्माणां प्राप्तौ मन्त्राणामपि प्राप्तिर्दुर्वारा ।
“ब्राह्मणं दक्षिणतो निषाद्य” इत्यत्रानुक्तानां मन्त्रादीनां परिसंख्येयं चेति वदतां चोक्तरीत्या स्वार्थपरत्वे सम्भवति दोषत्रत्रययुक्तपरिसंख्याश्रयणं निर्हेतुकम् ॥२१॥
मूलम् ...{Loading}...
ब्राह्मणं दक्षिणतो दर्भेषु निषाद्य।
०१ २२ आज्यं विलाप्यापरेणाग्निम्
०१ २२ आज्यं विलाप्यापरेणाग्निम् ...{Loading}...
आज्य-संस्कारः - आज्यं विलाप्य, अपरेणाग्निं पवित्रान्तर्हितायाम् आज्यस्थाल्याम् आज्यं निरुप्य, उदीचोऽङ्गारान्निरूह्य, तेष्वधिश्रित्य, ज्वलताऽवद्युत्य, द्वे दर्भाग्रे प्रत्यस्य +++(अनेन वज्रनिभाभ्यां रक्षोनाशः)+++, त्रिः पर्यग्नि कृत्वा +++(अनेन देवेभ्यः प्रतिजानति द्रव्यम्)+++, उदगुद्वास्याङ्गारान् प्रत्यूह्य, उदगग्राभ्यां पवित्राभ्यां पुनराहारं त्रिरुत्पूय +++(अनेन शोधनम्)+++, पवित्रे अनुप्रहृत्य २२
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- He melts the Ājya, pours it, to the west of the fire, into the Ājya-pot, over which he has laid two purifiers, draws coals (out of the sacrificial fire) towards the mirth, puts (the Ājya) on them, throws light on it by means of a burning (grass-blade), throws two Darbha points into it, moves a firebrand round it three times, takes it from the fire towards the north, sweeps the coals back (into the fire), purifies (the Ājya) three times with two northward-pointed purifiers, moving them backward and forward, and throws the purifiers into the fire.
हरदत्तः
अथाज्यसंस्कार तत्र विलापनमाज्यस्य यस्मिन्कस्मिंश्चिदग्नौ भवति उत्तरत्राज्यग्रहणात् । निर्वापः आनयनम् । पुनराज्यग्रहणमनाघारेऽपि कर्मणि संस्कारः आज्यस्य यथा स्यात् । आज्यं सर्वत्र निरुप्य जुहोतीति । निरूहणं पृथक्करणम् । उदग्वचनं पुत्र्येष्वपि यथा स्यात् । एतोनोद्वासनं व्याख्यातम् । अवद्योतनं ज्वलता तृणेनावदीपनम् । तत्र द्वे दर्भाग्रे पवित्रवत्संस्कृत्याज्ये प्रत्यस्यति प्रक्षिपति । द्वे ग्रहणमेकं वेत्यस्याग्निहोत्रदृष्टस्य विकल्पस्य प्रतिषेधार्थम् । तेनाग्निहोत्रिकेऽपि तन्त्रे द्वे एव दर्भाग्रे भवतः । ततस्तदाज्यं त्रिः प्रदक्षिणं पर्यग्नि करोति आज्यस्य सर्वतोऽग्निं त्रिरावर्तयति तृणेनोल्मुकेन वा । तत्र पित्र्येष्वपि प्रदक्षिणं पर्यग्निकरणमिच्छन्ति । उद्वासनं निर्हरणम् । प्रत्यूहनम् अग्निमा संसर्जनम् । पुनराहारं पुनराहृत्याहृत्य । त्रीण्येतानि उत्पवनानि प्रत्यगपवर्गाणि । अनुप्रहरणमग्नौ; प्रकरणात् “विस्रस्याद्भिस्संस्पृश्ये"ति कल्पान्तरात् ॥
इति श्रीहरदत्तविरचितायां गृह्यसूत्रवृत्तावनाकुलायां प्रथमः खण्डः ॥
सुदर्शनः
यद्यपि “सर्पिराज्यं प्रतीयात्” (आप.प.१-२५.) इति परिभाषासिद्धं विलापनं, तथापि विलीनमप्याज्यं होमार्थेऽग्नौ कर्मार्थं पुनर्विलापयेत् । ततोऽग्नेः पश्चात् स्थापितायां पवित्रान्तर्हितायामाज्यस्थाल्यां तदाज्यमानयेत् । “आज्यं विलाप्य” इति प्रकृतेऽपि पुनराज्यग्रहणमाज्यस्यैव निर्वापादयः न पुनः “दध्न एवाञ्जलिना जुहोति”(आप.गृ.२२-१०.) इत्यत्र(२) पशुप्रभवस्य होमद्रव्यत्वेऽपि यदीयतदीयन्यायाद्दध्नो भवेयुरित्येवमर्थम् ॥ केचित्–अतन्त्रकेऽपि कर्मण्याज्यं निर्वापादिभिस्संस्कार्यमित्येवमर्थमिति ॥ अद्रिमित्यग्नेरेव पश्चात् न ब्राह्मणस्येति । केचित्तु– अन्यस्मिन्नग्नौ विलापनं, होमार्थाग्नेरेव पश्चान्निर्वाप इत्येवमर्थमिति ॥ अथाङारानुदीचो निरूह्य निर्वर्त्य, तेष्वङ्गारेषु आज्यमधिश्रित्य, ज्वलता तृणेनावद्युत्य अधोगामिन्या दीप्त्या द्योतयित्वा, द्वे दर्भाग्रे अनियतायामे तृणाद्यन्तर्धाय छित्वाऽद्भिस्संस्पृश्य ते युगपदाज्ये प्रक्षिपेत् “द्वे” इत्यधिकशब्दात्, आचाराच्च । अथोल्मुकमादायाज्ये प्रदक्षिणं त्रिः पर्यग्नि कृत्वा समन्ततोऽग्निमावर्त्य तदुदगवतारयेत् । अत्र निरूहणोद्वासनयोरुदगपवर्गस्य “तथापवर्गः” (आप.गृ.१-६.) इति सिद्धस्य पुनर्विधानमेतयोर्नित्यमुदगेवापवर्गः, न तु दैवे विकल्पेनापि प्रागपवर्गः, नापि पित्र्ये दक्षिणतोऽपवर्ग इति नियमार्थम् । तथैव पित्र्येष्वेतयोर्मध्यस्थं पर्याग्निकरणमपि सन्दंशन्यायाद्दैववत्प्रदक्षिणमेव । इत्थमेव शिष्टाचारः । ततोऽङ्गारान् पूर्व निरूढान् प्रत्यूह्य पुनरायतनस्थाग्निना संयोज्य । अत्राज्यसंस्कारकाणां अङ्गाराणां प्रत्यूहनविधानात् “अपवृत्ते कर्मणि” (आप.परि.४-२३.) इति न लौकिकत्वम् । अवद्योतनपर्यग्निकरणाग्नयोस्तु यदा आयतनस्थादुपादानं तदा तयोरग्नयोरपवृत्तकर्मत्वेन लौकिकत्वात् त्यागः । यदा तु निरूढात् तदा तदा तस्मिन्नेव क्षेपः । अथ पूर्ववदुदगग्राभ्यां पवित्राभ्यां पुनराहारं त्रिरुत्पूय पुनराहृत्याहृत्य त्रिरुत्पूय । अत्र पुरस्तादारभ्य पश्चान्नीत्वा पुरस्तात् परिसमाप्तिः । केचित्– आङो बलाद्विपरीतमाहुः ॥ ततस्ते पवित्रे अनुप्रहृत्य आचारानुकूलं प्रहृत्य, यदि ग्रन्थिस्स्यात् तदा विस्रस्याद्भिससंस्पृश्य प्रागग्रे अग्नौ प्रहरेदित्यर्थः ॥२२॥
इति श्रीसुदर्शनाचार्यकृते गृह्यतात्पर्यदर्शने प्रथमः खण्डः इत्यापस्तम्बीये गृह्यप्रश्ने प्रथमः खण्डः ॥
मूलम् ...{Loading}...
आज्यं विलाप्यापरेणाग्निं पवित्रान्तर्हितायामाज्यस्थाल्यामाज्यं निरुप्योदीचोऽङ्गारान्निरूह्य तेष्वधिश्रित्य ज्वलताऽवद्युत्य द्वे दर्भाग्रे प्रत्यस्य त्रिः पर्यग्नि कृत्वोदगुद्वास्याङ्गारान् प्रत्यूह्योदगग्राभ्यां पवित्राभ्यां पुनराहारं त्रिरुत्पूय पवित्रे अनुप्रहृत्य॥२२॥
०२ ०१ येन जुहोति
०२ ०१ येन जुहोति ...{Loading}...
दर्वी-संस्कारः - येन जुहोति, तदग्नौ प्रतितप्य, दर्भैः संमृज्य, पुनः प्रतितप्य, प्रोक्ष्य, निधाय, दर्भान् अद्भिस्संस्पृश्याग्नौ प्रहरति १
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- He warms at the fire the implement with which he sacrifices, wipes it off with Darbha blades, warms it again, sprinkles it (with water), puts it down, touches the Darbha blades with water, and throws them into the fire.
हरदत्तः
संमार्जनं सुग्वत् । प्रतितपनं न्यग्भूतस्य तपनम् । अग्निग्रहणमनर्थकम् , अन्यत्र प्रतितपनस्यासम्भवात् । तत्क्रियते दर्शपूर्णमासयोस्सम्मार्जने ये धर्मास्तेषामिह प्राप्त्यर्थमाहवनीये गार्हपत्ये वा चोदितं यत्प्रतितपनं तदस्मिन्नग्नौ भवतीति । अग्निमात्रं भिद्यते । अन्यत् समानं “सुवमग्रैर् (आप.श्रौ.२४४) इत्यादि । अग्नौ प्रहरतीति पुनरग्निग्रहणं सुक्संमार्जनधर्मा इह प्रवर्तन्त इति । पाकयज्ञेषु च दर्व्या होमः, कल्पान्तरे दृष्टत्वाद्दर्शनाच्च । यदयं समावर्तने दर्व्यामादायाज्येनाभ्यानयन्नित्यन्यपरे वाक्ये दर्वीं प्राप्तां दर्शयति । यच्चायं सकृदुपहत्येति उपघातं स्थालीपाकाद्दर्शयति तदपि नादर्व्यामुपपद्यते । तत्राज्यहोमेष्वेका दर्वी । स्थालीपाकेषु द्वे होमार्थं चावदानार्थं च । उभयोरपि सम्मार्जनम् । अवदानस्य होमार्थत्वात् यथाग्निहोत्रे स्रुवस्य । तत्र दर्वीमग्नौ प्रतितप्येति वक्तव्यम् । येन जुहोतीति किमुच्यते ? “मध्यमेनान्तमेन वा पलाशपर्णेन” इत्यत्रापि यथा स्यात्, अग्निहोत्रे आग्निहोत्रिके च तन्त्रे यथा स्यादिति । यद्येवमञ्जलेरपि प्रसङ्गः । विवाहसर्पयज्ञादिषु ज्ञापकात् सिद्धम् । यदयमौपकार्ये पार्वणवदिति यत्नं करोति तत् ज्ञापयति–अञ्जलिहोमा अधर्मग्राहकाः यावदुक्तधर्माण इति । तेन सादनादि त्रयमञ्जलेर्न भवति ॥१॥
सुदर्शनः
येन पात्रेण दर्व्या स्रुवेणाञ्जलिना वा जुहोति तदग्नौ प्रतितप्येत्यादि व्यक्तार्थम् । दर्व्याश्च होमपात्रत्वं “दर्व्यामाधायाज्येनाभ्यानायन्” (आप.गृ.१२-९.) इत्यन्यपरे वाक्ये सिद्धवद्दर्शनात्, आचाराच्च । बोधायनेन तु “निर्ऋतिगृहीता दर्वी” इति दर्वीनिन्दा स्रुवविधानार्था, न तु दर्व्या निषेधार्था । अतो दर्वीस्रुवयोर्विकल्पः । तत्र केवलाज्यहोमेषु एकैव दर्वी स्रुवो वा, उपस्तरणाद्यभावात् । चर्वादिहोमेषु तु द्वे दर्व्यौ स्रुवौ वा उपस्तरणाद्यर्थं होमार्थं च । उपस्तरणाद्यर्थस्यापि संस्कारः, उपस्तरणादि प्रदानान्तस्य होमपदार्थत्वात्, श्रौते स्रुवस्यापि संस्कारदर्शनात्, आचाराच्च । दर्व्यादीनां त्रयाणां तन्त्रवद्धोमेष्वेव संस्कारः, अतन्त्रकेषु तन्त्रान्तर्गतधर्मानुपपत्ते । तेन “अनुगतेऽपि वोत्तरया जुहुयात्” (आप.गृ.५-१८.) “सर्षपान् फलीकरणमिश्रान्” (आप.गृ.१५-६.) इत्यादिषु न दर्व्यादीनां संस्कार । अत्राग्नौ प्रतितप्याग्नौ प्रहरतीत्यर्थसिद्धाग्निग्रहणमेवंनामायं कृत्स्नविधिरिति ज्ञापयितुम् । तेन “स्रुवमग्रे” (तै.ब्रा.३-३-१.) इत्याद्यैष्टिकस्रुक्संमार्जनधर्माणामिहानुपपत्तिप्रसङ्ग एव । केचित्–अग्नौ प्रतितप्याग्नौ प्रहरतीति प्रयोजनान्तरशून्यादग्निग्रहणादैष्टिकस्रुक्सम्मार्गधर्मा इहापि भवन्तीति । प्रतितपनं त्वस्मिन्नेवाग्नौ । इह च सम्मार्गदर्भाणामग्नावेव प्रहरणम्, न पुनर्वैकल्पिकम् । तथा “येन जुहोती"त्यत्र सामान्यवचनम् “मध्यमेनान्तमेन वा पलाशपर्णेन” (आप.गृ.२२-४.) इत्याद्यतन्त्रकेऽपि कर्मणि आग्निहोत्रिके च विधौ होमार्थपात्रस्यापि संस्कारो यथा स्यादित्येवमर्थम् । अञ्जलेस्त्वपूपहोमे अवदानप्राप्त्यर्थेन “पार्वणवत्”(आप.गृ.२२-१.) इति य यत्नेनाञ्जलिहोमा अपूर्वा यावदुक्तधर्माण इति ज्ञापनान्न संस्कार इति ॥१॥
मूलम् ...{Loading}...
येन जुहोति तदग्नौ प्रतितप्य दर्भैः सम्मृज्य पुनः प्रतितप्य प्रोक्ष्य निधाय दर्भानद्भिस्संस्पृश्याग्नौ प्रहरति।
०२ ०२ शम्याः परिध्यर्थे
०२ ०२ शम्याः परिध्यर्थे ...{Loading}...
शम्याः+++(=युगकीलाः)+++ परिध्यर्थे विवाह+उपनयन-समावर्तन-सीमन्त-चौल-गोदान-प्रायश्चित्तेषु २ +++(अथ परिधीन् परिदधाति। तत आघारसमिधौ।)+++
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- 5 As paridhis (or pieces of wood laid round the fire) yoke-pins are used at the marriage, the Upanayana, the Samāvartana, the parting of the (wife’s) hair, the tonsure of the child’s hair, the cutting of the beard, and at expiatory ceremonies.
हरदत्तः
अथ परिधीन् परिदधाति । दर्शपूर्णमासवत्सर्वं तूष्णीं तत आधारसमिधौ । कुत एतत्? प्रसिद्धवदभ्यानुज्ञानाच्छम्याः परिध्यर्थ इति परिध्यर्थे परिधिकार्य इत्यर्थ । शम्याः लोकप्रसिद्धाः युगप्रान्तयोःछिद्रेषु कीलरूपाः काष्ठविशेषाः । तासां सहेध्मेन सन्नहनम् । प्रायश्चित्तं अद्भुतोत्पातप्रायश्चित्तम् । विवाहे च हृदयसंसर्गार्थे सर्वत्र शम्याः । विवाहादिभ्योऽन्यत्र सर्वत्र पार्वणादिषु परिधय एव । चौलग्रहणमनर्थकं सीमन्तातिदेशात् सिद्धम् । ज्ञापकार्थन्तु, एतत् ज्ञापयति– विवाहादिष्विह संकीर्तितेष्वेव शम्याः, न तैरतिदिष्टेषु इति । तेन सीमन्तादतिदिष्टे पुंसवने परिधय एव । पार्वणादिषु च पक्वहोमेषु तथा “एवमत ऊर्ध्वम्” इति वैवाहिकेन स्थालीपाकादिति दर्शनात् प्रसङ्गः ॥ २ ॥
सुदर्शनः
विवाहादिषु कर्मसु परिध्यर्थे परिधीनां कार्ये परिधीनां स्थान इति यावत्, शम्याः युगकीलका भवन्ति । ताश्च पलाशादीनामन्यतमेन कॢप्ताः परिधिस्थौल्यायामाः, तत्स्थानापन्नत्वात् । युक्तं चैतत्, यस्मादेवविधविषये वार्तिककारपादैरुक्तम्— “सम्भवन्ती खलेवाली खादिरी किन्नु बाध्यते । इति ॥ अत्र विवाहशब्देन स्थालीपाकवर्जितः साङ्गो विवाहो गृह्यते । तद्वर्जनकारणं पार्वणेनेत्यत्र वक्ष्यामः । सीमन्ते शम्याविधानादेव तद्विकारे चौले चौलविकारे च गोदाने शम्याप्राप्तावपि तयोर्ग्रहणं सीमन्तविकारेऽपि पुंसवने तासां निवृत्त्यर्थम् । प्रायश्चित्तं च “अगारस्थूणाविरोहणे” (आप.गृ.२३-९.) इत्यादिना विहितम् । अत्र च “पलाशकार्ष्मय” (आप.श्रौ.१-५-८.) इत्यादिसूत्रोक्तगुणयुक्तांस्त्रीन् परिधीन् संस्पृष्टान् । “परिधीन् परिदधाति” (तै.ब्रा.३-३-७.) इत्यादि विधानात् तूष्णीं परिदध्यादिति सूत्रकारस्याभिप्राय, “शम्याः परिध्यर्थे” इति सिद्धवत् परिधीनङ्गीकृत्य तत्स्थाने शम्याविधानात्, आचाराच्च ॥२॥
मूलम् ...{Loading}...
शम्याः परिध्यर्थे विवाहोपनयनसमावर्तनसीमन्तचौलगोदानप्रायश्चित्तेषु।
०२ ०३ अग्निम्
०२ ०३ अग्निम् ...{Loading}...
परिषेचनम् - अग्निं परिषिञ्चत्य् - अदितेऽनुमन्यस्वेति दक्षिणतः प्राचीनम्, अनुमते ऽमुमन्यस्वेति पश्चादुदीचीनं, सरस्वतेऽनुमन्यस्वेत्युत्तरतः प्राचीनं, देव सवितः प्रसुवेति समन्तम् ३
०१ अदितेऽनु मन्यस्व ...{Loading}...
अदि॒तेऽनु॑ मन्यस्व। +++(इति दक्षिणतः, प्राचीनम्)+++
०२ अनुमतेऽनु मन्यस्व ...{Loading}...
अनु॑म॒ते+++(=ऊनचन्द्रे पूर्णमासि)+++ ऽनु॑ मन्यस्व। +++(इति पश्चिमाद् उदीचीनम्)+++
०३ सरस्-वतेऽनु मन्यस्व ...{Loading}...
सर॑स्-वते+++(छान्दसो गुणः)+++ ऽनु॑ मन्यस्व। +++(इति उत्तरतः प्राचीनम्)+++
०४ देव सवितः ...{Loading}...
देव॑ सवितः॒ प्रसु॑व। +++(इति प्रागारम्भं प्रदक्षिणं)+++
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- He sprinkles water round the fire, on the south side from west to east with (the words), ‘Aditi, give thy consent!’ on the west side from south to north with ‘Anumati, give thy consent!’ on the north side from west to east with ‘Sarasvatī [sic], give thy consent!’ all around with ‘God Sāvitrī, give thy impulse!’
हरदत्तः
परिषेचनमुदकेन पर्युक्षणम् । अग्निग्रहणं परिध्यधिकाराद् बहिः परिधिर्माभूदिति । प्राचीनमुदीचीनमित्युच्यते प्रागुदग्वा(ग्चा) यतं परिषेचनकर्म यथा स्यादिति । तथापवर्गस्तु परिभाषासिद्ध एव । “देव सवितः प्रसुवे"ति एतावान् मन्त्रः कल्पान्तरेषु भूयस्सु तथा दर्शनात् । बोधायनीये च विस्पष्टमेतत् “अन्वमंस्थाः प्रासावीरिति मन्त्रान्तान् सन्नमयति” (बौ.गृ.१-४-७.) इति । छन्दोगानामेव त्वयं मन्त्रादिः । समन्तं सम इत्यर्थः । तत्र पुरस्तादुपक्रम्य प्रदक्षिणं सर्वत्र प्रतिमन्त्रमुदकदानम् ॥३॥
सुदर्शनः
अग्निमेवोदकेन परिषिञ्चति न परिध्याद्यङ्गमपि । तद्विधिमाह– अदितेऽनुमन्यस्वेत्यादिना । प्राचीनं प्रागायतम् । उदीचानम् उदगायतम् । समन्तं सर्वतः । अत्र “देव सवितः प्रसुव” इत्येतावानेव मन्त्रः, नर्च आदिप्रदेशः । तथा नोत्तरे परिषेचने “प्रासावी"रिति प्रसुवपदस्योहः । वैश्वदेवकाण्डे एकाग्निविधावेवमोवाम्नातानां “अदितेऽनुमन्यस्व” इत्यादीनामष्टानां यजुषां पूर्वोत्तरपरिषेचनस्थेष्वष्टसु व्यापारेषु श्रुतिस्थानाभ्यां विनियोगात्, वाजपेयप्रकरणस्थाया ऋचः स्वतोऽत्रापि विनियोगायोग्यत्वात्, आदिप्रदेशे समुदायलक्षणापत्तेः, यजुःप्राये मन्त्राष्टके ऋचोऽप्रतीतत्वात्, ऊहपक्षे आर्षपाठबाधप्रसङ्गात्, “तस्मादृचं नोहेत्” इति बह्वृचश्रुतिविप्रतिषिद्धस्य ग्रहणप्रसङ्गात्, अस्मदीयानामाचाराच्च । विस्पष्टं चैतत् बोधायनानां, “अन्वमंस्थाः प्रासावीरिति मन्त्रान्तान् सन्नमयति” (बौ.गृ.१-४-३७.) इति । एवं चोत्तरपरिषेचने” अन्वमंस्थाः प्रासावीः” इति पूर्वमन्त्रेभ्यो विशेषमात्रस्य पाठः, न पुनरूहः । यथाग्नौ “एतेनैव त्रैष्टुभेन छन्दसाऽहरिष्टकामुपदधे” इति । सन्नामशब्दश्चात्र गौणः । अत एवैते मन्त्राः वैश्वदेवकाण्डमुपाकृत्य प्रागुत्सर्जनादध्येतव्याः, ब्रह्मयज्ञपारायणयोश्च ॥३॥
मूलम् ...{Loading}...
अग्निं परिषिञ्चत्यदितेऽनुमन्यस्वेति दक्षिणतः प्राचीनमनुमतेऽमुमन्यस्वेति पश्चादुदीचीनं सरस्वतेऽनुमन्यस्वेत्युत्तरतः प्राचीनं देव सवितः प्रसुवेति समन्तम्।
०२ ०४ पैतृकेषु समन्तमेव
०२ ०४ पैतृकेषु समन्तमेव ...{Loading}...
पैतृकेषु समन्तमेव तूष्णीम्।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- At ceremonies belonging to the Fathers (water is sprinkled) only all round (the fire), silently.
हरदत्तः
अक्रियमाण एवकारे समन्तपरिषेचने मन्त्रप्रतिषेधार्थमेतत् स्यात् । एवकारात्तु दक्षिणतः प्राचीनमित्यादे त्रयस्य निवृत्तिः ॥४॥
सुदर्शनः
पैतृकेषु कर्मसु समन्तमेव परिषिञ्चति, न दक्षिणतः प्राचीनम्’ इत्यादि । तच्च तूष्णीम् ॥४॥
मूलम् ...{Loading}...
पैतृकेषु समन्तमेव तूष्णीम्।
०२ ०५ इध्ममाधायाघारावाघारयति
०२ ०५ इध्ममाधायाघारावाघारयति ...{Loading}...
इध्मः, आघारः - इध्ममाधाय +++(एकविंशतिदारुमिध्मम् [आप.१५.६])+++, आघाराव् +++(आघारनामकौ होमौ द्वौ)+++ आघारयति +++(= दीर्घधारया जुहोति)+++ दर्शपूर्णमासवत्तृष्णीम् ५ +++(उत्तरं परिधिसन्धिमन्ववहृत्य… दक्षिणाप्राञ्चं ऋजुं सन्ततं ज्योतिष्मत्याघारमाघारयन् सर्वाणीध्मकाष्ठानि संस्पर्शयक्ति [आप.श्रौ.२१२७]। दक्षिणं परिधिसन्धिमन्ववहृत्य प्राञ्चमुदञ्चम्ऽ[आप.श्रौ.२१४१] ऋजू प्राञ्चौ होतव्यौ तिर्यञ्चौ वा व्यतिषक्तावव्यातिषक्तौ वाऽ[आप.श्रौ.२१२८]। गार्ह्यपरिभाषामनुसृत्य प्रागपवर्गाभ्यामुदगपवर्गाभ्यां वा दीर्घधाराभ्यां जुहोति, न तु कोणदिगपवर्गाभ्याम् इति तु केचित्।)+++ +++(यत्तूष्णीम् तत्प्राजापत्यम् । (तै.ब्रा.२१४)+++ दर्शपूर्णमासवत्प्रथमस्य प्रजापतिः, द्वितीयस्येन्द्र इति केचित्। )
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- 6 Having put a piece of wood on the fire, he offers the two Āghāra oblations as at the sacrifices of the new and full moon, silently.
हरदत्तः
इध्म इति समुदायस्योपदेशात् पञ्चदशदारुमिध्मं सकृदेवादधाति । “अभिघार्ये"ति कल्पान्तरं दर्शपूर्णमासवदित्त्युत्तरं परिधिसन्धिमन्ववहृत्य दक्षिणं परिधिसन्धिमन्ववहृत्येत्येवमादिना विधाने तूष्णीमिति मन्त्रोच्चारणप्रतिषेधः । तेन “प्रजापतिं मनसा ध्याय"न्नित्येतदपि न भवति । मनसा मन्त्रोच्चारणं तत्र विधीयत इति कृत्वा काम्यानामाघारकल्पानामिहाप्रवृत्तिः प्रकृतिविषयत्वात्तेषाम् । केचित् स्रुवेण पूर्वमाघारमिच्छन्ति । अन्ये पुनः उभावपि दर्व्यैव वेदोपभृतोरभावात् उपयमनमपि न भवति । आसीन एव चेतरमप्याघारं जुहोति । न चाभिप्राणिति । अत्र प्रमाणमुपरिष्टाद्वक्ष्यामः ॥४॥
सुदर्शनः
इध्ममग्नावादधाति । स च खादिरः पालाशो वा पञ्चदशसङ्ख्याकोऽर्थलक्षणस्थौल्यायामः, इध्मनामधेयात्, श्रौते दर्शनाच्च । युगपच्चाधानम्, “इध्मम्” इत्येकवचनेन समुदायस्य विवक्षितत्वात् । तच्च तूष्णीम्, मन्त्रस्याविधानात् ॥ अन्ये “तूष्णीम्” इत्यारभ्येदमेकं सूत्रं कत्वा हिरण्यकेशिनां योमन्त्रः “अयं त इध्मः इति, सः “अनुक्तमन्यतो ग्राह्यम्” इति न्यायेन नोपसंहर्तव्य इति व्याचक्षते । तेषां पैतृकेषु समन्तपरिषेचनं समन्त्रकं स्यात् । केचित् – गृह्यान्तरात्, इध्मोऽभिधार्याधेयः इति ॥ आघारौ आघारनामकौ होमौ द्वौ । आघारयति दीर्घधारया जुहोति, दर्शपूर्णमासवत् । “उत्तरं परिधिसन्धिमन्ववहृत्य…..दक्षिणाप्राञ्चं ऋजुं सन्ततं ज्योतिष्मत्याघारमाघारयन् सर्वाणीध्मकाष्ठानि संस्पर्शयति (आप.श्रौ.२-१२-७.) “दक्षिणं परिधिसन्धिमन्ववहृत्य” (आप.श्रौ.२-१३-११.) “प्राञ्चमुदञ्चम्” (आप.श्रौ.२-१४-१.) इत्यादि “ऋजू प्राञ्चौ होतव्यौ तिर्यञ्चौ वा व्यतिषक्तावव्यतिषक्तौ वा” (आप.श्रौ.२-१२-८.) इति वैकल्पिकास्त्रय आघारपक्षा एव दर्शपूर्णमासाभ्यां तुल्यं कर्तव्याः ; न पुनर्द्वितीयाघारस्य “पूर्वोर्धे मध्ये पश्चार्धे वा जुहुयात्” (आप.श्रौ.२-१४-८.) इत्यनाघारपक्षोऽपि । इमौ च द्वावप्यासीनोदर्व्या तूष्णीमाघारयति, दुर्वीहोमानामपूर्वत्वेनैष्टिकाघारधर्माणां मन्त्राणां चाप्राप्तेः । तूष्णीमिति “तूष्णीं पञ्चाज्याहुतीर्हुत्वा” (आप.गृ.२२-४.) इतिवत् स्वाहाकारस्यापि निवृत्त्यर्थम् । अत उभयोरप्याघारयोः प्रजापतिर्देवता “यत्तूष्णीम् । तत्प्राजापत्यम् ।” (तै.ब्रा.२१४) इति श्रुते । कथं पुनरिमावजुहोतिचोदनौ दर्वीहोमौ ? उच्यते– यद्यपि जुहोतीत्येवं न चोदनास्ति, तथाप्याघारयतीति दीर्घाघारगुणकजुहोतिचोदनार्थत्वात्, याज्ञिकप्रसिद्धेश्च दर्वीहोमावेव । किञ्च “अथाज्यभागौ जुहोति”(आप.गृ.२-६.) इत्याज्यभागौ स्पष्टमेव दर्वीहोमौ; तत्साहचर्यादाघारावपि तथा । यथा अंशोरनारभ्याधीतस्य विनियोगसन्निधेरभावेऽप्यदाभ्यसाहचर्यात् सोमनियोगसम्बन्धः । एवं वा व्याख्यानम्– आघारावाघारयति । “पुरस्तादुदग्वोपक्रमः” (आप.ग.१-५.) इत्येतस्मात् परत्वेन प्रबलां “तथापवर्गः” (आप.गृ.१-६.) इति गार्ह्यपरिभाषामनुसृत्य प्रागपवर्गाभ्यामुदगपवर्गाभ्यां वा दीर्घधाराभ्यां जुहोति, न तु कोणदिगपवर्गाभ्याम् । नाप्यैष्टिकाघारधर्मा मन्त्राश्च, अपूर्वत्वादेव । देवते तु दर्शपूर्णमासवत् प्रथमस्य प्रजापतिः, द्वितीयस्येन्द्र इत्यर्थः । तूष्णीमिति पूर्ववदेव । अन्ये तु आघाराविति नामधेयं “मासमाग्निहोत्रं जुहोति” इतिवतैष्टिकाघारधर्मातिदेशकम् । अत्र स्रुवेण ध्रुवाया आज्यमादाय आसीनोऽन्यमाघारमाघारयन् (आप.श्रौ.२-१२-७.) “जुह्वेहीति जुहूमादत्ते” (आप.श्रौ.२-१३-२.) इत्यादिषु सर्वेषु आघारधर्मेषु तन्मन्त्रेषु च प्राप्तेषु “आघारावाघारयति” इति परिसङ्ख्यार्थम् । आघारयतीति दीर्घधाराधर्मकावेव होमौ कुर्यात्, नान्यधर्मकाविति । “तूष्णीम्” इति तु धर्मावान्तरभेदानां मन्त्राणां निवृत्त्यर्थम् । दर्शपूर्णमासवदिति त्वनर्थकमेवेत्याहुः । तन्न- दर्वीहोमयोरपूर्वयोः विशेषतश्चाङ्गभूतयोः धर्मातिदेशानपेक्षत्वात्, स्वतश्च नाम्नो धर्मलक्षणाया अयुक्तत्वात्, आघारयतीत्यत्र च सति गत्यन्तरे परिसङ्ख्याया अन्याय्यत्वात्, आघारव्यातिरिक्तधर्मपरिसङ्ख्याने चातिदेशवैफल्यात्, परिसङ्ख्यायाश्च मन्त्रपरिसङ्ख्यानेऽपि सामर्थ्यात् तूष्णींपदस्य वैयर्थ्यापत्तेः “दर्शपूर्णमासवद्” इति पदं व्यर्थमिति स्वेनैवोक्तत्वात्, “आघारावाघारयति” इति च पदयोरतिदेशपरिसङ्ख्यार्थत्वे होमविधायकशब्दाभावात्, तद्भावाय च परिसङ्ख्यात्यागे सर्वेषामाघारधर्माणां शिष्टाचारविरुद्धानुष्ठानापातात्, आज्यभागादीनामपीत्थमतिदेशे अभ्युपेये तत्राप्यैष्टिकाज्यभागादिधर्माणां सर्वेषामनुष्ठानप्रसङ्गाच्च । तस्मात् पूर्वे एव व्याख्याने सुष्ठु ।
यतोऽपूर्वावेवाघारौ, यतश्च “समिदभावश्च, अग्निहोत्रवर्जम् (आप.प.३-८,९.) इति परिभाषा, अत एव आघारसमिधो र्निवृत्तिः । अन्ये कुर्वन्ति । तस्मिन् पक्षे परिधिनिधानानन्तरम्; श्रौते तथा दृष्टत्वात् । अनूयाजसमित् अनुयाजाभावादेव निवृत्ता । तेनेध्मसन्नहनं परिधिभिस्सहाष्टादशधा, विंशतिधा वा, न पुनरेकविंशतिधा ॥५॥
मूलम् ...{Loading}...
इध्ममाधायाघारावाघारयति दर्शपूर्णमासवत्तूष्णीम्।
०२ ०६ अथाज्यभागौ जुहोत्यग्नये
०२ ०६ अथाज्यभागौ जुहोत्यग्नये ...{Loading}...
आज्यभागौ - अथाज्यभागौ जुहोत्य् अग्नये स्वाहेत्युत्तरार्धपूर्वार्धे, सोमाय स्वाहेति दक्षिणार्धपूर्वार्धे, समं पूर्वेण +++(=आघारहोमसममात्रा ऽऽज्य)+++ ६
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- 1 Then he offers the two Ājyabhāga oblations, over the easterly part of the northerly part (of the fire) with (the words), ‘To Agni Svāhā!’ over the easterly part of the southerly part (another oblation) exactly like the preceding one, with (the words), ‘To Soma Svāhā!’
हरदत्तः
अग्नेरुत्तरभाग उत्तरार्धः, पूर्वभागः पूर्वाधः तयोरन्तरालं उत्तरार्धपूर्वार्धः । सममिति देशतः । समं तौ होतव्यौ न विषमावित्यर्थः । उपदेशादाघारानन्तर्ये सिद्धे अथेति वचनं सम्बोधनार्थम् । किं सिद्धं भवति ? आघारयोराज्यभागयोश्च साधर्म्यं सिद्धं भवति । तेन ज्योतिष्मत्यग्नौ होमः । आघारयोः प्रसिद्धो धर्मः । तस्याज्यभागयोरपि प्रवृत्तिः । तथा आज्यभागयोः प्रसिद्धो धर्मः आसीनहोमोऽप्युच्छ्वासाभावश्च । तस्याघारयोरपि प्रवृत्तिः । तेन यदुक्तमुत्तरस्मिन्नप्याघारे स्थानाभिप्राणने न भवत इति तदुपपन्नं भवति । आज्यभागाव्इतिहोमयोस्संज्ञा । प्रयोजनमग्नेरुपसमाधानाद्याज्यभागान्त इत्येवमादयः ॥६॥
सुदर्शनः
अथ आघारानन्तरं अर्थकृत्यमप्यकृत्वाऽऽज्यभागनामकावपूर्वौ होमौ जुहोति । तत्र प्रथममग्नये स्वाहेति मन्त्रेणाग्नेर् उत्तरार्धपूर्वार्धे, प्रागुदीच्यामित्यर्थः । द्वितीयं सोमाय स्वाहेति दक्षिणार्धपूर्वोर्धे, दक्षिणपूर्वस्यामित्यर्थः । समं पूर्वेण आघारसम्भेदमवधिं कृत्वाऽक्ष्णया रज्वा यावत्यन्तरे पूर्वो हुतः तावत्यन्तर एवोत्तरं जुहोति, न पुनस्सन्निकृष्टं विप्रकृष्टं वा ॥६॥
मूलम् ...{Loading}...
अथाज्यभागौ जुहोत्यग्नये स्वाहेत्युत्तरार्धपूर्वार्धे सोमाय स्वाहेति दक्षिणार्धपूर्वार्धे समं पूर्वेण।
०२ ०७ यथोपदेशम् प्रधानाहुतीर्हुत्वा
०२ ०७ यथोपदेशम् प्रधानाहुतीर्हुत्वा ...{Loading}...
यथोपदेशं प्रधानाहुतीर् हुत्वा,
+++(उपहोमाः -)+++
जयाभ्यातानान्,
राष्ट्रभृतः,
प्राजापत्यां,
व्याहृतीर् विहृताः,
सौविष्टकृतीम् इत्य् उपजुहोति -
Yad asya karmaNaH ...{Loading}...
विश्वास-प्रस्तुतिः
यद् अ॑स्य॒ कर्म॒णो ऽत्यरी॑रिचं॒
यद् वा॒ न्यू॑नम् इ॒हाक॑रम् ।
अ॒ग्निष् टत् स्वि॑ष्ट॒कृद् वि॒द्वान्थ्
सर्व॒ꣵ स्वि॑ष्ट॒ꣵ सुहु॑तं करोतु॒
स्वाहा᳚ ।
मूलम्
यद॑स्य॒ कर्म॒णोऽत्यरी॑रिचं॒ यद्वा॒ न्यू॑नमि॒हाक॑रम् ।
अ॒ग्निष्टत्स्वि॑ष्ट॒कृद्वि॒द्वान्थ्सर्व॒ग्ग्॒ स्वि॑ष्ट॒ग्ं॒ सुहु॑तं करोतु॒ स्वाहा᳚ ।
+इति ७
विश्वास-टिप्पनी
एतदेवानुयाज्यम् इति केचित्। कपर्दिकारिकायान्तु स्थालीपाकादिषु नैकेषु कर्मसु न विद्यतेऽयम्भागः। तथैवाधुनिकाचारे केषाञ्चित्।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- 2 Having offered the chief oblations (belonging to each sacrifice) according to prescription, he adds the following oblations, viz. the Jaya, Abhyātāna, Rāṣṭrabhṛt oblations, the oblation to Prajāpati, the Vyāhṛtis one by one, the oblation to (Agni) Sviṣṭakṛt with (the following formula), ‘What I have done too much in this ceremony, or what I have done here too little, all that may Agni Sviṣṭakṛt, he who knows, make well sacrificed and well offered. Svāhā!’
हरदत्तः
यथोपदेशमिति । यस्मिन् यस्मिन् कर्मणि याः प्रधानाहुतय इत्युपदिश्यन्ते, यथा “अन्वारब्धायामुत्तरा आहुतीर्” (आप.गृ.१-२)इति तास्ता इत्यर्थः । जयाः “चित्तञ्च चित्तिश्च” (तै.सं.३-४-४.) इत्येवमादयः । अभ्यातानाः “अग्निर्भूतानां (तै.सं.३-४-५.) इत्यादयः । राष्ट्रभृतः “ऋताषाडृतधाम” (तै.सं.३-४-७) इत्यादयः । प्रजापते न त्वदेतानी’त्येषा प्राजापत्या । व्याहृतयः प्रसिद्धाः । विहृतवचनं समस्तनिवृत्त्यर्थम् । एतेषामनुपदेशः सिद्धत्त्वात् । सौविष्टकृती अप्रसिद्धत्त्वात् पठिता । नन्वेषापि सूत्रे पठिता “यदस्य कर्मणोऽत्यरीरिचं यद्वान्यूनमिहाकरम् । अग्निष्टत्स्विष्टकृद्विद्वान्त्सर्वं स्विष्टँ सुहुतं करोतु स्वाहे"ति सर्वप्रायश्चित्तेषु, (आप.श्रौ.३-१२-९.) एवं तर्हि एतत् ज्ञापयति पाकयज्ञविधिरयं अन्येषामपि केषाञ्चित् साधारण इति । दृश्यते च कालगिरेयाणामनेन प्रवृत्तिः विवाहादिषु “कर्मसु” ये होमाश्चोदिताः तेष्वेतस्य प्राप्त्यर्थं तेषां कालोपदेशार्थमिदम् । जयादीनां पुरस्तादाज्यभागयोश्चोपरिष्ठात् प्रधानाहुतय इति नार्थः । एतदर्थेनानेन तत्रैवोभयोरप्युपदिष्टत्वात् । “अग्नेरुपसमाधानाद्याज्यभागान्त उत्तराहुतीर्हुत्वा” इति “स्थालीपाकाज्जुहोति” इत्यतिदेशात् तत्र प्राप्तिः । पार्वणे तु यथा, तथा आग्नेयस्थालीपाकविधौ वक्ष्यामः ।
अथ येष्व् “आज्यभागान्त” इति वा “जयादि प्रतिपद्यत” इति वा वचनं नास्ति यथा पण्यफलीकरणहोमे तत्र प्राप्त्यर्थमिदमुच्यते । विवाहादिषु तत्र विधानमनर्थकं, आज्यभागान्ते जयादि प्रतिपद्यत इति वचनात् पण्यहोमादयोऽपूर्वा यावदुक्तधर्माणः । इदं तर्हि प्रयोजनं कव्यान्तरोक्तानि नित्यानि नैमित्तिकानि काम्यानि वा यद्यस्मदादिभिरनुष्ठीयन्ते तदा तेष्वपि एतस्य तन्त्रस्य प्रवृत्तिर्यथा स्यादिति । नन्वेतदपि पार्वणातिदेशदर्शनात् सिद्धमाचाराद्यानिगृह्यन्ते इति; सत्यं पक्वहोमेषु सिद्धं, न त्वाज्यहोमेषु “कूश्माण्डैर्घृतम्” इत्यादिषु, तस्यापक्वविषयत्वात् । विवाहादिषु तन्त्रविधाननियमार्थं यस्मिन् गृहमेधचोदितास्तेषु अत्राग्नेरुपसमाधानाद्याज्यभागान्त इति जयादिप्रतिपद्यत इति वा वचनं तत्रैव तन्त्रप्रवृत्तिः इति । तेन पण्यहोमादयो यावदुक्तधर्माण इति सिद्धम् । प्रधानाहुतिग्रहणं जयादेराज्यभागान्तस्य च तत्र प्रसिद्ध्यर्थम् । उपजुहोति इति उपशब्द आनन्तर्यार्थः । तेन प्रधानाहुत्यनन्तरमुपहोमाः । तेनेशानयज्ञे परिषेचनान्ते बलिहरणं भवति । श्राद्धे वानुपदेशनं स्थालीपाके च बर्हिरनुप्रहरणं सौविष्टकृतीमित्युच्यते स्विष्टकृद्देवतेति ज्ञापनार्थम् । तेनाज्यहोमस्विष्टकृत् पक्वहोमेषु भवति ॥७॥
सुदर्शनः
यथोपदेशं येन हविरादिना विवाहादिषु प्रधानाहुतय उपदिष्टास्तेन तेन विधानेन ता हुत्वा । जयाः चित्तं च स्वाहा(तै.सं. ३-४-४.) इति त्रयोदश । अग्निर्भूतानामधिपतिस्समावत्वस्मिन्निति ( तै.सं .३-४-५.) सानुषङ्गा अभ्याताना अष्टादश। ऋताविति (तै.सं. ३-४-७.) राष्ट्रभृतो द्वाविंशतिः । तत्र ऋताषाडित्यनुद्रुत्य “तस्मै स्वाहे"त्यन्तेन प्रथमाहुतिं जुहोति । “ताभ्यस्स्वाहा” इत्येतावतैवोत्तराम् । एवमुत्तरे पञ्च पर्यायाः । तत्र “नाम स इदं ब्रह्मा” इत्यनुषङ्गः । “ताभ्यः स्वाहा” इति च । “भुवनस्य पते… स्वस्तिंस्वाहा” इति त्रयोदशी । “परमेष्ठी"त्यादयः पूर्ववच्चत्वारः पर्यायाः । “स नो भुवनस्य पते….. यच्छ स्वाहा” इति द्वाविंशी । “प्रजापते न त्वदेतानि” इति ऋक्प्राजापत्या । प्राजापत्ययर्चा वल्मीकवपायामवनयेत्’(तै.ब्रा. ३-७-२.) इति श्रुतेः । सूत्रकारेण “प्रजापते न त्वदेतानी’ति प्राजापत्ययर्चा वल्मीकवपायामवनीय” (आप. श्रौ.९-२-४.) इति व्याख्यातत्वात् । व्याहृतीः विहृताः ; “भूः स्वाहा, भुवः स्वाहा सुवः स्वाहा” इति । सौविष्टकृती “यदस्य” कर्मणः इति ऋक् । आत्र चास्याः स्विष्टकृद्देवताकत्वं लिङ्गादेव सुगमम् । देवताज्ञानस्य कर्माङ्गत्वमपि “यो ह वा अविदितार्षेयच्छन्दोदेवताब्राह्मणेन मन्त्रेण याजयति वाऽध्यापयति वा स्थाणुमृच्छति” इत्यादिश्रुतेः, अविदित्वा ऋषिं छन्दो दैवतं योगमेव च । योऽध्यापयेज्जपेद्वापि पापीयान् जायते तु सः ॥ इति स्मृतेश्च सिद्धम् । अतो यत्रार्षेयादिज्ञानानां नैवंविधः पुनर्विधिः तत्र तानि पाक्षिकाणीति गम्यते । एवमेता जयादिका अष्टपञ्चाशदाहुतीः प्रधानहोमानन्तरमुपजुहोति । यत्रापि सर्पबल्यादौ पार्वणातिदिष्टः स्विष्टकृत् तत्रापि प्रधानाहुत्यनन्तरमेवैताः । ततः स्विष्टकृत् ; क्त्वाप्रत्यत्यात्, उपोपसर्गाच्च ॥ केचित्– स्विष्टकृतोऽनन्तरं जयादयः “अग्निः स्विष्टकृद्वितीय” (आप.गृ. ७-७.) इति स्विष्टकृत प्रधानतुल्यधर्मत्वज्ञापनादिति । ननु–यद्यत्रैव सर्वप्रधानहोमानन्तर साधारण्येन जयादय उपदिष्टाः किमर्थं तत्र तत्र “जयादि प्रतिपद्यते” इति वचनम् ? उच्यते– यत्रैतद्वचनं नास्ति पार्वणादौ न तत्र जयादय इत्येवमर्थम् । एवं तर्ह्यत्र साधारणविधानमेवानर्थकम् । न ; केवलं जयादिविध्यर्थत्वात् । अन्यथा विवाहादाव् एतेष्वन्वारम्भोऽपि स्यात् । किञ्च अस्मिन्नसति तत्र तत्र “जयाभ्यातानान्” इत्यादिमन्त्रसन्नाम इत्यन्तो गुरुर्ग्रन्थः पुनः पुनः पठितव्यस्स्यात् । तस्मादन्वारम्भादिनिवृत्त्यर्थं ग्रन्थलाघवार्थं चेदं साधारणविधानम् । केचित्– यत्राज्यभागान्तं पुरस्तात्तन्त्रं तत्र सर्वत्र जयाद्युत्तरतन्त्रम् । एतयोर्मध्ये “यथोपदेशं प्रधानाहुतीः” इत्यविशेषेण प्रधानहोमानां विधानात् । आग्नेयेऽपि च स्थालीपाके जयादिर्विद्यत एव, “सिद्धमुत्तरम्” (आप.गृ.७-१४.) इति पदद्वयसूत्रेण जयाद्युत्तरतन्त्रोपदेशात् मासिश्राद्धे च “पार्वणेन” (आप. गृ. २२-१.) इत्यतिदेशात् । आज्यहोमेषु जयाद्यनन्तरं श्रौतवत् तूष्णीं परिधीनग्नौ प्रहृत्य तान् दर्वीसंस्रावेणाभिजुहोति ; परिधितत्संस्काराणां श्रौतवदभ्यनुज्ञानस्योक्तत्वात्, कृतकार्याणां प्रतिपत्त्यपेक्षत्वात् आचाराच्च । शम्याश्चेत्, अस्मिन् काले अपोह्याः ; “अथ शम्या अपोह्य” (बौ.गृ. १-४-३७.) इति बोधायनवचनात्, आचाराच्च ॥७॥
मूलम् ...{Loading}...
यथोपदेशं प्रधानाहुतीर्हुत्वा जयाभ्यातानान्राष्ट्रभृतः प्राजापत्यां व्याहृतीर्विहृताः सौविष्टकृतीमित्युपजुहोति– यदस्य कर्मणोऽत्यरीरिचं यद्वा न्यूनमिहाकरम् । अग्निष्टत्स्विष्टकृद्विद्वान्त्सर्वँ स्विष्टं सुहुतं करोतु स्वाहेति।
०२ ०८ पूर्ववत् परिषेचनमन्वमँस्थाः
०२ ०८ पूर्ववत् परिषेचनमन्वमँस्थाः ...{Loading}...
अग्नेरुत्तरं परिषेचनम् - पूर्ववत्परिषेचनमन्वमंस्थाः प्रासावीरिति मन्त्रसन्नामः ॥ +++(अत्र श्रौतवत्प्रणीता विमुञ्चति तूष्णीम् - कृतकार्याणामासां प्रतिपत्त्यपेक्षत्वात्। ब्राह्मणश्च यथाशक्ति दानमानादिना सत्कृतो गच्छेत् ॥)+++
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- 3 The sprinkling (of water) round (the fire is repeated) as above; the Mantras are altered so as to say, ‘Thou hast given thy consent,’ ‘Thou hast given thy impulse.’
हरदत्तः
पूर्ववदिति । पैतृकेषु समन्तमेव तूष्णीम् । अन्यत्र मन्त्रवन्ति चत्वारि परिषेचनानि ॥७॥ सन्नमनं सन्नामः, ऊह इत्यर्थः । “अनुमन्यस्व” इत्यस्य “अन्वमंस्था” इति सन्नामः । “प्रसुवे"त्यस्य” प्रासावी"रिति । प्राक् परिषेचनात् तूष्णीं परिधीनां प्रहरणम् । पुरस्तादुपहोमानामेकविंशत्या समिधोऽभ्याधानम् । बर्हिरनुप्रहरणमाज्यहोमेषु नास्ति, लेपयोरित्यस्या पक्वहोमविषयत्वात् । परिषेचनान्ते प्रणीताविमोकः । ब्रह्मा च कर्मान्ते यथेतं प्रतिनिष्क्रामति । मन्त्रसन्नाम इति मन्त्रग्रहणं मन्त्राणामयमूहविधिर्यथा स्यात्, अन्यथाग्नेरपि सन्नामस्सम्भाव्येत । सन्नामशब्दस्यान्यत्रापि दर्शनात्, यथा–सन्नमयत्यनुमार्ष्टि वेति ॥९॥
सुदर्शनः
अग्निपरिषेचनं पूर्ववत् । अयं तु विशेषः, अदितेऽनुमन्यस्वेत्यादिषु त्रिषु अनुमन्यस्वेत्यस्य स्थाने “अन्वमंस्थाः” इति , देवसवितरित्यत्र “प्रसुव” इत्यस्य स्थाने “प्रासावीः” इति । अत्र श्रौतवत् प्रणीता विमुञ्चति तूष्णीम्; कृतकार्याणामासां प्रतिपत्त्यपेक्षत्वात्, प्रणीताभ्यो दिशोऽभ्युपनीय” (बौ.गृ.१-४-३८.) इति बोधायनवचनात्, आचाराच्च । ब्राह्मणश्च यथाशक्ति दानमानादिना सत्कृतो गच्छेत् ॥ अत्रेयं स्थितिः अग्निमिध्वेत्यादि मन्त्रसन्नाम इत्यन्तः प्राच्योदीच्याङ्गसमुदायः सर्वगार्ह्यप्रधानहोमानां साधारणः, “यथोपदेशं प्रधानाहुतीर्हुत्वा” इति प्राच्योदीच्यपदार्थापेक्षया होमानां विशेषणं प्राधान्याभिधानात् । एवञ्चाहोमेषु नामकरणादिषु तन्त्रस्याप्रसङ्ग एव । नन्वेवं “अग्नेरुपसमाधानाद्याज्यभागान्ते” इति किमर्थस्तत्र तत्र पुनरुपदेशः? उत्यते यत्र पुनः “अपिवोत्तरया जुहुयात्” (आप.गृ.५-२८.) “काममन्युभ्यां वा जुहुयात्” (आप.ध.१-२६-१३.) इत्यादिषु नोपदेशः नैव तत्रेदं तन्त्रमिति नियमार्थः । कुत एतत्? केवलाज्यहविष्वेव प्रयोजनान्तरमन्तरेणास्य तन्त्रस्योपदेशात् । उपाकरणसमापनादीनां तु तत्र तन्त्रोपदेशाभावेऽपि “कूश्माण्डैर्जुहुयाद् घृतम्” इत्यादेरिव तन्त्रार्थित्वावगमात् अनेन साधारणविधानेनैव तन्त्रम् । तन्त्रार्थित्वावगमस्तु गृह्यान्तरेषु तन्त्रवतामेवोपदेशात् । आपस्तम्बदर्शनानुगतोपदेशात्, अविगीतशिष्टाचाराच्च । यद्येवमाज्यौषधहविष्केऽपि विवाहे किमर्थस्तन्त्रोपदेशः? । उच्यते– लाजहोमानां कृत्स्नविधानेन तन्त्रानपेक्षत्वात् । उपनयनादिवदाज्यहोमार्थ एव तन्त्रोपदेशः । तथा “तस्मिन्नुपविशत उत्तरो वरः” (आप.गृ.४-९.) इत्यस्यानन्तरमेवाग्नेरुपसमाधानादि, न तु “यथास्थानमुपविश्य” (आप.गृ.५-२.) इत्यस्यानन्तरमिति क्रमार्थश्च । तथा केवलौषधहविषि स्थालीपाकेऽपि क्रमार्थ एव । यद्यपि श्रौते दर्शनात् पात्रप्रोक्षणानन्तरमवघातादि युक्तम्, तथाप्येतद्वचनबलात् तन्त्रात् पुरस्तादेवेति । ऐशानेऽपि स्थालीपाके स्थण्डिलकल्पनान्ते त्त्रम्, न तु पार्वणवद्गृह एव प्रतिष्ठिताभिघारणानन्तरमिति क्रमार्थ एव । केचित्– कल्पान्तरविहितेषु अपार्वणातिदेशेषु आज्यहोमेषु तन्त्रार्थिषु “कूश्माण्डैर्जुहुयाद् घृतम्” इत्यादिष्वस्य तन्त्रस्य प्राप्त्यर्थं यथोपदेशमिति सामान्यविधानम् । अत्रत्येषु तु विवाहादिषु येष्वेव पुनर्विधानं तत्रैव, नान्यत्र पण्यहोमादिष्विति नियमार्थं तत्र तत्र तन्त्रविधानम् । पित्र्येषु तु “एकैकशः पितृसंयुक्तानि” (आप.गृ.१-१८.) इत्यादिविशेषविधानात् तन्त्रसिद्धिरिति ॥८॥
मूलम् ...{Loading}...
पूर्ववत् परिषेचनमन्वमँस्थाः प्रासावीरिति मन्त्रसन्नामः ।
०२ ०९ लौकिकानाम् पाकयज्ञशब्दः
०२ ०९ लौकिकानाम् पाकयज्ञशब्दः ...{Loading}...
लौकिकानां पाकयज्ञशब्दः ॥
+++(लोकशब्देन शिष्टा उच्यन्ते ।
केचित् - पाकयज्ञ इति विवाहादीनां संज्ञा विधीयते । पाकशब्दोऽल्पवचनः, यथाक्षिप्रं यजेत पाको देव (आप.गृ.२०१५) इति । पाकगुणको यज्ञः पाकयज्ञ इति निर्वचने आज्यहोमेषु संज्ञा न स्यात् । )+++ +++(अपरे - सप्तानां औपासनहोमादीनां<पाकयज्ञशब्दः> संज्ञात्वेन प्रसिद्धः, नतु श्रौतानां विवाहादीनां च, तत्र लोकानामप्रयोगात् । )+++
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- The designation ‘Pākayajña’ is used of ceremonies connected with worldly life.
हरदत्त-प्रस्तावः
एवं सर्वगार्ह्यहोमानां साधारणं स्मार्तं विधिमुक्त्वा, इदानीं पाकयज्ञेषु वैकल्पिकं श्रौतं विधिमाह–
हरदत्तः
लोके भवा लौकिकाः लोकस्मृतिलक्षणा इत्यर्थः । लोकशब्देन शिष्टा उच्यन्ते । पाकयज्ञ इति विवाहादीनां संज्ञा विधीयते । पाकशब्दोऽल्पवचनः, यथा–“क्षिप्रं यजेत पाको देव” (आप.गृ.२०-१५.) इति । पाकगुणको यज्ञः पाकयज्ञ इति निर्वचने आज्यहोमेषु संज्ञा न स्यात् । तत्संज्ञाप्रयोजनं “यज्ञं वायख्यास्यामः”(आप.प.१-१.) इत्यत्र एतेषामन्तर्भावः । “निऋतिं पाकयज्ञेन यजेते"त्यत्र च धर्मप्राप्तिः ॥१०॥
सुदर्शनः
लोकयन्ति वेदैर्वेदार्थानिति लोकाः त्रैविद्यवृद्धाः शिष्टाः द्विजन्मानः । तैर्लोकैराचर्यन्ते यानि कर्मणि तानि लौकिकानि, तेषां मध्ये सप्तानां औपासनहोमादीनां पाकयज्ञशब्दः संज्ञात्वेन प्रसिद्धः, न तु श्रौतानां विवाहादीनां च, तत्र लोकानामप्रयोगात् । यदि लोकप्रयोगादेवैषां पाकयज्ञनामता प्रसिद्धैव, तर्हि “पाकयज्ञेषु ब्राह्मणावेक्षो विधिः” इत्येतावतालम्, किमर्थं “लौकिकानां पाकयज्ञशब्दः, इति ? उच्यते– पाकेन पक्वेन चरुणा साध्यो यज्ञः पाकयज्ञः इत्येवं व्युत्पन्नसंज्ञानुवादात् नान्तरीयकावगतश् चरुरेवाग्निहोत्रकविधौ हविः, न पुनर्विध्यन्तरवदाज्यादिकमपीति नियमज्ञापनार्थम् । बौधायनेन तु अत्राज्यं हविरुपदिष्टम् । न त्वाग्निहोत्रिकं हविरिह भवति, अग्निहोत्रधर्मप्रापकप्रमाणाभावात् । “द्विर्जुहोति” (आप.गृ.२-११.) इत्येवमादयः पुनः पञ्च पदार्थाः वचनबलाद् भवन्ति । देवतास्तु तत्तन्मन्त्रप्रतिपाद्या एव ॥१०॥
मूलम् ...{Loading}...
लौकिकानां पाकयज्ञशब्दः।
०२ १० तत्र ब्राह्मणावेक्षो
०२ १० तत्र ब्राह्मणावेक्षो ...{Loading}...
तत्र ब्राह्मणावेक्षो विधिः।
+++(वैकल्पिकः।)+++ १० +++(अत्र न दर्शपूर्णमासप्रकृतिः। अग्निहोत्रप्रकृतिः।)+++
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- 4 There the ritual based on the Brāhmaṇa (holds good),
हरदत्तः
+++(सम्पादकटिप्पनी - सूत्रमिदम् अग्रिमे व्याख्यातम् ।)+++
सुदर्शनः
+++(सम्पादकटिप्पनी - सूत्रमिदम् अग्रिमे व्याख्यातम् ।)+++
मूलम् ...{Loading}...
तत्र ब्राह्मणावेक्षो विधिः।
०२ ११ द्विर्जुहोति द्विर्निमार्ष्टि
०२ ११ द्विर्जुहोति द्विर्निमार्ष्टि ...{Loading}...
द्विर्जुहोति +++(=अग्निहोत्राहुत्योरुभयोर्धमः पाकयज्ञेषु प्रधानाहुतिं स्विष्टकृतं चाधिकृत्य विहितः)+++ द्विर्निमार्ष्टि +++(=अग्निहोत्रवल्लेपनिमार्जनम्)+++ द्विः प्राश्नात्य् +++(=अङ्गुलिप्राशनम्, ततः प्रक्षालनम् )+++ उत्सृत्याचामति +++(= यत्तत्रतृतीयं प्राशनं बर्हिषोपयम्योदङ्ङावृत्योत्सृप्याचामतीति तच्चोदितम्)+++ निर्लेढीति +++(=द्विःस्रुचं निर्लेह्य)+++ ११
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- 7 (To which the words allude), ‘He sacrifices twice; he wipes off (his hand) twice; he partakes twice (of the sacrificial food); having gone away he sips (out of the Sruc) and licks off (the Sruc).’
हरदत्तः
तत्र तेषु पाकयज्ञेष्वपरो विधिर्ब्रह्मणावेक्ष इत्याचक्षते । ब्राह्मणमात्मनि प्रमाणत्वेनावेक्षत इति ब्राह्मणावेक्षः ब्राह्मणदृष्ट इत्यर्थः । विधिः प्रयोगः, यः प्रागुक्त आघारवान् दर्शपूर्णमासप्रकृतिः । अयं त्वग्निहोत्र प्रकृतिः ब्राह्मणावेक्षः । उभयोर्विकल्पस्तत्रेत्युच्यते–येषु पाकयज्ञेषु आघारवतस्तन्त्रस्य प्रवृत्तिः तत्रैवास्य विकल्पेन प्राप्तिरिति दर्शनार्थम् । तेन पण्यहोमादिषु अस्य विधेरप्रवृत्तिः । तत्र “द्विर्जुहोति” इत्यनेन अग्निहोत्राहुत्योरुभयोर्धर्मः पाकयज्ञेषु प्रधानाहुतिं स्विष्टकृतं चाधिकृत्य विहितो वेदितव्यः । “द्विर्निमार्ष्टी"ति चाग्निहोत्रवल्लेपनिमार्जनम् । " द्विः प्राश्नाती“त्यङ्गुलिप्राशनम् । " उत्सृप्याचामती"ति च यत्तत्र तृतीयं प्राशनं बर्हिषोपयम्योदङ्ङावृत्योत्सृप्याचामतीति तच्चोदितम् । निर्लेढीति यत्तत्र “द्विःस्रुचं निर्लेह्य, इति च तच्चोदितम् । यावता च विधानेन होमादिसंसिद्धिस्तावदमन्त्रवदग्निहोत्रादेव प्रत्येतव्यम् । तद्यथा–स्रुवेणोन्नयनं, पालाशीसमिदाहुतिधारणार्था, चतुर्गृहीतं पञ्चगृहीतं इति ।
पाकयज्ञेष्वग्निहोत्राधारितो विधिः ...{Loading}...
तत्र प्रयोगः–
-
अग्निमिध्वा, परिसमूह्य, परिस्तीर्य, पर्युक्ष्य,
-
आज्यहोमेष्वाज्यं संस्कृत्य, पक्वहोमेषु स्थालीपाकं,
-
स्रुक्स्रुवं संमृज्य,
-
यावत्प्रधानाहुति चतुर्गृहीतानि पञ्चगृहीतानि वा समवद्यति । यत्रोभयं हविस् तत्र तस्योभयस्य, यथा मासिश्राद्धे ।
-
ततः पश्चाद् अग्नेर् बर्हिष्य् उपसाद्य, पालाशीं समिधमाधाय,
-
सर्वान् एव मन्त्रान् समनुद्रुत्य, सकृदेव प्रधानाहुतीर्हुत्वा,
-
प्रातरग्निहोत्रवल् लेपम् अपमृज्य, बर्हिषि निमार्ष्टि यद्य् अहनि कर्म । अथ रात्रौ सायमग्निहोत्रवत् ।
-
ततस्सौविष्टकृतीं द्वितीयाम् आहुतिं उत्तराहुतिवज्जुहोति - “अग्नये स्विष्टकृते स्वाहे"ति स्थालीपाकेषु । “यदस्य कर्मणि …” इत्याज्यहोमेषु । ईशानयज्ञे तु कर्म तत्र चोदितेन मन्त्रेण ।
-
ततः पूर्ववल् लेपम् अवमृज्य प्राचीनावीती दक्षिणतो भूमौ निर्मार्ष्टि । अप उपस्पृश्य।
-
तत उपवीती स्रुचं सादयित्वा
-
अङ्गुलिप्राशनादि-निर्लेपनान्तम् अग्निहोत्रवत् ।
-
ततो दर्भैः सुक्-प्रक्षालनं,
-
ततः परिसमूहन-पर्युक्षणे ।
एतदाग्निहोत्रिकं नाम तन्त्रं सर्वपाकयज्ञेषु आघारवता तन्त्रेण सह विकल्प्यते ॥११॥
सुदर्शनः
तत्र तेषु पाकयज्ञेषु मध्ये पार्वणादिषु पञ्चसु ब्राह्मणावेक्षो विधिर् भवति । यो विधिः प्रत्यक्षमेव ब्राह्मणमवेक्षते, नाग्निम् इद्ध्वेत्यादिवल् लोकाचारानुमेयम्, सोऽप्येषु विकल्पेन भवतीत्यर्थः । नानयोर् विध्योर् मिथः संसर्गः । नापि स्मार्तस्यानेन बाधः । प्रत्यक्षब्राह्मणस्यापि स्मृत्यनुवादे कल्पसूत्राधिकरणन्यायेन स्मृतितुल्यप्रमाणत्वात् । अत एव “सर्वं पाप्मानं तरति, तरति ब्रह्महत्यां योऽश्वमेधेन यजते” (तै.सं.५-३-१२.) इति श्रुत्या “यजेत वाश्वमेधेन” ( मनु.११-७५.) इति मनुस्मृत्यनुवादेन च अश्वमेधद्वादशवार्षिकयोर्विकल्पः ।
बौधायनीये च व्यक्तोऽयमर्थः । तत्रोदाहरन्ति–
आधारं प्रकृतिं प्राह
दर्वीहोमस्य बादरिः ।
अग्निहोत्रं तथाऽऽत्रेयः
काशकृत्स्नस्त्वपूर्वताम् ॥
इति (बौ.गृ.१-४-४४.) “तां न मिथः संसादयेदनादेशात्” (बौ.गृ.१-५-१.) इति ।
होममन्त्रादयस्तु विध्यन्तरीया अर्थादाचाराच्चेहापि भवन्ति ।
यद्यस्यापि स्मृतितुल्यमेव प्रामाण्यं, किमर्थं “ब्राह्मणावेक्षः” इति ? उक्तोत्तरमेवैतत् । आग्निहोत्रिकविधौ भ्रेषे “यदि यजुष्ट” (ऐ. ब्रा.२५-३४) इति श्रौतं प्रायश्चित्तम् । न तु स्मार्तनाशे “यद्यविज्ञाता सर्वव्यापद्वा” (ऐ.ब्रा.२५-३४.) इति ॥१०॥
सर्वे प्रधानहोमाः प्रधानहोमत्वसामान्यादेको होम इत्यभिप्रेत्य स्विष्टकृदपेक्षया श्रुतिः द्विर्जुहोतीत्याह, न पुनर्द्विरेव जुहोतीति । “सप्तदश प्राजापत्यान्” (तै.ब्रा.१-३-४.) इतिवदिह सम्प्रतिपन्नदेवतैकत्वाभावात् । केचित्– यावन्तः प्रधानहोमास्तावन्ति चतुर्गृहीतानि स्रुचि सहावदाय होममन्त्रान् सर्वाननुद्रुत्य सकृदेव जुह्वति । द्विर्निमार्ष्टीत्यादि व्यक्तार्थम् ॥
पाकयज्ञेष्वग्निहोत्राधारितो विधिः ...{Loading}...
प्रयोगस् तु -
न परिस्तरणदर्वीसंस्कारोपस्तरणादीनि, अत्रानुपदेशात्। चरुपाकस्त्वर्थाद्विद्यत एव।
- तेन चरुणा प्रधानाहुतिस्विष्टकृत्प्राशनभक्षणेभ्यः पर्याप्तेन दर्वीं पूरयित्वा,
- अपरेणाग्निं दर्भेषु सादयित्वा,
- आदाय तत्तन्मन्त्रैः सर्वाः प्रधानाहुतीः क्रमेण हुत्वा,
- दर्व्यास्ततो लेपमादाय दर्भैर्निमृज्य शेषात् स्विष्टकृते हुत्वा,
- प्राचीनावीती पुनर्लेपमादाय दक्षिणतो भूम्यां निमृज्याय,
- उपस्पृश्य,
- यज्ञोपवीती दर्व्या लेपमङ्गुल्याऽऽदाय, प्राश्य, शुद्ध्यर्थमाचम्य,
- पुनरप्येवं कृत्वा
- उदङ्ङवृत्य
- उत्सृप्य दर्व्या हविश्शेषं सर्वं भक्षयित्वा
- तां निर्लेह्य
- आचम्य
- तां दर्भैरद्भिः प्रक्षालयेदिति।
ननु – वैश्वदेवौपासनहोमयोः कस्मान् नायं विधिः ? उच्यते । तत्र “उभयतः परिषेचनम्” (आप.गृ.७-२२.) इति एककार्ययोः द्वयोरपि विध्योः परिसङ्ख्यानात् अत एव बर्हिर्लेपप्रतिपत्त्योरभावाच्च ॥ केचित्तु– पाकयज्ञ इत्यत्र पाकशब्दस्याल्पवाचकत्वात् विवाहादयोऽपि सोमाद्यपेक्षया पाकयज्ञा इति तेष्वप्ययं विधिरिति । तन्न ; तेषां मनुष्यसंस्कारार्थत्वेन अप्राधान्यात् प्रधानवाचियज्ञशब्दवाच्यत्वानुपपत्तेः ॥११॥
मूलम् ...{Loading}...
द्विर्जुहोति द्विर्निमार्ष्टि द्विः प्राश्नात्युत्सृत्याचामति निर्लेढीति।
-
12 seq. Description of the regular form of a Pākayajña. ↩︎ ↩︎
-
2, 2. On the paridhi woods, comp. chiefly Hillebrandt, Neu-und Vollmondsopfer, 66 seq. ↩︎
-
The Śrauta rules on the two Āghāras are given Śrauta-sūtra II, 12, 7; 14, 1. ↩︎
-
Comp. Taitt. Brāhmaṇa II, 1, 4, 5; Śatapatha Brāhmaṇa II, 3, 1, 18. 21. - At the Agnihotra the sacrificer, having wiped off the Sruc with his hand, wipes off the hand on the Barhis or on the earth (Āpast.-Śraut. VI, 10, 11; 11, 4; Kātyāyana IV, 14, 20). As to the following acts alluded to in this Sūtra, comp. Āpastamba VI, 11, 4. 5; 12, 2. ↩︎