परिचयः
कालः - कृष्णपक्षे मासि मासि। औपासनाग्नौ क्रियते साधारणतः।
केन कार्यम्?
- न च जीवपित्रादिकस्य मासिश्रीद्धं नास्तीत्याशङ्कनीयम्–
ध्रियमाणे तु पितरि पूर्वेषामेव निर्वपेत् ।
पूर्वेषु त्रिषु दातव्यं जीवेच्चेत्त्रितयं यदि ॥
(म.स्मृ.३२२०) इत्यादिवचनजातात् । - व्युत्क्रम-प्रमीतेषु पितृषु पाक्षिको निषेधः
- होमान्तम् एव जीवत्पितृकाणाम् श्रौते पिण्डपितृयज्ञवद् अत्रापि स्यात्। किञ्च नाचरन्ति प्रायेण जनाः।
पूर्वेद्युः सिद्धता
- पूर्वेद्युस्सायमौपासनहोमं हुत्वा
- प्राचीनावीती कृतप्राणायामः श्वो मासिश्राद्धं कर्तास्मीति सङ्कल्प्य
- निवेदनम् ब्राह्मण-भोजन-खण्डय् उक्तम्
- शुचीन् मन्त्रवतो योनि-गोत्र-मन्त्रासम्बन्धान् अयुग्मान् त्र्यवरान् (=३+) अनर्थावेक्षो भोजयेत्
- कर्तुश्चात्र सङ्कल्पादारभ्य आसमाप्तेर्ब्रह्मचर्यादिव्रतचर्या अनशनं च भवति ।
प्रातःकर्माणि
- ब्राह्मणभोजनायान्नं सृजेत्।
- ततस्स्वयं च स्नातो ब्राह्मण भोजनार्थादन्नादन्येनान्नेन वैश्वदेवं पञ्चमहायज्ञांश्च कुर्यात् ।
केचित्समाप्ते श्राद्धे इति ।
अपराह्णे ब्राह्मणभोजनार्थम् उपवेशने
- तत्र भूमिका “मानुषयज्ञः →ब्राह्मण-भोजनम्” इत्यत्रोक्तः
- पूजनात् परम्
- होमार्थम् पिण्डदाने चानुज्ञा मासिश्राद्धे विकल्पेन
- उदीच्यवृत्तिस्त्वासनगतानां हस्तेषूदपात्रानयनम् ।
- उद्ध्रियतामग्नौ च क्रियतामित्यामन्त्रयते ।
- काममुद्धियताकाममग्नौ च क्रियतामित्यतिसृष्ट उद्धरेज्जुहुयाच्च (आप.ध.२१७१७,१८,१९)
होमः
- साङ्गे प्रधाने सर्वत्र प्राचीनावीतम् ।
- तत्र चाघारयोस्तदर्थसमिधोर् आज्यभागयोर् अग्निमुखाहुतौ सौविष्टकृति प्रायश्चित्ताहुतौ च यज्ञोपवीती।
तथा विश्वदेवार्थेषु सर्वेषु पदार्थेषु च प्रदक्षिणानुव्रजनयोश्च यज्ञोपवीतमेव।
एभ्योऽन्यत्रासमाप्तेस्सर्वत्र प्राचीनावीतमेव ।
- तत्र चाघारयोस्तदर्थसमिधोर् आज्यभागयोर् अग्निमुखाहुतौ सौविष्टकृति प्रायश्चित्ताहुतौ च यज्ञोपवीती।
- अथ ब्राह्मण-भोजनार्थाद् अन्नाद्धविष्यमोदनापूपादिकं एकस्मिन् पात्रे समुद्धृत्य
- अहविष्यं क्षारादिसंसृष्टमन्यस्मिन् पात्रे उद्धृत्याथ
- प्रतिष्ठितमभिघार्याग्नेरुपसमाधानाद्यग्निमुखान्तं कृत्वा
प्रधानहोमः
उत्तराभिः"यन्मे माते"त्यादिभिः स्त्रीलिङ्गनिर्देशादृग्बिस्सप्तभिः अन्नस्यैकदेशं जुहोति ।
- केचित् मातामहानामप्यूहेन होमं कुर्वन्ति - “यन्मे मातामही, यन्मे मातुः पितामही, यन्मे मातुः प्रपितामही, तन्मे रोतो मातामहो वृङ्क्तां” इत्यादि।
- षडाज्याहतीर्जुहोति स्वाहा पित्र इत्याद्याः ।
- एतद्वा विपरीतम्। - “यन्मे माता"इत्याद्याः पूर्वास्सप्ताज्याहुतयः,“स्वाहा पित्रे"इत्याद्या उत्तराष्षडन्नाहुतय इति
- हुत्वा स्विष्टकृतं
- अहविष्यस्याग्नौ दानम् यथा वैश्वदेवे
- “लेपयोः"इत्यादि तन्त्रशेषं समाप्य
भोजनम्
- भोजयितरि भावः यथामन्त्रम्
- भुञ्जानान् ब्राह्मणानाहवनीयार्थेन ध्यायेत्, पित्रादीन् देवतात्वेन, अन्नं चामृतत्वेन, आत्मानं ब्रह्मत्वेन ।
अभिमर्शः कर्त्रा
“एष ते तत मधुमान्” इत्येतैस्त्रिभिर्मन्त्रैः अभिमृशेत् अन्नं सर्वम्। कॢप्तान्वा प्रतिपूरुषम् अन्नम् अभिमृशेत्।
भोक्तृ-स्पर्शनम्
उत्तरेण यजुषा"पृथिवी ते पात्र"मित्यनेन ब्राह्मणैः स्पर्शयित्वा
- अन्ये मन्त्राः क्वचित् - “इदं विष्णुर्विचक्रमे"इत्येतया च ।
तस्याश्चान्ते “विष्णो हव्यं रक्षस्व” इति विश्वेषां देवानां, “विष्णो कव्यं रक्षस्व” इति पित्रादीनाम् ।
भूमावन्नं परिकिरति
- ये अग्निदग्धा येऽनग्निदग्धा ये वा जाताः कुले मम ।
भूमौ दत्तेन पिण्डेन तृप्ता यान्तु परां गतिम् ॥
भोक्तृ-विसर्जनम्
- सर्वेभ्योऽन्नसेषेभ्यः पिण्डार्थं प्राशनार्थं चोद्घृत्य
- भुक्तवतोऽनुव्रज्य
- प्रदक्षिणीकृत्य
- संवादः
- (अन्नशेषैः) अन्नशेषः किं क्रियताम्ऽ?इति शेषं निवेदयेत् ।
- ते च “इष्टैस्सह भुज्यताम्” इति प्रतिब्रूयुः ।
- अथ कर्ता - दातारो नोऽभिवर्धन्तां वेदास्सन्ततिरेव नः । श्रद्धा च नो मा व्यपगाद्बहु देयं च नोऽस्तु ॥
- दातारो वोऽभिवर्धन्तां वेदास्सन्ततिरेव वः ।
श्रद्धा च वो मा व्यगमद्बहु देयं च वोऽस्तु ॥
इति तेषां प्रतिवचनम् । - अन्नं च नो बहु भवेदतिथींश्च लभेमहि ।
याचितारश्च नस्सन्तु मा च याचिष्म कञ्चन ॥
इति च प्रार्थयते । - अन्नं च वो बहु भवेदतिथीं(श्चैव तथा पुनः)।
याचितारश्च वस्सन्तु मा च याचध्वं वञ्चन। इत्यदिकम् - अनन्तरं"ओं स्वाधा"इत्याह ।
“अस्तु स्वधा"इति प्रतिवचनम् ।
- विसर्जनम्
- अथ ब्राह्मणानां पित्राद्यर्थानां पूर्वं विसर्जनम् ।
विश्वेषां देवानां पश्चाद्विसर्जनम् ।
- अथ ब्राह्मणानां पित्राद्यर्थानां पूर्वं विसर्जनम् ।
पिण्डदानम्
- तत्पुरतः द्वैधं (द्वयोः स्थानयोरसंभिन्नानित्यर्थः) दक्षिणाग्रान् दर्भान् संस्तीर्य
- पितृभ्यः पुरस्तात् स्तृणाति, मातृभ्यः पश्चात् ।
- तेषूत्तरैरपो दत्त्वा
- मा॒र्जय॑न्तां॒ …।
उत्तरैर्दक्षिणापवर्गान् पिण्डान्दत्वा
- “एतत्ते ततासा"वित्यादिभिस्
- असावित्यत्र सर्वत्र नामग्रहणं यथालिङ्गम् ।
- अत्रापि पूर्ववदित्यस्य सबन्धात्सव्यं जान्वाच्यावाचीनपाणिरित्यादि विधानमिहापि भवतीति केचित् ।
पूर्ववदुत्तरैरपो ददाति पितृभ्यश्च मातृभ्यश्च ।
- मा॒र्जय॑न्तां॒ मम॑ पि॒तरो॑ मा॒र्जय॑न्तां॒ मम॑ पिताम॒हा मा॒र्जय॑न्तां॒ मम॑ प्रपिताम॒हाः ।
मा॒र्जय॑न्तां॒ मम॑ मा॒तरो॑ मा॒र्जय॑न्तां॒ मम॑ पिताम॒ह्यो॑ मा॒र्जय॑न्तां॒ मम॑ प्रपिताम॒ह्यः॑ ।
उत्तरैर्मन्त्रैः तानुपतिष्ठते यथालिङ्गम्।
- ये च॒ वो (=पितरः) ऽत्र॒ ये चा॒स्मास्वाशँसन्ते॒ (= ये ऽस्माकीना मृताः प्रार्थयन्ते स्वधाम्)
- याश्च॒ वोऽत्र॒ याश्चा॒स्मास्वाशँसन्ते॒
- ते च॑ वहन्तां॒ (स्वधां प्राप्नुवन्तु)
- ताश्च॑ वहन्तां॒
- तृप्य॑न्तु भवन्तः॒
तृप्य॑न्तु भवत्यः॒
तृप्य॑त॒ तृप्य॑त॒ तृप्य॑त ।
उभयान् पिण्डान् परिषिञ्चति
- पु॒त्रान्पौत्रा॑न॒भि त॒र्पय॑न्ती॒रापो॒ मधु॑मतीरि॒माः । स्व॒धां पि॒तृभ्यो॑ अ॒मृतं॒ दुहा॑ना॒ आपो॑ दे॒वीरु॒भयाँस्तर्पयन्तु । तृप्य॑त॒ तृप्य॑त॒ तृप्य॑त ।
शेष-प्राशनम्
- प्रा॒णे निवि॑ष्टो॒ऽमृतं॑ जुहोमि॒ ब्रह्म॑णि म आ॒त्माऽमृ॑त॒त्वाय॑ ।
- ममामृतत्वाय जुहोमीति।
स्रोतांसि
- टिप्पणिर् अत्र टीकानुमिता।