जातकर्म

आपस्तम्बोक्तिः

जातकर्म ...{Loading}...

अभिमर्शनम्

१५ ०१ जातं वात्सप्रेणाभिमृश्योत्तरेण ...{Loading}...

जातं +++(=जातमात्रम्, “प्राङ्नाभिवर्धनात्पुंसो जातकर्म विधीयते”)+++ वात्सप्रेण +++(=दिवसस्परीत्येषः)+++ +अभिमृश्य,

२१ दिवस् परि ...{Loading}...
०१ दिवस्परि प्रथमं ...{Loading}...

दिव᳓स् प᳓रि प्रथमं᳓ जज्ञे अग्नि᳓र्
अस्म᳓द् द्विती᳓यम् प᳓रि जात᳓वेदाः ।
तृती᳓यम् अप्सु᳓ नृ-म᳓णा अ᳓जस्रम्
इ᳓न्धान एनं जरते+++(=स्तौति)+++ स्वाधीः᳓+++(=सुप्रज्ञाता)+++ ।

२२ विद्मा ते ...{Loading}...
०२ विद्मा ते ...{Loading}...

+++(प्रतिज्ञा+ऋक्। अग्रिमायाम् उत्तरम्।)+++
विद्मा᳓ ते अग्ने त्रेधा᳓ +++{रू᳓पा᳓णि᳓ अ᳓ग्नि᳓-वि᳓द्यु᳓त्-सू᳓र्या᳓स्}+++ त्रया᳓णि
विद्मा᳓ ते स᳓द्म +++{ना᳓ना᳓कु᳓ण्डे᳓षु᳓}+++ वि᳓भृतम् पुरुत्रा᳓ +++(=बहुधा)+++।
विद्मा᳓ ते ना᳓म परमं᳓ गु᳓हा य᳓द्
विद्मा᳓ त᳓म् उ᳓त्सं +++(=fount)+++ य᳓त आजग᳓न्थ ।

२३ समुद्रे त्वा ...{Loading}...
०३ समुद्रे त्वा ...{Loading}...

+++(प्राक्तनाया विस्तारः!)+++ समुद्रे᳓ त्वा नृम᳓णा अप्स्व् अ᳙न्तर्
नृच᳓क्षा +++(=नृद्रष्टा)+++ ईधे +++(=दीपयते)+++ दिवो᳓ अग्न ऊ᳓ध᳓न्न् +++(=उधस्स्थानीये मेघे)+++ ।
तृती᳓ये त्वा᳓ र᳓जसि +++(=लोके)+++ तस्थिवाँ᳓सम्
ऋत᳓स्य यो᳓नौ महिषा᳓ अहिन्वन्न् +++(=बुद्धवन्तः)+++ ।

२४ अक्रन्ददग्निस्स्तनयन्निव द्यौः ...{Loading}...
०४ अक्रन्ददग्निः स्तनयन्निव ...{Loading}...

अ᳓क्रन्दद् अग्निः᳓ स्तन᳓यन्निव द्यौः᳓
क्षा᳓मा +++(=पृथिवीं)+++ रे᳓रिहद् +++(=आस्वादयन्)+++ वीरु᳓धः +++(={वृक्ष}गुल्मान्)+++ समञ्ज᳓न्न् ।
सद्यो᳓ जज्ञानो᳓ +++{दा᳓वा᳓न᳓लः᳓}+++ वि᳓ ही᳓म् इद्धो᳓
अ᳓ख्यद् आ᳓ रो᳓दसी भानु᳓ना भात्य् अन्तः᳓ ।

२५ उशिक्पावको अरतिस्सुमेधा ...{Loading}...
०७ उशिक्पावको अरतिः ...{Loading}...

उशि᳓क् +++(=कामयिता)+++ पावको᳓ अरतिः᳓ +++(=गन्ता)+++ सुमेधा᳓
म᳓र्तेष्व् अग्नि᳓र् अमृ᳓तो नि᳓धायि ।
इ᳓यर्ति +++(=गमयति)+++ धूम᳓म् अरुष᳓म् +++(=महत्)+++ भ᳓रिभ्रद्
उ᳓च् छुक्रे᳓ण शोचि᳓षा द्या᳓म् इ᳓नक्षत् +++(=दीपयत्)+++।

२६ विश्वस्य केतुर्भुवनस्य ...{Loading}...
०६ विश्वस्य केतुर्भुवनस्य ...{Loading}...

वि᳓श्वस्य केतु᳓र् भु᳓वनस्य ग᳓र्भ
आ᳓ रो᳓दसी अपृणाज् +++(=अपूरयत्)+++ जा᳓यमानः ।
वीडुं᳓ +++(=दृढं)+++ चिद् अ᳓द्रिम् अभिनत् पराय᳓ञ् +++(=परागच्छन्)+++
ज᳓ना य᳓द् अग्नि᳓म् अ᳓यजन्त प᳓ञ्च ।

२७ श्रीणामुदारो धरुणो ...{Loading}...
०५ श्रीणामुदारो धरुणो ...{Loading}...

श्रीणा᳓म् उदारो᳓ धरु᳓णो रयीणा᳓म्
मनीषा᳓णाम् प्रा᳓र्पणः सो᳓मगोपाः ।
व᳓सोः सूनुः᳓ स᳓हसो अप्सु᳓ रा᳓जा +++(=दीप्यमानः)+++
वि᳓ भात्य् अ᳓ग्र उष᳓साम् इधानः᳓ ।

२८ यस्ते अद्य ...{Loading}...
०९ यस्ते अद्य ...{Loading}...

य᳓स् ते अद्य᳓ कृण᳓वद् भद्रशोचे
ऽपूपं᳓ देव घृत᳓वन्तम् अग्ने।
प्र᳓ तं᳓ नय प्रतरां᳓ +++(=नितरां)+++ व᳓स्यो +++(=वसीयः)+++
अ᳓च्छाभि᳓ द्युम्नं᳓ +++(=धनं)+++ देव᳓भक्तं यविष्ठ ।

२९ तम्भज सौश्रवसेष्वग्न ...{Loading}...
१० आ तं ...{Loading}...

आ᳓ त᳓म् भज सौश्रवसे᳓ष्व् +++(स्वन्नेषु [यागेषु])+++ अग्न
उक्थ᳓उक्थ आ᳓ भज शस्य᳓माने ।
प्रियः᳓ सू᳓र्ये प्रियो᳓ अग्ना᳓ भवात्य्
उ᳓ज् जाते᳓न +++{पुत्रादिना}+++ भिन᳓दद् +++(=उद्भिद्य प्रकाशताम्)+++ उ᳓ज्ज᳓नित्वैः +++(=जनिष्यमाणैः)+++।

३० त्वामग्ने यजमाना ...{Loading}...
११ त्वामग्ने यजमाना ...{Loading}...

त्वा᳓म् अग्ने य᳓जमाना अ᳓नु द्यू᳓न्
वि᳓श्वा व᳓सूनि दधिरे वा᳓र्याणि +++(=वरणीयानि)+++ ।
त्व᳓या सह᳓ द्र᳓विणम् इच्छ᳓माना
व्रजं᳓ गो᳓मन्तम् उशि᳓जो +++(=मेधाविनो)+++ वि᳓ वव्रुः ।

३१ दृशानो रुक्म ...{Loading}...
०८ दृशानो रुक्म ...{Loading}...

दृशानो᳓ रुक्म᳓ +++(=रोचमानः)+++ उर्व्या᳓ +++(=महत्या)+++ व्यद्यौद्,
दुर्म᳓र्षम् आ᳓युः श्रिये᳓ रुचानः᳓ ।
अग्नि᳓र् अमृ᳓तो अभवद् व᳓योभिर्
य᳓द् एनं द्यौ᳓र् अ᳓जनयत् सुरे᳓ताः ॥

उपस्थ आधानम्

उत्तरेण यजुषोपस्थ आधाय +++(=“अस्मिन्नह"मित्यनेन)+++,

३२ अस्मिन्नहं सहस्रम् ...{Loading}...

अ॒स्मिन्न॒हँस॒हस्रं॑ पुष्या॒म्येध॑मान॒स् स्वे वशे॑ ।

अभिमन्त्रणम्

उत्तराभ्याम् +++(“अङ्गादङ्गाद्” इति)+++ अभिमन्त्रणं ,

३३ अङ्गादङ्गात्सम्भवसि हृदयादधि ...{Loading}...

अङ्गा॑दङ्गा॒त्संभ॑वसि॒ हृद॑या॒दधि॑ जायसे ।
आ॒त्मा वै पुत्र॒नामा॑ऽसि॒ स जी॑व श॒रद॑श्श॒तम् ।

मूर्धन्यवघ्राणम्

+++(“अश्मा भवे"ति)+++ मूर्धन्यवघ्राणं,

०१ अश्मा भव ...{Loading}...

अश्मा॑ भव पर॒शुर्भ॑व॒ हिर॑ण्य॒मस्तृ॑तं भव ।
प॒शू॒नान्त्वा॑ हिङ्का॒रेणा॒भि जि॑घ्राम्य् असौ+++(→नामनिर्देशः)+++।

दक्षिणकर्णे-जपः

+++(“मेधां त” इति)+++ दक्षिणे कर्णे जापः १

०२ मेधान्ते देवस्सविता ...{Loading}...

मे॒धान् ते॑ दे॒वस् स॑वि॒ता
मे॒धान् दे॒वी सर॑स्वती ।
मे॒धान् ते॑ अ॒श्विनौ॑ दे॒वाव्
आध॑त्तां॒ पुष्क॑रस्रजा ।

१५ ०२ नक्षत्रनाम च ...{Loading}...

+++(“अभिजिघ्राम्यसौ”)+++ नक्षत्रनाम च निर्दिशति २

१५ ०३ तद्रहस्यम् भवति ...{Loading}...

तद्रहस्यं भवति +++(सूक्र्तवाकाभिवादनादिष्वपि!)+++३

मधु-घृत-प्राशनम्

१५ ०४ मधु घृतमिति ...{Loading}...

मधु घृतम् इति संसृज्य
तस्मिन् दर्भेण हिरण्यं निष्टर्क्य +++(= शिखाबन्धनवत्सरन्ध्रेण ग्रन्थिना)+++,
बध्वा
ऽवदाय
+उत्तरैर् मन्त्रैः +++(“त्वयि मेधाम्” इति)+++ कुमारं प्राशयित्वा,

०३-०५ त्वयि मेधाम् ...{Loading}...

त्वयि॑ मे॒धां त्वयि॑ प्र॒जां
त्वय्य् अ॒ग्निस् तेजो॑ दधातु ।
त्वयि॑ मे॒धां त्वयि॑ प्र॒जां
त्वयीन्द्र॑ इन्द्रि॒यं द॑धातु ।
त्वयि॑ मे॒धां त्वयि॑ प्र॒जां
त्वयि॒ सूर्यो॒ भ्राजो॑ दधातु ।

स्नापनम्
प्रतिज्ञा

उत्तराभिः पञ्चभिस् +++(=“ऽक्षेत्रियै त्वे"त्यादिभिः)+++ स्नापयित्वा,

०६ क्षेत्रियै त्वा ...{Loading}...

क्षे॒त्रि॒यै +++(=अचिकित्स्यव्याधेः)+++ त्वा॒ निर्ऋ॑त्यै त्वा..
द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त् ।
अ॒ना॒गसं॒ ब्रह्म॑णे त्वा करोमि
शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे इ॒मे ।

शान्तिवचनम्
०७ शन्ते अग्निस्सहाद्भिरस्तु ...{Loading}...

शन् ते॑ अ॒ग्निस् स॒हाद्भिर् अ॑स्तु॒
शं द्यावा॑पृथि॒वी स॒हौष॑धीभिः ।
शम् अ॒न्तरि॑क्षँ स॒ह वाते॑न ते॒
शन् ते॒ चत॑स्रः प्र॒दिशो॑ भवन्तु।

०८ या दैवीश्चतस्रः ...{Loading}...

या दैवी॒श् चत॑स्रः प्र॒दिशो॒ वात॑-पत्नीर्,
अ॒भि सूर्यो॑ विच॒ष्टे +++(=विपश्यति)+++ ।
तासा॑न् त्वा ऽऽज॒रस॒ आ द॑धामि॒।
प्र यक्ष्म॑ एतु॒ निर्ऋ॑तिं परा॒चैः +++(=प्राङ्मुखः)+++ ।

अवर्तिनिवारणम्
०९ अमोचि यक्ष्माद्दुरितादवर्त्यै ...{Loading}...

अमो॑चि॒ यक्ष्मा॑द् दुरि॒ताद् अव॑र्त्यै +++(=आपत्तः)+++।
द्रु॒हः पाशा॒न् निर्ऋ॑त्यै॒ च+उद॑मोचि ।
अहा॒ +++(=अहासीत्)+++ अव॑र्ति॒म् +++(=दारिद्र्यम्)+++, अवि॑दत् स्यो॒नम् +++(=सुस्वम्)+++।
अप्य॑भूद् भ॒द्रे सु॑कृ॒तस्य॑ लो॒के ।

सूर्यग्रहणमोक्षनिदर्शनम्
१० सूर्यमृतन्तमसो ग्राह्या ...{Loading}...
/devaH/lokAntaram/images/solar_eclipse_receeding.jpg

सूर्य॑म् ऋ॒तन् +++(=प्राप्तम्)+++ तम॑सो॒ ग्राह्या॒
यद् दे॒वा अमु॑ञ्च॒न्नसृ॑ज॒न् व्ये॑नसः +++(=व्यसृजन् एनसः)+++ ।

+++(प्रतिज्ञापूर्तिः- )+++
ए॒वम् अ॒हम् इ॒मं क्षे॑त्रि॒याज् +++(=आनुवंशिकाद् [रोगात्])+++ जा॑मिशँ॒साद् +++(=बन्धूक्ताद्)+++
द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त् ।

दधि-घृत-प्राशनम्

दधि घृतमिति संसृज्य कांस्येन पृषदाज्यं व्याहृतीभिरोङ्कारचतुर्थाभिः +++(“भूः स्वाहेत्यादिभिः प्रतिमन्त्रम्”)+++ कुमारं प्राशयित्वा, अद्भिश् शेषं संसृज्य गोष्ठे निनयेत् ४

११ भूस्स्वाहा भुवस्स्वाहा ...{Loading}...

भूस्स्वाहा॒ भुव॒स्स्वाहा॒ सुव॒स्स्वाहा। ॐ स्वाहा॑ ॥

मातुर् उपस्थ आधानम्

१५ ०५ उत्तरया मातुरुपस्थ ...{Loading}...

उत्तरया +++(=“मा ते कुमारम्”)+++ मातुरुपस्थ आधाय,

०१ मा ते ...{Loading}...

मा ते॑ कुमा॒रँ रक्षो॑वधी॒न्
मा धे॒नुर॑त्यासा॒रिणी॑ ।
प्रि॒या धन॑स्य भूया॒
एध॑माना॒ स्वे गृ॒हे ।

दक्षिणे स्तने प्रतिधाप्य

उत्तरया +++(=“अयं कुमारः”)+++ दक्षिणं स्तनं प्रतिधाप्य,

०२ अयङ् कुमारो ...{Loading}...

अ॒यं कु॑मा॒रो ज॒रां ध॑यतु दी॒र्घमायुः॑ ।
यस्मै॒ त्व२ँ स्तन॒! प्रप्या॒य +++(=प्रक्षर)+++
+आयु॒र्वर्चो॒ यशो॒ बल॑म् ।

पृथिव्या अभिमर्शः

उत्तराभ्यां +++(=“यद्भूमेर्हृदयम्”)+++ पृथिवीमभिमृश्य,

०३ यद्भूमेर्हृदयन्दिवि चन्द्रमसि ...{Loading}...
  • यद्भूमे॒र्हृद॑यन्दि॒वि च॒न्द्रम॑सि श्रि॒तम् । तदु॑र्वि पश्यं॒ +++(=पश्येयम्)+++ माऽहं पौत्र॒मघँ॑ रुदम् ।
०४ यत्ते सुसीमे ...{Loading}...
  • यत्ते॑ सुसी॒मे हृद॑यं॒ वेदा॒हं तत् प्र॒जाप॑तौ +++(=चन्द्रमसि [छायारूपेण])+++ । वेदा॑म॒ तस्य॑ ते व॒यं माऽहं पौत्र॒मघँ॑ रुदम् ।
संविष्टस्याभिमर्शनम्

उत्तरेण यजुषा +++(=“नामयति न रुदति”)+++ संविष्टम् ॥

०५ नामयति न ...{Loading}...

न +आम॑यति॒, न रु॑दति॒, यत्र॑ व॒यं व॑दामसि॒, यत्र॑ चा॒भिमृ॑शामसि ।

###‌ सूतकम्

उदकुम्भनिधानम्

१५ ०६ उत्तरेण यजुषा ...{Loading}...

उत्तरेण यजुषा शिरस्य् उदकुम्भं निधाय,

०६ आपस्सुप्तेषु जाग्रत ...{Loading}...

आप॑स्सु॒प्तेषु॑ जाग्रत॒ रक्षाँ॑सि॒ निरि॒तो नु॑दद्ध्वम् ।

सूतकहोमः

सर्षपान् फलीकरणमिश्रानञ्जलिनोत्तरैस् त्रिस्त्रि प्रतिस्वाहाकारं हुत्वा

हरदत्तो ऽत्र

  • +++(सर्षपान् फलीकरणमिश्रान् जुहोति।)+++
०७ अयङ् कलिम् ...{Loading}...

अ॒यं क॒लिं प॒तय॑न्तँ+++(=प्रतिगच्छन्तम्)+++ श्वा॒नम् इ॒वोद्-वृ॑द्धम् ।
अ॒जां वाशि॑ताम् इव मरुतः॒ पर्या॑द्ध्वँ॒+++(=पर्यास्यध्वम्)+++ स्वाहा॑ ।

०८ शण्डेरथश्शण्डिकेर उलूखलः ...{Loading}...

शण्डे॒रथ॒श्+++(शण्डो रथे यस्य)+++ शण्डि॑केर+++(शण्डिकम् बलम् ईरयति)+++ उलूख॒लः ।
च्यव॑नो॒ नश्य॑ताद् इ॒तः स्वाहा॑ ।

०९ अयश्शण्डो मर्क ...{Loading}...

अय॒श् शण्डो॒ मर्क॑
उप॒वीर॑+++(यमवेक्ष्यान्ये वीरा न्यूनाः)+++ उलूख॒लः ।
च्यव॑नो॒ नश्य॑ताद् इ॒तः स्वाहा॑ ।

१० केशिनीश्श्वलोमिनीः खजापोऽजोप ...{Loading}...

के॒शिनी॒श् श्वलो॒मिनीः॒ खजा॑पो॒+++(=खञ्जा =पङ्ग्वयो भूत्वाप्नुवन्ति)+++
ऽजोप॑काशिनीः+++(=अजनिभाः)+++ ।
अपे॑त॒ नश्य॑ताद् इ॒तस् स्वाहा॑ ।

११ मिश्रवाससः कौबेरका ...{Loading}...

मि॒श्रवा॑ससः कौबेर॒का
र॑क्षोरा॒जेन॒ प्रेषि॑ताः ।
ग्रामँ॒ सजा॑नयो गच्छन्ती॒-
च्छन्तो॑ ऽपरि॒दाकृ॒तान्थ्+++(अनुपनीतान् - “अग्नये त्वा परिददामीति” तत्र मन्त्रः)+++ स्वाहा॑ ।

१२ एतान्घ्नतैतान्गृह्णीतेत्ययम् ...{Loading}...

ए॒तान् घ्न॑तै॒तान् गृ॑ह्णी॒ते-
त्य् अ॒यं ब्रह्म॑णस्पु॒त्रः ।
तान् अ॒ग्निः पर्य॑सर॒त्
तान् इन्द्र॒स् तान् बृह॒स्पतिः॑ ।
तान् अ॒हं वे॑द ब्राह्म॒णः
प्र॑मृश॒तः कू॑टद॒न्तान्,
वि॑के॒शान् लं॑बनस्त॒नान्त् स्वाहा॑ ॥ (13)

०१ नक्तञ्चारिण उरस्पेशाञ्छूलहस्तान्कपालपान् ...{Loading}...

न॒क्त॒ञ्चा॒रिण॑ उरस्पे॒शाञ्+++(=उरस्युज्ज्वलान्)+++
छू॑ल-ह॒स्तान् क॑पाल॒पान् ।
पूर्व॑ एषां पि॒ता +++(“ए॒तान् घ्न॑तै॒तान् गृ॑ह्णी॒त”)++++इत्य्
उ॒च्चैश् श्रा॑व्य क॒र्णकः॑ ।
मा॒ता ज॑घ॒न्या॑ सर्प॑ति॒
ग्रामे॑ विधु॒रम् इ॒च्छन्ती॒ स्वाहा॑ ।

०२ निशीथचारिणी स्वसा ...{Loading}...

नि॒शी॒थ॒चा॒रिणी॒ स्वसा॑
स॒न्धिना॒ प्रेक्ष॑ते॒ कुल॑म् ।
या स्वप॑न्तं बो॒धय॑ति॒
यस्यै॒ विजा॑तायां॒ मनः॑ ।
तासां॒ त्वं कृ॑ष्ण॒वर्त्म॑ने
क्लो॒मानँ॒+++(=श्वासकोशः)+++ हृद॑यं॒ यकृ॑त्+++(=liver)+++ ।
अग्ने॒ अक्षी॑णि नि॒र्दह॒ स्वाहा॑ ।

+++(पिता)+++ संशास्ति- “प्रविष्टे प्रविष्ट एव तूष्णीमग्नावावपते"ति ६

१५ ०७ एवमहरहरानिर्दशतायाः ...{Loading}...

एवमहरहरानिर्दशतायाः +++(=“निर्दशा"निर्गता दशभ्योऽहोरात्रेभ्यो या रात्रिस्सा)+++७

प्रवासाद् एत्य

प्रवासादेत्य जातकर्म

१५ १२ प्रवासादेत्य ...{Loading}...

प्रवासादेत्य पुत्रस्योत्तराभ्यामभिमन्त्रणं +++(=अङ्गादङ्गात्)+++

०३ अङ्गादङ्गात्सम्भवसि हृदयादधि ...{Loading}...

अङ्गा॑दङ्गा॒त् संभ॑वसि॒ हृद॑या॒दधि॑ जायसे । वे॒दो वै पुत्र॒नामा॑ऽसि॒ स जी॑व श॒रद॑श्श॒तम् ।

मूर्धन्यवघ्राणं +++(=अश्मा भव)+++ दक्षिणे कर्ण

मूर्धन्यवघ्राणम् -

०४ अश्मा भवेत्येषा ...{Loading}...
०१ अश्मा भव ...{Loading}...

अश्मा॑ भव पर॒शुर्भ॑व॒ हिर॑ण्य॒मस्तृ॑तं भव ।
प॒शू॒नान्त्वा॑ हिङ्का॒रेणा॒भि जि॑घ्राम्य् असौ+++(→नामनिर्देशः)+++।

कर्णे जपः

उत्तरान्मन्त्रान् +++(=अग्निरायुष्मान् स वनस्पतिभिः)+++ जपेत् १२

०५-०९ अग्निरायुष्मान्त्स वनस्पतिभिरायुष्मान्तेन ...{Loading}...
अ॒ग्निरायु॑ष्मा॒न्त्स ...{Loading}...
मूलम् (संयुक्तम्)

अ॒ग्निरायु॑ष्मा॒न्त्स वन॒स्पति॑भि॒रायु॑ष्मा॒न्तेन॒ त्वायु॒षायु॑ष्मन्तङ्करोमि॒ सोम॒ आयु॑ष्मा॒न्त्स ओष॑धीभिर्य॒ज्ञ आयु॑ष्मा॒न्त्स दक्षि॑णाभि॒र्ब्रह्मायु॑ष्म॒त्तद्ब्रा॑ह्म॒णैरायु॑ष्मद्दे॒वा आयु॑ष्मन्त॒स्ते॑ऽमृते॑न पि॒तर॒ आयु॑ष्मन्त॒स्ते स्व॒धयायु॑ष्मन्त॒स्तेन॒ त्वायु॒षायु॑ष्मन्तङ्करोमि ॥ [40]

विश्वास-प्रस्तुतिः

+++(हे यजमान)+++
अ॒ग्निर् आयु॑ष्मा॒न् ,
स वन॒स्-पति॑भि॒र् आयु॑ष्मा॒न् ,
तेन॒ त्वा ऽऽयु॒षा ऽऽयु॑ष्मन्तङ् करोमि ।

सोम॒ आयु॑ष्मा॒न् स ओष॑धीभिर् [आयु॑ष्मा॒न् तेन॒ त्वा ऽऽयु॒षा ऽऽयु॑ष्मन्तङ् करोमि ।]

+++(हे यजमान)+++ य॒ज्ञ [आयु॑ष्मा॒न्], स दक्षि॑णाभि॒र् आयु॑ष्मा॒न्, [तेन॒ त्वा ऽऽयु॒षा ऽऽयु॑ष्मन्तङ् करोमि ।]

+++(हे यजमान)+++ ब्रह्मायु॑ष्म॒त्, तद्ब्रा॑ह्म॒णैरायु॑ष्मत् , [तेन॒ त्वा ऽऽयु॒षा ऽऽयु॑ष्मन्तङ् करोमि ।]

+++(हे यजमान)+++ दे॒वा आयु॑ष्मन्तः।
ते॒॑ऽमृते॑न [+आयु॑ष्मन्तः] [तेन॒ त्वा ऽऽयु॒षा ऽऽयु॑ष्मन्तङ् करोमि ।]

पि॒तर॒ आयु॑ष्मन्त॒स् ते स्व॒धयाऽऽयु॑ष्मन्त॒स्, तेन॒ त्वा ऽऽयु॒षा ऽऽयु॑ष्मन्तङ् करोमि ।

मूलम्

अ॒ग्निरायु॑ष्मा॒न् ,
स वन॒स्पति॑भि॒रायु॑ष्मा॒न् ,
तेन॒ त्वायु॒षायु॑ष्मन्तङ्करोमि ।

सोम॒ आयु॑ष्मा॒न् , स ओष॑धीभिर्य॒ज्ञ आयु॑ष्मा॒न्,

स दक्षि॑णाभि॒र्ब्रह्मायु॑ष्म॒त्,

तद्ब्रा॑ह्म॒णैरायु॑ष्मत् ,

दे॒वा आयु॑ष्मन्तः ते॑ऽमृते॑न
पि॒तर॒ आयु॑ष्मन्त॒स्ते स्व॒धयायु॑ष्मन्त॒स्तेन॒ त्वायु॒षायु॑ष्मन्तङ्करोमि

भट्टभास्कर-टीका

अग्निरायुष्मान् दीर्घायुः । स वनस्पतिभिरायुष्मान् तैर्हेतुभिस्तैर्वासह । तेनायुषा उभयेनायुषा त्वामायुष्मन्तं करोमि दीर्घायुषं करोमि । हे यजमान सोमादिषु ‘आयुष्मान्तेन’ इत्याद्यनुषज्यते । सोम ओषधीभिः, यज्ञो दक्षिणाभिः ब्रह्म ब्राह्मणैः, देवा अमृतेन, पितरस्स्वधया ॥

इति द्वितीये तृतीये दशमोनुवाकः ॥

कुमार्या अभिमन्त्रणम्

१५ १३ कुमारीमुत्तरेण ...{Loading}...

कुमारीमुत्तरेण यजुषा +++(“सर्व॑स्मादा॒त्मन॒स्संभू॑ताऽसि॒ सा जी॑व श॒रद॑श्श॒तम् । “)+++ ऽभिमन्त्रयते १३

१० सर्वस्मादात्मनस्सम्भूताऽसि सा ...{Loading}...

सर्व॑स्माद् आ॒त्मन॒स् संभू॑ताऽसि॒, सा जी॑व श॒रद॑श् श॒तम् ।

पूर्वाङ्गम्

  • वस्तुसन्नाहः
  • पुण्याहवाचनम्
  • विनायक-पूजा
  • सङ्कल्पः

कालः

  • “the opinion is there is no aashaucha (theetu) till 1.5hrs after birth..But there was mixed opinion and in very ancient times, jaatakarma was done with umbilical cord intact..So aashaucha surfaces as soon the “naalachchedana” is done”

नक्षत्रनामनिश्चयः

सर्वमेतद् अजितेन पुरा प्रकाशितम् अत्र

नक्षत्रम् तात्पर्यदर्शने अनुकूलायाम् टीकायाम्
aswini अश्वयुक् / आश्वयुजः अश्वयुक् / आश्वयुजः
bharani अपभरणः / आपभरणः आपभरणिः / आपभरणः
krittika कृत्तिकः कृत्तिकः
rohini रौहिणः रौहिणः
mrigashirsha मार्गशीर्षः मार्गशीर्षः
ardra आर्द्रकः आर्द्रकः
punarvasu पुनर्वसुः पुनर्वसुः
pushya तिष्यः तिष्यः
ashlesha आश्रेषः
magha माघः
purva phalguni फाल्गुनः फल्गुनः
uttara phalguni फाल्गुनः फल्गुनः
hasta हस्तः
citra चैत्रः चैत्रः
swati स्वातिः स्वातिः
vishakha विशाखः
anuradha अनूराधः अनूराधः
jyeshtha ज्येष्ठः ज्येष्ठः
mula मूलकः मूलकः
purvashadha आषाढः अषाढः
uttarashadha आषाढः अषाढः
shravana श्रवः / श्रवणः / श्रावणः श्रोणः / श्रावणः
dhanishtha श्रविष्ठः श्रविष्ठः
shatabhishak शतभिषक् / शातभिषजः शतभिषक् / शातभिषजः / शतभिषः
purvabhadrapada प्रोष्ठपादः प्रोष्ठपादः
uttarabhadrapada प्रोष्ठपादः प्रोष्ठपादः
revati रैवतः रैवतः

बोधयनोक्तकारिकाम् अवलम्ब्य - आश्विनः, आपभरणः, कार्तिकः कृत्तिक इति वा, रौहिणः, मार्गशीर्षः, आर्द्रकः, पुनर्वसुः, तिष्यः, आश्लेषः, माघः, पूर्वाफल्गुनः, उत्तराफल्गुनः, हस्तः, चैत्रः, स्वातिः, विशाखः, अनूराधः, ज्येष्ठः, मूलकः, पूर्वाषाढः, उत्तराषाढः, श्रवणः, श्रविष्ठः, शातभिषजः, पूर्वाप्रोष्ठपदः, उत्तराप्रोष्ठपदः, रैवतः इति नामानि।

स्त्रीनामप्राप्तिः - स्त्रीविषये आबन्तता, स्वातिपुनर्वस्वोः पुंवत्। तत्र सञ्जीविनीव्याख्या - ““स्त्रीविषये पचविंशतिनक्षत्राणामपि आबन्तता, न तु अकारान्तता । आदिवृद्धिस्तु स्यादेव ॥””