अध्ययन-व्रतानि

तथा विषयशुध्यर्थम् एव प्रयोग-भाष्यम् अल्प-भेदम् एव लिख्यते ।
आपस्तम्ब-दर्शनानुगतोपदेशेनाध्यायोपाकरणादीनां कर्मोच्यते ।

अध्यायोपाकरणस्य

तत्र तावद् अध्यायोपाकरणस्य -

श्रावण्यां पौर्णमास्यां आचार्यश् शिष्यैस् सह कृत-प्राणायामो “ऽध्यायमुपाकरिष्य” इति सङ्कल्प्य महा-नद्यां विधिवत् स्नात्वा पवित्रपाणिः नव ऋषीन् तर्पयेत्–

प्रजापतिं काण्डऋषिं तर्पयामि।
सोमं काण्डऋषिं तर्पयामि।
अग्निं काण्डऋषिं तर्पयामि।
विश्वान्देवान् काण्डऋषिं तर्पयामि।

सांहितीर् देवता उपनिषदस् तर्पयामि।
याज्ञिकीर् देवता उपनिषदस् तर्पयामि।
वारुणीर् देवता उपनिषदस् तर्पयामि।
ब्रह्माणं स्वयंभुवं तर्पयामि।
सदसस्पतिं तर्पयामि

इति।

ततो ऽग्नेर् उपसमादानाद्य्–अग्नि-मुखान्ते
अन्वारब्धेष्व् अन्तेवासिषु नवाज्याहुतीर् जुहोति।

प्रजापतये काण्डऋषये स्वाहा।
सोमाय काण्डऋषये स्वाहा।
अग्नये काण्डऋषये स्वाहा।
विश्वेभ्यो देवेभ्यः काण्डऋषिभ्यः स्वाहा।

+++(उपहोमाः)+++

साँहितीभ्यो देवताभ्य उपनिषद्भ्यः स्वाहा । याज्ञिकीभ्यो देवताभ्य उपनिषद्भ्यः स्वाहा । वारुणीभ्यो देवताभ्य उपनिषद्भ्यस्स्वाहा । ब्रह्मणे स्वयंभुवे स्वाहा ।

सदसस्पतिम् इत्य् एतय र्चा नवमीम् आहुतिं जुहोति ।

तत आचार्य-प्रमुखाः दर्भेष्व् आसीना
दर्भान् धारयमाणा
वेदस्यादितश् चतुरो ऽवरार्ध्यान् अनुवाकान् अधीयीरन् ।
अथ जयादि, परिषेचनान्ते ब्राह्मण-तर्पणम् ।

उत्सर्गः

एवम् एवोत्सर्गो,
न ततोऽधिकं स्मृत्य्-अन्तरोपसंहारेणापि, किन्तु यथापस्तम्बीयं सूत्रम् ।

तथा नादितो वेदस्यानुवाकानाम् अध्ययनम् ।
जयादयस् तु भवन्ति ।

सौम्ये विशेषः

सौम्याद् ऋते काण्डोपाकरण-समापनयोश् च
न सूक्तोपहोम-देवतोपस्थान-जयादयः ।
सौम्यस्यैव सूक्त-जयादयः । एवम् आपस्तम्ब-मत एवावस्थिताः
केचित् कुर्वते यथोक्तम् ॥

प्राजापत्य-व्रतम्

आरम्भः

अथ प्राजापत्ये व्रते
पूर्ववत् स्नात्वा
सोमाग्नि-विश्वेदेव-वर्जानां तर्पणम् ।

अग्नि-मुखान्ते च
अन्वारब्धे व्रतिनि, जुहोति-

प्रजा᳓पतये काण्डऋष᳓ये स्वा᳓हा ।

“प्रजापते न त्वदेतान्यन्यः” ( तै. ब्रा. २-८-१-२.)
इति सूक्तेन प्रत्यृचं षडाहुतीः,

चतस्र उपहोमाहुतीः -
साँहितीभ्य इत्यादिभिर् एव,
“सदसस्पतिम्” इत्य् एतयैव सदसस्पतिं च ।

अथ व्रती उपस्थेय-
देवता अभिसन्धायाग्निपुरोगाश् चतस्रो देवता उपतिष्ठते ।

“अग्ने व्रतपते काण्डऋषिभ्यः {प्राजापत्यं} व्रतं चरिष्यामि,
तच् छकेयं, तन् मे राध्यताम् ।
{वायो व्रतपते, आदित्य व्रतपते, व्रतानां व्रतपते} -
काण्डऋषिभ्यः {प्राजापत्यं} व्रतं चरिष्यामि, तच् छकेयं, तन् मे राध्यताम्,” (तै.आ. ४-४१-३.)

इत्येतैश् चतुर्भिर् यथा-दैवतम् ।

ततो जयादि, ब्राह्मण-तर्पणं च ।

समाप्तिः

एवम् एव समापने प्रयोगः - संवत्सरे संवत्सरे पर्यवेते+++(=समाप्ते)+++ ।
तत्रोपस्थान-मन्त्रेषु “अचारिषम् अशकम् अराधीति” विशेषः ।

केचित्— सौम्ये केश-श्मश्रु-वापनस्य दृष्टत्वात्
प्राजापत्यादिष्व् अपीच्छन्ति ॥

एवम् एवाग्नेये वाश्वदेवे च ।

आग्नेयम्

अग्नये काण्डऋषये स्वाहा;
“अग्ने नय” (तै.ब्रा.२-८-३.) इति षडृचं सूक्तम्;
“अग्ने व्रतपते काण्ड-ऋषिभ्यः {आग्नेयं} व्रतं चरिष्यामि” इत्य् आग्नेये विशेषः ।

वैश्वदेवम्

विश्वेभ्यो देवेभ्यः काण्डऋषिभ्यः स्वाहा ; “आ नो विश्वे अस्क्रागमन्तु” (तै. ब्रा.२-८-६-३.) इति षडृचं सूक्तम् ; “वैशवदेवं व्रतं चरिष्यामी"ति वैश्वदेवव्रते विशेषः ॥

सौम्यम् - शुक्रियम्

उपाकर्म

सोमस्य काण्डोपाकरण-समापने शुक्रिय-कल्पोक्ते । अत्राप्युक्तं यत्तदुच्यते– पूर्ववद् उपाकृत्याग्नेर् उपसमाधानाद्य्-अग्निमुखान्ते, “सोमाय काण्डऋषये स्वाहा” ।
“सोमो धेनुम्” (तै.ब्रा.३-९-३-१.) इति षडृचं सूक्तम् ।

उपहोमान्, सदसस्पतिं च हुत्वा,
एवं पुर्ववद् उपाकृत्य,
मदन्तीम् उपस्पृश्य
प्रथमेनानुवाकेन शान्तिं कृत्वा
चतस्र औदुम्बरीस् समिधो घृतान्वक्ता अभ्यादधाति - “पृथिवी समित्” (तै. आ. ४-४१-१०.) इत्यादिभिः ।

अथ देवतोपस्थानम् -
“अग्ने व्रतपते काण्डऋषिभ्यः सौम्यं व्रतं चरिष्यामि” इत्यादिभिः ।

ततः प्रभृति शुक्रिय-मन्त्र-ब्राह्मणानुवाकानां प्रथम-पदानि “युञ्जते” (तै. आ. ४-२.) “सविता” (तै. आ. ५-१२.) इति वाभिव्याहार्य वाचयित्वा
जयादि प्रतिपद्यते ।

परिषेचनान्तं कृत्वा
मदन्तीम् उपस्पृश्य,
उत्तमेनानुवाकेन शान्तिं कृत्वा
ततस् सम्मीलनादि यथासूत्रम् ।

श्वो-भूते “वयः सुपर्णाः” (तै.आ. ४-४२-३.) इत्यादित्योपस्थानान्ते ब्राह्मण-भोजनम् ।

अथास्य स्वाध्यायविधिः शुक्रिय-कल्प एवोक्तः ।

समाप्तिः

एवं समापने ।
विशेषस्तु “द्यौस् समिद् आदित्य व्रतपते” (TA.4.41.2,4) इत्याद्य्-आवृत्ताः समिदाधानोपस्थान-मन्त्राः । उत्तमेनानुवाकेन शान्तिं कृत्वा गुरवे वरं दत्वा केशश्मश्रु वापयित्वा ब्राह्मणभोजनम् ।