विश्वास-टिप्पनी
वेङ्कटनाथ आपस्तम्बानुयायी। किञ्च चक्राकारेण व्यजनाकारेण वा बलिं निर्जहार।
विभागः
विश्वास-प्रस्तुतिः
स्वाग्निं संस्थाप्य पूर्वं कुश-निचय-लसत्-संस्तरस्, सासुयामः
स्वाकूत्या+++(=??)+++ ऽधिश्रयोक्ति-प्रतिवचन–हविः-प्रोक्षणं स्थापनं स्यात् ।
अन्नं द्वेधोत्तरार्धं त्रि-विध-विभजितं पश्चिमारम्भम् अन्यत्
भागे द्वेधा विभक्ते हुत-भुजि जुहुयात् तत्र पूर्व-स्थम् अन्नम् ॥ १ ॥
मूलम्
स्वाग्निं संस्थाप्य पूर्वं कुशनिचयलसत्संस्तरस्सासुयामः
स्वाकूत्याधिश्रयोक्तिप्रतिवचनहविःप्रोक्षणं स्थापनं स्यात् ।
अन्नं द्वेधोत्तरार्धं त्रिविधविभजितं पश्चिमारम्भमन्यत्
भागे द्वेधा विभक्ते हुतभुजि जुहुयात्तत्र पूर्वस्थमन्नम् ॥ १ ॥
होमः
विश्वास-प्रस्तुतिः
आद्यैष् षड्भिस् सतारैर् मनुभिर् अथ पृथक् पाणिना होमम् अग्नौ
कृत्वा, तत्रैकदेशं हविर् अथ समिध(हितं) पश्चिमांशेन तेन ।
पश्चाद् अग्नेर् धरण्यां, बलि-हरण-विधौ मार्जन-प्रोक्षणादेः
पात्रेष्व् आहृत्य तोयं, क्रम-विधि-विहिते मार्जन-प्रोक्षणे च ॥ २ ॥
मूलम्
आद्यैष्षड्भिस्सतारैर्मनुभिरथ पृथक्पाणिना होममग्नौ
कृत्वा तत्रैकदेशं हविरथ समिध(हितं) पश्चिमांशेन तेन ।
पश्चादग्नेर्धरण्यां बलिहरणविधौ मार्जनप्रोक्षणादेः
पात्रेष्वाहृत्य तोयं क्रमविधिविहिते मार्जनप्रोक्षणे च ॥ २ ॥
बलिहरणम्
विश्वास-प्रस्तुतिः
धर्माधर्मादि-भेद-प्रचुर-बलि-विधि-स्थान-निर्देशनं तत्
सर्वं चक्रान्तरस्थं व्यजन-विकृति-गं वेद-शास्त्रानुरोधम् ।
पित्र्ये रौद्र्ये तथा स्यात् क्रम-विधि-विहिते मार्जन-प्रोक्षणादौ
यद् यत् प्राचीन-सूत्रं, यद् अपि तद्-इतरत्, तच् च तीर्थं निवीतम् +++(=मनुष्येभ्यः??)+++॥ ३ ॥
मूलम्
धर्माधर्मादिभेदप्रचुरबलिविधिस्थाननिर्देशनं तत्
सर्वं चक्रान्तरस्थं व्यजनविकृतिगं वेदशास्त्रानुरोधम् ।
पित्र्ये रौद्र्ये तथा स्यात्क्रमविधिविहिते मार्जनप्रोक्षणादौ
यद्यत्प्राचीनसूत्रं यदपि तदितरत्तच्च तीर्थं निवीतम् ॥ ३ ॥
विश्वास-प्रस्तुतिः
पश्चाद् वैहायसस्य प्रथम-बलिम्, अतो वायसस्याग्र-भागे,
श्वभ्यां तस्याग्रभागे बलिम् अथ निविशेद् अत्र पादात्म-शुद्धिः+++(=??)+++ ।
धर्मादेर् दर्शनं चेद् अ-सुख-करम् अतश् चान्द्र-मत्रोपवासः
स्याद ्देवे पित्र्यभूतद्वययजनविधौ पश्चिमस्थं हविस्स्यात् ॥ ४ ॥
मूलम्
पश्चाद्वैहायसस्य प्रथमबलिमतो वायसस्याग्रभागे
श्वभ्यां तस्याग्रभागे बलिमथ निविशेदत्रपादात्मशुद्धिः ।
धर्मादेर्दर्शनं चेदसुखकरमतश्चान्द्रमत्रोपवासः
स्याद्देवे पित्र्यभूतद्वययजनविधौ पश्चिमस्थं हविस्स्यात् ॥ ४ ॥
अग्र-भागः, अतिथि-पूजा
विश्वास-प्रस्तुतिः
मध्याद् उद्धृत्य भागान् मनु-ज-यजनम् इत्य् अग्र-भागे ऽग्र-दानं
कृत्वा, गो-दोह-काल-क्षपण-विधि-बलात् तत्र लब्ध्वा ऽतिथिभ्यः ।
दद्याल् लक्ष्मी-विशिष्ट-स्वदितिम् अपि हविर् यज्ञ-शिष्टान्न-युक्तं
कृत्वा पाद्यासनार्घ्यैर् विधिवद् अपचितं कल्पयित्वा यथाऽर्हम् ॥ ५ ॥
मूलम्
मध्यादुद्धृत्य भागान्मनुजयजनमित्यग्रभागेऽग्रदानं
कृत्वा गोदोहकालक्षपणविधिबलात्तत्र लब्ध्वातिथिभ्यः ।
दद्याल्लक्ष्मीविशिष्टस्वदितिमपि हविर्यज्ञशिष्टान्नयुक्तं
कृत्वा पाद्यासनार्घ्यैर्विधिवदपचितं कल्पयित्वा यथार्हम् ॥ ५ ॥
नक्त-बलिः
विश्वास-प्रस्तुतिः
सायं रौद्रान्तम् अन्नाद् यदि हितम् अशनं यद् यथा तद् यथा स्यात्
नक्तं चामेन तोयाद्, यदि मनु-जपतस् तच् च रौद्रान्तम् आहुः।
केचित् त्व् आमेन तोयान् मनु-जप-करणैः षड्भिर् एवाज्य-मन्त्रैः
नक्तं स्यात् सायम् एव त्व् अनशन-नियत-श्राद्ध-भोक्तुर् जपस् स्यात् ॥ ६ ॥
मूलम्
सायं रौद्रान्तमन्नाद्यदि हितमशनं यद्यथा तद्यथा स्यात्
नक्तं चामेन तोयाद्यदि मनुजपतस्तच्च रौद्रान्तमाहुः।
केचित्त्वामेन तोयान्मनुजपकरणैः षड्भिरेवाज्यमन्त्रैः
नक्तं स्यात्सायमेव त्वनशननियतश्राद्धभोक्तुर्जपस्स्यात् ॥ ६ ॥
श्राद्धे
विश्वास-प्रस्तुतिः
धर्मादीशान-दत्तं हविर् अपि च मनः+++(=??-)+++ पञ्च-यज्ञे च दत्तं
भागं रौद्रावशिष्टं महद्-अनभिमतं त्व् आतिथेयान्न-दाने ।
स्वार्थे ऽप्य् अन्नादि-कृद्भ्याम् इति नियम-विधिश् चाग्र-यज्ञादि-शिष्टं
सर्वं पित्रोर् मृताहे द्विज-मुख-हवने नेष्टम् इत्य् आहुर् आर्याः ॥ ७ ॥
मूलम्
धर्मादीशानदत्तं हविरपि च मनः पञ्चयज्ञे च दत्तं
भागं रौद्रावशिष्टं महदनभिमतं त्वातिथेयान्नदाने ।
स्वार्थेऽप्यन्नादिकृद्भ्यामिति नियमविधिश्चाग्रयज्ञादिशिष्टं
सर्वं पित्रोर्मृताहे द्विजमुखहवने नेष्टमित्याहुरार्याः ॥ ७ ॥
गणना
विश्वास-प्रस्तुतिः
+++(धर्मायाधर्माय→)+++ नेत्रेन्दू +++(←अद्भ्यः)+++ नयनं +++(←ओषधिवनस्पतिभ्यः)+++ युगं +++(←गृह्यावसानावसनपतिसर्वभूतेभ्यः। कामाय → )+++ शशि-विधू +++(←अन्तरिक्षाय। नाम्ने→)+++ चन्द्रावतारश् +++(←पृथिव्यादिभ्यः)+++ शशी +++(←पितृभ्यः)+++
चन्द्रश् +++(←रुद्राय। वैहायस-वायस-शुनः→)+++ चन्द्र-शशीन्दवोऽत्र गणिता धर्मादिकास् सेचने ।
तद् दैवे, नयनं क्रमात् पितृ-मुखे, चन्द्रश् च भूते, शशी
मर्त्येन्दुश्+++(=??)+++ च तथा गृहे हुत-वहे पूर्वाहुतीष्व् ईक्षणम् ॥ ८ ॥
मूलम्
नेत्रेन्दू नयनं युगं शशिविधू चन्द्रावतारश्शशी
चन्द्रश्चन्द्रशशीन्दवोऽत्र गणिता धर्मादिकास्सेचने ।
तद्दैवे नयनं क्रमात्पितृमुखे चन्द्रश्च भूते शशी
मर्त्येन्दुश्च तथागृहे हुतवहे पूर्वाहुतीष्वीक्षणम् ॥ ८ ॥
सम्प्रदायोक्तिः
विश्वास-प्रस्तुतिः
इत्थं व्यास-पराशरादि-मुनिभिस् सिद्धान्तितार्थोऽप्य् अयं
श्रीमल्-लक्ष्मण-योगि–यामुन-मुखैर् नाथादिभिर् निश्चितः ।
तत् सर्वं त्व् अवलोक्य तत्-करुणया तद्-वैश्वदेवक्रमः
सम्मोदाय च वेङ्कटेश-कविना प्रोक्तो ऽभवद् धीमता ॥ ९ ॥
मूलम्
इत्थं व्यासपराशरादिमुनिभिस्सिद्धान्तितार्थोऽप्ययं
श्रीमल्लक्ष्मणयोगियामुनमुखैर्नाथादिभिर्निर्णितः ।
तत्सर्वं त्ववलोक्य तत्करुणया तद्वैश्वदेवक्रमः
सम्मोदाय च वेङ्कटेशकविना प्रोक्तोऽभवद्धीमता ॥ ९ ॥