१८ आग्नेयस्थालीपाकः

॥ आग्नेयस्थालीपाकः ॥

पत्नी व्रीहीन् अवहन्यात् नतु श्रपयेत् । वर एव विवाहाग्नौ चरुं श्रपयित्वाऽभिघार्य, उदगुद्वास्य, प्रतिष्ठितमभिघार्य, कटतल्पो विवाहवत् वरो वध्वा सहासीनः पवित्रपाणिः प्राणान् आयम्य, “आग्नेयेन स्थालीपाकेन यक्ष्ये” इति सङ्कल्प्य, अग्नेरुपसमाधानादिमुखान्ते वध्वामन्वारब्धायां, वामहस्तस्थायां होमदर्व्यां स्रुवेण वा प्रधानदर्व्या वा सकृदुपस्तीर्य, चरुमध्यात् अङ्गुष्ठपर्वमात्रं हविः मध्यमानामिकाङ्गुष्ठेः द्विरवदाय (जमदग्नीनां त्रिरवदाय) सकृदभिघार्य, स्विष्टकृदर्थं चरुं प्रत्यभिघार्य, दक्षिणहस्तेनादाय, “अ॒ग्नये॒ स्वाहा᳚” इति मध्येऽग्नौ जुहुयात् । अपि वा दर्ज्या स्थालीपाकात् सकृत् गृहीत्वा जुहुयात् । नात्रोपस्तरणावदानादि धर्मः ॥ अनन्वारब्धः पूर्ववत् सकृदुपस्तीर्य, चरोरुत्तरार्धात् सकृदवदाय (तेषां द्विरवदाय) द्विरभिघार्य “अ॒ग्नये᳚ स्विष्ट॒कृते॒ स्वाहा᳚’’ इति प्रागुदीच्यां प्रधानाहुत्यसंहितं हुत्वा, परिध्यञ्जनलेपकार्यादिप्रणीतामोक्षणान्तं कृत्वा, ब्राह्मणायापचिताय ऋषभं दत्वा, तेन हविश्शेषेण सर्पिष्मता ब्राह्मणं भोजयेत् ॥ एवम् अत ऊर्ध्वं पर्वसु उपोष्य श्वः प्रातः स्थालीपाकं कुर्यात् ॥ नात्र अन्वारम्भो न ऋषभदानम् ॥

[[96]]