०६ वैश्वदेव-समाप्तिः

ततः, ‘ओं श्रीविष्ण॑वे॒ स्वाहा᳚’, इत्यग्नौ दर्भौ प्रक्षिप्य, (श्री विष्णवे परमात्मन इदं न मम) इत्युक्त्वा उत्थाय,

०१ अग्ने नय ...{Loading}...

अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान्
विश्वा॑नि देव व॒युना॑नि+++(=ज्ञानानि)+++ वि॒द्वान् ।
यु॒यो॒ध्य्+++(=अपनय)+++ अ॑स्मज्-जुहुरा॒णम्+++(=कुटिलकारि)+++ एनो॒
भूयि॑ष्ठान् ते॒ नम॑-उक्तिव्ँ विधेम

मन्त्रहीनं - हुताशन ...{Loading}...

(अग्नये नमः)

विश्वास-प्रस्तुतिः

मन्त्रहीनं क्रियाहीनं
भक्तिहीनं हुताशन ।
यद्धुतं तु मया देव
परिपूर्णं तदस्तु ते ॥

मूलम्

मन्त्रहीनं क्रियाहीनं
भक्तिहीनं हुताशन ।
यद्धुतं तु मया देव
परिपूर्णं तदस्तु ते ॥

प्रायश्चित्तान्यशेषाणि ...{Loading}...
विश्वास-प्रस्तुतिः

प्रायश्चित्तान्य् अशेषाणि
तपः कर्मात्मकानि वै ।
यानि तेषाम् अशेषाणां
कृष्णानुस्मरणं परम् ॥

मूलम्

प्रायश्चित्तान्यशेषाणि
तपः कर्मात्मकानि वै ।
यानि तेषामशेषाणां
कृष्णानुस्मरणं परम्॥

(कृष्ण कृष्ण कृष्ण॥)

इत्युक्त्वा प्रणम्य, अभिवादयेत् ।

पितृबलिं, भूतबलिं च बहिः प्रक्षिप्य
पात्रस्थम् अवशिष्टान्नं भोजनार्थान्नेन
प्राणाहुतेः परं संयोजयेत् ।
अग्रदानं, मनुष्ययज्ञञ्च अतिथिभ्यो दद्यात् । आचम्य,

भगवानेव स्वनियाम्यस्वरूपस्थितिप्रवृत्तिस्वशेषतैकरसेन मया स्वकीयैश्चोपकरणैः स्वाराधनैकप्रयोजनाय परमपुरुषः सर्वशेषी स्वशेषभूतमिदं प्रातर्वैश्वदेवाख्यं कर्म स्वस्मै स्वप्रीतये स्वयमेव कारितवान् ।

इति सात्त्विकत्यागं कृत्वा,

कृतञ्च करिष्यामि भगवन्नित्येन भगवत्प्रीत्यर्थेन महाविभूतिचातुरात्म्यभगवद्वासुदेवपादारविन्दार्चनेन प्रातर्वैश्वदेवेन भगवत्कर्मणा भगवान् प्रीयतां वासुदेवः

इति प्रातर्वैश्वदेवं भगवति समर्पयेत् ॥

[[66]]