४. श्रोत्राचमनं कृत्वा, प्राणान् आयम्य, ‘श्रीभगवदाज्ञया भगवत्प्रीत्यर्थं मनुष्ययज्ञेन यक्ष्ये’ इति सङ्कल्प्य, ‘भगवानेव …. मनुष्ययज्ञाख्यं कर्म …. कारयति’ इति सात्त्विकत्यागं कृत्वा, “विद्यु॑दसि॒ विद्य॑ मे पा॒प्मान॑मृ॒तात् स॒त्यमुपै॑मि’’ इति दक्षिणकरतलेन अप आदाय, वामकरतलं संमृज्य, मध्यभागात् अग्रदानान्न-द्विगुणम् अन्नं गृहीत्वा अग्रदान-भूतबलयोर्मध्ये “म॒नु॒ष्ये॑भ्यो॒ हन्ता॑” इति देवतीर्थेन भूमौ बलिं निधाय, (मनुष्येभ्य इदं न मम) इत्युक्त्वा परिषिच्य, ‘वृष्टि॑रसि॒ वृश्च॑ मे पा॒प्मा॑नमृ॒तात् स॒त्यमुपा॑गाम्’ इति दक्षिणकरतलेन अप आदाय, वामकरतलं संमृज्य, श्रोत्राचमनं कृत्वा, सात्त्विकत्यागं कुर्यात् ॥
[[65]]