०४ भूतयज्ञः

३. श्रोत्राचमनं कृत्वा प्राणान् आयम्य, ‘श्रीभगवदाज्ञया भगवत्प्रीत्यर्थं भूतयज्ञेन यक्ष्ये’ इति सङ्कल्प्य ‘भगवानेव … भूतयज्ञाख्यं कर्म …. कारयति’ इति सात्त्विकत्यागं कृत्वा, “विद्यु॑दसि॒ विद्य॑ मे पा॒प्मान॑मृ॒तात् स॒त्यमुपै॑मि’’ इति दक्षिणकरतलेन अप आदाय, वामकरतलं संमृज्य, अग्रदानात् पश्चिमभागे अद्भिः संमृज्य प्रोक्ष्य देवपितृयज्ञशिष्टान्नं हविर्गृहीत्वा, ‘ओं भू॒तेभ्यो॑ ब॒लिँ ह॑रामि’ (ओं भू॒तेभ्यः॒ स्वाहा᳚) इति देवतीर्थेन भूतवलिं दत्वा (भूतेभ्य इदं न मम) इत्युक्त्वा परिषिच्य, ‘वृष्टि॑रसि॒ वृश्च॑ मे पा॒प्मा॑नमृ॒तात् स॒त्यमुपा॑गाम्’ इति दक्षिणकरतलेन अप आदाय, वामकरतलं संमृज्य, श्रोत्राचमनं कृत्वा, सात्त्विकत्यागं कुर्यात् ॥