०३ पितृयज्ञः

२. श्रोत्राचमनं कृत्वा प्राणान् आयम्य, ‘श्रीभगवदाज्ञया भगवत्प्रीत्यर्थं पितृयज्ञेन यक्ष्ये’ इति सङ्कल्प्य, ‘भगवानेव… पितृयज्ञाख्यं कर्म …. कारयति’ इति सात्त्विकत्यागं कृत्वा,

विद्यु॑दसि॒ विद्य॑ मे पा॒प्मान॑मृ॒तात् स॒त्यमुपै॑मि

इति दक्षिणकरतलेन अप आदाय वामकरतलं संमृज्य, दक्षिणतः भूमिम् अद्भिः संमृज्य प्रोक्ष्य देवयज्ञशेषात् हविर्गृहीत्वा, ओं पि॒तृभ्यः॑ स्व॒धाऽस्तु॑, इति पितृतीर्थेन बलिं विधाय, (पितृभ्य इदं न मम) इत्युक्त्वा, अप्रदक्षिणं परिषिच्य,

वृष्टि॑रसि॒ वृश्च॑ मे पा॒प्मा॑नमृतात् स॒त्यमुपा॑गाम्

इति दक्षिणकरतलेन अप आदाय, वामकरतलं संमृज्य, श्रोत्राचमनं कृत्वा, सात्त्विकत्यागं कुर्यात् ॥

[[64]]