१. श्रोत्राचमनं कृत्वा, प्राणान् आयम्य,
श्रीभगवदाज्ञया भगवत्प्रीत्यर्थं देवयज्ञेन यक्ष्ये
इति सङ्कल्प्य,
‘भगवानेव …. देवयज्ञाख्यं कर्म …. कारयति’
इति सात्त्विकत्यागं कृत्वा,
‘विद्यु॑दसि॒ विद्य॑ मे पा॒प्मान॑मृ॒तात् स॒त्यमुपै॑मि’
इति दक्षिणकरतलेन अप आदाय वामकरतलं संमृज्य,
ओम् अदि॒तेऽनु॑मन्यस्व, ओम् अनु॑म॒तेऽनु॑मन्यस्व, ओं सर॑स्व॒तेऽनु॑मन्यस्व, ओं देव॑ सवितः॒ प्र सु॑व
इत्यग्निं परिषिच्य, अग्नौ एकां समिधं दर्भद्वयं वा आदाय उत्तरदेशस्थपश्चिमभागात् हविर्गृहीत्वा ‘ओं दे॒वेभ्यः॒ स्वाहा᳚’ इत्यग्नौ हुत्वा (देवेभ्य इदं न मम) इत्युक्त्वा एकां समिधं दर्भद्वयं वा प्रक्षिप्य,
ओम् अदि॒तेऽन्व॑मँस्थाः, ओम् अनु॑म॒तेऽन्व॑मँस्थाः, ओं सर॑स्व॒तेऽन्व॑मँस्थाः, ओं देव॑ सवितः॒ प्रासावीः
इति पुनः परिषिच्य, ‘वृष्टि॑रसि॒ वृश्च॑ मे पा॒प्मा॑नमृ॒तात् स॒त्यमुपा॑गाम्’ इति दक्षिणकरतलेन अप आदाय, वामकरतलं संमृज्य, श्रोत्राचमनं कृत्वा, सात्त्विकत्यागं कुर्यात् ॥