०४ नित्य-औपासन-विधिः

(अथ नित्य-औपासनविधिः)

+++(अवारोपण-क्रमोऽन्यत्रोक्तः। )+++

पूर्वाङ्गम्

प्रातरौपासनहोमं (‘सायमौपासनहोमम्’ इति रात्रौ) होष्यामि

इति सङ्कल्प्य,
‘कृतञ्च’ इति च बलमन्त्रं च अनुसन्धाय, सात्त्विकत्यागं कृत्वा,
अग्निं प्रतिष्ठाप्य,
प्राक्तोयं निधाय,

प्राग्दक्षिणं परिस्तीर्य,
दक्षिणान् उत्तरान्, उत्तरान् अधरान् कृत्वा,

अऽञ्जलिं बध्वा,

०३ चत्वारि शृङ्गा ...{Loading}...

च॒त्वारि॒ शृङ्गा॒ त्रयो॑ अस्य॒ पादा॒
द्वे शी॒र्षे स॒प्त हस्ता॑सो अस्य ।
त्रिधा॑ ब॒द्धो वृ॑ष॒भो रो॑रवीति
म॒हो दे॒वो मर्त्याँ॒ आ वि॑वेश ॥

विश्वास-प्रस्तुतिः ...{Loading}...

ए॒ष हि दे॒वः प्र॒दिशोनु॒ सर्वाः॒
पूर्वो॑ हि जा॒तस्स उ॒ गर्भे॑ अ॒न्तः ।
स वि॒जाय॑मानस्स जनि॒ष्यमा॑णः
प्र॒त्यङ्मुखा᳚स्तिष्ठति वि॒श्वतो॑मुखः ॥

प्राङ्मुखो देव! अग्ने! अभिमुखो भव! इति अग्निं प्रार्थ्य,

अग्नये नमः, जातवेदसे नमः,
सहोजसे नमः, अजिरा प्रभवे नमः,
वैश्वानराय नमः, नर्यापसे नमः,
पङ्क्तिराधसे नमः, विसर्पिणे नमः,

इति प्राग्-आदि अष्टसु दिक्षु अक्षतैस् सम्पूज्य,
‘ओं यज्ञपुरुषाय नमः’ इत्य् अक्षतैर् अभ्यर्च्य,

अग्निं परिषिच्य,

अग्नाव् एकां समिधमाधाय,
तण्डुल-मुष्टिम् आदाय,
सव्यहस्ते निक्षिप्य,
दक्षिणहस्तेन प्रोक्ष्य,
अर्धांशं गृहीत्वा,

[[19]]

प्रधान-होमः

“ओं सूर्या॑य॒ स्वाहा᳚” इति मध्ये देवतीर्थेन हुत्वा, (सूर्यायेदं न मम)/
(रात्रौतु, ‘ओम् अ॒ग्नये॒ स्वाहा᳚’ (अग्नय इदं न मम ) इति)

“अ॒ग्नये᳚ स्विष्ट॒कृ॒ते॒ स्वाहा᳚”

इत्यग्नौ प्रागुत्तरभागे हुत्वा (अग्नये स्विष्टकृत इदं न मम)
एकां समिधमाधाय ।

आहुति-संसर्ग-प्रायश्चित्तम्

आहुतिसंसर्गे सति,

आहुतिसंसर्गप्रायश्चित्तार्थं वनस्पतिहोमं करिष्ये

इति सङ्कल्प्य,

यत्र॒ वेत्थ॑ वनस्पते
दे॒वानां॒ गुह्या॒ नामा॑नि ।
तत्र॑ ह॒व्यानि॑ गामय॒

इति समिधमाधाय, (वनस्पतय इदं न मम ) इत्युक्त्वा,

उत्तराङ्गम्

अग्निं परिषिच्य,

‘ओं श्रीविष्ण॑वे॒ स्वाहा᳚” इति एकया समिधा दर्भद्वयेन वा पूर्णाहुतिं हुत्वा, ‘श्रीविष्णवे परमात्मन इदं न मम, तण्डुले शृते सति उत्थाय,

०१ अग्ने नय ...{Loading}...

अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान्
विश्वा॑नि देव व॒युना॑नि+++(=ज्ञानानि)+++ वि॒द्वान् ।
यु॒यो॒ध्य्+++(=अपनय)+++ अ॑स्मज्-जुहुरा॒णम्+++(=कुटिलकारि)+++ एनो॒
भूयि॑ष्ठान् ते॒ नम॑-उक्तिव्ँ विधेम

मन्त्रहीनं - हुताशन ...{Loading}...

(अग्नये नमः)

विश्वास-प्रस्तुतिः

मन्त्रहीनं क्रियाहीनं
भक्तिहीनं हुताशन ।
यद्धुतं तु मया देव
परिपूर्णं तदस्तु ते ॥

मूलम्

मन्त्रहीनं क्रियाहीनं
भक्तिहीनं हुताशन ।
यद्धुतं तु मया देव
परिपूर्णं तदस्तु ते ॥

प्रायश्चित्तान्यशेषाणि ...{Loading}...
विश्वास-प्रस्तुतिः

प्रायश्चित्तान्य् अशेषाणि
तपः कर्मात्मकानि वै ।
यानि तेषाम् अशेषाणां
कृष्णानुस्मरणं परम् ॥

मूलम्

प्रायश्चित्तान्यशेषाणि
तपः कर्मात्मकानि वै ।
यानि तेषामशेषाणां
कृष्णानुस्मरणं परम्॥

(कृष्ण कृष्ण कृष्ण॥)

इति प्रणम्य, अभिवाद्य, आचम्य,

‘भगवानेव … औपासनाख्यं कर्म .. कारितवान्’

इति सात्विकत्यागं कृत्वा,

इति औपासनं भगवति समर्पयेत् ॥
अथाऽऽत्मसमारोपणं, समित्समारोपणं वा पूर्वोक्तमन्त्रतः कुर्यात् ।

[[20]]