०३ अवारोपणम्

पादौ प्रक्षाल्य, द्विराचम्य,

आत्मसमारोपण-पक्षः

पूर्वस्मिन् दिने आत्मसमारोपणे कृते,

21 उपावरोह जातवेदᳶ ...{Loading}...

उ॒पाव॑रोह जातवेद॒ᳶ पुन॒स् त्वम् ॥41॥
दे॒वेभ्यो॑ ह॒व्यव्ँ व॑ह नᳶ प्रजा॒नन्न् ।
आयु॑ᳶ प्र॒जाꣳ र॒यिम् अ॒स्मासु॑ धेहि ।
अज॑स्रो दीदिहि नो दुरो॒णे ।

इति मन्त्रेण आत्म-समारूढमग्निं
यज्ञिय-काष्ठे दर्भ-द्वये वा उद्गरणेन समारोप्य
लौकिकाग्नौ प्रक्षिपेत् ।

[[18]]

समित्-समारोपण-पक्षः

पूर्वस्मिन् दिने समित्समारोपणे कृते तु,

07 आजुह्वानस् सुप्रतीकᳶ ...{Loading}...

आ॒जुह्वा॑नस्+++(=हूयमानः)+++ सु॒-प्रती॑कᳶ पु॒रस्ता॒द्
अग्ने॒ स्वाय्ँ योनि॒म् आ सी॑द सा॒ध्या+++(→ साधु॒या माध्यन्दिने)+++ ।
अ॒स्मिन्थ् स॒ध-स्थे॒, अध्य् उत्त॑रस्मि॒न्
विश्वे॑ देवाः॒! यज॑मानश् च सीदत

45 उद्बुध्यस्वाग्ने प्रति ...{Loading}...

उद्बु॑ध्यस्वाग्ने॒ प्रति॑ जागृह्य्
एनम् इष्टा-पू॒र्ते सꣳसृ॑जेथाम॒यञ्च॑ ।
पुन॑ᳵ कृ॒ण्वꣵस् त्वा॑ पि॒तर॒य्ँ युवा॑नम्
अ॒न्वाताꣳ॑सी॒त् त्वयि॒ तन्तु॑म् ए॒तम् ।

इति (मन्त्रेण) मन्त्राभ्याम् आवाहिताग्निं समिधं लौकिकाग्नौ प्रक्षिप्य,