०१ तन्त्रेण सायम्-प्रातर्-औपासन-होमौ

परिषेचनान्तम्

प्राणान् आयम्य,

‘श्रीभगवदाज्ञया भगवत्प्रीत्यर्थं पूर्वेद्युस्-सायम्-औपासन-होमम्,
अद्य प्रातर्-औपासन-होमं च होष्यामि’

(इति सङ्कल्प्य),

कृतं च करिष्यामि … पूर्वेद्युस्सायम् औपासनहोमेन अद्य प्रातरौपासनहोमेन च कर्मणा भगवन्तं वासुदेवमर्चयिष्यामि

इति च सङ्कल्प्य,
“भगवतो बलेने"ति बलमन्त्रमनुसन्धाय,
‘भगवानेव औपासनहोमाख्यं कर्म… कारयति’ इति सात्त्विकत्यागं कृत्वा,
वाम-हस्तेन पात्रं स्पृशन् दक्षिणेन पाणिना

०१ अदितेऽनु मन्यस्व ...{Loading}...

अदि॒तेऽनु॑ मन्यस्व। +++(इति दक्षिणतः, प्राचीनम्)+++

०२ अनुमतेऽनु मन्यस्व ...{Loading}...

अनु॑म॒ते+++(=ऊनचन्द्रे पूर्णमासि)+++ ऽनु॑ मन्यस्व। +++(इति पश्चिमाद् उदीचीनम्)+++

०३ सरस्-वतेऽनु मन्यस्व ...{Loading}...

सर॑स्-वते+++(छान्दसो गुणः)+++ ऽनु॑ मन्यस्व। +++(इति उत्तरतः प्राचीनम्)+++

०४ देव सवितः ...{Loading}...

देव॑ सवितः॒ प्रसु॑व। +++(इति प्रागारम्भं प्रदक्षिणं)+++

इति अग्निं पूर्ववत् परिषिच्य,

सायम्-आहुतयः

एकां समिधमाधाय,
पत्नी-हस्तं प्रोक्ष्य,
तण्डुलं प्रदाय,
पुनः प्रोक्ष्य,
अर्धांशं गृहीत्वा तं द्वेधा विभज्य,
अग्निमध्ये,

“ओम् अ॒ग्नये॒ स्वाहा॑” (अग्नय इदं न मम) इति,

उत्तरार्धपूर्वार्धे,

‘ओम् अ॒ग्नये॑ स्विष्ट॒कृते॒ स्वाहा॑’ (अग्नये स्विष्टकृत इदं न मम),

दक्षिणहस्तेन देवतीर्थेन हुत्वा,

प्रातर्-आहुतयः

एकां समिधम् आधाय,

अन्यम् अर्धांशं गृहीत्वा, द्वेधा विभज्य,

‘ओं सूर्या॑य॒ स्वाहा॑ ।’ (सूर्यायेदं न मम),
‘ओम् अ॒ग्नये॑ स्विष्ट॒कृते॒ स्वाहा॑’ (अग्नये स्विष्टकृत इदं न मम),

इति,
पूर्वनिर्दिष्टस्थाने पूर्ववत् हुत्वा, एकां समिधमाधाय,

[[16]]

आहुतिसंसर्गे सति,

आहुति-संसर्ग-प्रायश्चित्तम्

‘आहुतिसंसर्गप्रायश्चितार्थं वनस्पतिहोमं करिष्ये’ इति सङ्कल्प्य,

१० यत्र वेत्थ ...{Loading}...

य᳓त्र वे᳓त्थ वनस्पते
देवा᳓नां गु᳓ह्या ना᳓मानि
त᳓त्र हव्या᳓नि गामय

इति पुनः एकां समिधमाधाय, (वनस्पतय इदं न मम)

उत्तराङ्गम्

१२ अदितेऽन्वमँस्थाः अनुमतेऽन्वमँस्थाः ...{Loading}...

अदि॒तेऽन्व॑मँस्थाः। +++(इति दक्षिणतः, प्राचीनम्)+++

अनु॑म॒तेऽन्व॑मँस्थाः। +++(इति पश्चिमाद् उदीचीनम्)+++

सर॑स्व॒ते ऽन्व॑मँस्थाः। +++(इति उत्तरतः प्राचीनम्)+++

देव॑ सवितः॒ प्रासा॑वीः। +++(इति प्रागारम्भं प्रदक्षिणं)+++

इति पूर्ववत् परिषिच्य,

‘ओं विष्ण॑वे॒ स्वाहा॑, (श्रीविष्णवे परमात्मन इदं न मम)’

इति पूर्णाहुतिं हुत्वा, तण्डुले सम्यक् शृते सति, उत्थाय,

०१ अग्ने नय ...{Loading}...

अ᳓ग्ने न᳓य सुप᳓था राये᳓ अस्मा᳓न्
वि᳓श्वानि देव वयु᳓नानि+++(=ज्ञानानि)+++ विद्वा᳓न् ।
युयोध्य्+++(=अपनय)+++ अ᳙स्मज्-जुहुराण᳓म्+++(=कुटिलकारि)+++ ए᳓नो
भू᳓यिष्ठान् ते न᳓म-उक्तिव्ँ विधेम

इत्युपस्थाय,

मन्त्रहीनं - हुताशन ...{Loading}...

(अग्नये नमः)

विश्वास-प्रस्तुतिः

मन्त्रहीनं क्रियाहीनं
भक्तिहीनं हुताशन ।
यद्धुतं तु मया देव
परिपूर्णं तदस्तु ते ॥

मूलम्

मन्त्रहीनं क्रियाहीनं
भक्तिहीनं हुताशन ।
यद्धुतं तु मया देव
परिपूर्णं तदस्तु ते ॥

प्रायश्चित्तान्यशेषाणि ...{Loading}...
विश्वास-प्रस्तुतिः

प्रायश्चित्तान्य् अशेषाणि
तपः कर्मात्मकानि वै ।
यानि तेषाम् अशेषाणां
कृष्णानुस्मरणं परम् ॥

मूलम्

प्रायश्चित्तान्यशेषाणि
तपः कर्मात्मकानि वै ।
यानि तेषामशेषाणां
कृष्णानुस्मरणं परम्॥

(कृष्ण कृष्ण कृष्ण॥)

इत्युक्त्वा प्रणम्य, अभिवाद्य, आचम्य,

‘भगवानेव … औपासनाख्यं कर्म.. कारितवान्

इति सात्त्विकत्यागं कृत्वा,

कृतञ्च करिष्यामि … प्रीयतां वासुदेवः

इति कृतं कर्म भगवति समर्पयेत् ॥

अथाग्नौ कर्तव्य-कार्याभावे आत्मसमारोपणं/ समित्समारोपणं वा कुर्यात् ।

[[17]]