०८ विधुराग्निसन्धानक्रमः

॥ विधुराग्निसन्धानक्रमः ॥

उद्धृत्य वह्निं प्रणवेन पूर्वं
निधाय ‘पृष्टो दिवि’ मन्त्रकेण ।
‘अन्वग्नि’ मन्त्रेण हरेत् पुरस्तात्
ततश् चतुर्भिश् शकलैश् च होमः ॥

पूर्वाङ्गम्

प्रणवेनाग्निं समं प्राणैर् हृत्वा, प्रणवेन निधाय, उपस्पृश्य, इत्युक्तः ।

पृष्टो᳓+++(←पृच्छ्)+++ दिवि᳓, पृष्टो᳓ अग्निः᳓ पृथिव्यां᳓,
पृष्टो᳓ वि᳓श्वा ओ᳓षधीर् आ᳓ विवेश ।
वैश्वानरः᳓ स᳓हसा पृष्टो᳓ अग्निः᳓
स᳓ नो दि᳓वा स᳓ रिषः᳓ पातु न᳓क्तम् ॥

विश्वास-प्रस्तुतिः …{Loading}…

अ᳓न्व् अग्नि᳓र् उष᳓साम् अ᳓ग्रम् अख्यत् ।
अ᳓न्व् अ᳓हानि प्रथमो᳓ जात᳓वेदाः ।
अ᳓नु सू᳓र्यस्य पुरुत्रा᳓ च रश्मी᳓न् ।
अ᳓नु द्या᳓वा-पृथिवी᳓ आ᳓ततान ।

इति ऋग्भ्यां द्वाभ्याम् अग्निमुपसमाधाय,

प्राणान् आयम्य, ‘शकलहोमं करिष्ये’ इति सङ्कल्प्य, परिस्तीर्य, परिषिच्य,

प्रधानाहुतीः

प्रधानाहुतीः

ओं भूर्भुवस्सुव॒स्स्वाहा॑ ॥
(प्रजापतय इदं न मम)

इति हुत्वा

त᳓त् सवितु᳓र् व᳓रेण्य+++(णिय)+++म्
भ᳓र्गो+++(=भर्जनम्)+++ देव᳓स्य धीमहि+++(←धा धारणे/ ध्यै ध्याने / धी आराधने)+++ ।
धि᳓यो यो᳓ नः प्रचोद᳓यात् ॥

(सवित्र इदं न मम)

ताँ᳓ सवितु᳓र् व᳓रेण्यस्य चित्रा᳓म्
आ᳓ ऽहव्ँ᳓ वृणे सुमतिव्ँ᳓ विश्व᳓-जन्याम् ।
या᳓मस्य क᳓ण्वो अ᳓दुहत् प्र᳓पीनाँ
सह᳓स्रधा᳓रा᳓म् प᳓यसा मही᳓ङ् गा᳓म् ।

> स्वाहा॑ ॥ (सवित्र इदं न मम)

[[21]]

विश्वास-प्रस्तुतिः …{Loading}…

वि᳓श्वानि नो दुर्ग᳓हा जातवेदः
सि᳓न्धुं न᳓ नावा᳓ दुरिता᳓ति पर्षि
अ᳓ग्ने अत्रिव᳓न् न᳓मसा+++(→म᳓नसा तैत्तिरीये)+++ गृणानो᳓
अस्मा᳓कम् बोधि अविता᳓ तनू᳓नाम्

विश्वास-प्रस्तुतिः …{Loading}…

पृतनाजि᳓तँ स᳓हमानम् उग्र᳓म्
अग्निँ᳓ हुवेम परमा᳓त् सध᳓स्थात्+++(=सहवासाद् [देशात्])+++।
स᳓ नः पर्षद्+++(=पारयति)+++ अ᳓ति दुर्गा᳓णि वि᳓श्वा
क्षा᳓मद्+++(=क्षममाणः)+++ देवो᳓ अ᳓ति दुरिता᳓त्य् अग्निः᳓॥

(अग्नये जातवेदस इदं न मम)

अद्या᳓ नो देव सवितः
प्रजा᳓वत् सावीः सौ᳓भगम् ।
प᳓रा दुष्-ष्व᳓प्न्यं सुव ॥

वि᳓श्वानि देव सवितर्
दुरिता᳓नि प᳓रा सुव
य᳓द् भद्रं᳓ त᳓न् न आ᳓ सुव

(सवित्र इदं न मम)

उत्तराङ्गम्

अ᳓नाज्ञातय्ँ य᳓द् आ᳓ज्ञातम् ।
यज्ञ᳓स्य क्रिय᳓ते मि᳓थु ।
अ᳓ग्ने त᳓दस्य कल्पय ।
त्वँ᳓ हि᳓ वे᳓त्थ यथातथ᳓म् ।

पु᳓रुषसम्मितो यज्ञः᳓ ।
यज्ञᳶ᳓ पु᳓रुषसम्मितः ।
अ᳓ग्ने त᳓दस्य कल्पय ।
त्वँ᳓ हि᳓ वे᳓त्थ यथातथ᳓म् ।

य᳓त्पाकत्रा᳓ म᳓नसा दीन᳓दक्षा न᳓ ।
यज्ञ᳓स्य मन्व᳓ते म᳓र्तासः ।
अग्नि᳓ष्ट᳓द्धो᳓ता क्रतु-वि᳓द् विजान᳓न् ।
य᳓जिष्ठो देवाँ᳓ ऋतुशो᳓ यजाति ॥115॥

इति च हुत्वा,
प्राणान् आयम्य, पुनः परिषिच्य, अग्न्युपस्थानं कृत्वा, आचामेत् ॥

[[22]]