अग्निसन्धानप्रयोगः (औपासनहोमश्च)
अनुज्ञा
पादौ प्रक्षाल्य द्विराचम्य सपवित्रपाणिः दक्षिणाताम्बूलशोभनाक्षतान् गृहीत्वा,
नम॒स् सद॑से …स॒भाम् मे॑ गोपाय ...{Loading}...
नमस् सदसे ...{Loading}...
मूलम् (संयुक्तम्)
नम॒स्सद॑से॒ नम॒स्सद॑स॒स्पत॑ये॒ नम॒स्सखी॑नाम्पुरो॒गाणा॒ञ्चक्षु॑षे॒ नमो॑ दि॒वे नमᳶ॑ पृथि॒व्यै
विश्वास-प्रस्तुतिः
नम॒स् सद॑से॥
नम॒स् सद॑स॒स्-पत॑ये॥
नम॒स् सखी॑नाम् पुरो॒गाणा॒ञ् चक्षु॑षे॥
नमो॑ दि॒वे॥
नमᳶ॑ पृथि॒व्यै॥
मूलम्
नम॒स्सद॑से
नम॒स्सद॑स॒स्पत॑ये
नम॒स्सखी॑नाम्पुरो॒गाणा॒ञ्चक्षु॑षे
नमो॑ दि॒वे
नमᳶ॑ पृथि॒व्यै
भट्टभास्कर-टीका
‘ऐन्द्रं हि देवतया सदः’ इति इन्द्रः सदसस्पतिः पालयिता तस्मै नमः । ‘षष्ठयाः पतिपुत्र’ इति सत्वम् । सखीनां समानख्यानानामृत्विजां पुरोगाणामग्रतो गन्तृणां प्रधानानां सर्वेषामपि चक्षुषे चक्षुसथानीयाय दर्शनहेतवे सवित्रे च नमः । गतमन्यत् ॥
267 सप्रथ सभाम् ...{Loading}...
सप्र॑थ स॒भाम् मे॑ गोपाय ।
ये च॒ सभ्या॑स् सभा॒सदः॑ ।
तानि॑न्द्रि॒याव॑तᳵ कुरु ।
सर्व॒म् आयु॒र् उपा॑सताम् ।
(सर्वे॑भ्यः श्रीवैष्ण॒वेभ्यो॒ नमः॑॥)
इति ब्राह्मणान् अक्षतैरभ्यर्च्य, सदक्षिणं ताम्बूलं दत्वा, प्रणम्य,
अशेषे हे परिषत् ...{Loading}...
स्वामिनः!
अशेषे हे परिषत्
भवत्-पादमूले मया समर्पिताम् इमां सौवर्णीं यत्-किञ्चिद्-दक्षिणां
यथोक्तदक्षिणामिव स्वीकृत्य
आवयोः विच्छिन्न-औपासन-अग्निसन्धानं कर्तुं
योग्यता-सिद्धिर् अस्त्व् इति
भवन्तो महान्तो ऽनुगृह्णन्तु ।
इति प्रार्थ्य,
‘तथाऽस्तु । योग्यतासिद्धिरस्तु’ इति तैः प्रत्युक्ते,
सङ्कल्पादि
दर्भेष्व् आसीनः
पवित्रेण सह दर्भान् धारयमाणः,
त्रिः प्राणान् आयम्य,
श्रीमान् वेङ्कटनाथार्यः ...{Loading}...
विश्वास-प्रस्तुतिः
श्रीमान् वेङ्कटनाथार्यः
कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे
सन्निधत्तां सदा हृदि ॥
मूलम्
श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥
गुरुभ्यस् तद्-गुरुभ्यश् च ...{Loading}...
विश्वास-प्रस्तुतिः (सं॰प॰)
गुरुभ्यस् तद्-गुरुभ्यश् च
नमो-वाकम् अधीमहे+++(→वीप्सायाम्)+++ ।
वृणीमहे च तत्राद्यौ
दं-पती जगतां पती+++(→शेषिणौ)+++ ॥ १ ॥
मूलम् (सं॰प॰)
गुरुभ्यस्तद्गुरुभ्यश्च नमोवाकमधीमहे ।
वृणीमहे च तत्राद्यौ दंपती जगतां पती ॥ १ ॥
English
(With due devotion) we repeat the expression of adoration to our gurus
and likewise to their gurus;
and among these (latter),
we pray for the grace of the Primaeval Couple (Nārāyaṇa and Lakṣmī ),
the twin śeṣīs1 of all the worlds
(so that they may be both the end to be attained by us
and the means of attaining it).
English es
(Con la debida devoción)
Repetimos la expresión de adoración a nuestros gurús
y también a sus gurús;
y entre estos (últimos),
rezamos por la gracia de la pareja primaria (nārāyaṇa y lakṣmī),
el gemelo śeṣīs 2 de todos los mundos
(para que ambos puedan ser el final para ser alcanzados
y los medios de alcanzarlo).
स्वशेषभूतेन मया ...{Loading}...
विश्वास-प्रस्तुतिः
स्वशेषभूतेन मया
स्वीयैस् सर्व-परिच्छेदैः ।
विधातुं प्रीतमात्मानं
देवः प्रक्रमते स्वयम् ॥ (१२)
मूलम्
स्वशेषभूतेन मया स्वीयैस्सर्वपरिच्छेदैः ।
विधातुं प्रीतमात्मानं देवः प्रक्रमते स्वयम् ॥ (१२)
शुक्लाम्बरधरं ...{Loading}...
विश्वास-प्रस्तुतिः
शुक्लाम्बरधरं विष्णुं
शशिवर्णं चतुर्भजम् ।
प्रसन्नवदनं द्यायेत्
सर्वविघ्नोपशान्तये ॥
मूलम्
शुक्लाम्बरधरं विष्णुं
शशिवर्णं चतुर्भजम् ।
प्रसन्नवदनं द्यायेत्
सर्वविघ्नोपशान्तये ॥
यस्य द्वि-रद-वक्त्राद्याः ...{Loading}...
विश्वास-प्रस्तुतिः
यस्य द्वि-रद-वक्त्राद्याः
पारिषद्याः परश्शतम् ।
विघ्नं निघ्नन्ति सततं
विष्वक्सेनं तमाश्रये ॥
मूलम्
यस्य द्विरदवक्त्राद्याः
पारिषद्याः परश्शतम् ।
विघ्नं निघ्नन्ति सततं
विष्वक्सेनं तमाश्रये ॥
इति साञ्जलि-बन्धम् उक्त्वा
दक्षिणोरूपरि सङ्कल्पार्थे हस्त-तले संमेल्य,
हरिर् ओं तत् - श्रीगोविन्द ...{Loading}...
हरिर् ओं तत् - श्रीगोविन्द गोविन्द गोविन्द!
अस्यां .. शुभतिथौ श्रीभगवदाज्ञया भगवत्प्रीत्यर्थं
विच्छिन्नौपासनाग्नि-सन्धानं करिष्ये
इति, सङ्कल्प्य,
पत्न्यर्थं पुनः प्राणान् आयम्य,
आवयोः औपासनाग्निम् आधास्ये
विच्छिन्न-सन्धानार्थम्
इति सङ्कल्प्य,
प्रीणन-मन्त्रः - कृतं च ...{Loading}...
कृतञ् च करिष्यामि भगवन्। +++(इति समाप्ताव् अपि।)+++
नित्येन भगवत्-प्रीत्य्-अर्थेन
महा-विभूति-चातुरात्म्य-भगवद्-वासुदेव-पादारविन्दार्चनेन
???? भगवत्कर्मणा
भगवन्तं वासुदेवम् अर्चयिष्यामि +++(इत्य् आदौ)+++
/ भगवान् प्रीयतां वासुदेवः +++(इत्य् अन्ते)+++।
इत्यनुसन्धाय
बल-मन्त्रः ...{Loading}...
भग॑वतो॒ बले॑न॒, भग॑वतो वी॒र्ये᳕ण॒, भग॑वत॒स् तेज॑सा॒, भग॑वतः॒ कर्म॑णा॒+++(=कर्तुर् ईप्सिततमेन)+++, भग॑वतः॒ कर्म॑+++(=क्रियां)+++ करिष्यामि॒ - भग॑वतो वासुदे॒वस्य॑
विस्वरः
भगवतो बलेन, भगवतो वीर्येण, भगवतस् तेजसा, भगवतः कर्मणा,
भगवतः कर्म करिष्यामि -
भगवतो वासुदेवस्य।
+++(इति)+++ बलमन्त्रम् अनुसन्धाय
सात्त्विकत्यागं कृत्वा,
स्थण्डिल-कल्पनम्
यत्र अग्नि-स्थापनं
तत्र दक्षिणारम्भम् उदग्-अपवर्गं
प्राचीः तिस्रो रेखाः,
पश्चिमारम्भं प्राग्-अपवर्गम् उदीचीः तिस्रो रेखाश् च अङ्गुष्ठ-अनामिकाभ्यां सङ्गृहीतेन दर्भेण शकलेन वा लिखित्वा,
[[10]]
तत्र तं +++(दर्भं)+++ न्यस्य,
अद्भिः अवोक्ष्य,
तं नैर्ऋत्यां निरस्य,
अप उपस्पृश्य,
अग्नि-स्थापनम्
श्रोत्रियावसथात् अग्निम् आहृत्य,
व्याहृतिभिः प्रतिष्ठाप्य,
अवोक्षण-शेषम् उत्सृज्य,
अन्यत् तोयम् आपूर्य
यथा परिस्तरणात् बहिस् स्यात्,
तथा प्राग् उदग् वा निधाय,
+++(इति सम्मुखीकरणम्)+++
यज्ञियैर् इन्धनैः अग्निं प्रज्वाल्य,
परिस्तरणान्तम्
परिसमूह्य,
प्राग्-उदग्-अग्रान् षोडश-षोडश दर्भान् अग्नेः प्रागादि प्रदक्षिणं परिस्तीर्य,
दक्षिणान् उत्तरान्, उत्तरान् अधरान् कुर्यात् ।
इन्धनानन्तरं परिस्तरणम् एव कार्यम् ।
न तु तयोर् मध्ये
अवश्य-कर्तव्य-कर्मार्थ-सम्भारोपकल्पनादिकम् अपि कुर्यात् ।+++(5)+++
पात्र-सादनम्
उत्तरेणाग्निं प्राग्-अग्रान् दर्भान् संस्तीर्य,
तेषु (द्वे द्वे अधो-बिलानि पात्राणि प्रयुनक्ति)
प्रधानदर्व्या सह आज्यस्थालीम्,
उपदर्व्या सह वैकङ्कतीं प्रोक्षणीं
च सादयित्वा,
समौ अच्छिन्नाग्रौ दर्भौ प्रादेश-मात्रौ (आयाम)-पवित्री-कुरुते ।
तृणं काष्ठं वा अन्तर्धाय छिनत्ति;
न नखेन ।
ततः अप उपस्पृश्य,
मूलाद् आरभ्य आग्रात् अद्भिः उन्मृज्य,
पवित्री कृत्य
प्रोक्षणी-पूरणम् १
पात्राणि संस्पृश्य,
प्रोक्षणीम् आदाय,
अपरेण अग्निं निधाय,
पवित्रं प्रोक्षणी-पात्रे निधाय,
(उदग्-अग्राभ्यां पवित्राभ्याम् अन्तर्हितायाम्) अप आनीय,
उत्तानयोः प्राग्-अग्रयोः पाण्योः
अङ्गुष्ठ-अनामिकाभ्यां पवित्र-मूलाग्रे गृहीत्वा, उदग्-अग्राभ्यां पवित्राभ्यां त्रिर् उत्पूय,
दर्वी-संस्कारः - प्रोक्षणेन
पात्राण्य् उत्तानानि कृत्वा,
सपवित्रेण पाणिना सर्वाभिर् अद्भिः त्रिः प्रोक्ष्य,
प्रोक्षणी-पूरणम् २
प्रोक्षणी-पात्रे अन्यज् जलं पूरयित्वा,
दक्षिणतः उद्वास्य,
आज्य-संस्कारः
पवित्रम् आज्यस्थाल्यां निधाय,
विलीनम् अपि आज्यं होमाग्नौ कर्मार्थं पुनः विलाप्य,
अपरेणाग्निं पवित्रान्तर्हितायाम् आज्यस्थाल्याम् आज्यं निरुप्य,
परिस्तरण-पात्रासादनयोर् मध्ये
उदीचो ऽङ्गारान् निरूह्य,
तेष्व् आज्यम् अधिश्रित्य,
[[11]]
ज्वलता एकेन तृणेन अवद्योत्य,
द्वे दर्भाग्रे प्रच्छिद्य,
अप उपस्पृश्य,
युगपद् आज्यपात्रे प्रत्यस्य
(मधु-गन्धरसौ नाम
राक्षसाव् आज्य-हारिणौ ।
तयोर् निरसनार्थाय
द्वे दर्भाग्रे विनिक्षिपेत् ॥)+++(5)+++
अधो-मुखाभ्यां ज्वलद्भ्यां तृणाभ्यां
त्रिः पर्यग्नि कृत्वा
उदग् उद्वास्य अङ्गारान् अग्नौ प्रत्यूह्य,
दर्भास्तृते पश्चिमे निधाय,
उदगग्राभ्यां पवित्राभ्यां पुनर्-आहारं प्राग्-आरम्भं प्राग्-अपवर्गं त्रिर् उत्पूय,
पवित्र-ग्रन्थिं विस्रस्य,
अप उपस्पृश्य,
(युगपद् एव प्राग्-अपवर्गं त्रिर् उत्पूय,
पवित्रग्रन्थिं विस्रस्य, अप उपस्पृश्य,)
युगपद् एव प्राग्-अग्रम् अग्नौ प्रहरति ।
दर्वी-संस्कारः अग्निना
येन जुहोति तत् (दर्वीद्वयम्) अग्नौ प्रतितप्य,
दर्भैः संसृज्य,
पुनः प्रतितप्य, प्रोक्ष्य,
दर्व्यौ निधाय,
+++(दर्वी-शोधन-)+++दर्भान् अद्भिः संस्पृश्य,
अग्नौ प्रहरति ।
परिषेचनम्
०१ अदितेऽनु मन्यस्व ...{Loading}...
अदि॒तेऽनु॑ मन्यस्व। +++(इति दक्षिणतः, प्राचीनम्)+++
०२ अनुमतेऽनु मन्यस्व ...{Loading}...
अनु॑म॒ते+++(=ऊनचन्द्रे पूर्णमासि)+++ ऽनु॑ मन्यस्व। +++(इति पश्चिमाद् उदीचीनम्)+++
०३ सरस्-वतेऽनु मन्यस्व ...{Loading}...
सर॑स्-वते+++(छान्दसो गुणः)+++ ऽनु॑ मन्यस्व। +++(इति उत्तरतः प्राचीनम्)+++
०४ देव सवितः ...{Loading}...
देव॑ सवितः॒ प्रसु॑व। +++(इति प्रागारम्भं प्रदक्षिणं)+++
समन्ततोऽग्निं परिषिच्य,
आहुतयः
प्रधानदर्व्या चतुर्गृहीतेन आज्येन,
व्याहृतयः
भूर् भुव॒स् सु॒व॒स् स्वाहा॑ ...{Loading}...
विश्वास-प्रस्तुतिः
ओं भूर् भुव॒स् सुव॒स् स्वाहा॑ ॥
(प्रजापतय इदं न मम) ॥१॥
मूलम्
ओं भूर् भुव॒स् सुव॒स् स्वाहा॑ ॥
(प्रजापतय इदं न मम) ॥१॥
इति हुत्वा, (प्रजापतय इदं न मम)
अनाज्ञातादि-प्रायश्चित्तम्
35 अनाज्ञातय्ँयदाज्ञातम् यज्ञस्य ...{Loading}...
अना॑ज्ञातय्ँ॒यदाज्ञा॑तम् ।
य॒ज्ञस्य॑ क्रि॒यते॒ मिथु॑ ।
अग्ने॒ तद॑स्य कल्पय ।
त्वँ हि वेत्थ॑ यथात॒थम् ।
38 पुरुषसम्मितो यज्ञः ...{Loading}...
पुरु॑षसम्मितो य॒ज्ञः ।
य॒ज्ञᳶ पुरु॑षसम्मितः ।
अग्ने॒ तद॑स्य कल्पय ।
त्वँ हि वेत्थ॑ यथात॒थम् ।
41 यत्पाकत्रा मनसा ...{Loading}...
यत्पा॑क॒त्रा मन॑सा दी॒नद॑क्षा॒ न ।
य॒ज्ञस्य॑ म॒न्वते॒ मर्ता॑सः ।
अ॒ग्निष्टद्धोता॑ क्रतु॒विद्वि॑जा॒नन् ।
यजि॑ष्ठो दे॒वाँ ऋ॑तु॒शो य॑जाति ॥115॥
[[12]]
प्राणान् आयम्य,
अयाश्चेत्यादि
श्रीभगवदाज्ञया भगवत्प्रीत्यर्थम् अग्न्य्-अनुगति 1 (उपवासाकरण) प्रायश्चितार्थम्
‘अयाश्च’ होमं करिष्ये
इति सङ्कल्य,
१८ अयाश्चाग्नेऽस्यनभिशस्तीश्च सत्यमित्त्वमया ...{Loading}...
अ॒याश्+++(=एतुम् योग्यः, गमनशीलो वा)+++ चा॒ग्ने ऽस्य् अ॑नभिश॒स्तीश्च॑+++(=अनवद्यः)+++
स॒त्यम् इ॑त् त्वम् अ॒या अ॑सि ।
अय॑सा॒+++(=प्रतिगन्त्रा)+++ मन॑सा धृ॒तो॑
ऽयसा॑ ह॒व्यम् ऊ॑हिषे॒+++(=वहस्व)+++
ऽया नो॑ धेहि भेष॒जम् ।।+++(५)+++
49 पुनस् त्वा ...{Loading}...
पुन॑स् त्वा ऽऽदि॒त्या रु॒द्रा वस॑वः॒ समि॑न्धतां॒,
पुन॑र् ब्र॒ह्माणो॑ वसुनीथ! य॒ज्ञैः ।
घृ॒तेन॒ त्वं त॒नुवो॑ वर्धयस्व,
स॒त्याः स॑न्तु॒ यज॑मानस्य॒ कामाः॑ ॥
+++(अग्नये वसुनीथायेदं न मम॥)+++
27 मनो ज्योतिर् ...{Loading}...
मनो॒ ज्योति॑र् जुषता॒म्, आज्यव्ँ॒
विच्छि॑न्नय्ँ य॒ज्ञँ सम् इ॒मन् द॑धातु ।
या +++(अन्यैर्)+++ इ॒ष्टा उ॒षसो॑, +++(मया तु)+++ नि॒-म्रुच॑श्+++(←स्तेये)+++ च॒
तास् सन्द॑धामि ह॒विषा॑ घृ॒तेन॑ ॥
+++(मनसे ज्योतिषे इदं न मम॥)+++
07 यन् म ...{Loading}...
यन् म॑ आ॒त्मनो॑ मि॒न्दा+++(=हिंसा)+++ ऽऽभू॑द्,
अ॒ग्निस् तत् पुन॒र् आहाः॑ +++(=आहर)+++।
जा॒तवे॑दा॒ विच॑र्षणिः+++(विचक्षणः)+++॥
08 पुनर् अग्निश् ...{Loading}...
पुन॑र् अ॒ग्निश् चक्षु॑र् अदा॒त्
पुन॒र् इन्द्रो॒ बृह॒स्पतिः॑।
पुन॑र् मे अश्विना यु॒वं
चक्षु॑र्+++(=दर्शनशक्तिम्)+++ आ धत्तम् अ॒क्ष्योः ॥
+++(अग्नीन्द्राबृहस्पत्यश्विभ्य इदं न मम॥)+++
०६ तन्तुं तन्वन्रजसो ...{Loading}...
त᳓न्तुं तन्व᳓न् र᳓जसो+++(=दिवः)+++ भानु᳓म् अ᳓न्विहि
ज्यो᳓तिष्मतः पथो᳓ रक्ष धिया᳓ कृता᳓न् ।
+++(तेन खगोलं, विषुव-स्थानञ् च साधु जानीहि!)+++
अन्-उल्बणं᳓+++(=उत्कटम् [ग्रन्थ्या])+++ वयत जो᳓गुवाम्+++(=स्तोतॄणाम्)+++ अ᳓पो+++(=कर्म)+++
+++(विषुव-स्थानीय! अग्ने)+++ म᳓नुर् भव, जन᳓या दै᳓व्यं ज᳓नम् ॥६
+++(अग्नये तन्तुमत इदं न मम)+++
सर्व-प्रायश्-चित्तम्
प्राणान् आयम्य,
श्री-भगवद्-आज्ञया भगवत्-प्रीत्य्-अर्थम्
अग्नि-सन्धान-होम-कर्मणि
मध्ये सम्भावित-मन्त्र-तन्त्र-देवता-विपर्यास-न्यूनातिरेक(रिक्त)–स्वराक्षर-पद-भ्रेष–प्रायश्-चित्तार्थं
सर्वप्रायश्चित्ताहुतीर् होष्यामि;
प्राणायामञ्च करिष्ये
इति सङ्कल्प्य,
[[13]]
भूर् भुव॒स् सु॒व॒स् स्वाहा॑ ...{Loading}...
विश्वास-प्रस्तुतिः
ओं भूर् भुव॒स् सुव॒स् स्वाहा॑ ॥
(प्रजापतय इदं न मम) ॥१॥
मूलम्
ओं भूर् भुव॒स् सुव॒स् स्वाहा॑ ॥
(प्रजापतय इदं न मम) ॥१॥
अनाज्ञातादि-प्रायश्चित्तम्
35 अनाज्ञातय्ँयदाज्ञातम् यज्ञस्य ...{Loading}...
अना॑ज्ञातय्ँ॒यदाज्ञा॑तम् ।
य॒ज्ञस्य॑ क्रि॒यते॒ मिथु॑ ।
अग्ने॒ तद॑स्य कल्पय ।
त्वँ हि वेत्थ॑ यथात॒थम् ।
38 पुरुषसम्मितो यज्ञः ...{Loading}...
पुरु॑षसम्मितो य॒ज्ञः ।
य॒ज्ञᳶ पुरु॑षसम्मितः ।
अग्ने॒ तद॑स्य कल्पय ।
त्वँ हि वेत्थ॑ यथात॒थम् ।
41 यत्पाकत्रा मनसा ...{Loading}...
यत्पा॑क॒त्रा मन॑सा दी॒नद॑क्षा॒ न ।
य॒ज्ञस्य॑ म॒न्वते॒ मर्ता॑सः ।
अ॒ग्निष्टद्धोता॑ क्रतु॒विद्वि॑जा॒नन् ।
यजि॑ष्ठो दे॒वाँ ऋ॑तु॒शो य॑जाति ॥115॥
०४ त्वं नो ...{Loading}...
त्व᳓न् नो अग्ने व᳓रुणस्य विद्वा᳓न्
देव᳓स्य हे᳓डो᳓+++(=क्रोधो )+++ ऽव यासिसीष्ठाः+++(=यक्षीष्ठाः)+++ ।
य᳓जिष्ठो +++(हविर्)+++व᳓ह्नितमश् शो᳓शुचानो+++(=देदीप्यमानः)+++
वि᳓श्वा द्वे᳓षाँसि प्र᳓ मुमुग्ध्य् अस्म᳓त् ।
+++(अग्नीवरुणाभ्याम् इदं न मम)+++
०५ स त्वं ...{Loading}...
स᳓ त्व᳓न् नो अग्ने ऽवमो᳓+++(=मूलभूतो)+++ भव+ऊती᳓+++(त्या)+++
+++(“अग्निरवमो देवतानां विष्णुः परमः” इति ब्राह्मणम्)+++
ने᳓दिष्ठो+++(=अन्तिकतमो)+++ अस्या᳓ उष᳓सो व्यु᳙ष्टौ+++(=व्युष्टायाम्)+++ ।
अ᳓व यक्ष्व नो व᳓रुणँ, र᳓राणो
वीहि᳓+++(=खाद)+++ मृडीकँ᳓+++(=सुखयितारं [हविः])+++ सुह᳓वो न एधि ।
+++(अग्नीवरुणाभ्याम् इदं न मम)+++
व्याहृति-होमाः ४ ...{Loading}...
विश्वास-प्रस्तुतिः
(ओं) भूस्स्वाहा॑ ॥ (अ॒ग्नय॑ +इ॒दं न म॑म)
(ओं) भुव॒स्स्वाहा॑ ॥ (वा॒यव॑ +इ॒दं न म॑म)
(ओं) सुव॒स्स्वाहा॑ ॥
(सूर्या॑य +इ॒दं न म॑म)
(ओं) भूर्भुव॒स्सुव॒स्स्वाहा॑ ॥
(प्र॒जाप॑तय +इ॒दं न म॑म)
मूलम्
(ओं) भूस्स्वाहा॑ ॥ (अग्नय इदं न मम)
(ओं) भुव॒स्स्वाहा॑ ॥ (वायव इदं न मम)
(ओं) सुव॒स्स्वाहा॑ ॥
(सूर्याय इदं न मम)
(ओं) भूर्भुव॒स्सुव॒स्स्वाहा॑ ॥
(प्रजापतय इदं न मम)
[[14]]
shrI-viShNave_svAhA ...{Loading}...
(ॐ) श्रीवि॒ष्णवे॒ / विष्ण॑वे॒ स्वाहा॑
(विष्णवे परमात्मने इदन्न मम)
इति हुत्वा, प्राणायामञ्च कुर्यात् ।
समाप्तिः
१२ अदितेऽन्वमँस्थाः अनुमतेऽन्वमँस्थाः ...{Loading}...
अदि॒तेऽन्व॑मँस्थाः। +++(इति दक्षिणतः, प्राचीनम्)+++
अनु॑म॒तेऽन्व॑मँस्थाः। +++(इति पश्चिमाद् उदीचीनम्)+++
सर॑स्व॒ते ऽन्व॑मँस्थाः। +++(इति उत्तरतः प्राचीनम्)+++
देव॑ सवितः॒ प्रासा॑वीः। +++(इति प्रागारम्भं प्रदक्षिणं)+++
इति पूर्ववत् परिषिच्य,
भगवानेव… विच्छिन्नौपासनाग्निसन्धानाख्यं कर्म… कारितवान्
इति सात्त्विकत्यागं कृत्वा,
प्रीणन-मन्त्रः - कृतं च ...{Loading}...
कृतञ् च करिष्यामि भगवन्। +++(इति समाप्ताव् अपि।)+++
नित्येन भगवत्-प्रीत्य्-अर्थेन
महा-विभूति-चातुरात्म्य-भगवद्-वासुदेव-पादारविन्दार्चनेन
???? भगवत्कर्मणा
भगवन्तं वासुदेवम् अर्चयिष्यामि +++(इत्य् आदौ)+++
/ भगवान् प्रीयतां वासुदेवः +++(इत्य् अन्ते)+++।
इति कृतं कर्म भगवति समर्पयेत् ।
औपासनाकरण-प्रायश्चित्तम् - हिरण्येन
पुनः प्राणान् आयम्य
श्रीभगवद्-आज्ञया भगवत्-प्रीत्यर्थम्
अनेक-काल-सायम्–प्रातर्-आहुतीनाम्
अ-करण-प्रायश्चित्तार्थं प्राजापत्य-कृच्छ्र-प्रतिनिधि
यत् किञ्चिद् +धिरण्य-दानं करिष्ये
इति सङ्कल्प्य,
हिरण्य-गर्भ--गर्भ-स्थं ...{Loading}...
विश्वास-प्रस्तुतिः
+++(हिरण्य!)+++ हिरण्य-गर्भ–गर्भ-स्थं
हेम-बीजं विभावसोः ।
अनन्त-पुण्य-फल-दम्
अतश् शान्तिं प्रयच्छ मे॥
मूलम्
हिरण्यगर्भगर्भस्थं
हेमबीजं विभावसोः ।
अनन्तपुण्यफलदम्
अदश्शान्तिं प्रयच्छ मे॥
हिरण्यगर्भगर्भस्थं
हेमबीजं विभावसोः ।
अनन्तपुण्यफलदम्
अतश्शान्तिं प्रयच्छ मे॥
इदम् अनेककालसायम्प्रातराहुतीनाम् अकरणप्रायश्चित्तार्थं प्राजापत्यकृच्छ्रप्रतिनिधि यत्किञ्चिद्धिरण्यं नानागोत्रेभ्यः श्रीवैष्णवेभ्यः सम्प्रददे (नमः) न मम
इति दत्वा,
पुनः प्राणान् आयम्य
श्रीभगवदाज्ञया भगवत्प्रीत्यर्थम् आज्यसहितहोमद्रव्यतण्डुलदानं करिष्ये
(इति सङ्कल्प्य,)
तण्डुला वैश्वदेवत्याः पाकेनान्नं पचन्ति ये ।
तस्मात् तण्डुलदानेन अदश्शान्तिं प्रयच्छ मे ॥
इदम् आज्यसहितहोमद्रव्यं तण्डुलं यस्मै कस्मैचित् श्रोत्रियाय श्रीवैष्णवाय सम्प्रददे (नमः) न मम
इति दद्यात् ॥
(अग्निसन्धानप्रयोगः समाप्तः)
[[15]]