२७ यजुरुपाकर्म

॥ यजुरुपाकर्म ॥

श्रावण्यां पौर्णमास्यां प्रातःकाले आचम्य, प्राणान् आयम्य, यथावत्

तैष्यां पौर्णमास्याम् अध्यायोत्सर्जनाकरणप्रायश्चित्तार्थम् अष्टोत्तरसहस्रसङ्ख्यया, ‘कामोऽकार्षीन्मन्युरकार्षीत्’ इति महामन्त्रजपं करिष्ये'

इति सङ्कल्प्य, तं मन्त्रं जपेयुः । अथ ब्रह्मचारिणः वापयेयुः ॥

अथापराह्णे, (स्नात्वा, धौतं परिधाय), माध्याह्निकं कृत्वा पवित्रपाणिः प्राङ्मुख उपविश्य प्राणान् आयम्य, यथावत् सङ्कल्पमारभ्य,

श्रावण्यां पौर्णमास्याम् अध्यायोपकर्म करिष्ये, तदङ्गं काण्डर्षितर्पणं करिष्ये, तदङ्गं यज्ञोपवीतधारणं करिष्ये, तदङ्गं स्नानं करिष्ये

इति सङ्कल्प्य, स्नात्वा यथायथं १. कटिसूत्र - २. कौपीन ३. वस्त्र ४. उपवीत ६. मौञ्जी ६. अजिनं ७. दण्डान् नवान् तत्रन्मन्त्रेण धृत्वा, (पु. २४५) पुरातनान् परित्यज्य, आचम्य, द्विराचम्य उदङ्मुखः अप्सु प्रविश्य (स्नात्वा 1) निवीतं धृत्वा, उपवीतम् अङ्गुष्ठाभ्यां परिगृह्य ऋषितीर्थेन - त्रिस्त्रिः तिलाक्षतोदकैः

१.प्रजापतिं काण्डर्षिं तर्पयामि
२. सोमं काण्डर्षिं तर्पयामि
३. अग्निं काण्डर्षिं तर्पयामि
४. विश्वान् देवान् काण्डर्षीँस्तर्पयामि
५. सांहितीर्देवता उपनिषदस्तर्पयामि
६. याज्ञिकीर्देवता उपनिषदस्तर्पयामि
७. वारुणीर्देवता उपनिषदस्तर्पयामि
८.ब्रह्माणँ स्वयम्भुवं तर्पयामि (ब्रह्मतीर्थेन)
९. सदसस्पतिं तर्पयामि (देवतीर्थेन)

इति तर्पयित्वा, आचम्य, (शुष्कवस्त्रं धृत्वा द्विराचम्य) गृहान् आगच्छेयुः ।

[[252]]

४. यज्ञोपवीतधारणमन्त्रः = यज्ञोपवीतधारणमन्त्रस्य, ब्रह्मा ऋषिः, त्रिष्टुप् छन्दः त्रयीविद्या देवता ॥ यज्ञोपवीतधारणे विनियोगः ।

५. मौञ्जीधारणमन्त्रः =

६. कृष्णाजिनधारणमन्त्रः =

७. पालाशदण्डधारणमन्त्रः =

[[253]]

श्रोत्रियागारात् अग्निमाहृत्य, आचार्यः अग्निप्रतिष्ठादि (पु. ३१-३३)

ओम् अ॒ग्नये॒ स्वाहा॑ । (अग्नय इदम्),
ओं सोमा॑य॒ स्वाहा॑ । (सोमायेदम्),
ओम् अ॒ग्नये॒ स्वाहा॑ । (अग्नय इदम्),
ओं भूर्भुव॒स्सुव॒स्स्वाहा॑ ॥ (प्रजापतय इदं न मम) [[TODO:परिष्कार्यम्??]]

इति अग्निमुखान्तं कृत्वा, शिष्यैरन्वारब्धः,

१. प्रजापतये काण्डऋषये स्वाहा (प्रजापतये काण्डऋषय इदं न मम) ॥
२. सोमाय काण्डऋषये स्वाहा (सोमाय काण्डऋषय इदम्) ॥
३. अग्नये काण्डऋषये स्वाहा (अग्नये काण्डऋषय इदं न मम) ॥
४. विश्वेभ्यो देवेभ्यः काण्डऋषिभ्यः स्वाहा (विश्वेभ्यो देवेभ्यः काण्डऋषिभ्य इदं न मम) ॥
५. सांहितीभ्यो देवताभ्य उपनिषद्भ्यः स्वाहा (सांहितीभ्यो देवताभ्य उपनिषद्भ्य इदं न मम) ॥
६. याज्ञिकीभ्यो देवताभ्य उपनिषद्भ्यः स्वाहा (याज्ञिकीभ्यो देवताभ्य उपनिषद्भ्य इदं न मम)
७. वारुणीभ्यो देवताभ्य उपनिषद्भ्यः स्वाहा (वारुणीभ्यो देवताभ्य उपनिषद्भ्य इदं न मम)
८. ब्रह्म॑णे स्वय॒म्भुवे॒ स्वाहा॑ (ब्रह्मणे स्वयम्भुव इदं न मम) ॥
९. सद॑स॒स्पति॒मद्भु॑तम्प्रि॒यमिन्द्र॑स्य॒ काम्य॑म् । सनि॑म्मे॒धाम॑यासिषँ॒ स्वाहा॑ ॥ (सदसस्पतय इदं न मम) ॥

इति हुत्वा, “इषे त्वा” इत्यादीन् चतुरोऽनुवाकानेव शिष्यान् अध्याप्य,

[[254]]

हरिः ओ(४)म् ॥

हरिः॑ ओ(३)म् ॥

[[255]]

अनन्वारब्धः जयादिहोमं (पु. ८६-९१) स्विष्टकृदन्तं हुत्वा, प्रणीता विमोक्ष्य, ब्रह्माणं सम्पूज्य, अभ्युदयं, पुण्याहं (पु.२-६) च कुर्यात् ॥

[[256]]


  1. काण्डर्षितर्पणकाले पुनः स्वात्वा आर्द्रवस्त्र एव तत् कुर्यादिति विधिरिति वदन्ति । प्रायिकमनुष्ठानं पुनः अस्नात्वैव । ↩︎