०४ पुण्याहवाचनक्रमः

पुण्याहवाचनक्रमः

सङ्कल्पान्तम्

पादौ प्रक्षाल्य, आचम्य, पवित्रपाणिः
शुद्ध-भूमौ कदल्य्-आदि-दले प्रस्थ-द्वय-मितं तण्डुलं निक्षिप्य,
कुम्भं निधाय,
प्रणव-व्याहृतिभिर् अद्भिः पूरयित्वा,
कूर्च+आम्र-पल्लवादिभिर् अलङ्कृत्य,
प्राणान् आयम्य,

(श्रीगोविन्देत्यादि)
अस्यां शुभतिथौ
श्रीभगवदाज्ञया भगवत्(श्रीमन्नारायण)प्रीत्यर्थं
आत्म-शुद्ध्य्-अर्थं, शरीर-शुद्ध्य्-अर्थं,
कूप-शुद्ध्य्-अर्थं, भाण्ड-शुद्ध्य्-अर्थं, सर्वोपकरण-शुद्ध्य्-अर्थं
शुद्धि-पुण्याहं वाचयिष्ये

इति सङ्कल्प्य

‘पुण्याहे चतुरो ब्राह्मणान् तोषयिष्ये’ इति साक्षत-तीर्थं भूमौ निस्राव्य,
दक्षिण-कर-तलेन कुम्भं समालभ्य,
प्राङ्मुखान् वा ब्राह्मणान् प्रार्थयेत्

प्रारम्भिक-वाचनम्

(प्रार्थनाप्रतिवचने)

  • स्वामिनः! मनस् साधीयताम्
    • समाहित-मनसस् स्मः ॥
  • प्रसीदन्तु भवन्तः ।
    • प्रसन्नास् स्मः ॥
  • ओं भवद्भिर् अनुज्ञातः पुण्याहं वाचयिष्ये
    • वाच्यताम् ॥
  • पुण्याहं भवन्तो ब्रुवन्तु ।
    • पुण्याहम् अस्तु ॥
  • स्वस्ति भवन्तो ब्रुवन्तु ।
    • स्वस्त्य् अस्तु ॥
  • ऋद्धिं भवन्तो ब्रुवन्तु ।
    • ऋध्यताम् ॥

इति॥

जलोत्सर्गः

(अथ प्रतिप्रार्थनं सर्वे सह ‘अस्तु’ इति प्रतिब्रूयुः
प्रति-प्रतिवचनावसानं
सकूर्च-पल्लवैः
कुम्भ-तोयात् किञ्चित् किञ्चिद् एकस्मिन् पात्रे निनयेत्
ओङ्-कार-पूर्वकाणि प्रार्थना-प्रत्युत्तराण्य् एवम् ॥)

[[2]]

(प्रार्थनाप्रतिवचने)

  • ओम् ऋद्धिः ।

    • अस्तु ।
  • ओं समृद्धिः ।

    • अस्तु ॥
  • पुण्याह-समृद्धिर् अस्तु ।

    • अस्तु ॥
  • शिवं कर्मास्तु ।

    • अस्तु ॥
  • प्रजापतिः प्रीयताम् ।

    • अस्तु; प्रीयतां भगवान् प्रजापतिः ॥
  • शान्तिर् अस्तु ।

    • अस्तु ॥
  • पुष्टिर् अस्तु ।

    • अस्तु ॥
  • तुष्टिर् अस्तु ।

    • अस्तु ॥
  • वृद्धिर् अस्तु ।

    • अस्तु ॥
  • अविघ्नम् अस्तु ।

    • अस्तु ॥
  • आयुष्यम् अस्तु ।

    • अस्तु ।
  • आरोग्यम् अस्तु ।

    • अस्तु ॥
  • ‘अरिष्टनिरसनम् अस्तु’ इति ऐशान्यां बहिर्देशे निनयेत् ।

  • ‘यत् पापं तत् प्रतिहतम् अस्तु’ इति आग्नेय्यां निनयेत् ।

(पुनः पात्रे -)

  • सर्व-शोभनम् अस्तु
    • अस्तु ॥
  • सर्वास् सम्पदस् सन्तु
    • सन्तु ॥

वरुणावाहनादि

निनीतम् “ओं शान्तिः॒ शान्तिः॒ शान्तिः॑” इति कुम्भ-तोये निस्राव्य -

[[3]]

१९ इमं मे ...{Loading}...

इ॒मं मे॑ वरुण श्रुधी॒ +++(=श्रुणु)+++
हव॑म्+++(=आह्वानम्)+++ अ॒द्या च॑ मृळय +++(=सुखय)+++।
त्वाम् अ॑व॒स्युर् आ च॑के +++(=अवदन्)+++॥

११ तत्त्वा यामि ...{Loading}...

तत् त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्
तद् आ शा॑स्ते॒ यज॑मानो ह॒विर्भिः॑ ।
अहे॑ळमानो +++(=अक्रुध्यन्)+++ वरुणे॒ह बो॒ध्य् उरु॑शंस॒
मा न॒ आयुः॒ प्र मो॑षीः

इति कुम्भे वरुणम् आवाह्य,
आसनादि-सर्वोपचारैः सम्पूज्य,
चतसृषु दिक्षु आसनेषु निषण्णैश् चतुर्भिर् ब्राह्मणैर् दर्भ-हस्तैः कुम्भम् अन्वारभ्य

अभिमन्त्रणम्

वाचयेत् -

०६ दधिक्राव्णो अकारिषं ...{Loading}...

+++(pegasus-प्रोष्ठपदासु)+++ द॒धि॒-क्राव्णो॑ अकारिषं
जि॒ष्णोर् अश्व॑स्य वा॒जिनः॑ ।
सु॒र॒भि नो॒ मुखा॑ कर॒त्
प्र ण॒ आयूँ॑षि तारिषत्

०१ आपो हि ...{Loading}...

आपो॒ हि ष्ठा म॑यो॒भुव॑स्
ता न॑ ऊ॒र्जे+++(जाः)+++ द॑धातन ।
म॒हे रणा॑य॒+++(=रमणीयाय)+++ चक्ष॑से+++(=दर्शनाय)+++ ॥

०२ यो वः ...{Loading}...

यो वः॑ शि॒वत॑मो॒ रस॑स्
तस्य॑ भाजयते॒ह नः॑ ।
उ॑श॒तीर्+++(=कामयमाना)+++ इ॑व मा॒तरः॑ ॥

०३ तस्मा अरं ...{Loading}...

+++(रसाय)+++ तस्मा॒ अरं॑+++(=शीघ्रम्)+++ गमाम वो
यस्य॒ +++(प्रभावेण)+++ क्षया॑य॒+++(=निवासाय)+++ जिन्व॑थ+++(=प्रीणयथ)+++ ।
आपो॑ +++(प्रजा)+++ ज॒नय॑था च नः ॥

03 हिरण्यवर्णाश् शुचयᳶ ...{Loading}...

हिर॑ण्यवर्णा॒श् शुच॑यᳶ पाव॒का,
यासु॑ जा॒तᳵ क॒श्यपो॒, यास्व् इन्द्रः॑ ।
अ॒ग्निय्ँ या गर्भ॑न् दधि॒रे, विरू॑पा॒स् -
ता न॒ आप॒श् शꣳ स्यो॒ना भ॑वन्तु

08 यासां राजा ...{Loading}...

यासा॒ꣳ॒ राजा॒ वरु॑णो॒ याति॒ मध्ये॑,
सत्यानृ॒ते अ॑व॒पश्य॒ञ् जना॑नाम् ।
म॒धु॒श्-चुत॒श् शुच॑यो॒ याᳶ पा॑व॒कास् -
ता न॒ आप॒श् शꣳ स्यो॒ना भ॑वन्तु

12 यासान् देवा ...{Loading}...

यासा᳚न् दे॒वा दि॒वि कृ॒ण्वन्ति॑ भ॒ख्षय्ँ -
या अ॒न्तरि॑ख्षे बहु॒धा भव॑न्ति
याᳶ पृ॑थि॒वीम् पय॑सो॒न्दन्ति॑ शु॒क्रास् -
ता न॒ आप॒श् शꣳ स्यो॒ना भ॑वन्तु

16 शिवेन मा ...{Loading}...

शि॒वेन॑ मा॒ चख्षु॑षा पश्यतापश् -
शि॒वया॑ त॒नुवोप॑ स्पृशत॒ त्वच॑म् मे ।
सर्वाꣳ॑ अ॒ग्नीꣳर् अ॑फ्सु॒-षदो॑ हुवे वो॒,
मयि॒ वर्चो॒ बल॒म् ओजो॒ नि ध॑त्त

ओं भूर्भुव॒स्सु॒वः॑ ॥

११, शंयुवाकः ...{Loading}...
भास्करोक्त-विनियोगः

1शंयुवाकाय प्रेषितो ब्रवीति - तच्छंयोरित्यादि ॥

विश्वास-प्रस्तुतिः

+++(फलं)+++ तच् छं॒योर् +++(बार्हस्पत्याद्)+++ आवृ॑णीमहे -
+++(देवान् प्रति)+++ गा॒तुं +++(=गमनं [हविषाम्])+++ - य॒ज्ञाय॑,
गा॒तुं+++(=गमनम्)+++ य॒ज्ञप॑तये ।

मूलम्

तच्छ॒य्ँयोरावृ॑णीमहे ।
गा॒तुय्ँ य॒ज्ञाय॑ ।
गा॒तुय्ँ य॒ज्ञप॑तये ।

भट्टभास्कर-टीका

तत् तादृशं प्रशस्तफलं शंयोः बार्हस्पत्य्-आदौ [देः] आवृणीमहे प्रार्थयामहे, किं पुनस्तत्? गातुं गमनं देवान्प्रति यज्ञाय यज्ञस्य, यज्ञपतये यजमानस्य च गातुं देवस्थानं प्रति गमनं वृणीमहे ।

विश्वास-प्रस्तुतिः

दैवी᳚ स्व॒स्तिर॑स्तु नः ।
स्व॒स्तिर् मानु॑षेभ्यः ।

मूलम्

दैवी᳚ स्व॒स्तिर॑स्तु नः ।
स्व॒स्तिर्मानु॑षेभ्यः ।

भट्टभास्कर-टीका

अत्रैवं संपत्स्यमाना नः अस्माकं दैवी स्वस्तिः देवनिमित्तं विघ्नोपशमनमस्माकमस्तु । मानुषेभ्यश्च होतृभ्यः या स्वस्तिः सा चास्माकमस्तु ।

विश्वास-प्रस्तुतिः

ऊ॒र्ध्वञ् जि॑गातु+++(=गच्छतु)+++ भेष॒जम् ।
शन् नो॑ अस्तु द्वि॒पदे᳚ ।
शञ् चतु॑ष्पदे ॥25॥

मूलम्

ऊ॒र्ध्वञ्जि॑गातु भेष॒जम् ।
शन्नो॑ अस्तु द्वि॒पदे᳚ ।
शञ्चतु॑ष्पदे ॥25॥

भट्टभास्कर-टीका

किंच - ऊर्ध्वं जिगातु उद्गच्छतु भेषजं सर्वानिष्टशमनमेतत्कर्म सर्वोच्छ्रितमस्तु । किंच अस्माकं सम्बन्धिने द्विपदे मनुष्यादये चतुष्पदे च गवादये शं सुखं अस्तु । द्विपदोऽन्तोदात्तत्वमुक्तम् ॥

इत्येकादशोऽनुवाकः ॥

‘अस्मात् कुम्भात् वरुणं यथास्थानं प्रतिष्ठापयामि’
इति वरुणं यथास्थानं प्रतिष्ठापयेत् ॥

प्रोक्षणम्

अत्र ब्राह्मणाः
यजमानं सपरिवारं सर्वोपकरणञ् च प्रोक्षयेयुः ॥
प्रोक्षण-मन्त्र-भेदाः
इमे निर्दिष्टाः द्रष्टव्याः ।

“ओं भूर्भुव॒स्सुवः॑” इति सर्वसाधारणः प्रोक्षणमन्त्रः प्रसिद्ध एव ।

गृहप्रोक्षणमन्त्राः

०५५ वास्तोष्पते प्रतिजानीहि ...{Loading}...

०१ वास्तोष्पते प्रति ...{Loading}...

वास्तो॑ष्पते॒ प्रति॑ जानीह्य् अ॒स्मान्त्
स्व्-आ॑वे॒शो+++(=सुगमो)+++ अ॑नमी॒वो+++(=आरोग्यकरः)+++ भ॑वा नः ।
यत् त्वेम॑हे॒ प्रति॒ तन् नो॑ जुषस्व॒
शं न॑ एधि द्वि॒पदे॒ शं चतु॑ष्पदे ।

०३ वास्तोष्पते शग्मया ...{Loading}...

वास्तो॑ष्पते श॒ग्मया॑+++(=सुखया)+++ स॒ꣳ॒सदा॑ ते
सक्षी॒महि॑+++(←सच समवाये)+++ र॒ण्वया॑+++(=रममाणया)+++ गातु॒मत्या॑+++(=गामिन्या)+++) ।
आवः॒ क्षेम॑+++(य्=लब्धस्य रक्षणे)+++ उ॒त योगे॒+++(=अलब्धस्य लाभे)+++ वरं॑ नो
+++(हे विश्वेदेवाः)+++ यू॒यम् पा॑त स्व॒स्तिभिः॒ सदा॑ नः ।

०२ वास्तोष्पते प्रतरणो ...{Loading}...

वास्तो॑ष्पते प्र॒तर॑णो न एधि॒
गोभि॒र् अश्वे॑भिर् इन्दो+++(←इन्दिर् ऐश्वर्यकर्मा/ उदिर्वा क्लेदकर्मा)+++ ।
अ॒जरा॑सस् ते स॒ख्ये स्या॑म
पि॒तेव॑ पु॒त्रान् प्रति॑ नो जुषस्व ।

०३ वास्तोष्पते शग्मया ...{Loading}...

वास्तो॑ष्पते श॒ग्मया॑+++(=सुखया)+++ स॒ꣳ॒सदा॑ ते
सक्षी॒महि॑+++(←सच समवाये)+++ र॒ण्वया॑+++(=रममाणया)+++ गातु॒मत्या॑+++(=गामिन्या)+++) ।
आवः॒ क्षेम॑+++(य्=लब्धस्य रक्षणे)+++ उ॒त योगे॒+++(=अलब्धस्य लाभे)+++ वरं॑ नो
+++(हे विश्वेदेवाः)+++ यू॒यम् पा॑त स्व॒स्तिभिः॒ सदा॑ नः ।

शि॒वँ॒शि॒वम् ॥

पुरुषादिप्रोक्षणमन्त्राः

देवस्य त्वा - तेजोवीर्य-श्रीभ्यः ...{Loading}...
सायणोक्त-विनियोगः

5कल्पः - ‘तस्यां प्राङ्मुखमासीनं प्रत्यङ्मुखस्तिष्ठन्नश्विनोः संपातैरभिषिञ्चति देवस्य त्वा’ इति ।

विश्वास-प्रस्तुतिः

दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒वे ।
अ॒श्विनो᳚र्बा॒हुभ्या᳚म् ।
पू॒ष्णो हस्ता᳚भ्याम् ।
अ॒श्विनो॒र्भैष॑ज्येन ।
तेज॑से ब्रह्मवर्च॒साया॒भिषि॑ञ्चामि ।

मूलम्

दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒वे ।
अ॒श्विनो᳚र्बा॒हुभ्या᳚म् ।
पू॒ष्णो हस्ता᳚भ्याम् ।
अ॒श्विनो॒र्भैष॑ज्येन ।
तेज॑से ब्रह्मवर्च॒साया॒भिषि॑ञ्चामि ।

सायण-टीका

सवितुर्देवस्य प्रेरणे सति अश्विसंबन्धिभ्यां बाहुभ्यां पूषसंबन्धिम्यां हस्ताभ्यां अश्विनोस्सबन्धिना संपातेनौषधरूपेण कान्तिब्रह्मवर्चससिद्ध्यर्थं यजमानं त्वामभिषिञ्चामि ॥

सायणोक्त-विनियोगः

6कल्पः - ‘एवमुत्तरेण मन्त्रेण सारस्वतस्योत्तमेनैन्द्रस्य’ इति। संपातेनाभिषिञ्चतीत्युभयत्रानुवर्तते ।

विश्वास-प्रस्तुतिः

दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒वे ।
अ॒श्विनो᳚र्बा॒हुभ्या᳚म् ।
पू॒ष्णो हस्ता᳚भ्याम् ।
सर॑स्वत्यै॒ भैष॑ज्येन ॥21॥
वी॒र्या॑या॒न्नाद्या॑या॒भिषि॑ञ्चामि ।

मूलम्

दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒वे ।
अ॒श्विनो᳚र्बा॒हुभ्या᳚म् ।
पू॒ष्णो हस्ता᳚भ्याम् ।
सर॑स्वत्यै॒ भैष॑ज्येन ॥21॥
वी॒र्या॑या॒न्नाद्या॑या॒भिषि॑ञ्चामि ।

सायण-टीका

पूर्ववद्व्याख्येयम् ॥

विश्वास-प्रस्तुतिः

दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒वे ।
अ॒श्विनो᳚र्बा॒हुभ्या᳚म् ।
पू॒ष्णो हस्ता᳚भ्याम् ।
इन्द्र॑स्येन्द्रि॒येण॑ ।
श्रि॒यै यश॑से॒ बला॑या॒भिषि॑ञ्चामि ।

मूलम्

दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒वे ।
अ॒श्विनो᳚र्बा॒हुभ्या᳚म् ।
पू॒ष्णो हस्ता᳚भ्याम् ।
इन्द्र॑स्येन्द्रि॒येण॑ ।
श्रि॒यै यश॑से॒ बला॑या॒भिषि॑ञ्चामि ।

सायण-टीका

7पूर्ववद्व्याख्येयम् ॥

दे॒वस्य॑ त्वा - साम्रा᳚ज्येना॒भिषि॑ञ्चामि ...{Loading}...
भास्करोक्त-विनियोगः

8-10अभिषेकमन्त्राः - देवस्येत्यादयः ॥

मूलम् (संयुक्तम्)

दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒वे᳚ऽश्विनो᳚र्बा॒हुभ्या᳚म्पू॒ष्णो हस्ता᳚भ्या॒ꣳ॒ सर॑स्वत्यै वा॒चो य॒न्तुर्य॒न्त्रेणा॒ग्नेस्त्वा॒ साम्रा᳚ज्येना॒भिषि॑ञ्चा॒मीन्द्र॑स्य॒ बृह॒स्पते᳚स्त्वा॒ साम्रा᳚ज्येना॒भिषि॑ञ्चामि ॥ [42]

देवस्य त्वा सवितुः ...{Loading}...
विश्वास-प्रस्तुतिः

दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒वे᳚+++(=अनुज्ञायां)+++, ऽश्विनो᳚र् बा॒हुभ्या᳚म्, पू॒ष्णो हस्ता᳚भ्याम्…

Keith

On the instigation of god Savitr,
with the arms of the Aśvins,
with the hands of Pusan.

मूलम्

दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒वे᳚ऽश्विनो᳚र् बा॒हुभ्या᳚म्, पू॒ष्णो हस्ता᳚भ्यां॒…

भट्टभास्कर-टीका

सवितुस् सर्वप्रेरकस्य देवस्य प्रसवे प्रेरणायां तेनैव प्रेरितोहं

‘थाथघञ्क्ताजबित्रकाणाम्’ (पा.सू. 6.2.144) इति सूत्रेण प्रसवशब्दोन्तोदात्तः । अश्विनोर्बाहुभ्यां नत्वात्मीयाभ्यामिति स्तुतिः । ‘अश्विनौ हि देवानामध्वर्यू आस्ताम्’ (तै.ब्रा. 3.2.4) । तथा पूष्ण एव हस्ताभ्यां पाणितलाभ्याम् । उदात्तनिवृत्तिस्वरेण षष्ठ्या उदात्तत्वम्॥


सावित्रो व्याख्यातः । सवितुर् देवस्यानुज्ञाने अश्विनोर् एव बाहुभ्यां पूष्ण एव हस्ताभ्याम् । न त्व् आत्मीयाभ्यामिति ॥


तत्र सावित्रो व्याख्यातः ।
सवितुर्देवस्य प्रसवे अनुज्ञायां लब्धायामेव
अश्विनोरेव बाहुम्यां नात्मीयाभ्यां
पूष्णो हस्ताभ्यां

विश्वास-प्रस्तुतिः

सर॑स्वत्यै वा॒चो
य॒न्तुर् य॒न्त्रेण अग्नेस् त्वा॒ साम्रा᳚ज्येना॒भिषि॑ञ्चामि ।

Keith

with the bond of Sarasvati, of speech, the binder, I anoint thee with the lordship of Agni,

मूलम्

सर॑स्वत्यै वा॒चो य॒न्तुर्य॒न्त्रेण अग्नेस्त्वा॒ साम्रा᳚ज्येना॒भिषि॑ञ्चामि ।

भट्टभास्कर-टीका

सरस्वत्यै सरस्वत्याः । षष्ठ्यर्थे चतुर्थी ॥ सरस्वत्या वाचस्सम्बन्धिना यन्तुर्यन्त्रेण यन्तुरप्यन्यस्य यन्त्रणेन यमनेन । सामान्येन वा विवक्ष्यते, यन्त्र्याः वाचस्सरस्वत्याः यन्त्रणेन अग्नेश्च साम्राज्येन त्वामभिषिञ्चामि । सङ्गतं राजतीति सम्राट्, ‘मो राजि समः क्वौ’, ‘गुणवचनब्राह्मणादिभ्यः’ इति ष्यञ् ।

विश्वास-प्रस्तुतिः

इन्द्र॑स्य॒ साम्रा᳚ज्येना॒भिषि॑ञ्चामि ॥
बृह॒स्पते᳚स् त्वा॒ साम्रा᳚ज्येना॒भिषि॑ञ्चामि ॥

Keith

with the lordship of Indra, of Brhaspati, I anoint thee.

मूलम्

इन्द्र॑स्य॒ साम्रा᳚ज्येना॒भिषि॑ञ्चामि ॥

बृह॒स्पते᳚स्त्वा॒ साम्रा᳚ज्येना॒भिषि॑ञ्चामि ॥

भट्टभास्कर-टीका

एवं ‘इन्द्रस्य त्वा साम्राज्येन’ ‘बृहस्पतेस्त्वा साम्राज्येन’, इत्येतौ गतौ ॥

इति सप्तमे दशमोनुवाकः ॥

विश्वास-टिप्पनी

दे॒वास्त्वेन्द्र॑ज्येष्ठा॒ वरु॑णराजानो॒ऽधस्ता᳚च्चो॒परि॑ष्टाच्च पान्तु॒ न वा ए॒तेन॑

इत्येतावद् एव निर्दिष्टं सन्देहास्पदम्।

वसवस् त्वा रुद्रैः ...{Loading}...
भास्करोक्त-विनियोगः

8सञ्चितमग्रिं आज्येन प्रोक्षति - वसवस्त्वेत्यादिभिः ॥

मूलम् (संयुक्तम्)

वस॑वस्त्वा रु॒द्रैᳶ पु॒रस्ता᳚त्पान्तु पि॒तर॑स्त्वा य॒मरा॑जानᳶ पि॒तृभि॑र्दख्षिण॒तᳶ पा᳚न्त्वादि॒त्यास्त्वा॒ विश्वै᳚र्दे॒वैᳶ प॒श्चात्पा᳚न्तु द्युता॒नस्त्वा॑ मारु॒तो म॒रुद्भि॑रुत्तर॒तᳶ पा॑तु [40]
दे॒वास्त्वेन्द्र॑ज्येष्ठा॒ वरु॑णराजानो॒ऽधस्ता᳚च्चो॒परि॑ष्टाच्च पान्तु॒

विश्वास-प्रस्तुतिः

वस॑वस् त्वा रु॒द्रैᳶ पु॒रस्ता᳚त् पान्तु।
पि॒तर॑स् त्वा य॒म-रा॑जानᳶ पि॒तृभि॑र् दख्षिण॒तᳶ पा᳚न्तु।
आदि॒त्यास् त्वा॒ विश्वै᳚र् दे॒वैᳶ प॒श्चात् पा᳚न्तु।
द्युता॒नस् त्वा॑ मारु॒तो म॒रुद्भि॑र् उत्तर॒तᳶ पा॑तु।
दे॒वास् त्वेन्द्र॑-ज्येष्ठा॒ वरु॑ण-राजानो॒ ऽधस्ता᳚च् चो॒परि॑ष्टाच् च पान्तु ।

मूलम्

वस॑वस् त्वा रु॒द्रैᳶ पु॒रस्ता᳚त् पान्तु ,
पि॒तर॑स् त्वा य॒मरा॑जानᳶ पि॒तृभि॑र् दख्षिण॒तᳶ पा᳚न्तु + आदि॒त्यास् त्वा॒ विश्वै᳚र्दे॒वैᳶ प॒श्चात् पा᳚न्तु ,
द्युता॒नस् त्वा॑ मारु॒तो म॒रुद्भि॑रुत्तर॒तᳶ पा॑तु ,
दे॒वास् त्वेन्द्र॑ज्येष्ठा॒ वरु॑णराजानो॒ ऽधस्ता᳚च् चो॒परि॑ष्टाच् च पान्तु ।

भट्टभास्कर-टीका

त्वामेवमेतैस्सह पान्त्विति ॥

मूलम् (संयुक्तम्)

न वा ए॒तेन॑ पू॒तो न मेध्यो॒ न प्रोख्षि॑तो॒ यदे॑न॒मत॑ᳶ प्रा॒चीन॑म्प्रो॒ख्षति॒ यथ्सञ्चि॑त॒माज्ये॑न प्रो॒ख्षति॒ तेन॑ पू॒तस्तेन॒ मेध्य॒स्तेन॒ प्रोख्षि॑तः ॥ [41]

न वा ए॒तेन॑ ...{Loading}...
विश्वास-प्रस्तुतिः - ब्राह्मणम्

+++(तत्र ब्राह्मणम् -)+++
न वा ए॒तेन॑ +++(जल-प्रोक्षणेन)+++ पू॒तो +++(अग्निर्)+++, न मेध्यो॒, न प्रोख्षि॑तः।
यद् ए॑न॒म् अत॑ᳶ +++(हविर्-निधानात्)+++ प्रा॒चीन॑म् प्रो॒ख्षति॒
यथ् सञ्चि॑त॒म् आज्ये॑न प्रो॒ख्षति॒
तेन॑ +++(स)+++ पू॒तस् , तेन॒ मेध्य॒स् , तेन॒ प्रोख्षि॑तः ॥ [41]

मूलम्

न वा ए॒तेन॑ पू॒तो, न मेध्यो॒, न प्रोख्षि॑तो॒ , यदे॑न॒मत॑ᳶ प्रा॒चीन॑म् प्रो॒ख्षति॒ यथ्सञ्चि॑त॒माज्ये॑न प्रो॒ख्षति॒
तेन॑ पू॒तस् , तेन॒ मेध्य॒स् , तेन॒ प्रोख्षि॑तः ॥ [41]

भट्टभास्कर-टीका

9न वा एतेनेत्यादि ॥ अत्रैव ब्राह्मणं - नायम् अग्निरेतेन प्रोक्षणेन पूतो नैव पूतः नैव मेध्यः मेधार्हः ।
किं बहुना प्रोक्षित एव न भवति ।
द्वितीय-स्तुत्य्-अर्थं प्रथमस्य निन्दा ।

केनेत्याह - अतः अस्माच् चरु-निधानात् प्राचीनं पूर्वं यदेनं प्रोक्षति ‘सहस्रस्य प्रमा असि’ डति हिरण्यशल्कैः तदकृतसमम् एवैतद्दृष्ट्या भवति ।

तस्माद्
यत् सञ्चितम् इदानीं चरुनिधानानन्तरं
आज्येन प्रोक्षति वसवस्त्वादिभिः एतैर्मन्त्रैः ।
तेनैव पूतत्वादिभाव इति
चरुनिधानस्यैव स्तुतिः;
आज्यप्नोक्षणस्यैव वा ॥

इति पञ्चमे पञ्चमे नवमोनुवाकः ॥