॥ श्रीः ॥
॥ श्रीमते वात्स्यवरददेशिकाय नमः ॥
श्री-वात्स्य-वरद-देशिकानां (नडादूर् अम्मल्) आस्थानम् (रेजि.)
प्रधान-धर्म-कर्ता -
वे श्री-निवास-राघवाचार्यः
[विल्लूर् नहादूर्-आशु-कवि-सार्वभौमः
श्री-निधिः शिरो-मणिः
भारत-राष्ट्र-पति-पुरस्-कृत-पण्डितः]
वहुडूर्
१५/७/१९९६
॥ श्रीमते वात्स्य-वेङ्कट-शेषार्य–महा-देशिकाय नमः ॥
श्री-रङ्ग-नाथ-कृतिना नत-पाद-पद्मौ
श्री-वीर-राघव-सता तद्-अनुक्रमेण ।
श्री-वास-देशिक-विदा वडुवूर्-स्थलस्थौ
श्री-राम–देशिक-वरौ लसतः प्रसन्नौ ॥
१. अवतारिका
लक्ष्मी-पतेः आनन्दमयस्याराधनं हि
पुंसवन-सीमन्तोन्नयनादि यथा-कालं यथा-सूत्रम् अनुष्ठितं सत्
परमां काष्टाम् ऋच्छतीति
परमात्म-विदां प्रपदन-पराणां मतम् इत्य् अवगम्यते ।
तथा च
तत् तस्यैव प्रीतये, तत्-समाराधन-बुद्ध्या
अवश्यम् अनुष्ठेयम् एवेति
श्री-भाष्य–कार–प्रिय-भागिनेय-पौत्रैः श्री-श्रुत-प्रकाशिका-प्रसूति-भूमि-भूतैः
श्री-नडादूर-अम्माल् इति प्रसिद्धैः
श्री-वात्स्य–वर-द–गुरुभिः प्रपन्न-पारिजाताख्य-प्रबन्धे,
नैमित्तिकं चाग्रयणं
सीमन्तोन्नयनादिकम् ।
अग्न्य्-आधानादिकं कार्यम्
अधिकारे सति द्विजैः ॥
(विहित-व्यवस्थान-पद्धतौ)
[[xiii]]
इति सुष्ठु विशदम् उपपादितम् ।
तथा च प्रपन्नैर् अपि सर्वैः
संस्कार-कर्मानुष्ठानं
यथा-कालं यथा-सूत्रं यावच्-छक्ति अनुष्ठेयम् इत्य् अत्र
न कोऽपि संशयः ।
ततश् च तत्-परस्य ग्रन्थस्य
प्रपन्नानां विशिष्य उपजीव्यत्वम् अस्तीति
सम्प्रति घन-पाठि–भाष्य-मणि–श्री-निवास–देशिकाचार्य-कृतिः
अत्यन्तम् अपेक्षिता ॥
२. अस्याः कृतेः इतर-व्यावृत्तत्वम्
कृतिश् चेयम्
इतः पूर्वं प्रकाशिताभ्य एतद्-विषयकृतिभ्यो व्यावृत्ता विजयते ।
वेद-रक्षणाय प्रवृत्तस्य परम-पुरुषस्य कृपया
प्रतिवेदं संहिता-भागस्य पद-पाठः प्राप्त-प्रचारो वर्तते ।
यास्केन महर्षिणा
ऋषयो मन्त्र-दर्शिनः यथा-संहितम् एव मन्त्रान् दृष्टवन्तः
इति निर्णयः कृतः ।
तथाऽपि परम-पुरुषेणैव
परया कृपया
पाश्चात्यैः वेदमन्त्रस्य यथेष्टं पद-च्छेद-करणतः अपार्थ-वर्णन-प्रयत्नो मा भूद्
इति पदपाठः प्रचारम् आनीतः ।
शुक्ल-यजुर्-वेदे ईशा-वास्योपनिषद्
इति प्रसिद्धो भागः
संहितान्तर्गत एव वर्तत इति
तस्या एव उपनिषदः पद-पाठोऽस्ति ।
तत्र उपक्रमे ईशावास्यम् इति श्रूयते ।
तत्रत्यः पद-पाठः ईशा, वास्यम् इति ।
तद् इदम् अवलम्ब्य
मर्यादा-पूजकैः शङ्कर-भगवत्पादैः
“ईशा” इति ईट्-शब्दस्य तृतीया इत्य् अभाषि ।
तथाऽपि अनधीत-पद-पाठैः अभिनिवेश-वशीकृतैः कैश्चित्
ईशा-वास्यम् इति एकं पदम् इति वर्णनं कृत्वा
स्वाभीष्ट-देवता-विशेष-परतया श्रुतेर् अर्थवर्णनं चिकीर्षितम् ।+++(5)+++
तत्र श्री-देशिक-चरणैः स्वकीये ईशावास्योपनिषद्-भाष्ये
अलम् अन्य-रूढि-प्रसङ्ग-रहित–
+अ-समस्त-पदाध्यययनानभिज्ञ–+
अ-श्रोत्रिय-चोद्योपालम्भेन
इति तेषां निग्रह-स्थानं प्रादर्शि ।
कृष्ण-यजुर्-वेदिभिस् तु
विशिष्य प्रयोगे
बहवो मन्त्राः संहितानन्तर्गताः पद-पाठ-वैदेशिका उपयुज्यन्ते ।
समग्रोऽप्य् एकाग्नि-काण्डः पद-पाठ-दवीयान्+++(=दूरस्थः)+++ ।+++(5)+++
अद्यतन-यजमानस्य प्रायशः स्वाध्यायः, अध्ययन-संस्कार-रहितः ।
तस्मात् याजकेन पुरोहितेन
यजमानस्य स्वाध्यायस्य
अध्ययन-संस्कारः प्रयोगि-रीतिश् च
युगपत् तन्त्रेण कार्ये भवतः ।+++(5)+++
ततश् च
पुरोहितेन पद-च्छेदः
बहूनां पद-पाठ-रहितानां मन्त्राणां
कार्यो भवति, उपदेशाय ।+++(5)+++
[[xiv]]
तत्र पद-पाठान्तं वेदम् अधीतवतोऽपि पुरोहितस्य
संहिता-भागतो बहिर् विद्यमानेषु मन्त्रेषु
पद-च्छेदे द्वा-परो+++(=संशयो)+++ महानायाति ।+++(5)+++
का कथा स्तोकम् अधीतवतां वेदे? ।
प्रयोग-काले
तत्र तत्र ईदृश–द्वा-परतः
सदसि कलिर् अपि जायमानो दृश्यते ।
यथा उपरिष्टात् तन्त्रे प्रायश्चित्त-मन्त्रे
“यत्पाकत्रा मनसा…’ इति मन्त्रे
“यत्पाकत्रा” इति वा, उत “यत्पाकत्राः” इति वा पदच्छेद
इति संशयः विदुषाम् अपि सन्धि-ज्ञानवतां पद-पाठाभावात्
“यत्पाकत्राः" इति केचन,
“यत्पाकत्रा” इति केचन च
स्वेच्छानुगुणं पद-च्छेदं कुर्वते ।
आस्ताम् इयं संधि-ज्ञानिनस् सन्देह-कथा ।
कस्मिंश्चिद् विवाहे
“मा त्वं, विकेश्युरः, आवधिष्ठाः” इति मन्त्रे
“आ वधिष्ठाः" इत्यत्र “आव धिष्ठाः"
इति कश्चित् पुरोहितः यजमानं वाचयन्
मयाऽपि सेवितः ।+++(4)+++
+++(“खजा॑पो॒ ऽजोप॑काशिनीः”)+++ फली-करण-होम-मन्त्रे “खजापः, जोपकाशिनीः” इति पदच्छेदं कुर्वन्तोऽपि पुरोहिता वर्तन्ते ।
सत्यम्, उदाहृत-स्थले घन-पाठ्य् अपि पुरोहितः अनधीतभाष्यः स्खलेद् एव ।
इमे च मन्त्राः
अ-लब्धाध्यययन-संस्कारं स्वाध्यायं वहद्भिर् अपि उपयुज्यन्त
इति एतेषाम् एव मन्त्राणां पदच्-छेद-प्रदर्शनं
यथा-भाष्यं यथा-स्वरं कृत्वा
काञ्चन कृतिं निर्माय
तस्याः प्रकाशनं को वा कुर्याद्
इति सापेक्ष आसीत् श्रद्धालु-लोकः ।+++(5)+++
सा चापेक्षा अनयैव कृत्या पूर्यत
इति अस्याः कृतेः व्यावृत्तत्वं महत् ॥
३. अस्यां कृतौ विमृष्टाः केचन सूक्ष्मविषयाः
ईदृश-महिम-शालिन्याम् अस्यां कृतौ
बहवो विषयाः सूक्ष्म-दृष्ट्या विमृष्टाः
तत्र स्थाली-पुलाक-न्यायेन दश लिख्यन्ते ।
१) अग्नौ मन्त्र-पाठ-पूर्वं क्रियमाणो होमः
कदा कार्यः?
मन्त्रोच्चारणारम्भ-समय एव,
उत मन्त्रोच्चारण-मध्ये,
उत तद्-अवसाने,
आहोस्वित् स्वाहा-शब्दोच्चारणानन्तर-क्षणे
इति विमृश्य
स्वाहान्ते जुहुयाद् इति पूर्वैः कृतस्य निर्णयस्य प्रदर्शनम् ॥ (अष्टमे पुटे).
[[xv]]
२) उदक-शान्ति-पाठो बोधायनीयत एव प्राप्तः ।
तत्र ऋताषाड्-अनुवाके द्वा-विंशति-मन्त्रेषु
गन्धर्व-वाचकानां पुल्ँ-लिङ्ग-पदानां संमेलनतः मन्त्रप्राप्तिः
तथा तद्-अप्सरो-वाचकानां पदानां स्त्री-लिङ्गकानां सम्मेलनतः मन्त्रप्राप्तिः या बोधायन-दर्शिता
सा अस्यां कृतौ प्रकटिता ।
तद्-अनुवाकस्थ-मन्त्रैः जयादि-होमे क्रियमाणे
गन्धर्व-होम-मन्त्र एव तद्-अप्सरसां कीर्तनं कृत्वा
“तस्मै स्वाहा” इति गन्धर्वाय होमं कृत्वा,
“ताभ्यः स्वाहा” इति सर्वत्र सर्व-नाम-शब्देनैव अप्सरसो होम
इति कपर्दि-मतानुसारेण पन्थाः सूचितः ॥
(त्रयोदशे पुटे तथा षट्त्रिंशे पुटे
इमौ विषयौ स्तः)
३) उदक-शान्ति-पाठे
हिरण्य-वर्णाः इत्य्-अनुवाक अब्-लिङ्ग-मन्त्र-पाठे विचारं कृत्वा
समग्रस्यानुवाकस्य चरम-मन्त्रोनस्य पाठ एव ऋषीष्ट
इति निर्णयः ॥ (पञ्चदशे पुटे).
४) नान्दीश्-राद्धे गौण-कल्पे च
युग्मस्यैव प्राप्तत्वात् विष्ण्व्-अर्थं विप्र-द्वय-वरणं कृत्वा
दशानां ब्राह्मणानां पूजनं प्राप्तम्
इति प्रदर्शितम् ।
“नान्द्यर्थं नव” इति प्राकृतैः व्यवहारो यः क्रियमाणोऽस्ति
स शुभ-काले युग्म-विधानस्य प्रतीपः
इति न्यरूपि ।+++(5)+++
महान् अतिसूक्ष्मो ऽयं विचारः ।
वेद-पुरुषः प्रायशः
“चत्वार आर्षेयाः प्राश्नन्ति"
इति शुभ-कालेषु युग्म-रसिक एव दृश्यते +++(वेद-पुरुषः)+++।
सूत्र-कारो ऽपि
“युग्मान् मन्त्रवतः" इत्येव सूत्रयति ।
श्री-वैष्णवास् तु
वयम् एकस्मिन् दिव्य-युग्मे रताः
इति नान्दौ स-लक्ष्मीकस्य तस्य भगवतः अवतारं स्मारयन्त्या सङ्ख्यया
विप्राणां वरणं युक्तम् इति
दशस्वपि दिशासु घोषणं कर्तुम् अर्हाः ॥+++(5)+++
(चतुर्विंशः पुटो द्रष्टव्यः)
५) पुण्याह-द्वै-विध्यं निरूपितम् ।
अङ्ग-पुण्याहं शुद्धि-पुण्याहम् इति
पुण्याहं द्वि-विधम् इति ।
तत्र अङ्ग-पुण्याहे प्रोक्षणं न चोदितम्
इत्य् अयं विषयः प्रदर्शितः ।
(अष्टाविंशे पुटे)
६) ऋतु-शान्तिः गर्भाधानम् इति संस्कार-द्वयं वर्तते ।
परं तु ऋतु-शान्तिर् एव गर्भाधानम्
इति विदुषाम् अपि भ्रमो दृश्यते ।
एकाग्नि-काण्डे ऋतु-शान्ति-मन्त्र इति
कस्यापि पार्थक्येन अश्-रवणम्
अस्याः भ्रान्तेर् निदानं स्यात् ।
[[xvi]]
अथवा उदकशान्ति-जपं कृत्वा
शान्ति-शब्द-श्रवण-मात्रतः,
द्रमिड-देशे “शान्ति-कल्याणम्" इति व्यवहारतश् च,
अस्मत् किल श्रोत्र-सुधां विधाय
रम्भा चिरं भाम् अतुलां नलस्य ।
तत्रानुरक्ता तम् अनाप्य भेजे
तन्-नाम-गन्धात् नल-कूबरं सा ॥
(नैषध-चरितम्)
ऋतु-शान्तिं कृतां भावयतां
बोधायनीय-ऋतु-शान्ति-प्रयोगः
अस्मिन् ग्रन्थे “अनुक्तम् अन्यतो ग्राह्यम्” इति रीत्या संयोजितः
धियम् अस्माकं धिनोति ॥ (पञ्चचत्वारिंशः पुटो द्रष्टव्यः) +++(5)+++
७) उपनयने कुमारः आचार्याय
“वरं ते ददामी"ति दक्षिणाम् अर्पयति ।
तत्र आचार्यः सप्त-दश-कृत्वः अपान्य
“देवस्य त्वा सवितुः.. .” इत्य्-आदि-मन्त्र-पाठ-पूर्वं
तां प्रतिगृह्णीयाद्
इति +अस्यां कृतौ प्रदर्शितम् ॥
“उपनयनं श्रौतं च”
इति मतम् अवलम्ब्य
यजुर्-भ्रेष-प्रायश्चित्तानुष्ठानम्
उपनयने सर्वैः क्रियते ।
तुल्य-न्यायेन
श्रौत-कर्मसु दक्षिणा-प्रतिग्रहण-काले जप्यो मन्त्रोऽपि
अतिदेशम् अर्हत्य् एव ।
अन्यथा
“कुक्कुट्या एको भागः प्रसवाय,
इतरः पाकाय”+++(5)+++
इति कथैव स्यात्
इति पश्यद्भिः ग्रन्थकारैः
निरूपितोऽयं विषयः
अतीव प्रशंसार्हः ॥ (पञ्चाशीतितमे पुटे).
८) उपनयनकाले “यस्मिन् भूतं च”
इति मन्त्रपाठं कर्तुम् अनर्हेण आचार्येण
तत्-प्रयोगो न कार्य
इति विमर्शनमपि रस्यम् ॥ (षडशीतितमे पुटे).+++(5)+++
९) समिदाधान-मन्त्रेषु स्वाहान्तेष्व् अपि
उद्देश्य-त्यागानुष्ठानं न क्रियत
इति व्यवस्थायाः प्रदर्शनं कृतम् ॥
(सप्ताशीतितमे पुटे).
१०) विवाहे आग्नेय-स्थाली-पाके
“पत्न्य् अवहन्ति" इत्य् एव सूत्रं वर्तते ।
अवहननम् एव पत्नी-कार्यम् ।
न तु श्रपणादिकम्
इति यद् उक्तं
तद्-आचार-निष्ठानां श्री-वैष्णवानां
प्राचीनाचार-पदवीं स्थापयति ।+++(4)+++
[[xvii]]
प्रायः श्रीवैष्णवार्ह-पञ्च-संस्कार-युक्तः,
वधूस् तु विवाहानन्तरम् एव करिष्यमाण-पञ्च-संस्कारा,
तया श्रपणादिके कृते,
ब्राह्मणस्य स्थालीपाकान्नेन भोजनं
कथं युक्तं भवति
इति चोद्यस्य अनवकाशता स्थापिता ऽनेन
इति पश्यामः ॥ (१५८ तमे पुटे).+++(5)+++
४. कृतिकर्तुः गुणपूर्तिः
ईदृशीं कृतिं रचयितुं
को वा घन-पाठि–भाष्य-मणि–श्री-निवास-देशिकाचार्याद् अन्य ईष्टे ।
अस्य पिता च पितृव्यौ च पितामहश् च
अ-कृत्रिम-गिरां तुङ्ग-रङ्ग-भूता आसन् ।+++(5)+++
अस्मत्-तात-पादेषु आचार्य-बुद्धिम् ऊढवतां तेषां
कुल-प्रदीपो ऽयम् ।
नाना-सभा-संमानितो ऽसौ
प्रभूत-धनवताम् आढ्यानां
तथा अस्मादृशाम् अपि गृहेषु
कुल-क्रमागत-रीत्या पौरोहित्य-धुरम् अपि
भगवति भरद्-वाजे भुक्तिस् तथा शबरी-गृहे;
प्रभुर् अनुसृतो विश्वा-मित्रः, प्लवङ्ग-पतिस् तथा ।
भृगु-पति-तपो लूनं, दृष्टिः खगस्य च दक्षिणा;
जयति ललितोत्तुङ्गा वृत्तिर् दशास्य-रिपोर् इति ॥
+++(- सङ्कल्प-सूर्योदयः)+++
इति श्री-रघु-नन्दनस्य स्वेष्ट-दैवतस्य वृत्तिम् अनुसृत्य
शुभेन मनसा वहन् चकास्ति ।
विद्याऽस्य महती, विनयो महत्तरः ।+++(5)+++
वैदिककर्मसु पाटव-लाघवादि
अन्यादृशम् ॥
५. अस्मद्-आशासनम्
एतादृशस्य अस्य
उपशतं माणवकेभ्यः दत्त-वेद-वित्तस्य कृते
वयं तत्-सम-कालवर्तिनः सर्वे अधम-र्णा
इत्य्-अत्र यथा न संशयः,
तथा भविष्यति कालेऽपि
आ-चन्द्र-सूर्यम् अदः पुस्तकस्य उपयोक्तारो ये ये भविष्यन्ति
ते ऽप्य् अधम-र्णा एवेत्य् अत्रापि
न कोऽपि संशयः ।
[[xviii]]
इमां कृतिं कॢप्तवतो ऽस्य कृतिनः,
अस्मद्-गृहे नृत्तं तन्वानः भगवान्
श्री-सुवर्ण-लक्ष्मी-धर–नवनीत-नट-स्वामी,
तथा यस्य च्छायायां
शैशवे सम्प्रति दशमि-दशायाम् अपि वयं वर्तामहे
स भगवान् श्री-सीता-पतिः,
तयोर् उभयोर् अपि सेवायै
भवनं परिकल्प्य
अर्चा-मूर्ति-धरास् सन्तो विराजमानाः
श्री-भाष्य-कार–प्रिय-भागिनेयानां,
तत्-प्रत्त–तच्–छ्री-भाष्य-सिंहासनानां वात्स्य-वरद-विष्णु-मिश्राणां पौत्राः,
शारीरक-प्रवचन-मयाः,
श्री-श्रुत-प्रकाशिका-प्रसूति-भूताः,
श्री-वेदान्त-देशिकं बालं “स्याद् असाव् +++(आचार्य)+++” इति कटाक्षतः संवर्धितवन्तः,
श्री-नडादूर्-अम्माळ्–वात्स्य-वरद-गुरवश् च
आयुर्-आरोग्यम् ऐश्वर्यम् इत्य्-आदि सर्वं दद्यासुः,
अयम् अपि कृती कृतीर् एतादृशीः बह्वीर् विरचयतु,
वेद-मार्ग-परिपालनं तनोतु
इति च आशस्महे ॥
पुराण-वाणी-निलयः
पुराण-पुरुषे रतः ।
पुराण-वीथी-नैपथ्यं
पुण्य-कृन् नः पुरोहितः ॥
वीर-वल्लि-कुलोत्तंस-
वीर-राघव-सम्भवः।
विजयी भातु विश्वायां
विद्वान् श्री-वास-देशिकः ॥
इति
श्रीनिधिः