यज्ञेश्वरो हव्य-समस्त-कव्य- भोक्ता ऽव्ययात्मा हरिर् ईश्वरो ऽत्र । तत्-सन्निधानाद् अपयान्तु सद्यो रक्षांस्य् अशेषाण्य् असुराश् च सर्वे ॥ एको विष्णुर् महद्-भूतं पृथक् भूतान्य् अनेकशः । त्रीन् लोकान् व्याप्य भूतात्मा भुङ्क्ते विश्व-भुग् अव्ययः ॥