०५ एकादशाहः

एकादशेऽहनि कर्ता स्नात्वा, ऊर्ध्वपुण्ड्रादिकं धृत्वा पितुः प्राणानायम्य, सङ्कल्प्य,

अस्यां तिथौ गोत्रस्य शर्मणः प्रेतस्य अद्य एकादशेऽहनि सर्वोपकरणशुद्ध्यर्थं शुद्धिपुण्याहं वाचयिष्ये,

[[67]]

पुण्याहं कृत्वा, पुण्याहजलेन गृहं प्रोक्ष्य, वस्त्राणि शोधनार्थं रजकाय दत्वा प्रातःकाल एव वृषोत्सर्जनं कुर्यात् ।

लोहितो यस्तु वर्णेन मुखे पृष्ठे च पाण्डरः ।
श्वेतः खुरविषाणाभ्यां स वृषो नील उच्यते ॥

इत्युक्तलक्षणं वा, सर्वं कृष्णवर्णं वा यथासम्भवं वृषभमुत्सृजेत् । प्राणानायम्य, प्राचीनावीती

अस्यां तिथौ गोत्रस्य शर्मणः पितुः प्रेतस्य अद्य एकादशेऽहनि नवश्राद्धं करिष्ये, नवश्राद्धमिदमामं सोपस्करं सव्यञ्जनं सदक्षिणाकं सताम्बूलं तुभ्यमहं सम्प्रददे न मम

इति दत्वा,

वृषोत्सर्जनम्

उपवीती प्राणानायम्य, प्राचीनावीती

अस्यां तिथौ … गोत्रस्य … शर्मणः पितुः प्रेतस्य अद्य एकादशेऽहनि पापक्षयार्थं प्रेतत्वविमोचनार्थं वृषोत्सर्जनं करिष्ये

इति सङ्कल्प्य वृषं स्नाप्य, अलङ्कृत्य, यो यद्देवताभक्तिमान् तच्चिह्नं दक्षिणपादमूले अग्नितप्तेनायसेन विलिख्य, “पिशङ्गरूपस्तन्नस्तुरीपम्” इति द्वौ मन्त्रौ क्रमेण दक्षिणवामयोः कर्णयोः दक्षिणे कर्णे वा जपित्वा,

पिशङ्गरूपस्सुभरो वयोधाश्श्रुष्टी वीरो जायते देवकामः ।
प्रजां त्वष्टा विष्यतु नाभिमस्मे अथा देवानामप्येतु पाथः ।
तन्नस्तुरीपमध पोषयित्नु देव त्वष्टर्विरराणस्य स्व ।
यतो वीरः कर्मण्यः सुदक्षो युक्तग्रावा जायते देवकामः ।

“ऋचां प्राचीमि"त्यनुवाकेन तिलमिश्रजलं पाययित्वा ।

[[68]]

ऋचां प्राची महतो दिगुच्यते । दक्षिणामाहुर्यजुषामपाराम् । अथर्वणामङ्गिरसां प्रतीची । साम्नामुदीची महती दिगुच्यते । ऋग्भिः पूर्वाह्णे दिवि देव ईयते । यजुर्वेदे तिष्ठति मध्ये अह्नः । सामवेदेनास्तमये महीयते । वेदैरशून्यस्त्रिभिरेति सूर्यः । ऋग्भ्यो जाताँ सर्वशो मूर्तिमाहुः । सर्वा गतिर्याजुषी हैव शश्वत् । सर्वन्तेजस्सामरूप्यँ ह शश्वत् । सर्वँ हेद ब्रह्मणा हैव सृष्टम् । ऋग्भ्यो जातं वैश्यं वर्णमाहुः । यजुर्वेदं क्षत्रियस्याहुर्योनिम् । सामवेदो ब्राह्मणानां प्रसूतिः । पूर्वे पूर्वभ्यो वच एतदूचुः । आदर्शमग्निञ्चिन्वानाः । पूर्वे विश्वसृजोऽमृताः । शतं वर्षसहस्राणि । दीक्षितास्सत्रमासत । तप आसीदगृहपतिः । ब्रह्म ब्रह्माभवत्स्वयम् । सत्यँ ह होतैषामासीत् । यद्विश्वसृज आसत । अमृतमेभ्य उदगायत् । सहस्रं परिवत्सरान् । भूतँ ह प्रस्तोतैषामासीत भविष्यत्प्रति चाहरत् । प्राणो अध्वर्युरभवत् । इदं सर्वे सिषासताम् । अपानो विद्वानावृतः । प्रति प्रातिष्ठदध्वरे । आर्तवा उपगातारः । सदस्या ऋतवोऽभवन् । अर्धमासाश्च मासाश्च । चमसाध्वर्यवोऽभवन् । अशँसद्ब्रह्मणस्तेजः । अच्छावाकोऽभवद्यशः । ऋतमेषां प्रशास्ताऽऽसीत् । यद्विश्वसृज आसत । ऊर्ग्राजानमुदवहत् । ध्रुवगोपस्सहोऽभवत् । ओजोऽभ्यष्टौद्ग्रावण्णः । यद्विश्वसृज आसत । अपचितिः प्रोत्रीयामयजत् । नेष्ट्रीयामयजत्त्विषि । आग्नीध्राद्विदुषो सत्यम् । श्रद्धा हैवायजत्स्वयम् ।

[[69]]

इरापत्नी विश्वसृजाम् । आकूतिरपिनडुवि । इध्मँ ह क्षु[[??]]उग्रे । तृष्णा चाबहतामुभे[[??]] । वागेषाँ सुब्रह्मण्यासीत् । छन्दोयोगान् विजानती । कल्पतन्त्राणि तन्वानाहः । सँस्थाश्च सर्वशः । अहोरात्रे पशुपाल्यौ । मुहूर्ताः प्रेष्या अभवन् । मृत्युस्तदभवद्धोता । शभितोग्रो विशां पतिः । विश्वसृजः प्रथमास्सवमासत[[??]] । सहस्रसमं प्रसुतेन यन्तः । ततो ह जज्ञे भुवनस्य गोपाः । हिरण्मयश्शकुनिर्बह्म नाम । येन सूर्यस्तपति तेजसेद्धः । पिता पुत्रेण पितृमान् योनियोनौ । नावेदविन्मनुते तं बृहन्तम् । सर्वानुभुमात्मानं सम्पराये । एष नित्यो महिमा ब्राह्मणस्य । न कर्मणा वर्धते नो कनीयान् । तस्यैवात्मा पदवित्तं विदित्वा । न कर्मणा लिप्यते पापकेन । पञ्च पञ्चाशतस्त्रिवृतस्संवत्सराः । पञ्च पञ्चाशतः पञ्चशताः । पञ्चपञ्चाशतस्सप्तदशाः । पञ्च पञ्चाशत एकविँशाः । विश्वसृजाँ सहस्रसंवत्सरम् । एतेन वै विश्वसृज इदं विश्वमसृजन्त यद्विश्वमसृजन्त । तस्माद्विश्वसृजः । विश्वमेनाननु प्रजायते ब्रह्मणस्सायुज्यँ सलोकताय्ँयन्ति । एतासामेव देवतानाँ सायुज्यम् । सार्ष्टिताँ समानलोकताय्यँन्ति । य एतदुपयन्ति । ये चैनत्प्राहुः येभ्यश्चैनत्प्राहुः, इति पाययित्वा । एतं युवानमित्यनुवाकेन वृषभमुत्सृजेत् ॥

एतं युवानं परिवो ददामि तेन क्रोडन्तीश्चरत प्रियेण । मानश्शाप्त जनुषा सुभागा रायस्पोषेण समिषा मदेम नमो महिम्न उत चक्षुषे ते मरुतां पितस्तदहं गृणामि ।

[[70]]

अनुमन्यस्व सुयजा यजाम जुष्टं देवानामिदमस्तु हव्यम् । देवानामेष उपनाह आसीदपाङ्गर्भ ओषधीषु व्यक्तः । सोमस्य द्रप्समवृणीत पूषा बृहन्नद्रिरभवत्तदेषाम् । पिता वत्सानां पतिरघ्नियानामथो पिता महताङ्गर्गराणाम् । वत्सो जरायु प्रतिधुक् पोयूष आमिक्षा मस्तु घृतमस्य रेतः । त्वां गावोऽवृणत राज्याय त्वाँ हवन्त मरुतस्स्वर्काः । वर्ष्मन् क्षत्रस्य ककुभि शिशिरयाणस्ततो न उग्रो विभजा वसूनि । व्युद्धेन[[??]] वा एष पशुना यजते यस्यैतानि न क्रियन्त एष ह त्वै समृद्धेन यजते यस्यैतानि कियन्ते

इत्यनुवाकेनाभिमन्त्र्य तं गोषु विसृज्य, एकोद्दिष्टविधानेन यथाशक्ति ब्राह्मणान् भोजयेत् । वृषोत्सर्जनाशक्तौ एकादशब्राह्मणभोजनं तदशक्तौ तावत्पर्याप्तमामं वा हिरण्यं वा ब्राह्मणाय दद्यात् । द्विवर्षाधिकं एकवर्षं वा वृषभमुत्सृजेत् ।

एकोद्दिष्टहोमविधिः

एकादशेऽहनि द्रव्यस्य ब्राह्मणस्य वा अलाभे हविरर्पणं कृत्वा, अभिघार्य, उद्वास्य पुनरभिघार्य, प्राचीनावीती

अशेषे हे परिषत् ...{Loading}...

स्वामिनः!
अशेषे हे परिषत्
भवत्-पादमूले मया समर्पिताम् इमां सौवर्णीं यत्-किञ्चिद्-दक्षिणां
यथोक्तदक्षिणामिव स्वीकृत्य

गोत्रस्य शर्मणः प्रेतस्य अद्य एकादशेऽहनि, अग्नावेकोद्दिष्टश्राद्धं कर्तुं योग्यतासिद्धिमनुगृहाण ।

उपवीती, प्राणानायम्य प्राचीनावीती, सङ्कल्प्य,

गोत्रस्य शर्मणः प्रेतस्य अद्य एकादशेऽहनि अग्नावेकोद्दिष्टश्राद्धं करिष्ये

इति सङ्कल्प्य,

[[71]]

लौकिकाग्निं प्रतिष्ठाप्य, परिस्तीर्य, परिषिच्य, अग्नेर्दक्षिणतः हविरानीय, प्रतिष्ठितमभिघार्य, घृतपायसेन,

यमाय सोमँ सुनुत यमाय जुहुता हविः ।
यमँ ह यज्ञो गच्छत्यग्निदूतो अरङ्कृतस्स्वाहा । यमायेदम् ।

इति द्वात्रिंशदाहुतीर्वा, “उदीरतामवर” इत्यष्टाभिः ऋग्भिः चतुर्वारं वा हुत्वा पुनः परिषिच्य, हुतशेषेण पिण्डं कृत्वा, उपवीती प्राणानायम्य, प्राचीनावीती,

गोत्रस्य शर्मणः प्रेतस्य क्षुदुपशमनार्थं पिण्डप्रदानं करिष्ये

इति सङ्कल्प्य दक्षिणाग्रान् दर्भान् संस्तीर्य, तेषु मार्जयताम् इति तिलोदकमुत्सृज्य, “गोत्राय शर्मणे प्रेताय, एतं पिण्डं ददामि” इति दत्वा, पुनस्तिलोदकं दत्वा, उत्थाय “गोत्र शर्मन् पितः प्रेत एतं पिण्डम् उपतिष्ठ” इत्युपस्थाय, पात्रसंक्षालनोदकेन पिण्डं त्रिरप्रदक्षिणं परिषिच्य, पिण्डम् अप्सु प्रक्षिपेत् । एवं प्रतिदिनम् एकैकं पिण्डं दत्वा द्वादशदिने त्रयोदशदिने, सप्तविंशतिदिने वा सपिण्डीकरणात्पूर्वम् एकोद्दिष्टं कुर्यात् ।

एकोद्दिष्टम्

एकोद्दिष्टस्य तस्मिन्नेव दिने ब्राह्मणनिमन्त्रणम् । अन्यश्राद्धस्य पूर्वोद्युः । एकादशाहे मध्याह्ने प्राचीनावीती -

अमुकगोत्रस्य अमुकशर्मणः प्रेतस्य अद्य एकादशे अहनि, एकोद्दिष्ट-श्राद्धं कर्तुं योग्यतासिद्धिमनुगृहाण ।

तैरनुज्ञातः । उपवीती प्राणानाम्य,

[[72]]

प्राचीनावीती,

श्रीगोविन्देत्यादिप्रीत्यर्थं गोत्रस्य शर्मणः प्रेतस्य अद्य मासिकैकोद्दिष्टश्राद्धं करिष्ये

इति सङ्कल्प्य, प्रत्यङ्मुखस्य विप्रस्य हस्ते जलं दत्वा, “अमुकगोत्रस्य अमुकशर्मणः प्रेतस्य इदम् आसनम्” इत्यासनं दत्वा, पुनर्जलं दत्वा, एकोद्दिष्टश्राद्धे प्रेतार्थे भवता क्षणः कर्तव्य इति हस्ते दर्भान् दत्वा, “ओं तथे"त्युक्ते “प्राप्नोतु भवान्” इत्यामन्त्र्य, “प्राप्नुवानि” इति प्रत्युक्ते आयसव्यातिरिक्तेन शङ्कुना, गजपादप्रमाणं वृत्तं कुण्डं खात्वा, गोमयेन उपलिप्य

अमुकगोत्रस्य अमुकशर्मणः प्रेतस्य एकोद्दिष्टश्राद्धे प्रेतस्य पाद्यस्थाने इदमासनम्

इति कुण्डे दर्भान्निधाय, “इदम् अर्चनम्” इति तिलैः अभ्यर्च्य,

गोत्रस्य शर्मणः प्रेतस्य अद्य एकादशेऽहनि आद्यमासिकैकोद्दिष्टश्राद्धे गोत्राय शर्मणे प्रेताय, इदं ते पाद्यम्

इति पादयोः पाद्यं दत्वा, आजान्वाजङ्घं वा पादद्वयं प्रक्षाल्य स्वस्य च पादौ प्रक्षाल्य, आचम्य, आचान्तम् आसन उपवेश्य

गोत्रस्य शर्मणः प्रेतस्य एकादशेऽहनि एकोद्दिष्टश्राद्धे गोत्राय शमणे प्रेताय अन्तश्शुद्ध्यर्थम् अयन्ते कृसर

इति कृसरं, आस्यशुद्ध्यर्थम् “इदं ते ताम्बूलम्” इति ताम्बूलं च दत्वा, शरीरशुद्ध्यर्थम् “इदं ते अभ्यञ्जनम्” इति तैलेनाभ्यज्य, स्नापयित्वा स्नात्वा, लौकिकग्निं प्रतिष्ठाप्य दक्षिणाप्रागग्रैः दर्भैः प्रागाद्यप्रदक्षिणं परिस्तीर्य, उत्तरानुत्तरान् दक्षिणानधरान् कृत्वा, अग्नेर्दक्षिणतो दर्भान् संस्तीर्य, तेष्वौदुम्बरं मेक्षणम् औदुम्बरीं दर्वीम् आज्यस्थालीं प्रोक्षणीपात्रं पुनर्दर्वीं

[[73]]

सपवित्रम् अर्घ्यपात्रं हविःपात्रं हविष्यपात्रं तिलान् सिकतान् मधु गन्ध पुष्पाणि च एकैकशः सादयित्वा, एकेन पवित्रेण प्रोक्षणी उत्पूय उत्तानानि पात्राणि प्रोक्ष्य आज्यसंस्कारे हविषा सह त्रिः पर्यग्नि कृत्वा दर्व्यौ संस्कृत्य पवित्रान्तर्हिते अर्घ्यपात्रे

आ म आगच्छतु प्रेतो देवयानान् समुद्रान् सलिलान् सवर्णान् अस्मिन् यज्ञे सर्वकामान् लभन्तेक्षय्यमाणमुपदुह्यतामिमाम् । गोत्राय शर्मणे प्रेताय वो गृह्णामि

इत्यर्घ्यं गृह्णीयात् । “प्रेता देवयानान् प्रेतायै वो गृह्णामि” इति स्त्रिया अर्घ्यं गृहीत्वा, पवित्रमुद्धृत्य,

तिलोऽसि सोमदेवत्यो गोसवो देवनिर्मितः ।
प्रत्नवद्भिः प्रत्न एहि प्रेतमिमान् लोकान् प्रीणया हि नः

इत्यर्घ्ये तिलान् निक्षिपेत् । “प्रेतामिमां लोकान्” इति स्त्रियाः । पवित्रं निधाय ।

मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः । माध्वीर्नस्सन्त्वोषधीः मधु । मधु नक्तमुतोषसि मधुवत्पार्थिवँ रजः । मधु द्यौरस्तु नः पिता । मधु मधुमान् नो वनस्पतिर्मधुमाँ अस्तु सूर्यः । माध्वीर्गावो भवन्तु नः । मधु ।

इति प्रत्यृचं मधु गुडं वा प्रक्षिप्य, “सोमस्य त्विषिरसी"ति सर्वाभिरङ्गुलीभिरभिमृश्य,

सोमस्य त्विषिरसि तवेव मे त्विषिर्भूयादमृतमसि मृत्योर्मा पाहि दिद्योन्मा पाहि, अवेष्टा दन्दशूका निरस्तं नमुचेश्शिरः

इति नैर्ऋत्यां निरस्य अप उपस्पृश्य, “शन्नो देवीः” इत्यर्घ्यम् अभिमन्त्र्य ।

[[74]]

शन्नो देवीरभिष्टय आपो भवन्तु पीतये शंय्योरशिस्रवन्तु[[??]] नः ।

गन्धादिभिः अभ्यर्च्य, दर्भैः दर्व्या च प्रच्छाद्य,

अपहता असुरा रक्षाँसि पिशाचा ये क्षियन्ति पृथिवीमनु । अन्यत्रेतो गच्छन्तु यत्रास्य गतं मनः ।

इति तिलान् सिकतांश्च भुक्तिस्थाने प्रकिरेत् । यत्रास्या गतं मन इति स्त्रियाः ।

उदीर्ताम् अवर उत्पर उन्मध्यमः प्रेत सोम्य । असुं य इयायावृकर्तज्ञः स नोऽवतु प्रेतो हवेषु

इत्यद्भिरवोक्षेत् ।

उदीतविरोत्परोन्मध्यमा प्रेता सोम्या । असुं यो यायवृकर्तज्ञा, सा नोऽवतु प्रेता हवेषु ।

इति स्त्रियाः ।

आयाहि प्रेत सोम्य गम्भीरैः पथिभिः पूर्व्यैः प्रजामस्मभ्यं ददद्रयिञ्च दीर्घायुत्वञ्च शतशारदञ्च । गोत्रं शर्माणं प्रेतम् आवाहयामि

इति दक्षिणामुखस्तिष्ठन् । अग्नेः दक्षिणतः प्रेतमावाह्य “आयाहि प्रेते सोम्या - ददती” इति स्त्रियाः, पूर्ववत् पादप्रक्षालनं कृत्वा, आसने उपवेश्य, हस्ते शुद्धोदकं प्रदाय, पवित्रं हस्ते निधाय

या दिव्या आपः पयसा सम्बभूवुः या अन्तरिक्ष उत पार्थि वीर्याः ।
हिरण्यवर्णा यज्ञियास्ता न आपश्शँस्योना भवन्तु ।
अमुकगोत्राय अमुकशर्मणे प्रेताय इदं ते अर्घ्यम्,

इत्यर्घ्यं दत्वा, पवित्रमादाय अर्घ्यपात्रे निधाय दर्भैः दर्व्या च प्रच्छादयेत् । नोद्धरेत् । पुनः पूरयेत् । दर्व्या आदाय अर्घ्यं दद्यात् । कृत्स्नार्घ्यजले स्कन्ने, शोषणे वा । “आपो हि ष्ठा मयोभुव” इति तिसृभिः “आ म आगच्छन्तु” इति मन्त्रेण च पुनरर्घ्यं गृहीत्वा, तिलप्रक्षेपाद्याच्छादनान्तं कृत्वा,

[[75]]

“ततं म आप” इति जुहुयात् । अथ ब्राह्मणाय वस्त्रोत्तरीयगन्धपुष्पशय्यासनोदकपात्रकांस्यपात्रदीपपात्रादीनि गोभूहिरण्यालङ्कारादीनि यथाशक्ति दत्वा, हस्ते शुद्धोदकं प्रदाय, पवित्रं हस्ते निधाय ।

या दिव्या आपः भवन्तु गोत्रस्य शर्मणः प्रेतस्य अद्य एकादशेऽहनि एकोद्दिष्टश्राद्धे प्रेताय इयं ते दक्षिणातृप्तिः - अस्तु दक्षिणातृप्तिः

इति प्रत्युक्ते, पुनश्शुद्धोदकं दत्वा, अग्निसमीपे दक्षिणाम् उदकुम्भं च निधाय दक्षिणतः प्रतिष्ठितं हविरभिघार्य, समन्तमग्निम् अप्रदक्षिणं परिषिच्य, “अग्नौ करिष्यामि” इत्युक्त्वा “कुरुष्व” इति प्रत्युक्ते दर्व्यामुपस्तीर्य मेक्षणेन हविर्मध्यात् सकृदवदाय अभिघार्य ।

अमुकगोत्राय अमुकशर्मणे प्रेताय यमाय च स्वाहा

इत्यग्नौ दक्षिणार्धे हुत्वा “हविष्यं स्वाहा” इत्युत्तरभस्मनि हुत्वा, मेक्षणम् अग्नौ प्रहृत्य, पूर्ववत् परिषिच्य भस्मनि हुत्वा, मेक्षणमग्नौ प्रहृत्य, पूर्ववत् परिषिच्य, भुक्तिस्थाने

गोत्रस्य शर्मणः प्रेतस्य अद्य एकादशेऽहनि एकोद्दिष्टश्राद्धे निमित्तस्य भोजनस्थाने इदं ते आसनम्, इदं पात्रासनम्, इदमर्चनं,

हुतशेषमन्नं सव्यञ्जनं भुक्तिपात्रे दत्वा,

पृथिवी ते पात्रं द्यौरपिधानं ब्रह्मणस्त्वा मुखे जुहोमि ब्राह्मणस्य त्वा प्राणापानयोर्जुहोम्यक्षितमसि मास्य क्षेष्ठा अमुत्रामुष्मिन् लोके

इति ब्राह्मणस्य हक्षिणाहस्तेनान्नं व्यञ्जनानि स्पर्शयित्वा, तस्य दक्षिणमड्गुष्ठनखप्रदेशम् “इदं विष्णुः” इत्यन्ने निवेश्य, परिषेचयित्वा,

[[76]]

आपोशनं कारयित्वा “प्राणे निविष्टोऽमृतं जुहोमी"ति पञ्चभिर्भुञ्जानान् समीक्ष्य, “ब्रह्मणि म आत्मामृतत्वाये"ति आत्मानं समीक्ष्य, “यथासुखं जुषध्वम्” इत्युक्त्वा, तमूर्ध्वं भुञ्जानं न पश्येत् । भुक्ते द्विजे अपेक्षितं पृष्ट्वा, “सम्पन्नम्” इत्युक्त्वा “अस्तु संपन्नम्” इत्युक्ते “तृप्तोसि"ति इत्युक्त्वा “तृप्तोऽस्मि” इति प्रत्युक्ते, आपोशनं कारयित्वा आचान्ते “स्वदितम्” इत्युक्त्वा “अस्तु स्वदितम्” इति प्रत्युक्ते

या दिव्या आपः पयसा सम्बभूवुः, या अन्तरिक्ष उत पार्थि वीर्याः, हिरण्यवर्णा यज्ञियास्ता न आपश्शँ स्योना भवन्तु । गोत्रस्य शर्मणः - एकोद्दिष्टश्राद्धप्रेतस्य इयं वो भुक्तितृप्तिः

इत्यर्घ्यं दत्वा, “अस्तु भुक्तितृप्तिः” इति प्रत्युक्ते ताम्बूलवस्त्रहिरण्योपानच्छत्रादीनि दक्षिणां च दत्वा, अग्नेः दक्षिणतो दर्भान् संस्तीर्य, तेषु “मार्जयतां मम पिता प्रेत” इत्यपो मार्जयित्वा, “अमुकगोत्राय अमुकशर्मणे प्रेताय एतं पिण्डं ददामि” इति नालिकेरप्रमाणं पिण्डं दत्वा “अमुकगोत्र अमुकशर्मन् प्रेत एतं पिण्डम् उपतिष्ठ” इत्युक्त्वा पात्रसंक्षालनोदकेन पिण्डं त्रिः अप्रदक्षिणं परिषिच्य, पूर्ववत् मार्जयित्वा, अधोमुखानि पात्राणि कृत्वा “तृप्ये"ति त्रिः उक्त्वा, पात्राणि प्रोक्ष्य उत्तानानि कृत्वा, “अक्षय्यम्” इत्युक्त्वा “अस्त्वक्षय्यम्” इति प्रत्युक्ते, अग्निसमीपे स्थापितम् उदकुम्भं दक्षिणां च दत्वा, प्रणम्य “उत्तिष्ठ” इत्युत्थाप्य, अनुव्रज्य, प्रदक्षिणीकृत्य उपचारान् उक्त्वा, तं विसृज्य

[[77]]

भुक्तिशिष्टान्नव्यञ्जनानि पिण्डदर्भहोमपात्राणि च अप्सु प्रक्षिप्य, स्नात्वा गृहं गत्वा, पुण्याहं वाचयेत् ।