०४ दशाहः

अथ दशाहः॥

दशमेऽहनि महती प्रेतस्य क्षुत् भवति । तन्निवृत्त्यर्थं नित्योदकदानादेः पूर्वं प्रभूतबलिं पश्चाद्वा कुर्यात् । कर्ता स्नात्वा ऊर्ध्वपुण्ड्रादिकं धृत्वा, प्राचीनावीती

अशेषे हे परिषत् ...{Loading}...

स्वामिनः!
अशेषे हे परिषत्
भवत्-पादमूले मया समर्पिताम् इमां सौवर्णीं यत्-किञ्चिद्-दक्षिणां
यथोक्तदक्षिणामिव स्वीकृत्य

गोत्रस्य शर्मणः प्रेतस्य दशमेऽहनि महत्क्षुन्निवृत्त्यर्थं प्रभूतबलिप्रदानं कर्तुं योग्यतासिद्धिम् अनुगृहाण

तैः अनुज्ञातः उपवीती, प्राणानायम्य प्राचीनावीती,

श्रीगोविन्देत्यादि अस्यां तिथौ गोत्रस्य शर्मणः प्रेतस्य, दशमेऽहनि महत्क्षुन्निवृत्त्यर्थं प्रभूतबलिप्रदानं करिष्ये,

इति सङ्कल्प्य, पुनः प्राणानायम्य, प्राचीनावीती

गोत्रस्य शर्मणः प्रेतस्य दशमेऽहनि प्रभूतबलिप्रदानकाले तिथिवारनक्षत्रपरिहारार्थं यथाशक्ति हिरण्यरूपेण करिष्ये

इति सङ्कल्प्य

[[62]]

“हिरण्यगर्भ…. प्रयुच्छ मे । इदं हिरण्यं तुभ्यमहं सम्प्रददे न मम” इति दत्वा, कुण्डस्य दक्षिणतः पश्चाद्वा दक्षिणाग्रान् दर्भान् संस्तीर्य प्रभूतबलिप्रदानस्थाने “इदमासनं मार्जयताम्” इति दर्भेषु तिलोदकमुत्सृज्य,

गोत्राय शर्मणे पित्रे प्रेताय, एतं प्रभूतबलिं ददामि
एतानि नाना व्यञ्जनसूपापूपपृथुकफलानि ददामि,
गन्धपुष्पताम्बूलानि ददामि

इति दत्वा, उत्थाय,

गोत्र शर्मन् पितः प्रेत एतं प्रभूतबलिम् उपतिष्ठ एतानि नानाव्यञ्जनसूपापूपपृथुकफलान्युपतिष्ठ गन्धपुष्पताम्बूलान्युपतिष्ठ,

इत्युपस्थाय, “पात्रसंक्षालनतिलोदकेन मार्जयताम्” इत्युत्सृज्य, वायसेभ्यः बलिं दत्वा, प्रभूते तटाके प्रक्षिपेत् ।

पाषाणोत्थापनम्

अथ कर्ता स्नात्वा, उपवीती, प्राणानायम्य, प्राचीनावीती,

अस्यां तिथौ अमुकगोत्रस्य अमुकशर्मणः प्रेतस्य अद्य दशमेऽहनि गृहद्वारे कुण्डे पाषाणोत्थापनं करिष्ये

इति सङ्कल्प्य, उत्थाय

गोत्र शर्मन् पितः प्रेत, अस्मात्पाषाणात् उत्तिष्ठ,

इति पाषाणादुत्थाप्य, वस्त्रेणाच्छाद्य, कुण्डे यवान् प्रक्षिप्य, मृद्भिः कुण्डं पूरयित्वा, तटाकतीरे कुण्डेऽप्येवं कृत्वा पाषाणद्वयं पिण्डवतम् अप्सु प्रक्षिप्य, स्नायात् । ततः कर्ता सर्वाङ्गवपनं कुर्यात् । दशमेऽहनि शुक्रवासरश्चेत् ज्ञातयः पूर्वोद्युः पुत्रास्तु तस्मिन्नेव दिने वापयेयुः ।

[[63]]

प्रतिदिनम् उदकदानं कर्तुम् अशक्ताः ज्ञातयः दर्शमेऽहनि कनिष्ठपूर्वं सर्वाङ्गवपनं कृत्वा पाषाणोद्वासनात्पूर्वं त्रिंशद्वास उदकानि पञ्चसप्ततितिलोदकानि च दद्युः ।

शान्तिहोमः

अथ दशमेऽहनि वपनानन्तरं ग्रामश्मशानयोः मध्ये तत्रासम्भवे यत्र कुत्रापि वृक्षमूले वा उपविशति । यज्ञोपवीती प्राणानायम्य,

श्रीगोविन्देत्यादि - अस्यां शुभतिथौ गोत्रस्य शर्मणः प्रेतस्य दशमेऽहनि अघनिर्हरणार्थं शान्तिहोमं करिष्ये

इति सङ्कल्प्य, लौकिकाग्निं प्रतिष्ठाप्य, प्रागग्नेः दर्भैः प्रागादिक्रमेण प्रदक्षिणं परिस्तीर्य, ततः लोहितं चर्म अनडुहं प्राचीनग्रीवम् उत्तरलोममास्तीर्य, तस्मिन्वेतसमालिनो ज्ञातीनारोपयन्ति ।

आरोहतायुर्जरसं गृणाना अनुपूर्वं यतमाना यतिष्ट । इह त्वष्टा सुजनिमा सुरत्नो दीर्घमायुः करोतु जीवसे वः

इति कनिष्ठपूर्वम् आरोप्य,

यथाहान्यनुपूर्वं भवन्ति यथतव[[??]] ऋतुभिर्यन्ति क्लृप्ताः यथा न पूर्वमपरो जहात्येवाधातरायूँषि कल्पयैषाम् ।

इति तान् ज्येष्ठक्रमान् कल्पयित्वा, पात्रप्रयोगादि आज्यं वारणदर्व्यौ च च प्रतिलोमं संस्कृत्य, तूष्णीं समन्तं प्रदक्षिणम् अग्निं परिषिच्य, “न हि ते अग्ने”, “अपनश्शोशुचदघ"मिति द्वाभ्यां चतुर्गृहीतं दर्व्या मूलेन हुत्वा ।

न हि ते अग्ने तनुवं क्रूर चकार मर्त्यः । कपि बभस्ति तेजनं पुनर्जरायु गौरिव स्वाहा । अग्नये शुचय इदम् । अत्र प्रतिस्वाहाकारं कस्मिंश्चित्पात्रे हुतशेषमाज्यं निनीय ।

[[64]]

अपनश्शोशुचदघमग्ने शुशुध्या रयिम् । अपनश्शोशुचदघं स्वाहा । अग्नये शुचय इदम् । सुक्षेत्रिया सुगातु या वसूया च यजामहे । अपनश्शोशुचदघं स्वाहा । अग्नये शुचय इदम् । प्रयद्भन्दिष्ठ एषां प्रास्माकासश्च सूरयः । अपनश्शोशुचदघं स्वाहा । अग्नये शुचय इदम् । प्रयदग्नेस्सहस्वतो विश्वतो यन्ति सूरयः । अपनश्शोशुचदघं स्वाहा । अग्नये शुचय इदम् । प्रयत्ते अग्ने सूरयो जायेमहि प्रते वयम् । अपनश्शोशुचदघं स्वाहा । अग्नये शुचय इदम् । त्वँ हि विश्वतोमुख विश्वत परिभूरसि । अपनश्शोशुचदघं स्वाहा । अग्नये शुचय इदम् । द्विषां नो विश्वतोमुखातिनावेव पारय । अपनश्शोशुचदघं स्वाहा । अग्नये शुचय इदम् । सनस्सिन्धुमिव नावयातिपर्षा स्वस्तये । अपनश्शोशुचदघं स्वाहा । अग्नये शुचय इदम् । आपः प्रवणादिवयतीरपास्मत्स्यन्दतामघम् । अपनश्शोशुचदघं स्वाहा । अग्नये शुचय इदम् । उद्वनादुदकानीवापास्मत्स्यन्दतामघम् । अपनश्शोशुचदघं स्वाहा । अग्नये शुचय इदम् । दर्व्यौ प्रहृत्य, पूर्ववदग्निं परिषिच्य, अग्नेरुत्तरतः लोहितम् अनड्वाहं प्राङ्मुखमवस्थापयेत् । तं ज्ञातयः अनड्वाहमन्वारभामहे स्वस्तये । स न इन्द्र इव देवेभ्यो वह्निस्सपारणो भव ।

इति कनिष्ठपूर्वम् अन्वारभ्य, “इमे जीवा” इत्यनडुहा सह प्राचीं दिशं गच्छेयुः ।

इमे जीवा विमृतैराववर्तिन्नभूद्भद्रा देववीतिन्नो अद्य ।

[[65]]

प्राञ्जोगामानृतये हसाय द्राघीयम् आयुः प्रतरां दधानाः । पश्चाद्गच्छन् कर्ता वेतसशाखा वे (मे) कां च सह गृहीत्वा, ताभ्याम् अनडुत्पदानि मृत्योः पदमिति मार्जयन् । मृत्योः पदं योपयन्तो यदैम द्राघीय आयुः प्रतरां दधानाः । आप्यायमानाः प्रजया धनेन शुद्धा पूता भवथ यज्ञियासः ।

गत्वा ज्ञातीन् प्रस्नाप्य जीवतां मृतानामन्तरं भवेदिति मनसा ध्यात्वा, ज्ञातिभ्यो दक्षिणतः इमं जीवेभ्य इति अश्मानं स्थापयित्वा,

इमं जीवेभ्यः परिधिं दधामि मा नो नुगादपरो अर्धमेतम् ।
शतं जीवन्तु शरदः पुरूचीः तिरो मृत्युं दध्महे पर्वतेन ।
पात्रस्थं सम्पाताज्यं ज्ञातिस्त्रोणामञ्जलीषु, इमा नारीरविधवास्सुपत्नीः आञ्जनेन सर्पिषा संमृशन्ताम् ।
अनश्रवो अनमीवास्सुशेवा आरोहन्तु जनयो योनिमग्रे

इति निनयेत् । तास्तेन मुखे विमृज्य यदाञ्जनमिति धृत्वा,

यदाञ्जनं त्रैककुदं जातँ हिमवतस्परि । तेनामृतस्य मूले नारातीर्जम्भयामसि । यथा त्वमुद्भिनत्सि,

इति पृथिव्यामोषधीस्तम्बं प्रतिष्ठाप्य,

यथा त्वमुद्भिनत्स्योषधे पृथिव्या अधि । एवमिमम् उद्भिन्दतु कीर्त्या यशसा ब्रह्मवर्चसेन ।

दीपहस्तास्स्त्रीः अग्रतो गृहं प्रस्थापयेत् ।

आनन्दहोमः

तत तत्र वा गृहोत्तरपूर्वदेशे वा आनन्दहोमं करोति । प्राणानायम्य “अस्यां शुभतिथौ आनन्दावाप्त्यर्थम् आतन्दहोमं करिष्य” इति सङ्कल्प्य, अग्निप्रतिष्ठादिपरिषेचनान्तं पूर्ववत्कृत्वा,

[[66]]

आनन्दाय, न वै तत्रति द्वाभ्यां वारणदर्व्याग्रेण चतुर्गृहीतं हुत्वा,

आनन्दाय प्रमोदाय पुनरागाँ स्वान् गृहान् । अपनश्शोशुचदघं स्वाहा । अग्नये आनन्दायेदम् । न वै तत्र प्रमीयते गौरश्वः पुरुषः पशुः । यत्रेदं ब्रह्म कियते परिधिर्जीवनायकमपनश्शोशुचदघं स्वाहा । अग्नये आनन्दायेदम् ।

प्राणानायम्य

श्रीभगवदाज्ञया प्रीत्यर्थम् आनन्दहोमकर्मणि मध्ये संभावितमन्त्रतन्त्रस्वरवर्णविधिविपर्यासन्यूनातिरिक्तप्रायश्चित्तार्थं सर्वप्रायश्चित्तहोमं होष्यामि

इति सङ्कल्प्य

ओं भूर्भुवस्सुवः स्वाहा प्रजापतय इदम् । अनाज्ञातं यथातथं स्वाहा अग्नय इदम् । पुरुष-संमितः-तथं स्वाहा । अग्नय इदम् । यत्पाकत्रा[[??]] मनसा-यजाति स्वाहा अग्नय इदम् । श्रीविष्णवे स्वाहा - श्रीविष्णवे परमात्मन इदम् ।

दर्व्यौ प्रहृत्य, पूर्ववदग्निं परिषिच्य, अग्निम् उपस्थाय गृहं गत्वा, पुण्याहं वाचयित्वा, तेन जलेन गृहादिकं प्रोक्ष्य, यवोदनं व्रीह्योदनं वा ज्ञातिभिस्सह “यवोऽसि यवयास्मदघा द्वेषाँसि” इति भुञ्जीत । ब्राह्मणेभ्यो यथाशक्ति दक्षिणां दद्यात् ।