१४ आम-श्राद्धादि

आमश्राद्धम्

प्रवासे अग्न्य्-अभावे आपत्सु वा
मासिकाब्दिक-दर्श-श्राद्ध-व्यतिरिक्त-श्राद्धं
तीर्थ-श्राद्धं च आमेन कुर्यात् ।

“आमरूपेण श्राद्धं करिष्ये” इति सङ्कल्प्य
वरण–पाद-प्रक्षालन–गन्ध-दानादि कृत्वा
ब्राह्मणानां पुरतः तण्डुल-शाक-दधि-क्षीर-घृतादिकं निधाय
“अनेन आमरूपेण श्राद्धेन भगवान् जनार्दनः प्रीयताम्” इति तिलोदकम् उत्सृज्य
ताम्बूल-दक्षिणां च दद्यात् ।

हिरण्येन

एवमेव हिरण्यश्राद्धं तण्डुलादि-स्थाने हिरण्यं निदध्यात्
अथवा फलैः मूलैर्वा कुर्यात् ।

[[81]]

उदकुम्भेन

अथवा “उदकुम्भ-रूपेण श्राद्धं करिष्ये” इति सङ्कल्प्य
वरणादि कृत्वा
जल-पूर्णान् कुम्भान् सदक्षिणान्
अनूचानेभ्यो दद्यात्

पिण्ड-दानेन

अथवा “पिण्ड-प्रदान-रूपेण करिष्ये” इति सङ्कल्प्य
“मार्जयन्तां मम पितरः” इत्यादिभिः पिण्डप्रदानं कुर्यात्

मन्त्र-रूपेण

अथवा “श्राद्धं मन्त्ररूपेण करिष्ये” इति सङ्कल्प्य
दक्षिणाभिमुखः सव्यं जान्व् आच्य
श्राद्ध-मन्त्रान् अधीयीत ।

तर्पणेन

अथवा “तिल-तर्पण-रूपेण करिष्ये” इति सङ्कल्प्य पित्रादींस् त्पर्पयेत्

उपवासेन

अथवा “उपवास-रूपेण श्राद्धं करिष्ये” इति सङ्कल्प्य उपवसेत्

[[82]]