१३ प्रत्याब्दिक-श्राद्ध-प्रयोगः

पूर्वेद्युः

आब्दिकेषु पार्वण-श्राद्धेषु
पूर्वेद्युः रात्रौ तस्मिन् दिने

निमन्त्रणादि

प्रातश्च ब्राह्मणान् निमन्त्र्य
अभ्यङ्गं कारयित्वा,

अभ्यज्य स्नात्वा, भगवद्-आराधनं कृत्वा,
पक्वापक्वं श्राद्धार्ह-पदार्थ-जातं सर्वं भगवते निवेद्य
औपासनं,
श्राद्धार्थात् अन्येन अन्नेन वैश्व-देव–पञ्च-महा-यज्ञांश् च कृत्वा,
ब्राह्मणेषु आगतेषु आचम्य,
(यत्र यत्र आचमनं पादाव् आजान्व् आजङ्घं वा हस्ताव् आकूर्परं च प्रक्षाल्य आचामेत् ।)

अनुज्ञा

प्राचीनावीती,

समस्त-सम्पत्-समवाप्ति-हेतवः
समुत्थितापत्-कुल-धूम-केतवः ।
अपार-संसार-समुद्र-सेतवः
पुनन्तु मां ब्राह्मण-पाद-पांसवः ॥

विश्वेभ्यो देवेभ्यो नमः
पितृ–पिता-मह–प्रपितामहेभ्यो नमः
विष्णवे नमः,

इति तिलाक्षतैः ब्राह्मणान् अभ्यर्च्य,

[[68]]

उपवीति प्रणम्य, प्राचीनावीती,

स्वामिनः अस्मिन् दिवसे,
अमुक-गोत्रम् अमुक-शर्माणं पितरम् उद्दिश्य,
प्रत्याब्दिक-श्राद्धं कर्तु-कामोऽस्मि,

अयं देशः कालश् च
अस्मिन् गेहे वर्तमानाः पक्वापक्व-पदार्थाश् च
श्राद्धार्हा भूयासुः,
मम च श्राद्ध-करणे अधिकार-सम्पद् अस्तु

इति भवन्तः अनुगृह्णन्तु

इति प्रार्थयेत् ।
ते च “तथास्तु - प्रवर्तय, कुरुष्व, अस्तु पाद्यं, सुगन्धाः” इत्यादि सर्वत्र प्रतिवचनं ब्रूयुः ।

सङ्कल्पः

श्राद्ध-भूमौ गयं ध्यात्वा
ध्यात्वा देवं गदाधरम् ।
वस्व्-आदींश् च पित्रॄन् ध्यात्वा
ततः श्राद्धं प्रवर्तये ॥

इत्य् उक्त्वा
तथैव ध्यात्वा,
प्राङ्-मुख उपविश्य,
“अद्य अस्यां तिथौ” … इत्यन्ते
“अमुक-गोत्रस्य अमुक-शर्मणः प्रत्याब्दिकश्राद्धं करिष्ये” इति सङ्कल्प्य,

होमः

अग्नि-स्थापनादि

अग्निं प्रतिष्ठाप्य
प्राक्तोयं निधाय
दक्षिणा-मुखः सव्यं जान्व् आच्य,
सव्याङ्गुष्ठानामिकाभ्यां भूमिं स्पृष्ट्वा,
“ये पार्थिवासः पितरः” इति जपित्वा,

दक्षिणा-प्राग्-अग्रैः दर्भैः प्राग्-आद्य्-अप्रदक्षिणं परिस्तीर्य,
दक्षिणान् अधरान् उत्तरान् उत्तरान् कृत्वा,

दर्व्यादीनि हविः पात्रम् अ-हविः-पात्रं च एकैकशः सादयित्वा
पात्र-प्रोक्षणादि-परिषेचनान्तं कृत्वा,
उपवीती, आघार-समिधौ आधाय
प्राची-प्राणाद्य्-अ-प्रदक्षिणं+++(=??)+++ परिषिच्य,
इध्मम् आदाय
उपवीती आघारहोमौ हुत्वा,
“अग्नये स्वाहा” इत्य् उत्तरार्ध-पूर्वे, “सोमाय स्वाहा” इति दक्षिण-पूर्वे,
“अग्नये स्वाहा” इति अग्नि-मध्ये हुत्वा,

आवाहनम्

“विश्वेदेवाः शृणुत”, “आगच्छन्तु महाभागाः” इति द्वाभ्याम्
अग्नेः उत्तरतः विश्वान् देवान् आवाह्य,
आसनं दत्वा,
यवोदकम् उत्सिच्य (उत्सृज्य),

[[69]]

प्राचीना-वीती,
“आयान्तु पितरः” इति मन्त्रम् उक्त्वा,
अमुक-गोत्रान् “अमुक-शर्मणः पितॄन् आवाहयामि”,
इति अग्नेः दक्षिणतः दर्भेषु पितॄन् आवाह्य,
“सकृद्-आच्छिन्नम्” इति आसनं दत्वा,
“ऊर्जं वहन्तीः” इति तिलोदकम् उत्सृज्य,

उपवीती, “सहस्रशीर्षा पुरुषः” इत्य्-अग्नेः उत्तरतः दर्भेषु विष्णुम् आवाह्य,
पुरुष एवेदम् इत्य् आसनं दत्वा,
यवोदकम् उत्सृज्य,

प्रधान-होमः

प्राचीनावीती,
“उद्ध्रियताम् अग्नौ च क्रियताम्” इति अनुज्ञाप्य
“कामम् उद्ध्रियतां, कामम् अग्नौ च क्रियतां”, इति तैः प्रत्युक्ते
एकपात्रे हविः, अपरस्मिन् लवणमिश्रं सूपापूप-व्यञ्जनादिकं च आनीय,

अभिघार्य,
दर्व्यां सकृत् उपस्तीर्य,
द्विः अङ्गुष्ठपर्वमात्रं हविः मध्यात् अवदाय,
(पञ्चावत्तिनां त्रिस् त्रिः अवदाय),
सकृत् सकृत् अभिघार्य
“यन्मे माता” इति षड्भिः प्रति-मन्त्रं
दक्षिणतः अग्नौ हुत्वा

पुनः अवदाय, अभिघार्य,
उपवीती,
पात्रस्थं हविः अभिघार्य,
प्राचीनावीती,
“ये चेह पितरो, ये च नेह” इति हुत्वा,

“स्वाहा पितृभ्यः” इत्य्-आदि “पित्र” इत्य्-आदिभिः षड्भिः आज्येन हुत्वा,

उपवीती,
दर्व्याम् उपस्तीर्य,
उत्तरार्धात् आमलक-मात्रं सकृत् अवदाय,
द्विः अभिघार्य,
(पञ्चावत्तिनः द्विर् अवदाय, त्रिः अभिघार्य),
“अग्नये स्विष्टकृते स्वाहा” इति उत्तर-पूर्वे हुत्वा,

प्राचीनावीती,
दर्व्याम् उपस्तीर्य,
अन्य-पात्र-स्थ-सूप-व्यञ्जनादिकं सकृद् अवदाय,
अभिघार्य,
उदीचीनम् उष्णं भस्म अपोह्य,
तस्मिन् हुत्वा,

[[70]]

परिधीन् आज्येन निधान-क्रमेण अभ्यज्य
लेपकार्यं कृत्वा
प्राणानायम्य,

उत्तराङ्गम्

प्राचीनावीती,
पूर्ववत् परिषिच्य,
प्रणीता-मोक्षणं कृत्वा,

दक्षिणतो निषादितं ब्राह्मणं सम्पूज्य,

उपवीती,
“अग्ने नय” इत्यग्निसूक्तेन अग्निम् उपस्थाय

भोजनम्

ब्राह्मण-वरणम्

ब्राह्मणान् वृणुयात् ।

इति प्रयोगदर्पणे पञ्चदशः खण्डः

ब्राह्मणस्य हस्ते अपः प्रदाय,

अमुक-गोत्रस्य अमुक-शर्मणः
प्रत्याब्दिकश्राद्धे विश्वेषां देवानाम् इदम् आसनम्,

इत्य् आसनं, दर्भान् वाम-भागे भूमौ दत्वा,

पुनः अपः प्रदाय,
“विश्वेदेवार्थे भवता क्षणः कर्तव्यः” इति हस्ते +++(प्राग्-आहूतं वैश्वदेवं)+++ दर्भं दत्वा,
“ओं तथा” इत्युक्ते,
“प्राप्नोतु भवान्” इत्युक्त्वा,
“प्राप्नुवानि”, इति प्रत्युक्ते,

प्राचीनावीती,
एवमेव पितॄन्

उपवीती, विष्णुं च वृत्वा,

पाद-प्रक्षालनादि

आसनानि

गृहाङ्गणे, पूर्वदिग्भागे उत्तरावनते,
प्रादेशमात्र-चतुर्-अश्र-गोमयेन उपलिप्ते

विश्वेषां देवानां पाद्य-स्थाने इदम् आसनम्
इति दर्भान् निधाय
“इदम् अर्चनम्” इति +अक्षतैर् अभ्यर्च्य,

तद्-दक्षिणतः षडङ्गुलं विहाय,
तद्-दक्षिणावनते द्वादशाङ्गुलं वर्तुलं गोमयेन उपलिप्ते,
प्राचीनावीती,
“पितृ-पितामह-प्रपितामहानां पाद्य-स्थाने इदम् आसनम्”, इति दर्भान् निधाय,
अक्षतैः अभ्यर्च्य,

उपवीती
“श्राद्ध-संरक्षक–श्री-महा-विष्णोः पाद्य-स्थाने इदम् आसनम्”,
इति चतुर्-अश्र-मण्डले दर्भान् निधाय
अक्षतैः अभ्यर्च्य,

पाद्यानि

गोमय-संयुक्तम् आज्यं विप्र-पादेषु अनुलिप्य,
“विश्वेभ्यो देवेभ्य इदं वः पाद्यम्” इति उत्तर-मण्डले,

[[71]]

अमुक-गोत्रेभ्यः अमुक-शर्मभ्यः पितृपितामहप्रपितामहेभ्यः इदं वः पाद्यम्,

इति दक्षिणमण्डले,

“श्राद्ध-संरक्षक-श्री-महा-विष्णवे इदं ते पाद्यम्” इति उत्तरमण्डले च विप्रपादान् प्रक्षाल्य,

स्वस्य च पादौ प्रक्षाल्य,

मण्डलस्य उत्तरतः आचम्य,
विप्रान् अपि तत्रैव आचमय्य,

भुक्ति-स्थानम्

“अप हता असुरा” इति पित्रादि-भुक्ति-स्थाने तिलान् सिकतांश् च प्रकीर्य,
“उदीरताम् अवर उत्परास” इत्यद्भिः अवोक्ष्य,

यज्ञेश्वरो हव्य-समस्त-कव्य-
भोक्ताव्ययात्मा हरिर् ईश्वरो ऽत्र ।
तत्-सन्निधानाद् अपयान्तु सद्यः
रक्षांस्य् अशेषाण्य् असुराश् च सर्वे,

इति जपित्वा,
सर्वत्र तिलान् प्रकीर्य,
पूववत् आद्य्-अन्तयोः उदक-दान-सहितम् आसनं दत्वा;

अर्चनम्

आचम्य,
वस्त्र-यज्ञोपवीत-गन्ध-पुष्पालङ्कार-
धूम-दीप-वर्तुल-पवित्र-दक्षिणां दत्वा,

परिवेषणम्

गोमयाज्याभ्यां चतुर्-अश्रम् उपलिप्य,
तत्र आज्यं निस्स्राव्य,
तत्र दर्भान् निधाय,
तद्-उपरि वामाग्राणि कदली-पत्राणि निधाय,
तेषु आज्यं निस्स्राव्य,

अन्न-पायसापूप-व्यञ्जनादि क्रमेण दत्वा,
हुत-शेषम् अन्नं पित्रादि-पात्रेषु दत्वा,
तद्-उपरि दर्भान् निधाय

विश्वे-देव-पुरतः दक्षिणं जान्व् आच्य
भगवत्-पाद्य-जलेन प्रणव-व्याहृति-पूर्वया गायत्र्या,
अन्नं प्रोक्ष्य,
“देव सवितः प्रसुव” इति प्रदक्षिणम् अन्नं परिषिच्य,

हस्ते जलं दत्वा,
हस्तं गृहीत्वा,
“पृथिवी ते पात्रम्” इत्य् अन्नादिकं स्पर्शयित्वा,
“इदं विष्णुः” इति अन्ने द्विजाङ्गुष्ठं नखान्य-प्रदेशं निवेश्य

[[72]]

स्वाहा विष्णो हव्यँ रंक्षस्व,
अमुक-गोत्रस्य अमुक-शर्मणः प्रत्याब्दिक-श्राद्धे
विश्वेदेवा देवता
एतद् वः हव्यं सव्यञ्जनं सपरिकरं च

इत्य्-आदि दत्वा,
यवोदकम् उत्सृज्य,

प्राचीनावीती,
पित्रादीनां पुरतः सव्यं जान्व् आच्य,
“एष ते तत” इति त्रिभिः मन्त्रैः पात्रस्थम् अन्नं व्यञ्जनादीनि, क्रमेण अभिमृश्य,
अन्न-प्रोक्षणादीनि पूर्ववत्
“स्वधा विष्णो कव्यँ रक्षस्व” इत्य्-आदि-भेदेन सर्वं कृत्वा,
तिलोदकम् उत्सृज्य,

उपवीती,
विश्वेदेवविष्ण्वोश् च कृत्वा

प्राचीनावीती,
“यज्ञेश्वरो हव्य”, “एको विष्णुः” इति श्लोकद्वयम् उच्चार्य,

(उप) अनेन ब्राह्मण-भोजनेन
विश्वेदेवरूपी,
(प्रा) पितृ-पितामह-प्रपितामह-रूपी,
(उप) श्राद्ध-संरक्षक-श्री-महा-विष्णु-रूपी
(प्रा) भगवान् जनार्दनः प्रीयताम्,

इति दर्भेषु तिलाक्षतोदकम् उत्सृज्य,

अशनम्

भगवते समर्पितेन अर्घ्य-जलेन परिषेचनं कृत्वा,
पाद्यजलेन अपोशनं कारयित्वा,
“प्राणे निविष्टोऽमृतं जुहोमि”, इति पञ्चभिः प्राणाहुतीः कुर्वाणान् समीक्ष्य,
“ब्रह्मणि म आत्मामृतत्वाय”, इत्य् आत्मानं समीक्ष्य,

प्रणव-व्याहृति-सहितां गायत्रीं
“मधुवाता” इत्यृचं
“मधु मधु” इति च त्रिस्त्रिः जपित्वा,
“यथासुखं जुषध्वम्”, इत्युक्त्वा,

“वैष्णवान् राक्षोघ्नान् पितृसूक्तान् पवमानादींश्च भवतो भुञ्जनान् यावच्छ्क्यं श्रावयिष्ये”

इति अनुज्ञाप्य,
श्रावय इत्युक्ते,
भुञ्जनान् अनवेक्षमाणः उपवती पूर्वोक्त-मन्त्रान् पठेत् ।

अभिषेकजलं च पानार्थं दद्यात् ।

तृप्ति-वाचनम्

भुक्तवत्सु द्विजेषु प्राचीनावीती अपेक्षितं पृष्ट्वा
पूर्ववत् गायत्र्यादीनि, “अक्षन्नमीमदन्त” इति जपित्वा

[[73]]

“सम्पन्नम्” इत्युक्त्वा
“अस्तु सम्पन्नम्” इति प्रत्युक्ते
“तृप्तास्स्थ” इत्युक्त्वा
“तृप्ताः स्मः” इति प्रत्युक्ते,

विकिरणम्

पितृ-देवयोः मध्ये भुवं सम्प्रोक्ष्य,
तत्र दर्भान् संस्तीर्य,
तेषु तिलोदकम् उत्सृज्य,
अन्नं सव्यञ्जनादिकं सर्वं जलेनाप्लाव्य,
“ये अग्निदग्धाः” इति तत्र विकीर्य,
तद्-उपरि पूर्ववत् तिलोदकम् उत्सृज्य,
उपवीती आचम्य,

आपोशनादि

भगवत्-पाद्य-जलेन आपोशनं कारयित्वा,
आचान्तेषु ताम्बूलदक्षिणां च दत्वा,

स्वामिनः

अस्मिन् दिवसे, अमुक-गोत्रम् अमुक-र्मणम् उद्दिश्य
कृतं प्रत्याब्दिकश्राद्धं
यथाशास्त्रानुष्ठितं गयाश्राद्धफलदम् अक्षयतृप्तिदं च भूयाद्

इति भवन्तः अनुगृह्णन्तु

इति प्रार्थ्य, “तथास्तु” इति प्रत्युक्ते,
“अन्नशेषः - किं क्रियताम्” इति पृष्ट्वा,
“इष्टैस्सह भुज्यताम्” इति प्रत्युक्ते,
“दातारो नोऽभिवर्धन्ताम्” इति प्रार्थ्य,
“दातारो वोऽभिवर्धन्ताम्” इति प्रत्युक्ते
“ओं स्वधा” इत्युक्त्वा “अस्तु स्वधा” इति प्रत्युक्ते,

भूमौ किञ्चिज् जलं निस्स्राव्य,
“स्वादुषँ सदः” इत्यादि जपित्वा,

उपवीती प्रणम्य उत्थाय,
“अग्निरायुष्मान्” इत्यादिभिः आशीर्वचने कृते

उत्थापनम्

धन्या वयं भवत्-पाद-
रजः-पूतम् इदं गृहम् ।
अनुग्रहश् च युष्माभिः
कृतोऽस्मासु दयालुभिः

इत्याद्य् उपचारान् उक्त्वा
“उत्तिष्ठत पितरः, उत्तिष्ठत विश्वेदेवाः, उत्तिष्ठ विष्णो”,
इति दर्भान्वारम्भणे ब्राह्मणान् उत्थाप्य
प्रस्थाप्य
“वाजे वाजेऽवत” इति जपित्वा,
सीमान्तम् अनुव्रज्य,

धन्या वयं, पत्र-शाकादि, मन्त्रहीनं, अद्य मे ...{Loading}...
विश्वास-प्रस्तुतिः

धन्या वयं भवत्पाद-
रजः पूतम् इदं गृहम् ।
अनुग्रहश् च युष्माभिः
कृतोऽस्मासु दयालुभिः ॥

मूलम्

धन्या वयं भवत्पाद-
रजः पूतम् इदं गृहम् ।
अनुग्रहश् च युष्माभिः
कृतोऽस्मासु दयालुभिः ॥

विश्वास-प्रस्तुतिः

पत्र-शाकादि-दानेन
क्लेशिता यूयम् ईदृशाः ।
तत्-क्लेश-जातं चित्तेषु
विस्मृत्य क्षन्तुम् अर्हथ ॥

मूलम्

पत्र-शाकादि-दानेन
क्लेशिता यूयम् ईदृशाः ।
तत्-क्लेश-जातं चित्तेषु
विस्मृत्य क्षन्तुम् अर्हथ ॥

विश्वास-प्रस्तुतिः

मन्त्र-हीनं क्रिया-हीनं
भक्तिहीनं द्विजोत्तमाः !
श्राद्धं सम्पूर्णतां यातु
प्रसादात् भवतां मम ॥

मूलम्

मन्त्र-हीनं क्रिया-हीनं
भक्तिहीनं द्विजोत्तमाः !
श्राद्धं सम्पूर्णतां यातु
प्रसादात् भवतां मम ॥

विश्वास-प्रस्तुतिः

अद्य मे सफलं जन्म
भवत्-पादाब्ज-वन्दनात् ।
अद्य मे वंशजाः सर्वे
याता वोऽनुग्रहात् दिवम्

मूलम्

अद्य मे सफलं जन्म
भवत्-पादाब्ज-वन्दनात् ।
अद्य मे वंशजाः सर्वे
याता वोऽनुग्रहात् दिवम्

इत्य् उपचारान् उक्त्वा

प्रदक्षिणीकृत्य
आगत्य ।

पिण्ड-प्रदानम्

आसनम्

प्राचीनावीती,
अग्नेर् दक्षिणतः द्वेधा दर्भान् सँस्तीर्य,
पूर्व-दर्भेषु “मार्जयन्तां मम पितरः”, इत्य्-आदिभिः दक्षिणापवर्गं तिलोदकम् उत्सृज्य,

पिण्डनिधानम्

हुत-शेषैः भुक्ति-शेषैश् च अन्न-व्यञ्जनादिभिः तिल-मिश्रैः
मुष्टि-प्रमाणं कुक्कुटाण्ड-प्रमाणं वा पिण्ड-षट्कं कृत्वा,

पूर्व-दर्भेषु, “एतत्ते तत” इत्यादिभिः,
पश्चिमदर्भेषु “एतत्ते मातः” इत्यादिभिः पिण्डषट्कं दत्वा
“ये च त्वामनु”, “याश्च त्वामनु” इति च पिण्डमूले दर्भेषु प्रति-पिण्ड-लेपं निमृज्य,

पूर्ववत् तिलोदकम् उत्सृज्य,

उपस्थानम्

“ये च वोऽत्र” इति पित्रादि-पिण्डान्,
“याश्च वोऽत्र” इति मात्रादि-पिण्डान्,

“ते च वहन्ताम्”, इति पित्रादि-पिण्डान्
“ताश्च वहन्ताम्”, इति मात्रादिपिण्डान्,

“तृप्यन्तु भवन्त” इति पित्रादिपिण्डान्
“तृप्यन्तु भवत्य” इति मात्रादिपिण्डान्,

“तृप्यत तृप्यत तृप्यत” इति उभयपिण्डान् उपस्थाय,

परिषेचनम्

उदक-पात्रं दक्षिणे हस्ते निधाय,
सव्येन हस्तेन पिधाय,
तिल-मिश्रेण तेन उदकेन
“पुत्रान् पौत्रान्” इत्य्-उभय-पिण्डान् पितृ-तीर्थेन अप्रदक्षिणं परिषिच्य,

[[75]]

पात्र-वर्तनम्

पिण्डोपस्थान-पात्रं होम-पात्राणि च अर्वाञ्चि कृत्वा,
“तृप्यत तृप्यत, तृप्यत” इति मन्त्रं यावच्-छ्वासम् आवृत्य,
पात्राणि प्रोक्ष्य,
द्वन्द्वम् उत्तानानि कृत्वा,

प्राशनादि

पिण्ड-करण-शिष्टं ग्रास-मात्रम् अन्नं,
“प्राणे निविष्टोऽमृतं जुहोमि ब्रह्मणि म अत्मामृतत्वाय”

इति प्राश्य,
उपवीती आचम्य,

मध्यम-पिण्डौ पत्न्यै पत्नीभ्यां पत्नीभ्यो वा विभज्य,
प्रतिभार्यं मन्त्रम् आवर्त्य,

ज्येष्ठक्रमेण दद्यात् ।
ताः स्वं स्वं भागं प्राश्नीयुः । अक्षत-योन्यै गत-रक्तायै रजस्वलायै गर्भिण्यै वन्ध्यायै स्वैरिण्यै च मध्यमं पिण्डं न दद्यात् ।
प्रसूतायै पत्न्यै षण्मासं न दद्यात् !
पत्न्यभावे जले प्रक्षिपेत् ।

तत आचम्य “स्वशेषभूतेन” इति पद्यं, गद्यं वा अनुसन्धाय
भगवद्-अर्पणं कुर्यात् ।

इति प्रयोगदर्पणे षोडशः खण्डः